५३

अथ त्रिपञ्चाशः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः तस्मात् समाधेर्व्युत्थाय महासागरोपमायां
पर्षन्मण्डलं धर्मं देशयमानः सर्वसत्त्वानां
सर्वभूतगणानामग्रतः सन्निषण्णाः तत्र
वज्रपाणिप्रमुखानामनेकबोधिसत्त्वसङ्ख्येयसहस्रां शारिपुत्रप्रमुखाम्
अनेकासङ्खेयार्हत्सहस्रां वैश्रवणप्रमुखाम्
असङ्ख्येयार्चचातुर्महाराजिकदेवपुत्रां शक्रप्रमुखां त्रायस्त्रिंशाम्
असङ्ख्येयदेवपुत्रां
सुयामसन्तुषितनिर्माणरतिपरनिर्मितवशवर्तिब्रह्मकायिकब्रह्मपुरोहित-
महाब्रह्मपरीत्ताभाप्रमाणाभास्वरैर्यावत् पुण्यप्रसवा बृहत्फलां
बृहातपाकनिष्ठा देवानामन्त्रयते स्म । शृण्वन्तु भवन्तो देवसङ्घाः !
सर्वबोधिसत्त्वार्यश्रावकाः !

अनित्याः सर्वसंस्कारा उत्पादव्ययधर्मिणः ।
उत्पद्य हि निरुद्ध्यन्ते तेषां व्युपशमः सुखम् ॥

अविद्याप्रभावाः सर्वे उत्पद्यन्ते सहेतुकाः ।
सहेतुं दुःखमूलं तु स्कन्धा ह्युक्ताः समोदयाः ॥

तेषां निरोधिनी विद्या सुखहेतुसुखक्रियाम् ।
दुःखप्रहाणमित्युक्तं सङ्क्षेपेण निवारणा ॥

तदेव त्रिविधं यानं निर्दिष्टं च मया इह ।
अनित्यदुःखमानात्मानो क्षणिकं सर्वसंस्कृतम् ॥

शून्यं सदा सर्वदा सर्वं निर्दिष्टं भवबन्धनम् ।
तद्विरागा त्रिधा यान्ति ये सत्त्वा गोत्रनिसृता ॥

बोधिसत्त्वास्तदा बुद्धा प्रत्येका बोधिनिश्रिताम् ।
तथा परेह्यहरहन्नो वीतरागा महर्द्धिका ॥

श्रावकीं बोधिनिसृत्य त्रिधा शान्तिगता हि ते ।
एष धर्मो समासेन निर्दिष्टो मे शुभाशुभम् ॥

अशुभं वर्जयेन्नित्यं सर्वदा शुभमाचरेत् ।
अहिंसां सर्वभूतानां यथा धर्मो प्रकाशितः ॥

एक एव भवेन्मार्गं धर्माणां गतिपञ्चके ।
अनाश्रवश्च यो धर्मो भूत****(?)शृतः ॥

प्द्फ़् ३५, प्। ५८०)

स एष कथितो मार्गः आदिबुद्धैः पुरातनैः ।
मयापि कथितं सर्वं शान्तनिर्वाणगामिनम् ॥

धर्मकोटिं समासृत्य भूतकोटिं तु लभ्यते ।
अकोटी सर्वधर्माणां भूतकोटिमुदाहृता ॥

एष धर्मः समासेन द्विविधैव प्रकाशितम् ।
शृण्वन्तु सर्वे देवा वै बोधिसत्त्वा महर्द्धिकाः ॥

अर्हन्तः श्रावका मह्यं निर्वाण मे यदा भुवि ।
अभूत् सालवने मध्ये हिमवत्कुक्षिसम्भवे ॥

नद्यां हिरण्यवत्यायां मल्लानामुपवर्तते ।
यमकशालकवने मध्ये निर्वाणं मे भविष्यति ॥

यावत् सञ्ज्ञी तथा नगरे चैत्ये मकुटवर्धने ।
नदीतीरे सदा रम्ये निर्वाणं मे तदा भुवि ॥

सर्वे वै बोधिसत्त्वास्तु श्रावकाश्च महर्द्धिकाः ।
देवा नागा तथा यक्षा लोकपाला महर्द्धिका ॥

शक्रब्रह्मसुयामाश्च अकनिष्ठाद्यास्तथा परे ।
सर्वेषां सन्निपाता वै तस्मिं स्थाने भविष्यति ॥

