५४

अथ चतुःपञ्चाशः पटलविसरः ।

अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं
कुमारभूतमामन्त्रयते स्म । अयं मञ्जुश्रीः धर्मपर्यायः । अस्मिं स्थाने
प्रचरिष्यति । तत्राह स्वयमेवं वेदितव्यः । सर्वबोधिसत्त्वगणपरिवृतः
श्रावकसङ्घपुरस्कृतः
सर्वदेवनागयक्षगरुडगन्धर्वकिन्नरमहोरगसिद्धविद्याह्दरः
मानुषामानुषैः परिवृतो विहरेऽहं वेदितव्यः । तथागतोऽत्र रक्षावरणगुप्तये
तिष्ठतीति । दशानुशंसा मञ्जुश्रीः कुमार वेदितव्यः । यत्र स्थानोऽयं
धर्मकोशस्तथागतानां पुस्तकगतो वा लिख्यति वाचयिष्यति धारयिष्यति सत्कृत्य
मनसिकृत्य
विविधैश्चामरपूर्णच्छत्रध्वजपताकाघण्टाभिर्वाद्यमाल्यविलेपनैर्धूप-
गन्धैश्च सुगन्धिभिः पूजयिष्यति मानयिष्यति सत्करिष्यति एकाग्रमनसो वा चित्तं
धत्से । कतमे दश । न चास्य परचक्रभय दुर्भिक्षो वा । न यास्य तत्र
महामार्योपद्रवं भवति अमानुषभयो वा । न चास्याग्निभयं भवति
सर्वप्रत्यर्थिकभ्यो वा । न चास्य तत्रानावृष्टिभयं भवति अतिवृष्टिभयो वा । न
चास्य तत्र महावातमण्डलीभयं भवति सर्वक्रव्यादभयो वा । न चास्य
श्रकभयं भवति सर्वधूर्ततस्करभयो वा । न चास्य मृत्युभयं भवति
यमराजोपनीतभयं वा । न चास्यासुरभयं वा भवति
सर्वदेवनागयक्षगन्धर्वासुरभयो वा । न चास्य मन्त्रभयं भवति
सर्वगरविषभयं वा । न चास्य रोगभयं भवति
ज्वरातीसारजीर्णाङ्गप्रत्यङ्गभयो वा । इमे दशानुशंसा वेदितव्या यत्रायं
महाकल्पविशरे धर्मकोशस्तथागतानां पुस्तकगतो तिष्ठेत
लिखनवाचनपूजनधारणस्वाध्यायानां वा कुर्मः ।

गुह्यतमोऽयं धर्मकोशस्तथागतानां मन्त्रानुवर्तनतया पुनरेषां सर्वतः
आचार्यसमयानुप्रविष्टानाम् । असमयज्ञानां न प्रकाशितव्यः । यत् कारणम् ।
रहस्यमेतत् । गुह्यवचनमेतत् । सर्वज्ञवचनमेतत् ॥

प्रसविष्यन्ते गुह्यनि**********(?)पघातननृपति***(?)
आयुःप्रमाणोपघातोपसर्गिकक्रियां करिष्यन्तीति न परेषामारोचयितव्यं च ।

प्द्फ़् ११३, प्। ६५८)

समयरहस्यगुह्यमन्त्रचर्यानुप्रविष्टानां सत्त्वानां
तथागतशासनशिक्षाया सुशिक्षितानां सुव्यवस्थितानां
धर्मार्थकोविदामायतनधातुसमयानुप्रवेशधर्मस्थितानां सत्यसन्धानां
दृढव्रतमन्वागतानां सत्त्वचर्यामार्गानुप्रविष्टकारुणिकानामेतेषां
सत्त्वानामारोचयितव्यम् न परेषामिति ॥

अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वोत्थायासनादेकांशमुत्तरासङ्गं
कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य कृतकरतलाञ्जलिपुटो
भगवन्तमेतदवोचत् । को नामायं भगवन् ! धर्मपर्यायः कथं चैनं
धारयाम्यहम् ।

