२० तत्त्वदशक

२०। तत्त्वदशक।
सदसद्योगहीनायै तथतायै नमो नमः।
अनाविला यतः सैव बोधतो बोधिरूपिणी॥१॥

न साकारनिराकारे तथतां ज्ञातुमिच्छतः।
मध्यमाऽमध्यमा चैव गुरुवागनलङ्कृता॥२॥

बोधिरसौ भवेद् भावः सङ्गं त्यक्ता स्वभावतः।
आसङ्गो भ्रान्तितो यातो भ्रान्तिरस्थानिका मता॥३॥

किं तत्त्वं वस्तुनो रूपं रूपं चारूपकं यतः।
अरूपं च भवेद् रूपं फलहेतुस्वभावतः॥४॥

एवमेव रसा धर्म्मा निरासंङ्गा निरास्पदाः।
प्रभास्वरा अमी सर्व्वे यथाभूतसमाधिना॥५॥

यथाभूतसमाधिश्च भवेत् प्रस्थानचित्ततः।
अजस्रं जायते तत्त्वं यस्मात् तत् पदवेदिनाम्॥६॥

ज्ञानज्ञेयविहीनं [तु]जगदेवाद्वयं मतम्।
द्वयहीनाभिरोपश्च तथैव हि प्रभास्वरः॥७॥

एतत् तत्त्वावरोधेन येन तेन यथा तथा।
विवृताक्षो भ्रमेद् योगी केशरीव समन्ततः॥८॥

लोकधर्म्मव्यतीतोऽसौ उन्मत्तव्रतमाश्रितः।
सार्धं करोत्यातालम्बः स्वाधिष्टानविभूषितः॥९॥


समासममता हित्वा ज्ञातुमहानायाधनाः॥१०॥

तत्त्वदशकः समाप्तः।
। कृतिरियं पण्डितावधूताद्वयवज्रपादानामिति॥