यमकशालकवने तत्र मल्लानामुपदर्तते ।
गङ्गायामुत्तरे तीरे महानद्यास्तथा परे ॥

हिमाद्रेर्दक्षिणे भागे अभूत् सालवने वने ।
अपश्चिमे मे तथा शय्या तस्मिं स्थाने भविष्यति ॥

नद्या तीरे तथा रम्ये हिरण्याख्ये शुभे तटे ।
सर्वदेवसङ्घाद्यां सन्निपातो भविष्यति ॥

मनुजैः नृपवरैः सर्वै मनुष्यामनुष्यसम्भवैः ।
सर्वभूतैस्तथा मर्त्यै वालिशावालिशैस्तदा ॥

महोत्सवमहोत्साहं तस्मिं स्थाने समागमम् ।
कृतमन्त्रमहं दिव्यं मच्छरीरे तु सामिपे ॥

प्द्फ़् ३६, प्। ५८१)

निरामिषं तु सदा स्थाप्य शान्तिमाप्नोति निर्वृतिम् ।
धर्मकोटि परित्यज्य भूतकोटिं तु संविशेत् ॥

अपश्चिमा मे तथा जातिः नगरे कपिलवास्तुके ।
शाक्यानां च कुले मुख्ये जातोऽहं भवचारके ॥

ततोऽहं त्यज्य दुःखात्म्यं निर्यातोऽहं गृहात्तथा ।
बहुतीर्थां तथा सेव्य न च प्राप्तो मृतः पुनः ॥

दुःकरं च मया चीर्णं कायं सन्ताप्य तश्चैनम् ।
षडाब्दमुषितः भ्रष्टदेहं वापि विशुष्कतः ॥

न च किञ्चिन्मया लब्धं येन ज्ञानमवावृतम् ।
ततोत्थाय मया तत्र आहारं कृथ शुभोदनम् ॥

देवतासूचितं मार्गं गतोऽहं तत्र भूतलम् ।
नद्या नैरञ्जनातीरे वृक्षराजे सुशोभने ॥

नानापुष्पसमाकीर्णे तथेरण्येऽथ भूतले ।
महावनफलोपेते नानावृक्षसमुद्भवे ॥

महानदी परिवेष्ट्यान्ते तरुमूले ततो ह्यहम् ।
यो स्वकं दृष्टमात्रं तु भूभागं धृतिसंलभे ॥

तथैवाहं तं तरुं दृष्ट्वा पर्णशाखोपशोभितम् ।
महावृक्षं महाच्छायं मूलगूढोपशोभितम् ॥

अश्वत्थेऽश्वत्थतां गच्छेत् तरुमूले निपद्य वै ।
धृतिं तत्राभिविन्दामि ध्यानं चापि समाधिकम् ॥

प्राप्तं तत्र अनाशां वै रात्र्यन्ते जातिरन्तकम् ।
मारेण बहुधा विघ्ना अनेकाकारसुयोजिताः ॥

भग्नसैन्यपरावृत्य गतोऽसौ स्वभवनं पुनः ।
तदर्थे **** (?) वै भाषिता बहुधा पुनः ॥

अनेका***(?)योगाश्च ध्याना ज्ञानाश्च भाषिताः ।
त्रिधा या****(?)तत्र चरितं सर्वसेवितम् ॥

प्द्फ़् ३७, प्। ५८२)

प्रतिपक्षा हि दोषाणां त्रिधा चैव प्रकाशितः ।
ततोत्थाय पुनर्गत्वा बुरुबिल्वां शोभोदकाम् ॥

स्नात्वाम्भसे तत्र ऋषिं प्रव्रज्य सशिष्यकाम् ।
सत्त्वार्थं बहुधा कृत्वा प्रक्रान्तोऽहं ततः पुनः ॥

पुनः काशिपुरीरम्याम् अनुपूर्व्या समाविशेत् ।
तत्र स्थाने तु गत्वा वै परा बुद्धा महर्द्धिकाः ॥

तत्राहं स्थितो देशे जने काशिजने स्वयम् ।
प्रवर्त्य चक्रं साधर्म्यशान्तिं निर्वाणकारकम् ॥