भगवानाह - सर्वबोधिसत्त्वविस्फूर्जनबोधिसत्त्वपिटक इत्यपि धारय ।
आश्चर्याद्भुतधर्मोपदेशपरिवर्त्त इत्यपि धारय ।
सर्वमन्त्रकोशचर्यानुप्रविष्टबोधिसत्त्वनिर्देश इत्यपि धारय ।
महायानवैपुल्यनिर्देशाद्भुत इत्यपि धारय । आर्यमञ्जुश्रियमूलकल्प इत्यपि
धारय । सर्वधर्मार्थपूरणनिर्देश इत्यपि धारय इति ॥

सर्वलोकां समग्रां वै धर्माधर्मविचारकाम् ।
विचेरुः सर्वतो यस्त्वं बोधिसत्त्वो महर्द्धिकः ॥

न पश्यसे परं गुह्यमेतं धर्मवरं वरम् ।
मन्त्रतन्त्रार्थसूत्राणां गतिदेशनिरत्ययम् ॥

न पश्यसे वरं वीर ! धर्मबोधिपरायणम् ।
यादृशोऽयं गुह्यसूत्रं नेयार्थभूषितम् ॥

विविधाकारसूत्रार्त्थाः मन्त्रतन्त्रानुवर्तनम् ।
न भूतं विद्यते कश्चिद् यः कल्पविसरादिह ॥

महाराज्ञां महाभोगां सम्पदांश्च दिवौकसाम् ।
प्राप्नुयात् पुष्कलां कीर्तिं दिव्यां मानुषिकां तथा ॥

अक्षाणां वर्जयेदष्टां क्षणांश्चैव सम्भावयेत् ।
बुद्धत्वं नि**(?) तस्य त्रिधा जननतिस्तथा ॥

इदं सूत्रं धारणात् पुण्य अनुशंसा स्यादिमे तथा ।
न चास्य सर्वकाये वै न विषं न हुताशनम् ॥

प्द्फ़् ११४, प्। ६५९)

न वेताडा ग्रहाश्चैव न पूतना मातरा हि ये ।
तेन चोरराक्षसा ॥

पिशाचा वास्य हिंस्येयुः यस्य सूत्रमिमं पठेत् ।
धारयेद्वापि पूजयेद् वा न पुनः पुनः विविधा ॥

वाद्य पूज्य पूज इषु पूजयेद् वा विशरदः ।
स इमां लभते मर्त्यो मनुशंसामिहोदिता ॥

आतुरो मुच्यते रोगान् दुःखितो सुखोनो भवेत् ।
दरिद्रो लभते अर्थान् बद्धो मुच्यते बन्धनात् ॥

पतितः संसारदुःखेऽस्मिन् गतिं पञ्चकयोजितम् ।
क्षेमं शिवं च निर्वाणं प्राप्नुयादचलं पदम् ॥

प्रत्येकबोधिबुद्धत्वं श्रावकत्वं च नैष्ठिकम् ।
इदं सूत्रं वाचयित्वा लभते बुद्धवर्तिताम् ॥

गङ्गासितताप्रख्यानामनन्त्यं जिनवरास्तथा ।
पूजित्वा लभते पुण्यं तत्सर्वमिदं सूत्रं पठनादिह ॥

यावन्ति केचिल्लोकेऽस्मिन् क्षेत्रकोटिमचिन्तकाः ।
तावन्तु परमाण्वाख्यां बुद्धानां पूजयेत् सदा ॥

विविधा अन्नपानैश्च ग्लानप्रत्ययभेषजैः ।
विविधासनशय्यासु दद्युः सर्वतः सदा ॥

चीवरैर्विविधैश्चापि चूर्णचीवरभूषणैः ।
छत्रोपानहपटैः सुगन्धमाल्यविलेपनैः ॥

धूपनं विविधैर्वापि दीपैश्चापि समन्ततः ।
तत् पुण्यं प्राप्नुया जन्तुर्धारणाद् वाचनादिदम् ॥

प्रत्येकबुद्धजे लोके श्रावका सुमहर्द्धिकः ।
बोधिसत्त्वा महात्मानो दशभूमिस्थिता पराः ॥

तत्प्रमाणाद् भवेत् सर्वे तेषां पूजां तथैव च ।
तत् **(?) प्राप्नुयान्मर्त्य **(?) पुस्तक पुनः करे ॥

प्द्फ़् ११५, प्। ६६०)

