१६। महायानविंशिका।
निजकायमहं वन्दे असंस्कृतमलक्षणम्।
सर्व्वाकारवरोपेतं युग[न]द्धपद(स)ङ्गतम्॥१॥
धर्म्मसम्भोगनिर्म्माणा यन्निजं तत् स्वभावतः।
तदस्य दर्शनं युक्तं सम्यस्सम्बोधिसिद्धये॥२॥
दर्शनं च भवेदस्य अनारोपाद् विपश्यना।
मन्त्रयानानुसारेण तदिदं वक्ष्यतेऽधुना॥३॥
न नेदं शाश्वतं विश्वं न चोच्छेदि समीहितम्।
शाश्वतोच्छेदिनो युग्मं नानुभयं विनोभयम्॥४॥
चतुष्कोटिविनिर्म्मुक्तं तत्त्वं तत्त्वविदो विदुः।
चतुष्कोटिविशुद्धं तु च [तु]ष्कोटिसमाश्रितम्॥
५॥
खसमं असमं शान्तमादिमध्यान्तवर्ज्जितम्।
अचिन्त्यं चित्तकं चैव सर्व्वभावस्वभावकम्॥६॥
जगदेकरसं बुद्धा प्रभास्वरमनाविलम्।
सर्व्वसङ्कल्पनिःशङ्का विहरद्धं यथासुखम्॥७॥
न क्लेशा बोधितो भिन्ना न बोधौ क्लेशसम्भवः।
भ्रान्तितः क्लेशसङ्कल्पो भ्रान्तिः प्रकृतिनिर्म्मला॥८॥
ईर्य्या च कायिकं कर्म्म वाचिकं धर्म्मदेशना।
समादानं मनः कर्म्म निर्व्विकल्पस्य धीमतः॥९॥
जगन्मायेत्यसौ ——————- मायेति मा कृथाः।
मायामोहो महाभ्रान्तिर्भ्रान्तिर्भ्राति सतां मता॥१०॥
विज्ञायैवं यथारूपं बुद्धादीनां समासतः।
भुञ्जानः सर्व्वथा सर्व्वं तत्त्ववेदी प्रसिध्यति॥११॥
धर्म्मस्कन्धसहस्रेषु बध्यतां नाम शून्यता।
बद्धा नासौ परामर्शात् विनाशार्थं भवेद्गुरोः॥१२॥
सर्व्वाकाराः सुखं तत्त्वं सङ्कल्पोपरतेः स ते।
शून्यता न सुखं तत्त्वं न चिन्त्यं न सुखं सुखम्॥१३॥
येन बुद्धमनारोपं न दृष्टं परमार्थतः।
अदृष्टे युज्यते तस्य वृत्तं पश्चात् यथा तथा॥१४॥
न द्वयं नाद्वयं यस्य न बोधिः सद्विलक्षणा।
निराशोऽसौ महायोगी सर्व्वाकारगतिं गतः॥१५॥
आदिकर्म्म यथोदिष्टं कर्त्तव्यं सर्व्वयोनिभिः।
शून्यताकरुणाभिन्नं यद् बोधौ ज्ञानमिष्यते॥१६॥
कृपायाः शून्यता नान्या करुणा खरनायिका।
संस्कृत्य न वयं ब्रूमो ब्रूमश्चे [त्]युगनद्धतः॥१७॥
घटादेर्ग्रहणैर्यस्य ध्यानसातत्ययोगतः।
भवेदसौ महाबुद्धः सर्व्वाकारैकविग्रहः॥१८॥
असंस्कृत[म]ना धर्म्मो बोधः सम्भोगलक्षणः।
तदेव निर्म्मितश्चित्रः निजः सर्व्वस्वभावतः॥१९॥
यदनेन समासादि पुण्यं पुण्यवता मया।
तेनास्तु सकलो लोको बुद्धबोधिपरायणः॥२०॥
॥
महायानविंशिका समाप्ता॥