ससुरासुरलोकानां गतिं पञ्चासुनिसृताम् ।
सर्वभूतसुखार्थाय तत्र धर्म प्रकाशितः ॥

आदिबुद्धैः पुरा तत्र धर्मचक्रं प्रवर्तितम् ।
मयापि दिशि तत्र धर्मचक्रो ह्यनुत्तरः ॥

भवमुक्तिसुखार्थाय सत्त्वदोषनिवारणा ।
प्रवर्त्त्य चक्रं ब्राह्मां वै क्षेमं शान्तपरायणम् ॥

भवमार्गविनाशार्थं चतुःसत्यसमाधिजम् ।
आर्याष्टाङ्गिकं मार्गं चतुर्ब्राह्मविभूषितम् ॥

सप्रतीत्य समुत्पादं द्वादशाकारकारितम् ।
अविद्यानिरोधसंयुक्तं विद्यामुत्पादनेमिजम् ॥

भ्रामिता कोटितत्थ्यं वै भूतकोटिसुकोटिजम् ।
अनुलोमविलोमाभ्यां गतिमाहात्मनेमिजम् ॥

सम्प्रदेशशिवं चक्रं बहुसत्त्वा विमोक्ष च ।
विमुञ्च्य काशिपुरीं रम्यां श्रावस्त्याहं तदा गमे ॥

तीर्थिकानां तथा वर्ज्या प्रातिहार्यैर्विकुर्वतैः ।
शङ्कश्यते तथा कृत्वा ऋद्धिर्जनपदे तदा ॥

बहुतीर्थायतनां स्थानां सम्***(?) ** (?) पुनः ।
अग्निभाण्डे जने कृत्वा देवावतरणं शुभम् ॥

प्द्फ़् ३८, प्। ५८३)

त्रायस्त्रिंशेषु देवेषु शक्रसंयोज्य धर्मताम् ।
अकनिष्ठाद्यां तथा देवां ब्रह्मादीशपुरन्दराम् ॥

सवैश्रवणयक्षेन्द्रां चतुर्महाराजकायिकां सदा ।
मत्ताकरिपमाणाश्च त्रिवीणां मालधारिणाम् ॥

देवां यणगणां सर्वां भौमां दिव्यान्तरीक्षकाम् ।
आर्यां यथगणाध्यक्षां सर्वांश्चैव सुरासुराम् ॥

कृत्वा धर्मफले युक्तां निर्वाणानुगसत्रिवाम् ।
श्रेयसैव तदा योज्या बहुप्राणामचित्तकाम् ॥

असङ्ख्या गणना तेषां संसारान्तादनन्तकाम् ।
महासाहस्रलोकानां धात्वाध्यामचित्तकाम् ॥

बहु सर्वं सदा सत्ये भूतार्थे सन्नियोज्य वै ।
इहाहमागतस्तत्र शुद्धावासोपरि स्थितः ॥

प्रवर्त्य मन्त्रसद्धर्मत्रिधायानसमानुगम् ।
सत्त्वानां विनयमागम्य कल्पराजमिदं पुनः ॥

प्रकाश्ये बहुधा लोके मञ्जुघोषस्य दत्तवाम् ।
निर्वृते तु मया लोके शून्यीभूते महीतले ॥

मञ्जुश्रियोऽथ सत्त्वानां बुद्धकृत्यं करिष्यति ।
आरक्षणार्थं सद्धर्मां जिनेन्द्राणां परिनिर्वृता ॥

सतता रक्षणा नित्यं मञ्जुघोषो भविष्यति ।
मन्त्रप्रभावनार्थं तु कथितम् कल्पविस्तरम् ॥

तस्मिं काले युगान्ते वै महाघोरे सुदारुणे ।
नराधिपा महाक्रूरा परस्परवधे रताः ॥

पापकर्मा दुराचारा अल्पभोगा तदा युगे ।
भविष्यन्ति न सन्देहो तस्मिं काले युगाधके ॥

ममागम्य च पूजार्थम् अभूत् सालवने वने ।
नदीहिरण्यावतीतीरे चैत्ये मकुटबन्धने ॥

प्द्फ़् ३९, प्। ५८४)

परिनिर्वृते शयानं मे शान्तधातुसमासृते ।
चितामरोपिते देहे सम्भोगे भोगवर्जिते ॥

दृष्ट्वेव तत् पुरा कर्मं मामेवाद्भुतचेष्टितम् ।
मयैव विनयतागम्ये बुद्धवैनेयचेष्टिते ॥