यावन्ति लोके कथिता लोकधातुसमाशृता ।
सर्वसत्त्वा समाख्यातास्ते सर्वे विगतज्वराः ॥

तेषां च पूजा सत्कृत्य कश्चि जन्तु पुनः पुनः ।
तत् पुण्यं प्राप्नुयाद्धीमां पूजेत्वा धर्मपरमिमम् ॥

न शक्यं कल्पकोट्यैस्ते रत्नै जिनवरैः सदा ।
पूजये लोकनाथानां धर्मकोश इमं वरम् ॥

चिन्तामणि च रत्नार्थमिमं धर्मवरं भवेत् ।
पठनाद् धारणान्मन्त्रा कल्पेऽस्मिन् मञ्जुभाणिते ॥

भवेत् कामदुहं तस्य महाभोगार्थसम्पदः ।
अखिन्नमनसो भूत्वा यो इमां साधयेत् भुवि ॥

मन्त्रान् तत्त्वार्थनेयार्थं सफला मुनिभाषिता ।
कृयाकालसमायोगात् साधयेद् विद्यधरां भुवि ॥

तस्य सर्वदिशा ख्याता प्रपूर्णा रत्नसम्पदः ।
सफला गतिमाहात्म्या वर्णिता साधुवर्णिता ॥

योऽस्मान् कल्ववरा ह्येकं मन्त्रं धारये नृप ।
सफला राजसम्पत्ति दीर्घमायुष्यसम्पदाम् ॥

विविधा भोगचर्या वा प्राप्नुयां नृपवरोपराम् ।
न चास्य हन्यते शस्त्रैर्न विषैः स्थावरजङ्गमैः ॥

परविद्यकृतैश्चापि मन्त्रं वेताडसाधनम् ।
दूषितैर्वसुधालोके परकृत्यपरायणे ॥

न हुताशनभयं तस्य ना वैरग्रहापरैः ।
कायं न हन्यते तस्य नृपतेर्वा जन्तुनोऽपि वा ॥

य इमं सूत्रवराग्रं तु धारयेद् वाचयेत् तथा ।
रा*(?) च कृतया मूर्ध्ना सङ्ग्रामे समुपस्थिते ॥

छ***(?)सि मा**(?) नमस्कुर्यात् पुनः पुनः ।
न तस्य दस्यवो हन्******(?)समुद्यताम् ॥

प्द्फ़् ११६, प्। ६६१)

हस्तिस्कन्धसमारूढं कुमारकारसम्भवम् ।
मयूरासनसुस्तं सङ्ग्रामे अवतारयेत् ॥

दृष्ट्वा तं विद्विषः सर्वे निवर्तन्तेयुस्ते परे जनाः ।
बालरूपं तथा दिव्यकुमारालङ्कारभूषितम् ॥

सौवर्णं राजतं वापि रागत्यध्वजपूजितम् ।
आरोप्य ध्वजपताकेषु सुन्यस्तं सुसमाहितम् ॥

सङ्ग्रामं रिपुसङ्कीर्णं नानाशास्त्रसमुद्यतम् ।
युधि प्राप्तं समस्तं वै तस्मिं कालेऽवतारयेत् ॥

नश्यन्ते दृष्टमात्रं वै मुह्यन्ते वा समन्ततः ।
मानुषामानुषाश्चापि नृपाश्चापि सुरेश्वराः ॥

सिद्धविद्याधराश्चापि मन्त्रतन्त्रसमाश्रिताः ।
राक्षसा सत्त्ववन्तोऽपि कटपूतनामातरा ॥

क्रव्यादा विविधाश्चापि यक्षकूष्माण्डपूतना ।
न शक्यन्ते दृष्टमात्रं वै ध्वजमुच्छ्रितसंस्थितम् ॥

कुमारं विश्वकर्माणमनेकाकाररूपिणम् ।
मञ्जुघोषं महात्मानं दशभूम्याधिपतिं पतिम् ॥

महाराजा क्षत्रियो लोके भूपालो भूनिवासिनः ।
श्राद्धो विमतिसन्देहः विगतो धर्मवत्सलः ॥

उत्पाद्य सौगतीं शुद्धां करुणाविष्टमानसाम् ।
प्रक्रमुः सन्धिकामो वै क्रियामेतामिहोदिताम् ॥

