१८। मध्यकषट्क।
चतुष्कोटिविनिर्म्मुक्तं ज्ञानवस्तु सदद्वयम्।
कल्पशून्यमनालम्ब्यं विदुः साकारवादिनः॥१॥
स्वसम्बित्ते[र]नुच्छेदात् नीलादीनामभासनाद्।
निमित्तानामनुत्पादात् मध्यमाप्रतिपत् मता॥२॥
चतुष्कोटिविनिर्म्मुक्तः प्रकाशालीकलक्षणः।
मायोपमाद्वयश्चैष सिद्धान्तो मानसङ्गतः॥३॥
वस्तुशून्या तु या वित्तिर्निराकारा निरञ्जना।
मध्यमा प्रतिपत् सैव तत्पृष्ठे शुद्धसम्बृतिः॥४॥
प्रकाशो वाऽप्रकाशो वा तत्त्वतो नोपलभ्यते।
सर्व्वथाऽजातरूपत्वात् मध्यमामपरे विदुः॥५॥
चतुष्कोटिविनिर्म्मुक्तः प्रकाशो देवतात्मकः।
शाताद्वयस्वभावश्च प्र[ती]त्योत्पादमात्रकः॥६॥
॥
मध्यकषट्क समाप्तः।
। कृतिरियं महापण्डितावधूतश्रीमदद्वयवज्रपादानामिति॥