चरितं तं शुभं चित्रं स्मृत्वा सर्वे नराधिपाः ।
सर्वे पूजां करिष्यन्ति सदेवासुरमानुषाः ॥

समागत्यथ भूपालाः सर्वे पूजाहोत्सवाम् ।
करिष्यन्ति न सन्देहः तस्मिं काले ममान्तिके ॥

चितामारोपिते देहे सामिषे गुणमुद्भवे ।
अशुभान्ते शुभे चैव सर्वे पुण्यविवर्जिते ॥

भूतकोट्योऽथ शून्यास्ते पञ्चस्कन्धसमोदये ।
बहुसत्त्वा तु तं दृष्ट्वा महापुण्यार्थे तु योजिता ॥

महाश्रावका महात्मानः वीतरागा महर्द्धिका ।
बोधिसत्त्वास्तु सर्वे वै दशभूमिसमाशृता ॥

परिवार्य स्थिता सर्वे सर्वे चैवानुकम्पका ।
सर्वे वै देवसङ्घास्तु आर्या सपृथग्जना ॥

सर्वे चैतं महापुण्यं स्थानं चैकत्र माश्रितम् ।
चित्तप्रसादं प्रतिलेभेऽनित्यदुःखार्थमाश्रयम् ॥

सर्वे भूतगणा तस्थुः चैत्यान्तेऽपि समीपतः ।
पूजां च महतीं चक्रे चुचुक्रोश रुरोदनम् ॥

मुमुचुः साश्रुविन्दूनि सवाष्पाणि करुणेरिताम् ।
एवं च क्रोशिरे सर्वे अनित्यं दुःखशून्यताम् ॥

धर्मं दिदेशितवां बुद्धा नाम्प्रतेश्च महीतले ।
सैवाद्य मुनिवराः श्रेष्ठः सप्तमो ऋषिपुङ्गवः ॥

शाक्यजः सर्वसत्त्वाग्र्यो दर्शनं तस्य त्रिपश्चिमम् ।
स एष भगवां शेते अनित्यदुःखाभिनाषिणः ॥

प्द्फ़् ४०, प्। ५८५)

शून्यपरमार्थमाख्यायी आदिशान्तार्थभाषिणः ।
किमर्थं देवसङ्घा भो न प्रबोधयत तं प्रभुम् ॥

आगता इह सर्वे वै बुद्धपुत्रा महर्द्धिका ।
धर्मार्थिका महावीरा श्रावकाश्च महर्द्धिका ॥

सर्वे वै दुःखिता सत्त्वा मानुषाश्च सुरासुराः ।
समयो वर्तते ह्यत्र धर्मचक्रानुवर्तने ॥

उत्थातु भगवां क्षिप्रं बुद्धवेलानुवर्तनेः ।
महासाग्रे चले वोल्लङ्घ्या मुनितद्गतैः ॥

न चावमन्यां बहूं सत्त्वां चिरकालं समोभिजे ।
ध्यानं विमोक्ष संसेस्तु शान्तनिर्वाणमार्गे ॥

निषेप्तुं वा भूततो मुनिः * * * * * * * * * * (?) ।
एवम्प्रकारं ह्यनेकां बहुप्रलापां प्रलपवञ्चूरे ॥

तूष्णीम्भूताथ सर्वे वै देवसङ्घा महर्द्धिका ।
आक्रन्दमतुलं कृत्वा सप्रणामा ततस्थिरे ॥

चुकूचु विरः मुत्कोश्य साश्रुकण्ठा सगद्गदा ।
सशोकाचित्तमनसो ब्रह्माद्याः ससुरासुराः ॥

मनुजा नराधिपाः सर्वे निषण्णास्तत्र महीतले ।
अपरः शाक्यजो मुक्तः वीतरागो महर्द्धिकः ॥

ज्ञानिनो देवदेवस्य बुद्धस्यैव महात्मने ।
अनिरुद्धो नामतो भिक्षुः अनुजोऽसौ मनुजः शुभः ॥

सुसूक्ष्म निपुणो व्यक्तः गीतनीतिविशारदः ।
परिवारितो रहमुख्यैस्तु अनेकैश्चापि नराधिपैः ॥