निर्दिष्टं प्रवचने ह्येता धर्मधातुगतैर्जिनैः ।
कल्पं प्रयोगं मन्त्राणां तन्त्रयुक्तिमभूतले ॥

असङ्ख्यैर्जिनवरैः पूर्वं धर्मधातुसमाशृतैः ।
कथितं धर्मकोशं तु मानुषा तु भूतले ॥

देवासुरे पुरा युद्धे वर्तमाने ****(?) ।
तदा पुरो ह्यासीत् हतसैन्योऽथ विद्विषैः ॥

प्द्फ़् ११७, प्। ६६२)

एकाकिनस्तदा सत्त्वा विरथश्चैव महीतले ।
मुनिश्रेष्ठे तदा पृच्छेत् काश्यपं तं जिनोत्तमम् ॥

किं कर्तव्यमिति वाक्यमाजहार शचीपतिः ।
निर्जितोऽसुरैर्घोरैरहमत्र समाशृतः ॥

एवमुक्तः मघवां शतक्रतुर्दिवौकसः ।
प्रणम्य शिरसा मूर्ध्नि पादयोर्मुनिवरे तदा ॥

निषसेदु पुरा ह्यासीत् कौशिकोऽथ सहस्रदृक् ।
एवमुक्तो मुनिश्रेष्ठः काश्यपो ब्राह्मण अभूत् ॥

आजहार तदा वाणिं कलविङ्करुतस्वनाम् ।
पूर्वं जिनवरैर्गीतं कुमारो विश्वसम्भवः ॥

मञ्जुश्री महात्मासौ दुर्लक्षो लक्षमूर्जितः ।
भूतकोटिसमाख्यातो गम्भीरार्थदेशिकः ॥

निःप्रपञ्चं निराकारं निःस्वभावमनालयम् ।
धर्मादिदेश सत्त्वेभ्यस्तत् स्मरिष्व सुरेश्वरः ॥

ततस्ते नु स्मर्तो से स्मृत तत्त्वगतो तत। ः ।
आगतस्तत्क्षणात् तत्र कुमारो विश्वरूपिणः ॥

यत्र सौ भगवां तस्थुः मघवांश्चैव सुरेश्वर ।
आगता भाषते मन्त्रां वन्दित्वा जिनवरं तदा ॥

प्रणम्य जिनवरां सर्वां काश्यपं च महाद्युतिम् ।
इमां मन्त्रामभाषेत लब्ध्वानुज्ञां मुने तदा ॥

नमः सर्वबुद्धबोधिसत्त्वेभ्योऽप्रतिहतशासनेभ्यः ।

ॐ हन हन सर्वभयान् सादयोत्सादय त्रासय मोटय छिन्द भिन्द ज्वल ज्वल
हुꣳ हुꣳ फट् फट् स्वाहा ।

समनन्तरभाषितेयं मन्त्रा कुमारभूतेन मञ्जु***(?) बोधिसत्त्वेन
महासत्त्वेन । इयं महापृथिवी षड्विकारं प्रका**(?) स***(?) गरपर्यन्ता ।
सर्वांश्च बुद्धां भगवता क्षेत्रानन्तापर्यन्ता ****** (?) शपर्यन्तां
सर्वैश्च बुद्धैर्भगवद्भिरधि****(?) च इमानि मन्त्रपदानि ॥

प्द्फ़् ११८, प्। ६६३)

जय शक्रो देवानामिन्द्रः विगतभयरोमकर्षः आश्चर्याद्भुतप्राप्तः
उत्फुल्लनयनः उत्थायासनाद् भगवतः पादयोर्निपत्य त्रिः प्रदक्षिणीकृत्य च
मञ्जुश्रियं कुमारभूतं सम्मुखं दृष्ट्वा तानि च मन्त्रपदां गृह्य
मनसीकृत्य च पुनरेव स्यन्दनमधिरुह्य येन तेऽसुराः प्राद्रवितः सर्वेऽसुरा येन
पातालं महासमुद्राश्रयाधरपुरं स्वकं तेनाभिमुखाः प्रययुः ।
हतविध्वस्तमानसः सैन्यभयाकुलितविह्वलनिषण्णवदनदर्पः विगतशस्त्रा
दृष्टा तं सुरेश्वरं ज्वलन्तमिव पावकं पावकं निर्वर्त्य स्वालयं गता
अभूत् ॥

