१७ निर्बेधपञ्चक

१७। निर्बेधपञ्चक।
बुद्धं बुद्धं जगत् शुद्धं द्वन्द्वबोधे न बन्धनाः।
आदिशुद्धो महाबुद्धः किं बुद्धं बुद्धशासने॥१॥

इदं निवृत्तप्रतिपक्षतत्त्वफलविकल्पस्य।
सहजं निवृत्तप्रतिपक्षतत्त्वफलविकल्पस्य।
सहजं निर्बेधभाजः स्वाभाविकं वचः(?)॥२॥

ज्ञानमनाविलं शून्यमनाभोगकृपात्मकम्।
प्रतीत्य जायते तच्च स्वभावाभाववर्ज्जितम्॥३॥

अनेन निर्बेधप्रतिरूपमाख्याति - धर्म्माणां शून्यता वायुः कृपा वायुर्गरीयसी।
वायुः सम्बरसामर्थ्यं वायुशुद्धा च सम्बृतिः॥४॥

अनेन निर्भरसहजोद्भारमुद्गीरति - हा किं ब्रूमः कथं ब्रूमो ब्रूमो वा क्क नु ते जनाः।
वद्धा वृत्तिर्भवेद् येषामनाभोगार्थः शालिनी॥५॥

एतेन करुणयाऽप्रतिष्ठितनिर्व्वचनाय धर्म्मगम्भीरनयाधिमुक्तिकपुरुषदुर्ल्लभतामावेदयति।
सकर्म्मसूत्रबीजाद्धि मर्म्मच्छेदि फलं मम।
………….यो मया हिंस्रो………..प्येवं सहिते॥६॥

अनेन स्वकर्म्मसूत्रग्रथितोपहतमतिसकलसत्त्वपरिग्रहं कुर्व्वाणो बोधिसत्त्वानां हृदयमाचष्टे।

निर्बेधपञ्चकं समाप्तम्॥