07 सप्तमः

CHAPTER 7 KRODHA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA Emanation of deities form samadhi अथ भगवान् पुनरपि वज्रधारणीसमयसंभववज्राधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्ववज्रिणि वज्रमाते आनय सर्व वज्रसत्येन हूं ज्जः॥

अथास्यां भाषितमात्रायां वज्रपाणिहृदयात्स एव भगवान् वज्रापाणिः वज्रपाणिसदृशसर्वात्मभावाः समन्तज्वालागर्भा वज्रक्रोधसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वतथागतार्थान् निष्पाद्य, भगवतो वज्रसत्वस्य गुह्यभार्यताप्रच्छादनार्थ कायवाक्चित्तवज्रमुद्राबिम्बानि भूत्वा, भगवतो वैरोचनस्य त्रिलोकविजयमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः।
अहो हि सर्वबुद्धानां गुह्यज्ञानमनुत्तरं।
यत् तथागतसौख्यार्थं भार्यात्वमपि कुर्वते॥

ति॥

हीः॥

Delineation of the mandala अथ वज्रापाणिः पुनरपि स्वकुलसमयमुद्रामण्डलवज्रसमयगुह्यन्नाममभाषत्।
अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं।
वज्रधातुप्रतीकाशं क्रोधगुह्यमिति स्मृतं॥१॥

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं।
पञ्चमण्डलसंस्थेषु गुह्यमुद्रान्निवेशयेत्॥२॥

वज्रमण्डलमध्येऽस्मिं बुद्धबिम्बन्निवेशयेत्।
बुद्धस्य क्रोधसमयान् यथावत्तु लिखेद्बुधः॥३॥

वज्रवेगेन निःक्रम्य वज्रपाणेस्तु मण्डलं।
तत्र मध्ये लिखेत् तिर्यक् शूलवज्रं प्रतिष्ठितं॥४॥

ज्वालामध्ये लिखेत् तस्य यथावदनुपूर्वशः।
वज्रं वज्राङ्कुशं चैव वाणं तुष्टिस्तथैव च॥५॥

वज्र[वेगे]न चाक्रम्य द्वितीयं मण्डलोत्तमं।
वज्ररत्नं लिखेत् चैव चक्रमध्ये प्रतिष्ठितं॥६॥

वज्रभृकुटिमध्ये [वज्रसूर्यं त]था ध्वजं।
दन्तपंक्ती तथा वज्रैतस्य पार्श्वेषु संलिखेत्॥७॥

वज्रवेगेन चाक्रम्य तृतीयं मण्ड[लोत्तमं।
वज्रपद्मं लिखेद् दिव्यं पद्ममध्ये प्रति]ष्ठितं॥८॥

ज्वालामध्ये लिखेत्पद्मं खङ्गं चक्रन्तथैव च।
वज्रजिव्हां यथावत् तु तस्याः पार्श्वेषु स[र्वेषु॥९॥

वज्रवेगेन चाक्रम्य चतुर्थ मण्डलोत्त]मं।
तिर्यग्वज्रे लिखेद् वज्रं वृतं वज्रैर्महाप्रभैः॥१०॥

तस्याः पार्श्वेषु सर्वेषु सर्वज्वालाकुलप्रभाः।
[विश्ववज्रं सुकवचं वज्रदंष्ट्रमुष्टिं लिखेत्॥

]११॥

कोणेषु बाह्यसंस्थेषु यथावत्तु लिखेन्नयं।
अतः परं प्रवक्ष्यामि मुद्राविद्याः समासतः॥१२॥