अथ शक्रो देवानामिन्द्रः देवां त्रायस्त्रिंशानामन्त्रयते स्म । मा भैष्टत
मार्षा ! मा भैष्टत । बुद्धानुभावेन वयमसुरां निर्जितवन्तो गच्छान्तः
स्वपुरम् । आगच्छन्तु भवन्तः क्रीडथ रमथ परिचारयथ स्वं स्वं
भवनवरं गत्वा । स्वालयं चेतस्ते देवा हृष्टमनसः पुनरेव निवर्त्य स्वालयं
गता ॥

अथ शक्रस्य देवानामिन्द्रस्यैतदभवत् । यन्वहं तं कुमाररूपिणं
बिम्बाकारं कृत्वा ध्वजाग्रे स्थापयेअं ततो मे नासुरभयं भवेत् इति ॥

अथ शक्रो देवानामिन्द्रः महता मणिरत्नद्योतिगर्भप्रभोद्योतनं नाम गृहीत्वा
कुमाराकारप्रतिबिम्बं कारयित्वा उपरि प्रासादस्य मूर्धनि सुधर्मायां
देवसभायां सुदर्शनस्य महानगरस्य मध्ये तं ध्वजोच्छ्रितसुविन्यस्तं
कृत्वा स्थापयामास ॥

ततस्ते असुरा प्रह्रादवेमचित्रिप्रभृतयः पातालं नोर्ध्वगच्छति न च तां
देवानभिद्रवन्ते न च शेकुः ऋद्धिविकुर्वाणं रणाभिमुखं वा गन्तुम् ।
एवमनेकानि वर्षकोटिनयुतशतसहस्राणि मानुषिकया गणनया । न चासुरभयं
स्यादिति ॥

एवमिदमपरिमितगुणानुशंसं सङ्कीर्तितमायुरारोग्यवर्धनं
बुद्धैर्भव्गवद्भिर्बोधिरा महासत्त्वै कथितं पुरा ।
एवमिदमपरिगितानुशंसगुणविस्तरमनन्ता***(?) पुरादिति । अपरिमाणं या
पुण्यप्रसवनं महानरकोपपत्तितिर्यका**********(?)मुपति ये इमं
धर्मपर्यायमपतदते विकल्पेत वा **(?)ति ग्रस्तचित्तो वा न वदेयुः न बुद्धवचनेति

प्द्फ़् ११९, प्। ६६४)

वा वदेयुः न मन्त्रा न चौषधयो बोधिसत्त्वानां पि तेषां
माहात्म्यविस्तरमृद्धिविकुर्वणं वा नापि विकल्पविस्तरमनार्यैर्भाषितमिति कृत्वा
उत्सृज्य त्यजन्ते अवगच्छन्ति न शक्नुवन्ति वा श्रोतुम् तस्मात् स्थानादपक्रमन्ते
महान् तेषामपुण्यं भविष्यतीत्याह ॥

ये नरा मूढचित्तो वै प्रतिक्षेप्स्यन्ति वरमिमम् ।
धर्मं मुनिवरैर्गीतं जिनपुत्रैश्च धीमतैः ॥

तेनका नरकं यान्ति सोत्सेधं सतिर्यगम् ।
फ़्कालसूत्रमथ सञ्जीवं क्षुरधारां गूथमृत्तिकाम् ॥

कुणपं क्षारनदी ग्राह्य ज्वरधारा पुनस्ततः ।
असिपत्रवनं घोरमववंहहवं तथा ॥

अटटं लोकविख्यातं नरकं पापकर्मिणाम् ।
गच्छते जना तत्र ये नरा धर्मदूषकाः ॥

अवीचिर्नाम तद् घोरं प्रख्यातं लोकविश्रुतम् ।
कुत्सितमयः प्राकारविक्षिप्तमावासं पापकर्मिणाम् ॥

पच्यन्ते ते जनास्तस्मिन् यो धर्मं लोपयेदिमम् ।
अवीचिपर्यन्तसर्वां तां सोत्सवां समूलजाम् ॥

अनन्तां नरकभूम्यन्तां गतेऽसौ विगतिः सदा ।
प्रतिक्षेप्ता धर्मसर्वस्वम् इदं सूत्रं सविस्तरम् ॥

