0९ मायानिरुक्तिः

९। मायानिरुक्तिः।
नमः सर्व्वविदे।
मायेव निःस्वभावं चेत् जगदध्यक्षबुधाः।
किमर्थमिह मुह्यन्ति जानन्तो(न)ऽपि सुखासु या(?)॥

मायावी कुरुते मायां ज्वलदाकारभास्वराम्(रं)।
कस्यचित् सत्यमाभाति माया मायैव तद्विदः॥

मायातुष्टेर्विनाभोगं ये कामाः स्वयमागताः।
मायया तानसौ भुंक्ते यन्माया सर्व्वसंगता॥

शून्यतो जायते धर्म्मस्तस्मादन्या न धर्म्मता।
अत‍एव हि सार्व्वज्ञं बुद्धस्य न विहन्यते॥

अनारोपवशात् सर्व्वं धर्म्मचक्रं प्रवर्त्तते।
पादप्रसारिकां त्यक्त्वा क्षिप्त्वा मानादिकल्पनाम्॥

चर्य्यया विचरेद् योगी सुस्थितः स्थानयोगतः।
खान-पान-रसं प्राप्य शुद्धमुद्धुष्य भाषया॥

चर्य्यां न विचरेत् यस्तु नासौ सम्बोधिभाजनः।
वाचा वक्ति जनस्तत्त्वं चर्य्यामप्यनुमोदते॥

वित्त्यनुष्ठानसम्यत्त्या सम्पन्नो बल्लभो जनः।
मही शय्या दिशो वासो भिक्षाभक्तं च भोजनम्॥

अजातधर्म्मता क्षान्तिः कृपानाभोगवाहिनी।
जनजन्मनि (ज)ये धर्म्मा जायन्ते तेऽपि चर्य्यया।
एतत् फलमिहाप्य[स्ति]क्षमा ता(स्ता)वदनुत्तरा॥

मायां विवृत्य यत्पुण्यं सुलब्धं साधुचेतसा।
तेनाद्वैतपदं यान्तु [लोका]लोकोत्तरे स्थिताः॥

मायानिरुक्तिः समाप्ता इति॥