स भाषे मधुरां वाचां निश्वसन्तः सुचेरिताम् ।
करुणार्द्रचेतसां क्षिप्तां मल्लानां सनराधिपाम् ॥

मां तावन्मार्षा ह्यत्र चितावग्निं प्रदायथ ।
यावद् भगवत। पुतर्ः अग्रतो धर्मतोद्भवः ॥

प्द्फ़् ४१, प्। ५८६)

महाकाश्यपनामेन श्रावकोऽसौ महर्द्धिकः ।
महामुने ह्यग्रधीजातब्राह्मणोऽसौ निरामिषः ॥

मगधानां जने जातः पर्वते तत्र समाहितः ।
तिष्ठते ग्रहपिप्पले नगरे राजगृहे वरे ॥

स एवागमनं क्षिप्रं करिष्यति न चान्यथा ।
या तत्र देवताभक्ता स चेहोल्कां निवारयेत् ॥

मा तावच्चितिसन्दीपं करिष्यथ वृथा श्रमम् ।
यावत् सो महर्द्धिको ह्यग्रः श्रावको मुनिनौरसः ॥

प्रदक्षिणीकृत्य गुरवे बुद्धस्त्रैलोक्यपूजिते ।
मूर्ध्ना प्रणम्य पादौ शास्तुनो लोकपूजितौ ॥

तदायं चितिदीपार्थं सर्वे तत्र करिष्यथ ।
आदीप्ता चैत्यभूताद् भविष्यति तदा इमा ॥

सर्वे मा वृथा कुर्वं श्रमं केवल भो इह ।
एवमुक्तास्तु ते सर्वे अनिरुद्धेन धीमता ॥

निषण्णा सर्वमल्लास्तु मानुषास्ते सनराधिपाः ।
मानुषाणामुत्पन्नोऽहं मानुषैश्चापि वर्धितः ॥

भोगैर्बहुविधा चान्यैः कलाशिल्पशुभोदयैः ।
मनुष्याणां बोधिलब्धा मे तरुमूले महीतले ॥

मनुष्याणां धर्मनिर्दिष्टः सर्वसत्त्वोपकारकम् ।
अत एव मनुष्याणां चिता दीपार्थयोजिता ॥

मनुष्योऽहं सर्वभूतानाम् अग्र्यत्वं च समागतः ।
मनुष्यलोके च शान्ति मे परिनिर्वाणं तु कल्पितम् ॥

ये केचित् सर्वबुद्धा वै अतीतानागतवर्तिना ।
सर्वे वै मनुष्यलोकेऽस्मिं मनुष्या देहमुद्भवा ॥

जातिबोधि तथा चक्रं साधर्म्यं चरितुं शुभम् ।
शान्तिं समाविशेत् सर्वे प्रत्यकामर्हतस्त्रिधा ॥

प्द्फ़् ४२, प्। ५८७)

मानुषीं तनुमाशृत्य गता शान्तिमनुत्तराम् ।
उपकारं मया तेषु कृतं कल्पामचिन्तिकाम् ॥

आपश्चिमं मया शान्ते शीतीभूते निरोदये ।
स्थापिता धातवस्तत्र शून्यीभूते महीतले ॥

मनुष्याणां हितार्थाय पूजानुग्रहकाम्यया ।
ससुरासुरलोकानाम् ऋषियक्षगरुत्मताम् ॥

राक्षसां प्रेतकूश्माण्डां पिशाचां प्रेतमहर्द्धिकाम् ।
सर्वांश्चैव भूतानां सग्रहाश्चैव मातरान् ॥

सर्वांश्चैव तथा लोकां धात्वाचिन्त्यामसङ्ख्यकाम् ।
सर्वप्राणिभृतांश्चैव पूजनार्थाय धातवः ॥

स्थापिता ते तदा काले शून्यीभूते महीतले ।
केचि द्रव्यागतैः मर्त्यैः देवराजैश्च चापरैः ॥

पातालवासिभिश्चान्यैः दानवेन्द्रैर्महर्द्धिकैः ।
नागराजैस्तथा दैत्यैः धातवो मे पृथक् पृथक् ॥

अपहृत्य हृतार्था ये गुणवन्तोऽथ महर्द्धिकाः ।
करिष्यन्ति तदा पूजां नीत्वा स्वभवनं पुनः ॥

