१३। युगनद्धप्रकाशः।
या या स्फूर्त्तिरसौ शुद्धा बुद्धा चेत् अविकारता।
विकारः प्रत्ययैर्ज्ञान तर्पितैरित्यजातता॥
रूपे न विद्यते रूपं न वा चक्षुषि विद्यते।
न चैतत् तज्जविज्ञाने दारुबह्निकथा यथा॥
मन्थाने मथनीये वा न वा पुरुषहस्तयोः।
प्राक्सिद्धो विद्यते बह्निः प्रतीत्याऽर्थः स जायते॥
किं मोहः स्वसुतान् पूर्व्वं सूते वा स प्रजायते॥
सूत एव न पूर्व्वं चेत् अतस्तस्य न वस्तुता॥
एवं प्रत्य[य]मात्रत्वात् धर्म्माणां निःस्वभावता।
तयैव विहरन् योगौ नातिक्रामति सम्बरम्॥
भाव्यादानं न सर्व्वत्र व्यवहारस्तु वर्त्तते।
मायेव निःस्वभावोऽसौ प्रतीत्योत्पादबोधतः॥
नैःस्वाभाव्यादजातत्वं प्रत्ययादनिरुद्धता।
भावाभावावतो न स्तो युगनद्धं तु भासते॥
शून्यताकृपयोरैक्यं विधेयं न स्वकल्पतः।
शून्यतायाः प्रकाशस्य प्रकृत्या युगनद्धता॥
सर्व्वाकारवरोदारगम्भीरनिजशून्यताम्।
साक्षादवेति बुद्धानां पूजां कुर्य्यात् सुयोगवान्॥
कायेन म[न]सा वाचा सदाऽप्रतिष्ठितः सुधीः।
चर्य्यां कुर्य्यात् न वा कुर्य्यात् चर्य्याचारी स उच्यते॥
॥
युगनद्धप्रकाशः समाप्तः॥