१५। तत्त्वविंशिका।
नमः सर्व्वज्ञाय।
प्रज्ञा चित्रं विपाकश्च विमर्द्दश्च विलक्षणम्।
अस्यास्तत्त्वमतो विद्धि येनासि जगतो विभुः॥१॥
प्रज्ञा भवः समश्चासौ त्रिकायं तु त्रियानकम्।
सैव चक्रं सुखोपायं योगिनातदहं परम्॥२॥
मञ्जुवज्रो महामाया वज्रडाकस्तथाऽपरे।
प्रज्ञैव भेदतो भाति मुक्तिः सैव जिनात्मिका॥३॥
अचिन्त्यं चिन्तितं चैव अद्वयं द्वयमेव च।
सर्व्वाकारवरोपेतं भावाभावौ ग्रहाग्रहौ॥४॥
विज्ञायापगतं चित्तं निरालम्बमनुत्तरम्।
शान्तं शुद्धं निराभासं वित्तिः प्रज्ञेति कीर्त्तिता॥५॥
प्रवेशश्च भवेदस्य विध्यष्टमनसां ततः।
नानाधर्म्मादुपायोऽत्र मृदुमध्यादिमात्रतः॥६॥
कर्म्मसमयमुद्राभ्यां चक्रं निष्पाद्य भावतः।
ध्यायन्ति मृदवो बोधिं शुद्धतत्त्वबहिर्मुखाः॥७॥
ज्ञानमुद्रासमापन्नं मञ्जुवज्रादिनायकम्।
न सत्यं न मृषाकारं आत्मानं मध्ययोगिनः॥८॥
स्वाधिष्ठानपदं ज्ञातुं ये शक्ताः तत्त्वतो नहि।
मार्गोपदेशितस्तेषां क्रमतो बोधिसिद्धये॥९॥
देवताभिनिवेशश्चेद्वासनाऽत्र कथं नहि।
वासनैव विशुद्धा चेत् सर्व्वत्रैव तु सा तथा॥१०॥
दृष्टतत्त्वः पुनर्योगी महामुद्रापरायणः।
सर्व्वभावस्वभावेन विहरेत् उत्तमेन्द्रियः॥११॥
प्रकृतौ यत् शुभं लब्धं सर्व्वसङ्कल्पवर्ज्जितम्।
तदेवेदं जगद् यस्मात् तस्मात् सर्व्वमनाविलम्॥१२॥
बाह्यं वस्तु मनोग्राह्यं भ्रान्तं न भासते यतः।
स्वप्नाङ्गनेव विष्पष्टं चिन्मात्रमर्थकारि तत्॥१३॥
चित्तमात्रं भवेद् बोधेर्मतं चित्तमचित्तकम्।
स्वसंवित्तिरचित्तं च वित्तिर्गुरुमपेक्षते॥१४॥
शून्यता सर्व्ववस्तूनां कस्य नाम न सम्मता।
सर्व्वभावस्वभावोऽसौ कष्टा प्रत्यात्मवेद्यतः॥१५॥
अनिलादिसहायेन भक्तं यथेह तण्डुलाः।
तथताया तथा शुद्धा अविद्या याति विद्यताम्॥१६॥
यस्य चिन्ता भवेद् ध्यानं तस्याचिन्त्यं भवेत् न किम्।
अचिन्तात्मा भवेद् योगी बुद्धेर्ज्जगदुदाहृतः॥१७॥
चक्रमसौ भवेद् योगी महामुद्रा स एव हि।
धर्म्मसम्भोगनिर्म्माणाः सर्व्वाकारः स एव हि॥१८॥
कृतकृत्यो निराशश्च सर्व्वासङ्गवहिर्म्मुखः।
चतुरीर्य्यापथैर्युक्तो बुद्धोऽयं बुद्धसम्मतः॥१९॥
अद्वयेन द्वयं (सं)कृत्वा यदसादि शुभं मया।
जगदद्वयमद्यैव भृयात् तेन महासुखम्॥२०॥
॥
तत्त्वविंशिका समाप्ता॥