अद्वयसिद्धिः

अद्वयसिद्धिः ॐ नमः श्री वज्रसत्त्वाय।
प्रकृति-प्रभास्वरं नाथं सर्वज्ञं त्रिभवोद्भवम् प्रणम्य शिरसा वज्रमीण्सितार्थ फलप्रदम्।
देशकाल तिथिवार नक्षत्रैमण्डलैविना वक्ष्येऽहं वज्रसत्त्वस्य संक्षेपात् साधनं परम्॥१॥

नियम व्रतोपवासै - रक्षरोच्चारण-भावनैः अतत्त्व योगीन सिद्धयेत् कल्पकोटिशतैरपि॥२॥

विण्वज्रोदक वीजाद्यै र्नासिकाभ्यन्तरोद् भवैः पूजयेत् सततं मन्त्री आत्मानं तत्त्व भावनैः॥३॥

जननी भगिनीश्चैव दुहितृ भागिनेयिकान् प्रज्ञोपाय विधानेन पूजयेत् योगविद्सदा॥४॥

एकाङ्ग विकलां हीनां शिल्पिनीं श्वपचिकां तथा योषितां पूजयेन्नित्यं ज्ञानवज्रप्रभावनै॥५॥

तत्वस्येमानि मन्त्र वीजपदानि भवन्ति - ॐ आः हुं येन येन हि वध्यन्ते जन्तवो रौद्र कर्मणा सोपायेन तु तेनैव मुच्यन्ते भव वन्धनात्॥६॥

समयानहरहः कुर्याद्दिव्यान पञ्चकुलोद् भवान् पूजयेच्च प्रदीपाद्यैः सक्षीरैर्विश्वसम्भवैः॥७॥

प्रात्फुल्ल नयनो मन्त्री नित्यं प्रहसिताननः चित्तमारोप्य संवोधौ भावयेत ज्ञानसागरं॥८॥

यावन्तः स्थिराचलाभावाः संत्यत्र त्रिभवालये सर्वेते तत्त्वयोगेन द्रष्टव्या वज्रधृक् तथा॥९॥

परवादिनश्च ये कचिल्लिंग भेदै र्व्यवस्थिता तेप्यत्र नावमन्तव्या वज्रसत्त्व विकुर्विते॥१०॥

सर्वान् समरसीकृत्य भावान्नैरात्म्यनिःसृतान् भावयेत् सततं मन्त्री देहं प्रकृत निर्मलं॥११॥

गन्धमाल्यादिभिवस्त्रै धूपनैवेद्यके स्तथा गीतवाद्यैस्तथा नृत्यै सोपायैभजते विभुः॥१२॥

न कष्ट कल्पनां कूर्य्यान्नोपवासं न च क्रियां स्नानं शौचं न चैवात्र ग्राम धर्म विवर्जनं॥१३॥

न चापि वन्दयेद्येवान् काष्ठ पाषाण मृण्मयान् पूजा मस्येवकायस्य कूर्यान्नित्य समाहितं॥१४॥

मक्षिकाछर्दि सम्मिश्रैः विण्मूत्राद्यैश्च भावितै पञ्च प्रदीप संयुक्तैः पूजयेद्वज्रधारिणम्॥१५॥

अबला स्वयंभूकुसुमैः सक्षीरै विश्वसम्भवैः पूजयेद्येवतां तेन देहस्थां तत्व भावनैः॥१६॥

परस्व हरणं कुर्यात् परदारा निषेवनं वक्तव्यं च मृषावाक्यं सर्वबुद्धांश्चधातयेत्॥१७॥

शैल मृण्मय चैत्यादीन् न कुर्यान् पुस्तकेरतिं न मण्डलानि स्वप्नेऽपि कायवाक्चित्तकर्मणा॥१८॥

जुगुप्सानैव कुर्वीत सर्ववस्तुषु मन्त्रवित् वज्रसत्त्वः स्वयं तत्र साक्षाद्रुपेण संस्थितः॥१९॥

गम्यागम्य विकल्पं तु भक्ष्या भक्ष्यं तथैवच पेया पेयं तथा मन्त्री कुर्य्यानैव समाहितः॥२०॥

वैरोचन समुद्भूतान् सर्वप्राण्येव संभवान्।
प्राणवान् गुह्यतत्वज्ञो भोक्षयेत् सिद्धिहेतुना॥२१॥

सर्व वर्ण समुद्भुता जुगुप्सा नैव योषितः सैव भगवती प्रज्ञा संवृत्या रूपमाश्रिता॥२२॥

ना तिथिर्नच नक्षत्रं नोपवासोविधियते अद्वय ज्ञान युक्तस्य सिद्धिर्भवति सौगती॥२३॥

वहुनात्र किमुक्तेन यद्भवदुपलब्धिकं तत्सर्वं तत्वयोगेन द्रष्टव्यं तत्ववेदिना॥२४॥

हस्त्यश्व खर गावोष्ट्र प्रदीपं श्वानसम्भवं महाप्रदीप सम्मिश्र भोक्षयेद् योगविद् सदा॥२५॥

न चाध्यासक्तिं कुर्वीत एकस्मिन्नपि योगवित् समता चित्तयोगेन भावनीयो भवार्ण्णवः॥२६॥

उत्पत्ति स्थिति निरोधञ्च असंपृक्त पृथग् जनैः तस्य भावेतु संसारो नान्यत्र प्रलयोद्भवः॥२७॥

दिनं तु भगवान्‍वज्री नक्तं प्रज्ञा विधीयते एवं तु भावयेद् योगी लघुसिद्धिमवाप्नुयात्॥२८॥

यत्तद्व्यक्तं रूपं तु सर्वसत्त्वेषु संस्थितं गुरुवक्त्रात् परंतत्वं प्राप्यते नात्र संशयः॥२९॥

अप्रतिष्ठित निर्वाणं निनिर्मित्तं निरालयं व्यापकं सर्वसत्वेषु संवोधि परमं पदं॥३०॥

एवं मत्वा तु वै योगी यो भावयेद् वुद्धिमान् सदा स सिध्यति न सन्देहो मन्दं पुण्योपि मानवः॥३१॥

आचार्यात् परतरं नास्ति त्रैलोक्य सचराचरै यस्य प्रसादात् प्राप्यन्ते सिध्योऽनेकधावुधैः॥३२॥

वज्रसत्वः सर्वैज्ञेयः सर्ववुद्धै नमस्कृतः आचार्याः परमोदेवः पूजनीयः प्रयत्नत॥३३॥

स एव तथतारूपी लोकानुग्रह हेतुना रूपमाश्रित्य संवृत्या संस्थितो योगपीठके॥३४॥

मृत्युरेष विकल्पोयं न भावः सर्ववस्तुषु हन्यते सविकल्पेन पृथग्जन विजृम्भितैः॥३५॥

श्री मदोडियान विनिर्गता महायोग - पीठागता अखिल योगतन्त्र तत्वगर्भा श्री लक्ष्मीमुख कमलाद् विनिसृता स्वाधिष्ठान् क्रमोदया साधनोपायिका॥

समाप्तेति॥