[सिः॥

ओं वज्रक्रोधसमये सिः॥

ओं वज्र]रोषाङ्कुश्यानय सर्व सिः॥

ओं वज्ररोषे कामवज्रिणि वशं मे आनय हि सिः॥

ओं वज्रतुष्टि[क्रोधे तोष्य सर्वाणि सिः॥

वज्रसिंकारम]ण्डले॥

] जिः॥

ओं वज्रभृकुटिक्रोधे हर सर्वार्थ जिः॥

ओं वज्रज्वालामालप्रभे महाक्रोधा[ग्नि ज्वालय सर्व विरोषे जिः॥

ओं वज्र]ध्वजाग्रकेयूरमहाक्रोधे देहि मे सर्वं जिः॥

ओं वज्राट्टहासनि हस हसाट्टाट्टहासेन [मारय जिः॥

वज्रजिंकारमण्डले॥

] दिः॥

ओं वज्रशुद्धक्रोधे हन मारय दुष्टान् दिः॥

ओं वज्रतीक्ष्णक्रोधेच्छिन्द वज्रकोशेन सर्वान् दिः॥

ओं [वज्रहेतुमहा क्रोधे प्रवेश चक्र प्रवेशय सर्वान्] दिः॥

ओं वज्रजिव्हे महाक्रोधभाषे वाचं मुञ्च दिः॥

वज्रदिंकारमण्डले॥

] न्हिः॥

ओं सर्व मुखे [कर्मवज्रिणि महाक्रोधे कुरु सर्वान् न्हिः॥

ओं वज्र] कवचक्रोधे रक्ष मां न्हिः॥

ओं वज्रचण्डक्रोधे महायक्षिणि वज्रदंष्ट्राकरालभीषणि भीषा[पय न्हिः॥

ओं वज्रक्रोधे मुष्टिबन्ध न्हिः॥

वज्रन्हिं]कारमण्डले॥

] ततः कोणमण्डलेषु वज्रनृत्यगुह्यपूजाविद्याहृदयानि भवन्ति।
वज्र हूं र्ख्ने॥

वज्र हूं घूं॥

वज्र हूं र्ते॥

वज्र हूं स्तें॥

बहिःकोणेषु तूर्यपूजाहृदयानि भवन्ति।
वज्र ती ते॥

वज्र टं टः॥

वज्र धा धू॥

वज्र धौ धः॥

द्वारपालानां पूजाहृदयानि भवन्ति।
वज्र जः ज्जः॥

वज्र हूं हूं॥

वज्र वं वं॥

वज्र अः अः॥

Initiation into the mandala अथास्मिन् वज्रकुलगुह्यमण्डले प्रवेशविधिविस्तरो भवति।
तत्रादित एव तावत् त्रिलोकविजयमहामण्डलप्रवेशविधिना प्रविश्य, वज्रगुह्यवज्रकुलसमयमुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिः वज्रधरपूजार्थ नृत्योपहारः कर्तव्य इति।
तत्रेदं नृत्यप्रतिनृत्योपनृत्यज्ञाननृत्योपहारमुद्राज्ञानं भवति।
[तत्रादित एव वज्रधातुसंग्रहहृदयं वज्रगीतेन गायन् सर्वतथागतानां स्तोत्रोपहारङ्कृत्वा, वज्राचार्येण सत्ववज्रिमुद्रा स्फोटयितव्या, ततो यथा प्र[विष्ट]मुद्राभिः समाविशन्ति।
वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गुलिद्वयं।
वज्रहुंकारमुद्रां तु हृदये तु निबन्धयेत्॥१॥

ततस्तु नृत्यविधि[ना वज्र]क्रोधाङ्कुशेन तु।
आकर्षयत् सर्वबुद्धान् वज्रवाणां परिक्षिपेत्॥२॥

वज्रवाणपरिक्षेपाद् वज्रतुष्ट्या तु साधयेत्।
मुक्त्वा मुद्रां यथा[विधि]तालया चैव बन्धयेत्॥३॥

अनेन पूजाविधिना वज्रपाणिन्तु तोषयेत्।
तुष्टः सत् सर्वकार्याणि साधयेद् रुचितः क्षणात्॥४॥

तत्रैतानि नृत्यहृदयानि भवन्ति।
सिद्ध् य वज्र॥

आनय वज्र॥

रागय वज्र॥

साधु वज्र॥

ततः प्रतिनृत्योपहारः कर्तव्यः।
तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना।
परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन तु॥१॥

तथैव नृत्यं सूर्यान्तु परिवर्त समाव्हयेत्।
वज्रकेतुं समुत्क्षिप्य हसेद् वज्राट्टहासया॥२॥

अनेन पूजाविधिना राजादीन् सर्वमानुषान्।
वशित्वाच्च सुतेजस्त्वाद् दानाच्चाशाच्च तोषयेत्॥३॥

तत्रैतानि प्रतिमुद्राहृदयानि भवन्ति।
आहि वज्र॥

ज्वालय वज्र॥

देहि वज्र॥

हस हस वज्र॥

तथैव नृत्यं मुक्त्वा तु समकुड्मलसन्धिते।
अग्राङ्गुली हृदि स्थाप्य नमेदाशयकंपितैः॥१॥

तथैव नृत्यं छिन्देद् वै वज्रकोशेन नाशकान्।
अलातचक्रभ्रमया भ्रामयेच्चक्रमण्डलन्॥२॥

गायन् वै वज्रवाचा तु पूजयेद् वज्रपाणिनं।
अनेन पूजाविधिना सर्व भवति शाश्वतं॥३॥

तत्रैतान्युपमुद्राहृदयानि भवन्ति॥

कामय वज्र॥

च्छिन्दय वज्र॥

भ्रामय वज्र॥

ब्रूहि वज्र॥

वज्रक्रोधाङ्गुली सम्यगुत्तानमुखसन्धिता।
परिवर्त्य तथोष्णीषे तर्जनी मुखसंस्थिता॥१॥

वज्रकर्मप्रयोगेण सर्वकार्याग्रमण्डलं।
दर्शयन् नृत्यविधिना हृदये प्रतिशामयेत्॥२॥

तथैव नृत्यविधिना वज्ररक्षां तु बन्धयेत्।
वज्रदंष्ट्रे समाधाय वज्रमुष्ट्या तु पीडयेत्॥३॥

अनेन पूजाविधिना सर्वकर्मक्षमो भवेत्।
कृत्वा चतुर्विधां पूजां मुद्रां मुञ्चेद् यथाविधिर्॥

