नानासिद्धोपदेशः

नानासिद्धोपदेशः पद्माङ्कुरस्य- प्रज्ञोपाययोर्महासुखचक्रस्थमोङ्कारहकारादवतीर्णौ(र्णो) ज्ञानचेत- मणिसूत्रवदेकीकृत्य दोलया महामुद्रोपदेशः।
प्रज्ञारक्षितस्य- कमलकुलिशानुभवित्वसद्बिन्दुरनक्षरशिखाग्रतो महामुद्रोपदेश- स्तत्त्वपारगो महासुखचक्रावतीर्णो ज्ञानतन्तुं समरसीकृत्य दोलया सहजयोगः।
नेलीपादस्य- कुलिशमणिनिविष्टो ज्ञानबिन्दुरनक्षरः।
आशुसिद्धिकरः प्रोक्तो नेलीपादेन धीमता॥

रविगुप्तस्य- ज्ञानदीपशिखाकारो निर्माणाब्जेन्दुमध्यगः।
हंकारं द्रावयत्याशु रविगुप्तेन भषितम्॥

कृष्णाचार्याणाम्- कृष्णाचार्यैः समाख्याता चण्डाली नाभिमध्यगा।
आदिस्वरस्वभावाऽसौ दहत्यनाहतं मुखात्॥

निर्माणे तिलका ख्याता वसन्तो धर्मचक्रगः।
द्वयोरेकस्वभावस्तु कृष्णाचार्येण ख्यापितम्॥

सरहपादानाम्- निर्माणचक्रद्वये नाभौ पञ्चाक्षरविभावना।
कर्तव्या योगयुक्तेन ख्यापितं सरहेण तु॥

महीधरस्य- निर्माणचक्रे शून्यस्वभावा चण्डाली अनाहतप्रियेति महीधरः।
भूरिपादानाम्- निर्माणचक्राद्याकारकमलवरटकेऽकरहकारौ मृणालतन्त्वाकारेणैकीभूयाऽनाहतद्राविणाविति भूरिपादाः।
वीणापादस्य- निर्माणचक्रे रविसोमसम्पुटज्ञानबिन्दुसमुत्थितौ रेखया आलि- कालिसम्पुटस्वरूपया त्रिभिर्वेष्टय पुनरुत्थितौ रेखाद्वयप्रज्ञोपाय- स्वभावौ। एका शुक्ला धर्मचक्रात् प्रतिनिवृत्य पश्येत् , द्वितीया चक्रं प्रज्ञास्वभावा अनाहतं कान्तमिवालिङ्गयतीति वीणापादमतं किल।
विरूपाचार्यस्य- निर्माणचक्रेऽन्तरीक्षचक्रस्थमोङ्कारं मुखेन शीत्कारवाय्वप्रवेशेन गणयेद् बुध इति विरूपाचार्येण देशितम्।
मुखेन घोलयेत् प्राज्ञो यावदद्वयतां व्रजेत्।
अकाराक्षरहकारौ विरूपाचार्येण देशितम्॥

नागबुद्धेः- निर्माणपद्मस्थयोनिचक्रस्य कर्णिका ज्वलति धर्मचक्रगता भवेत्, संभोगस्थानाहतरेखया एकीभवतीति नागबुद्धेः।
दिङ्नागस्य- मुखेन निर्गमप्रवेशवायुना अकारहंकारौ तावद् घोलयेद् यावद- द्वयतां व्रजेत्। ततोऽधरदशने संस्थाप्य रसनया आक्रमेदिति दिङ्नागः।
मातलेः- मुखे रक्त अंकारो निर्गमेन च वायुना।
उपायशुक्रहुंकारप्रवेशेन च घोलयेत्॥

एकीभवनतो नित्यं ककतुण्डी प्रसिद्धयति।
मिक्ताभं ज्ञानबिन्दुं नासाग्रे भावयेत् सुधीः॥

कर्णे वासति शब्दांश्च मतलिः संप्रचक्षते॥

मत्स्येन्द्रस्य- नागसं(?)कायमुखाक्षिकर्णनासिका अपि वा वायुयन्त्रणादधिगपि- (कोऽपि) ज्वलते वीरो मत्स्येन्द्रमतमीदृशम्।
उद्देशममुच्चयः प्रज्ञाशिरसि ओङ्कारमुपायशिरसि हूँद्वयमधोमुखम्। अन्तर्मध्ये च वज्रादिमुखे प्रज्ञास्थितवायुना हतो बिन्दुरुपायशिखाग्रं याति।
उपायवायुना हतो बिन्दुः [प्रज्ञा]शिखाग्रं याति। ज्ञानबिन्दुः सुखरूपत्वेन चिन्तितः सन् ज्ञानदीपशिखाकार ओङ्कारवचोलिङ्गितः सुखमयत्वेन विभावितः सन् दाहानन्तरं शिखात् सुखमयभावनात्। तिलका ओङ्कारो वसन्तो हूँकारोऽधोमुख एकस्वभावः। न सुखमयचित्तत्। चक्रद्वये लाँ हूँ मा इत्याद्यक्षराणि ज्ञानबोधिचित्तद्रावकणि। तदनु मु(सु)ख- भावनामात्रम्।
यच्चक्राद्विनिवृत्य ज्ञानबिन्दुं मुखं परिवर्त्य प्श्यति, धर्मचक्रस्थ- कान्तमलिङ्गाति, ओङ्कारवज्रमुखेन वायुं प्रवेशयेत् सुखस्वभावत्वेन।
अ(ओ)ङ्कारं निःसरन्तं वाय्वाकृष्टं हुँकारं प्रविश्द्वाय्वारूढं घोलयेत्। अर्थयता निःस्वभावता यावत्। अधरदशनेऽधोदन्तपङ्क्तौ जिह्वामारोच(प)येत्। अद्वयतो निःस्वभावता। काकतुण्डीमुखेन वायु- निर्गमः। नरनासिकायां निर्गच्चेत्। अप्रविशेद्(शति) वायौ हं नासाग्रे प्रज्ञपद्मनसाग्रे घोलरन्ध्राग्रे च वासति शब्दं करोति सुखरूपं बिन्दुम्।
मुखादिकं प्रथमादेव भावनया हस्तद्वयाङ्गुल्या पीडयेत्, भावना- प्रकर्षेण मन्त्रयेत्॥

इति नानासिद्धोपदेशः॥