भदन्तघोषकप्रणीतम् अभिधर्मामृतशास्त्रम् प्रथमो बिन्दुः दानं शीलं च १। कतमद् दानं। स्वस्वामिकानां धनवस्तूनां वितरणं दानं। तत् त्रिविधहेतो र्भवति। आत्महेतोः परहेतोः परात्महेतोश्च। चैत्यमंदिराणां बुद्धप्रत्येकबुद्धार्हतां चोपस्थानमात्महेतोः। सत्त्वेभ्यो दानं परहेतोः। जनेभ्यो दानं परात्महेतोः॥
२। चित्तक्षेत्रवस्तुकुशलैः कुशलफलप्राप्तिः। कतमच्चित्तकुशलं। परिशुद्धा श्रद्धा पूजा च॥
कतमत् क्षेत्रकुशलं। महापुण्याः दुःखिताः महापुण्याश्च दुःखिताश्च। के महापुण्याः। बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धा अर्हन्तोऽनागामिनः सकृदागामिनः स्रोत आपन्नाश्च। के दुःखिताः। तिर्यंचो वृद्धा रोगिणो बधिरा अन्धा मूकास्तथाविधा अन्ये च दुःखिताः। के महापुण्याश्च दुःखिताश्च। बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धा अर्हन्तोऽनागामिनः सकृदागामिनः स्रोत आपन्नाश्च (यदा)वृद्धा रोगिणो बधिरा अन्धा मूका दुःखिताः। महापुण्यक्षेत्रे गौरवचित्तेन महाफलप्राप्तिः। दुःखितक्षेत्रे करुणाचित्तेन महाफलप्राप्तिः। महापुण्ये दुःखिते च क्षेत्रे गौरवकरुणाचित्तेन महाफलप्राप्तिः। इति कुशलं पुण्यक्षेत्रं। कतमद् वस्तुकुशलं। अप्राणातिपातेनादत्तादानेन बलापहारविरत्याऽबन्धनेनाताडनेनावंचनेनासंभिन्नप्रलापेन (अर्जिततया)परिशुद्धं यथाकालं (यत्किंचिद्)अल्पं बहु दीयमानं वस्तुकुशलं॥
३। श्रद्धा कतमा। आमुष्मिके फले यथा निर्वाणे ज्ञानमचलैकचित्तमुच्यते परिशुद्धा श्रद्धा॥
कतमा पूजा। मात्सर्येणाभिध्यया च विविक्तात्मनो जनमाननमुच्यते परिशुद्धा पूजा। यदिदमुपस्थानं वंदनं स्वहस्तेन दानमित्येव माद्य च्यते पूजा॥
कतमः क्षेत्रविभंगः। कुशलचर्याशीलग्रहणध्यानप्रज्ञाविमोक्षेषु सत्सु भवति पुण्यानां फलानां प्राप्तिरिति क्षेत्रविभंगः॥
४। भयत्राणं (हि दानं)। हेतुप्रत्ययविभागाद्दुःखप्राप्तिः। (दान)प्रस्थितचित्तस्य पूजया दानेन सत्फलप्राप्तिः। बुद्धाय दानेन दानसमकालमेव सर्वपुण्यप्राप्तिः। संघाय दानेन (संघेन)अनुमतेनोपभुक्तेनाखिलपुण्यप्राप्तिः। नानुमतेन नोपभुक्त न नाखिलपुण्यप्राप्तिः। धर्माय पूजया महाफलप्राप्तिः। शैक्षाणां चतुराणां प्रज्ञावतां पूजा धर्मायोच्यते पूजा। धर्मदानेन समृद्धिलाभः। (स्व)परिगृहीत वस्तु दानेन सुखबलायुष्यादिशुभप्राप्तिः। क्लेशानां क्षयेण विजयेन महाफलप्राप्तिः। तिर्यग्भ्यो दानस्य शतजन्मानि यावत्फलप्राप्तिः। पापेभ्यो दानस्य सहस्रजन्मानि यावत्फलप्राप्तिः। पुण्येभ्यो दानस्य शतसहस्रजन्मानि यावत्फलप्राप्तिः। वीतरागपुद्गलेभ्यो दानस्य कोटिशतसहस्रजन्मानि यावत्फलप्राप्तिः। बुद्धेभ्यो दानस्य यावन्निर्वाणं फलप्राप्तिः॥