इति॥४॥

तत्रैतानि हृदयानि भवन्ति।
नृत्य वज्र॥

रक्ष वज्र॥

खाद वज्र॥

बन्ध वज्र॥

ततः क्रोधगुह्यमुद्राज्ञानं शिक्षयेत्।
वज्रं गृह्य तु पाणिभ्यां स्फोटयेत् क्रुद्धमानसः।
यस्य नाम्ना तु हृदयं स्फुटेत् तस्य जनस्य हि॥१॥

अधोष्ठं दशनैर्गृह्य यस्य नाम्ना तु पीडयेत्।
शिरस्तस्य स्फुटेच्छीघ्रं यद्याज्ञां समतिक्रमेत्॥२॥

वज्रक्रोधमहादृष्ट्या चक्षुषी तु निमीलयेत्।
निरीक्षत् यस्य नाम्ना तु स्फुटेत् एतस्य चाक्षिणी॥३॥

वज्रक्रोधसमापत्त्या हृदयं स्वयमात्मना।
पीडयेद् वज्रबन्धेन तस्य चित्तं परिस्फुटेद्॥

इति॥४॥

तत्रैतानि हृदयानि भवन्ति।
हुँ वज्रस्फोट ठः॥

हुँ मुखवज्र ठः॥

हुँ वज्रनेत्र ठः॥

हुँ मनोवज्र ठः॥

ततो महावज्रकुलगुह्यमुद्राज्ञानं शिक्षयेत्। तत्र प्रथमं तावन्महामुद्राबन्धो भवति।
कनिष्ठाङ्कुशबन्धेन वज्रक्रोधान्निवेशयेत्।
वामत्रिशूलपृष्ठे तु त्रिलोकविजया स्मृता॥१॥

सुप्रसारितवामाग्र्या तथैवोत्तानवारिजा।
परिवर्त्य तथा चैव वामवज्रा प्रतिष्ठिते॥

ति॥२॥

वज्रबन्धन्तले कृत्वा च्छादयेत्क्रुद्धमानसः।
गाढमङ्गुष्ठवज्रेण क्रोधतेरिन्तिरिः स्मृता॥३॥

कुञ्चिताग्र्याङ्कुशी चैव तर्जनीमुखवज्रिणी।
साधुकारा तथाग्र्याभ्यां अग्रवज्रा मुखस्थिता॥४॥

हृदये सूर्यसंदर्शा समाग्र्या मूर्ध्नि संस्थिता।
परिवर्त्य स्मितस्था तु समाग्र्या कुड्मला तथा॥५॥

खङ्गमुष्टिग्रहद्वाभ्यामग्र्या चक्रा निबन्धनः।
समाग्र्या मुखतोद्धान्ता तर्जनी संप्रसारिता॥६॥

तर्जनी गले बन्धा तु ताभ्यां दंष्ट्रा मुखस्थिता।
गाढमुष्टिनिबन्धाश्च महामुद्राः प्रकल्पिता॥७॥

इति॥

अथ वज्रकुलगुह्यसमयमुद्राबन्धो भवति।
गुह्यमुष्टिसमुद्भूताः समयाग्र्यः प्रकीर्तिताः।
तासां बन्धं प्रवक्ष्यामि वज्र[बन्ध]मनुत्तरं॥१॥

हृदिस्था वलिता पार्श्वे वाणाकर्षा तु वामतः।
हृदयाच्च समुद्धान्ता भृकुटिः परिवर्त्य वै॥२॥

सूर्यमण्डलसंदर्शा मूर्ध्नि बाहुप्रसारिता।
परिवर्त्य स्मितस्था तु मुखमध्यसुसंस्थिता॥३॥

कोशग्रप्रहराकारा चक्रनिक्षेपदर्शिका।
मुखतश्च समुद्धान्ता मूर्ध्नि कायाग्रमण्डला॥४॥

स्कन्धयोर्हृदि पार्श्वाभ्यां वज्ररक्षाकृतिस्तथा।
दंष्ट्रासंस्थानयोगाच्च गाढमुष्टिनिपीडिता॥५॥

बाह्यमण्डलमुद्रास्तु बन्धेच्चिह्नानुसारतः।
समया वज्रबन्धेन तथास्या वज्रमुष्टिना॥६॥

इति॥

अथ वज्रकुलगुह्यधर्ममुद्रा भवन्ति।
फ ट्टः। श ट्टः। म ट्टः। स ट्टः।
र ट्टः। त ट्टः। घृ ट्टः। ह ट्टः।
प ट्टः। त्र ट्टः। क ट्टः। ध ट्टः।
कु ट्टः। रि ट्टः। ख ट्टः। व ट्टः॥

अथ वज्रकुलगुह्यकर्ममुद्राबन्धो भवति।
कर्ममुद्राः समासेन वज्रमुष्टिर्द्विधीकृता।
यथा स्थानेषु संस्थेया क्रोधदुष्ट्या सुरोषवान्॥

इति॥

सर्वतथागतवज्रसमयान्महाकल्पराजात् क्रोधगुह्यमुद्रामण्डलविधिविस्तरः परिसमाप्तः॥