लोके कुत्सतां यान्ति * * * * * * * * (?) ।
अवीच्यन्तां नरकान् यान्ति विवशैर्वशगस्तदा ॥

यो इ संसूत्रकल्पाख्यं मन्त्रतन्त्रभूषितम् ।
सिद्धिचित्रगतालम्ब्य भूतकोटिमनावृतम् ॥

शरीरं धर्मधात्वर्थमनालम्बनभावनम् ।
विस्तरं पटलोत्कृष्टं सकल्पं कल्पविस्तरम् ॥

मञ्जुघोषसुविन्यरतं सम्प**(?)पूजितम् ।
मूलकल्पमनल्पं वै कथितं बहुविस्तरम् ॥

प्द्फ़् १२०, प्। ६६५)

शाश्वतोच्छेदमध्यान्तमुभयार्थान्तवर्जितम् ।
सङ्क्रमं क्रमनिर्दिष्टं मन्त्रमूर्तिसमुच्छ्रितम् ॥

अनिलं निलमाकाशं शून्यत्वसुभावितम् ।
प्रतिक्षेप्ता सदा गच्छेदधो अधगतां तदा ॥

विसङ्ख्येयार्जितं पुण्यं कल्पैर्बहुविधैस्तदा ।
समुदानीय तथा बोधिं मयाग्रवरे जिने ॥

भाषितं मन्त्रतन्त्रार्थं गतिदेशनिरत्ययम् ।
मूलकल्पं पवित्रं वै मङ्गल्यमघनाशनम् ॥

पटलं सविसरं प्रोक्तं नीलसूत्रान्तशोभनम् ।
नृपतीनां गुणमाहात्म्यं कालदेशप्रयोगितम् ॥

सद्धर्मं जिनपुत्राणां भूतलेऽथ तृजन्मिनाम् ।
कथितं लोकमुख्यानां मुनिसप्तमतं जिने ॥

बाषितः कल्पविस्तारः श्रीसम्पत्समभिवर्धनः ।
समूलो विसरपटलाख्यो मन्त्रतन्त्रसमर्चितो ॥

यो हीहिमं सूत्रवरं मुख्यं धर्मकोशं जिनोर्जितम् ।
प्रतिक्षेप्तारो भुवि मर्त्यां वा अवीचौ नरकान्तकौ ॥

महाकल्पाननेकां वै चोपवर्णिताम् ।
यदा काले तु मर्त्याः कदाचित् कर्हचिद् भवेत् ॥

दरिद्रो व्याधितो मूर्खो जायते म्लेच्छजन्मिनः ।
लोके कुत्सतां याति कुष्ठव्याधी भवेत् ॥

दुर्गन्दोऽथ वीभत्स व्यङ्गो अन्ध एव सः ।
भीमरूपी सदारूपी सदारूक्षः प्रेत व दृश्यते भुवि ॥

कुशलो दीनचित्तश्च कुनखः कुत्सितस्तथा ।
कृमिभिर्भक्ष्यमाणस्तु दद्रुकण्डूसमाकुलः ॥

अवासी परमवीभासः असम्भाषी चोपपद्यते ।
क्रमति *****(?) कुमतिर्याति पुनः पुनः ॥

प्द्फ़् १२१, प्। ६६६)

प्रतिक्षेप्ता च धर्मकोशस्तु जिनानां धातुपूजितम् ।
बहुदुःखसमायासां बहुमित्रमनाथवाम् ॥

जायते बहुधा मर्त्यः शोकदुःखसमाकुलः ।
यत्र यत्र गतिर्याति कुमतिस्तत्र जायते ॥

प्रतिक्षेप्तादिदं सूत्रं तत्र तत्रोपपद्यते ॥

इति ।

अथ मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्व
उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां
प्रतिष्ठाप्य कृताञ्जलिपुटः उत्फुल्लनयनः अनिमिषनयनः सर्वांस्तां
शुद्धावासभवनस्तान् देवपुत्राननेकांश्च भूतसङ्घां सन्निपत्रितां
धर्मश्रवणाय विदित्वैवं शाक्यमुनिं भगवन्तमेतमाहुः -