भविष्यन्ति न सन्देहः सर्वबुद्धा महर्द्धिकाः ।
उत्तमाधममध्यस्था त्रिधा चित्तप्रसादतः ॥

भविष्यन्ति ते त्रिधा लोके बुद्धखड्गरर्हद्गता ।
त्रिधा यानं तथा लोके त्रिप्रकारं समोदितम् ॥

महायानानुवर्णिनं मार्गं तत्कर्माशृतनिर्गता ।
भविष्यन्ति तदा लोके प्रत्येकां बोधिनिःश्रिताम् ॥

श्रावकाश्च परे तत्र वीतरागमहर्द्धिका ।
भविष्यन्ति तदा लोके त्रिधा गोत्रविभूषिता ॥

मही***(?) महाभोगा महासौम्याथ चक्रिणाः ।
दिव्यां मानुषसम्पत्तीः अनुभूय चिरं तदा ॥

प्द्फ़् ४३, प्। ५८८)

कालमासाद्य अन्ते वै त्रिधा शान्तिं गता हि ते ।
आदिमद्भिः पुरा बुद्धैः वर्त्तमानैर्ह्यनागतैः ॥

सर्वेषाम् एष मार्गो वै यथायं सम्प्रकाशितः ।
तत्र निर्वाणभूमा वै निषण्णाः सर्वदेवता ॥

विभिन्नमनसोद्विग्नाः सहगद्गदभाषिणः ।
एवमाह तदा सर्वे अहो कष्टं ह्यनित्यता ॥

बुद्धमहर्द्धिका लोके परिनिर्वाणासृतापि ते ।
एवमुक्तास्तु ते सर्वे देवराजा महर्द्धिका ॥

तूष्णीम्भूताथ तस्थिरे * * * * * * * * (?) ।
मागधानां जने श्रेष्ठे कुशाग्रपुरिवासिनाम् ॥

पर्वतं तत्समीपं तु वाराहं नाम नामतः ।
तत्रासौ ध्यायते भिक्षुः गुहालीनोऽथ पैपले ॥

श्रावको मे सुतो ह्यग्रः औरसो धर्मतोद्भवः ।
महाकाश्यपनामासौ निषण्णो गुहवरे तदा ॥

पिण्डपातं तदा भुक्त्वा निषण्णश्चिन्तयेत् स्वयम् ।
बहुकालं मया बुद्धो वन्दितोऽसौ महामुनिः ॥

साम्प्रतं गन्तुमिछामि स्वयम्भुवं तं नरोत्तमम् ।
कुत्र वा तिष्ठते भगवां शाक्यतो मुनिसत्तमः ॥

समन्वाहरति तत्रस्थः महाकाश्यपविप्रराट् ।
एवं समन्वाहृतवां नुं चित्तेनैव मुनिना मुनिम् ॥

दिव्येन चक्षुषा लोकं सर्वलोकांश्चावलोकयेत् ।
अकनिष्ठाद्यं तथा लोकाम् अवभास्या लोकधातवः ॥

सर्वां समग्रसत्त्वाख्यां महासाहस्रोद्भवोद्भवाम् ।
श्रावकानां गोचरं यावत् पश्यते दिव्यचक्षुषा ॥

शासनं निर्वृतं शान्तं शीतीभूतं निराभिषम् ।
परिवारितं समन्ताद् वै देवसङ्घैः महर्द्धिकैः ॥

प्द्फ़् ४४, प्। ५८९)

मनुजैर्नराधिपैश्चापि असुरैर्यक्षराक्षसैः ।
सर्वभूतगणैश्चापि बोधिसत्त्वैर्महर्द्धिकैः ॥

महायशैः श्रावकैश्चापि प्राज्ञः धूर्धरतां गतैः ।
सरागैर्वीतरागैश्च दिव्यार्यैर्मनुजैस्तदा ॥

चितामारोपितं वीरं बुद्धमादित्यबान्धवम् ।
देवदेवं तदा श्रेष्ठं मुनीनां सत्तमं प्रभुम् ॥

परिवारित समन्ताद् वै भूपालैर्दीपवासिभिः ।
तृणोल्कैर्गृहीतसंहस्तैः मल्लैश्चापि मनुजेश्वरैः ॥

नादीपयितुं समर्था ते देवताभिर्निवारिता ।
व्रतिना चैवमुक्तेन अनिरुद्धेनैव भिक्षुणा ॥

