१४। महासुखप्रकाशः।
वज्रसत्त्वं नमस्कृत्य प्रज्ञोपाय[स्व]रूपिणम्।
महासुखाद्वयं वक्ष्ये वस्तुतत्त्वं समासतः॥
उत्पत्तिभावना चैका द्वितीयोत्पन्नभावना।
उभयोर्भावना तस्मात् तादात्म्य[मि]ह कथ्यते॥
अप्रतित्योदयो नास्ति धर्म्माणामिति निश्चितम्।
प्रतीत्योदितरूपत्वात् हूँजमाँजौ तथा न किम्॥
शून्यताबोधितो बीजं बीजाद्विम्बं प्रजायते।
बिम्बे च न्यासविन्यासौ (स)तस्मात् सर्व्वं प्रतीत्यजम्॥
बाह्यद्वन्दसमापत्तिरिति या देशना मुनेः।
सऽवान्तरप्रबोधाय स्पष्टं तन्त्रेषु बुध्यते॥
सुखाभावे न बोधिः स्यात् मता या सुखरूपिणी।
अस्तित्वे च महान् सङ्गः संसारोदयहेतुकः॥
आदिसान्तसुखं विद्धि यत्सुखं प्रत्ययोद्भवम्।
अवस्तुकमतो ब्रूमो न सुखमतो नास्ति च॥
तत्त्वं तावदनुत्पादो धर्म्मानां परमार्थतः।
शातालीकप्रकाशात् तु विज्ञेया शुद्धसम्बृतिः॥
सत्यद्व[य]मिदं शुद्धं शून्यता योगिसम्बृतिः॥
द्वयोरद्वयता साध्या कृत्वानर्थविसर्ज्जनम्॥
मन्त्रसंस्थानयोगात्मा शातो मज्जति धीधनः।
मायोपमं ततोऽद्बैतं विश्वं पश्यति तादृशम्॥
भूतकोटिं ततो विष्ट्वा युगनद्धपदं गतः।
युगनद्धस्थितो योगी सत्त्वार्थैकपरो भवेत्॥
शातचित् देवताकारं विश्वचक्रमुपायकम्।
प्रज्ञा च शून्यता प्रोक्ता साध्यतादात्म्यमिष्यते॥
प्रज्ञोपायात्म्यकं तत्त्वं बाह्याभ्यन्तरशुद्धितः।
बुद्धा समासतो मन्त्री सुखितोऽस्थानयोगतः॥
प्रतीत्योत्पादमात्रत्वात् नैव सत्त्वं न शून्यता।
स्फूर्त्तिश्च देवताकारा निःस्वभावा स्वभावतः॥
यथा यथा भवेत् स्फूर्त्तिः सा तथा शून्यतात्मिका।
द्वैताद्वैतमनो यच्च तत्र तद्वासनाफलम्॥
हेरुकाऽहङ्कृति र्योगी हेरुकार्थे प्रतिष्ठितः।
भावांश्चासौ गुरून् कृत्वा केशरीव भ्रमेन्मही॥
शुद्धं शुद्ध्या जिनानां परित इह सदा विश्वमाभाति यस्य जातं नादौ न रुद्धं स्वपरविगणनाकल्पकोटिप्रहीनम्।
शातालीकं प्रकाशं भवसमसमताऽद्वैतरूपं हि नूनं चक्रे चक्राधिपोऽसौ जिनगुणनिलयो वज्रडाको मुनीन्द्रः॥
॥
महासुखप्रकाशः समाप्तः॥