14 पञ्चदशमः

CHAPTER 15 EPILOGUE OF THE SARVA-TATHAGATA-VAJRA-SAMAYA NAMA MAHA-KALPA-RAJA अथ वज्रपाणिः सर्ववज्रकुलान् सर्वसत्त्वार्थं [स्थित्वा] यावन् सन्नियोज्यावैवर्तिकभूमौ प्रतिष्ठाप्य, जानन्नेव भगवन्तमेतदभाषत्। “अहं भगवद्भिः सर्वतथागतैस्तव गुह्यधारित्वेऽभिषिक्तः। [यदा]ज्ञापयस्व किन्तत् तथागतगुह्यम्!” इति॥

अथ भगवान् सर्वतथागतगुह्यवज्रं नाम समाधिं समापद्येदं [सर्वतथागतगुह्यमभाषत्।
यथा यथा हि विनयाः सर्वसत्वाः] स्वभावतः।
तथा तथा हि सत्वार्थं कुर्याद्रागादिभिः शुचिः॥

अथ वज्रपाणिरिदं स्वगुह्यतामभाषत्।
[सर्वसत्वहितार्थाय बुद्धशासनहेतुतः। ] मारयेत्सर्वसत्वास्तु न स पापेन लिप्यते॥

अथ वज्रगर्भो बोधिसत्व इदं स्वमणिगुह्यमभाषत्।
सर्वसत्वहिता[र्थाय बुद्धकायप्र]योगतः॥

हरस्तु सर्वचिन्तानि न स पापेन लिप्यते॥

अथ वज्रनेत्रो बोधिसत्व इदं स्वधर्मगुह्यमभाषत्।
रागशुद्धः सुखा[समः जिनगोचरदानतः। ] सहाय परदारा निषेवे स पुण्यमाप्नुते॥

अथ वज्रविश्वो बोधिसत्व इदं स्वकर्मगुह्यमभाषत्।
सर्वसत्वहितार्थाय बुद्धशासनहेतुतः।
सर्वकर्माणि कुर्वन् वं स बहुपुण्यमाप्नुते॥

इति॥

अथ भगवान् वैरोचनस्तथागतो भगवते गुह्यधारि[णे वज्र]धराय साधुकारैरभिष्टवेत्॥

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम्।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम्॥

इति॥

सर्वतथागतत्वसंग्रहात् सर्वतथागतवज्रसमयो नाम महाकल्पराजः परिसमाप्तः॥