12 त्रयोदशमः

CHAPTER 13 SARVA-VAJRA-KULA-DHARMA-SAMAYA-MANDALA-VIDHI-VISTARA Emanation of deities from samadhi अथ भगवां पुनरपि सर्वतथागतधर्मसमयसंभववज्राधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्र वित्॥

अथ वज्रापाणिः पुनरपीदं स्वधर्मसमयमभाषत् ओं हन हन हु फट्॥

अथ वज्रगर्भः स्वधर्मसमयमभाषत् ओं हर हर हुं फट्॥

अथ वज्रनेत्रः स्वधर्मसमयमभाषत् ओं मर मर हुं फट्॥

अथ वज्रविश्वः स्वधर्मसमयमभाषत् ओं कुरु कुरु हुं फट्॥

अथ वज्रविद्योत्तमः स्वधर्मसमयमभाषत् ओं हुं हुं फट्॥

अथ मायावज्र उवाच ओं च्छिन्द च्छिन्द हुं फट्॥

ओं आविशाविश हुं फट्॥

ओं भूर्भुवः स्व हुं फट्॥

ओं भिन्द भिन्द हुं फट्॥

विद्याराजनकाः॥

ओं दम दम हुं फट्॥

ओं मारय मारय हुं फट्॥

ओं घातय घातय हुं फट्॥

ओं भय भय हुं फट्॥

क्रोधाः॥

ओं मद मद हुं फट्॥

ओं बन्ध बन्ध हुं फट्॥

ओं वशीभव हुं फट्॥

ओं जय जय हुं फट्॥

गणपतयः॥

ओं भ्यो भ्यो हुं फट्॥

ओं घु घु हुं फट्॥

ओं ज्वल ज्वल हुं फट्॥

ओं खाद खाद हुं फट्॥

दूताः॥

ओं खन खन हुं फट्॥

ओं मर मर हुं फट्॥

ओं गृह्ण गृह्ण हुं फट्॥

ओं विभ विभ हुं फट्॥

चेटाः॥

Delineation of the mandala अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलधर्मसमयमण्डलमभाषत्।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम्।
[त्रिलोक]चक्रसंकाशं संलिखेत्सर्वमण्डलम्॥१॥

सर्वे चैव समापन्ना बुद्धवज्रधरादयः।
धर्ममण्डलयोगेन हृच्चिह्नास्तु समालिखेत्॥

Initiation into the mandala अथात्र [धर्मसमय]मण्डले यथावत्कर्म कृत्वा, वज्रधारिमुद्रांसु वज्रघण्टां [बद्धं बध्यै ]वं ब्रुयात् “न त्वया कस्यचिदसमयदृष्टस्यादृष्टदेवकुलस्य वक्तव्यम्” इति उक्त्वा, तां घण्टां रणापयेत् एवं च ब्रूयात्, शपथहृदयं दत्वा।
यथेयं रणितघण्टा शब्दश्चास्य यथा ध्रुवः।
तथेदं कर्मवज्रं ते नाशं कुर्यत्तथा ध्रुवं॥१॥

वज्राचार्यत्वगौरव्यं वज्रस्रातृष्वमित्रता।
दुष्टमैत्रीविरासश्च यदि कुर्याद्भवान् कदा॥

इति॥२॥

Mudra ततो मुखबन्धं मुक्त्वा, मण्डलं दर्श्य, धर्मसमयमुद्राज्ञानं शिक्षयेत्।
Samadhis of Vidyaraja, Vajrakrodha, Gana, Duta and Ceta बुद्धवज्रधरादीनां यथावद्धर्ममण्डले।
ध्यानं सर्वसमत्वं हि वज्रविद्योत्तमस्य तु॥१॥

मायोपमं जगदिदं दुःखं गण्ठोपमं तथा।
निर्वाणं सर्वदुःखानां वज्रं भेदिष्वनुत्तरम्॥

इति॥२॥

विद्याराजसमाधयः॥

क्रोधोऽग्रयः सत्वविनये सौम्यत्वं मारणं ध्रुवम्।
दण्डात् समो न निर्घातो मिथ्यादृष्टिर्भयंकरः॥

इति॥

वज्रक्रोधसमाधयः॥

मदात्तुल्यो न धैर्यास्ति मालातुल्यन्न बन्धनम्।
स्त्रियो हि रागो जगद्वशंकरः धैर्यमात्रा पराजिता॥

इति॥

गणसमाधयः॥

प्रहारो निग्रहाग्रयो हि स्पर्शानां तु समीरणः।
तेजसां हुतभुग् ज्येष्ठः भोजनानां तु लोहितम्॥

इति॥

दूतसमाधयः॥

दंष्ट्रा शुद्धः प्रविष्टस्तु मृत्युः सर्व पदे स्थितः।
भयात्तुल्यो न विघ्नास्ति जलात्तुल्यो न वै रस॥

इति॥

चेटसमाधयः॥

सर्वतथागतवज्रसमयान् महाकल्पराजात् सर्ववज्रकुलधर्मसमयमण्डलविधिविस्तरः समाप्तः॥