आश्चर्यं भगवं ! यावत् परमं सुभाषितोऽयं धर्मपर्यायः । तद्
भगवं ! भविष्यत्यनागतेऽध्वनि सत्त्वा विषमलोभाभिभूताः सत्त्वाः
पञ्चकषायोद्रिक्तमनसोऽश्राद्धाः कुहकाः खटुकाः कुशीलाः ते मन्त्राणां
गतिमाहात्म्यपूजित कालदेशनियमं मन्त्रचर्याहोमजपनियमकल्पविशरां न
श्रद्धास्यन्ति । अबुद्धवचनमिति कृत्वा प्रतिक्षेप्स्यन्ते । क्लिष्टमनसो भूत्वा कालं
करिष्यन्ति । ते दुःखां तीव्रां खरां कटुकां वेदनां वेदयिष्यन्ति ।
महानरकोपपन्नाश्च ते भविष्यन्ति । तेषां भगवं ! दुःखितानां सत्त्वानां
कथं प्रतिपत्तव्यम् ! महाकारुणिकाश्च बुद्धा भगवन्तः ॥

अथ भगवां शाक्यमुनिर्मञ्जुश्रियं कुमारभूतं मूर्ध्नि
परामृश्यामन्त्रयते स्म - साधु साधु खलु पुनस्त्वं मञ्जुश्रीः ! यस्त्वं
सर्वसत्त्वानामर्थे हिताय प्रतिपन्नः । साधु पुनस्त्वं मञ्जुश्रीः ! यस्त्वं
तथागतमेतमर्थं प्रश्नसि । तेन हि त्वं मञ्जुश्रीः ! शृणु । साधु च सुष्ठु च
मनसि कुरु । भाषिष्येऽहं ते सर्वसत्त्वानामर्थाय हिताय सुखाय
लोकानुकम्पायै देवमनुष्याणां च
सर्वमन्त्रचर्यानुप्रविष्टबोधिमार्गनियुञ्जानधर्मधातुपरमूर्त्योपाश्रयलिलिप्स्
अयां मरणकालसमये **(?)र्त्तव्योऽयं ***** (?) ***(?)रहस्यं कुमार !

प्द्फ़् १२२, प्। ६६७)

नमः सर्वतथागतेभ्योऽर्हद्भ्यः सम्यक् सम्बुद्धेभ्यः । ॐ कुमाररूपिणि
विश्वसम्भव आगच्छागच्छ । लहु लहु भ्रूं भ्रूं हूꣳ हूꣳ जिनजित् मञ्जुश्रीय
सुश्रिय तारय मां सर्वदुःखेभ्यः फट् फट् शमय शमय । मृतोद्भवोद्भव
पापं मे नाशय स्वाहा ।

एष मञ्जुश्रीः त्वदीयं परमहृदयं सर्वशान्तिकरं सर्वपापक्षयं
सर्वदुःखप्रमोचनमायुरारोग्यैश्वर्यपरमसौभाग्यवाक्यसञ्जननं
सर्वविद्याराजसत्तेजनं च समनन्तरभाषिते शाक्यमुनिना बुद्धेन भगवता ।
इयं महापृथिवी सशैलसागरसत्त्वभाजनसन्निचयपर्यन्ता षड्विकारं
प्रकम्पति भाभूत । सर्वाश्च गतयः प्रेततिर्यग्यमलोकसर्वसत्त्वदुःखानि
प्रतिप्रस्रब्धानि । अयं च विद्याराजा मञ्जुश्रीर्मनसि कर्तव्या । न च तस्मिन् समये
सद्धर्मप्र्तिक्षेपेण चित्तं भवेयुः । न च मारा पापीयांसः अवतारं लप्सन्ते ।
सर्वविघ्नविनायकाश्चापक्रमन्ते । एवं च चित्तमुत्पादयितव्यम् । किं मया
शक्यं बुद्धानां भगवताम् अचिन्त्यबुद्धा बोधिधर्मा चिन्तयितुं वा
प्रतिक्षेप्तुं वा बुद्धा भगवन्तो ज्ञास्यन्तीति ॥

आर्यमञ्जुश्रीमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात्
पञ्चाशतिमः अनुशंसाविगर्हणप्रभावपटलविसरः परिसमाप्त इति ।
प्द्फ़् १२३, प्। ६६८)