५। षड् दानान्तरायाः। प्रथमो मानेन दानं। द्वितीयो यशसे दानं। तृतीयो बलाय दानं। चतुर्थोऽनिच्छया दानं। पंचमो निमित्तेन दानं। षष्ठः फलाय दानं संघान्निर्धार्य दानं॥
६। कतमच्छीलं। द्विविधः संवरः। कुशलसंवरोऽकुशलसंवरश्च। कतमोऽकुशलसंवरः। प्राणातिपातः अदत्तादानं काममिथ्याचारश्चेति त्रीणि कायदुश्चरितानि नाम। पैशुन्यं पारुष्यं मृषावादः संभिन्नप्रलापश्चेति चत्वारि वाग्दुश्चरितानि नाम। अभिध्या व्यापादः मिथ्यादृष्टिश्चेति त्रीणि मनोदुश्चरितानि नाम॥
७। (कतमः प्राणातिपातः। )अस्ति जीवो ज्ञायते यदयं जीवस्तस्य प्राणापहारो नाम प्राणातिपातः। (कतमददत्तादानं। )अस्ति परायत्तं वस्तु ज्ञायते यदिदं परायत्तं वस्तु तस्य स्तेयं नामादत्तादानं। (कतमः काममिथ्याचारः। )अस्ति परदारा ज्ञायते यदियं परदारास्तां रागान्मार्गेणामार्गेण वा समापद्यतेऽस्त्यात्मनो दारास्ताममार्गेण मैथुनाय सेवते तदेतादृशः काममिथ्याचारो नाम॥
८। (कतमो मृषावादः। )यदि ज्ञातं न ज्ञातमिति वदति। अज्ञातं ज्ञातमिति वदति। संदिग्धमसंदिग्धमिति वदति। असंदिग्धं संदिग्धमिति वदति। तदेतादृशो मृषावादो नाम। (कतमत्पैशुन्यं। )यदि सत्यभूतं यथाकामं भंक्त्वा प्रयोजनवशाद्वदति तदेतादृशं पैशुन्यं नाम। (कतमत्पारुष्यं। )क्लिष्टेन चित्तेन परेषामहृद्यं वदति तदेतादृशं पारुष्यं नाम। (कतमः संभिन्नप्रलापः। )कालविवेकं विना वदत्यपार्थं तदेतादृशः संभिन्नप्रलापो नाम॥
९। (कतमाभिध्या। )परेषां धनवस्तुजातं मदीयं भवत्वित्यभिध्यायति तदेतादृश्यभिध्या नाम। (कतमो व्यापादः। )अपरान् दृष्ट्वा न प्रसीदति दुःखाबाधां प्रयोक्तुकामो भवति तदेतादृशो व्यापादो नाम। (कतमा मिथ्यादृष्टिः। )मिथ्यादृष्टिर्द्विविधा। सद्वस्तुन्यसदुक्तिर्विपरीतं दर्शनश्रुतं च। कतमा सदवस्तुन्यसदुक्तिः। नास्तिं पापं नास्ति पुण्यविपाकः। नास्त्ययं लोको नास्ति परलोकः। न स्तो मातापितरौ। न सन्ति बुद्धाः प्रत्येकबुद्धा अर्हन्तोऽन्ये च मार्गप्रतिपन्नाः। तदेतादृशी नाम सद्वस्तुन्यसदुक्तिः। कतमद्विपरीतं दर्शनश्रुतं। विधिकृते कुशलाकुशले। न कर्माण्युपादाय फलविपाकः। इत्येतादृशं विपरीतं दर्शनश्रुतं। इत्येवमेषा मिथ्यादृष्टिः। इति त्रिविधान्यकुशलकर्माणि॥
१०। अनुशोचतस्त्रिविधानां दुश्चरितानामुच्छेदोऽनाचरणं नाम त्रिविधानि कुशलकर्माणि। त्रिविधदुश्चरितप्रहाणं त्रिविधकुशल(कर्म)चरणं नाम ध्रुवशीलसमादानं। दानेन शीलेन ध्यानभावनया च लभ्यान्येव त्रीणि फलानि धनं देवलोकोपपत्तिर्मोक्षश्च॥
११। अस्मिन् लोके त्रिंशद्विधं पुण्यक्षेत्रं। माता पिता वृद्धो रोगो सत्पुरुषो वीतरागपुद्गलः सास्रवाः सप्त पुद्गलाश्चत्वारो मार्गप्रतिपन्नाश्चत्वारः फलप्रतिपन्नाः प्रत्येकबुद्धा बुद्धा बोधिसत्त्वा भिक्षुसंघोऽध्वगाः क्षुत्तृट्श्रमातुराश्च॥
[इत्यभिधर्मामृतशास्त्रे दानशीलनिर्देशो नाम प्रथमो बिन्दुः॥
]