0२ मूलापत्तयः स्थूलापत्तयः

२ मूलापत्तयः स्थूलापत्तयः।
अप्रतिष्ठितनिर्व्वाणं जगदानन्दसुन्दरम्।
नत्वा मञ्जुश्रियं वक्ष्ये मूलापत्तीश्चतुर्द्दश॥

आचार्य्येष्ववमानेन सुगताज्ञाविलङ्घने।
द्वेषात् गोत्रगुणाख्याने महामैत्रीविवर्ज्जने॥

बोधिचित्तपरित्यागे यानत्रितयनिन्दने।
गुह्याख्याने जने पक्षे जिनात्मस्कधदूषणे॥

शुद्धात्मधर्म्मसन्देहे इष्टमैत्रीविरागतः।
धर्म्मेष्वनद्वयारोपे श्राद्धचित्तप्रदूषने॥

समयासेवने प्राप्तौ प्रज्ञात्मस्त्रीप्रदूषणे।
मूलापत्तिर्भवेत् तेन मन्त्रिणः समयकृतिः॥

तत्कृतौ सिद्धयो न स्युर्मारो दुःखस्य सञ्चयः।
निरयगतिं च भूंक्तेऽसौ तीव्रा विविधवेदनाः॥

गुरोर्यथाऽऽप्तितः पूजां विधाय मण्डले ततः।
गृह्णीयात् बोधिचित्तं च रत्नत्रयादिसम्बरम्॥

मूलापत्तयः समाप्ताः॥

विद्याया[ः] सेवने प्रीत्या समयानामयोगतः।
गणचक्रे विवादं च गुह्यधर्म्मप्रकाशनात्॥

श्राद्धसत्त्वेषु सद्धर्म्मदेशना अन्यथा भ्रमात्।
सप्ताहं वसन्मध्ये श्रावकानां महकृते(?)॥

योगात् पति[त]श्चेत् योग्यभाजने गुह्यदेशनात्।
स्थूलापत्तिर्भवेत् तेन योगिनः सम्बरकृतिः॥

पूजयित्वा महाचार्य्यं यथाशक्त्युपचारतः।
अप्रतिच्छन्नचित्तेन देशयेत् तु कृतौ व्रती॥

स्थूलापत्तयः समाप्ताः॥