साश्रुकण्ठं च चोत्कृष्टां विघुष्टांश्चैव मेदिनीम् ।
हाहाकाररवं घोरं दुन्दुभीनां च नादितम् ॥

दिव्यम् ऋषिगणाकीर्णम् अप्सरां गणसंस्तुतम् ।
सिद्धविद्याधरीगीतं किन्नरोद्गीतं च तद् वनम् ॥

मधुराकूजितोद्घुष्टं पक्षिणां रुदितं शुभम् ।
चित्रं मनोज्ञवादित्रं दिव्यमानुष्यनादितम् ॥

अप्सरां गणसङ्गीतं सिद्धविद्याधरोचितम् ।
योगिभिः सर्वतः कीर्णम् अभूत् सालवनं वनम् ॥

समन्तात् परिवृतं श्रेष्ठं शयानं मुनिपुङ्गवम् ।
ततोर्ध्वं निःश्वस्य सशोको वै वीतशोको ॥

अश्रुबिन्दुं प्रमुञ्चं वै श्रमणः काश्यपस्तदा ।
अग्रश्रावको मह्यं पृथिव्या मा वर्तते तदा ॥

वाचं चाभाषते क्षिप्रम् अहो कष्टं प्रवर्तते ।
य*(?) नाम तथा बुद्धाः परिनिर्वर्त्य नाश्रवाः ॥

अनित्यं दुःखशून्यं तु इह तेनैव भाषितम् ।
न दृष्टो (?)तो विश्वम् अ(?)नुवर्तिनम् ॥

प्द्फ़् ४५, प्। ५९०)

ततोत्थाय ततः क्षिप्रं मगधानां नृपतिं व्रजेत् ।
अजातशत्रुं दुःखार्त्तं पितृशोकसमर्पितम् ॥

गृहं तस्य तदा गत्वा तमुवाच नराधिपम् ।
निर्वृतोऽसौ महाराज ! सम्बुद्धो द्विपदोत्तमः ॥

क्षिप्र योजय मानं तु गच्छामो शास्तुमन्तिकम् ।
धरणिस्थं शयानं वै निर्ज्वरं गतचेतसम् ॥

सर्ववैरभयातीतं सम्भोग्यं कायसप्तमम् ।
श्रुत्वा तद्वचनं क्रूरं सुदुःखी सौ नृपतिः पुनः ॥

अन्तः प्रलापं क्रन्दन्तः वाचां भाषे तदा नृप ।
उभाभ्यामपि भ्रष्टोऽहं शास्तुनो पितरस्य च ॥

सर्वैर्बान्धवै त्यक्त्वा अविश्वास्योऽहं तथा जने ।
पतितोऽहं घोरनरकं कः शरण्यं वृणोम्यहम् ॥

परित्रायस्व महावीर श्रावकः शास्तुमग्रकः ।
महाकाश्यपो महातेजा नास्ति मे जीवितम् इह ॥

इत्येवमुक्त्वा तु नृपो मुख्यो मागधानां नराधिपः ।
प्रपतितः तत्क्षणामुर्व्याम् अग्रश्रावकपादयोः ॥

निश्चेष्टो मूर्च्छितस्तत्र सहसा शयते महीम् ।
त्वं कुमार तदा कालं मञ्जुघोष महर्द्धिक ॥

समन्ताद् विचरसे लोकां सत्त्वानुग्रहकाम्यया ।
चितामारोपिते देहे मम स्थाने वने तदा ॥

मन्त्र त्वं निषण्णोऽभूद् बोधिसत्त्वगणावृतः ।
मच्छरीरं हि पूजार्थं त्वया कृत्वेह महीतले ॥

समन्तादलोकयसे भूतां को हि दुःखी कमुद्धरेत् ।
इत्यहं पतितो भूमौ कुमारो गम्भीरतथ्यधीः ॥

मञ्जुश्रिया थ त्वया**(?) भूपालस्यातिदुःखिते ।
तत्रस्योऽपि त्वया तस्य त्वयैव विनयिनोऽसौ ॥

प्द्फ़् ४६, प्। ५९१)

बोधिसत्त्वावगम्यो यो न तच्छक्यं महर्द्धिकैः ।
दैवतै ऋषिभिश्चान्यैः प्रत्येकार्हश्रावकैः ॥

तत्रस्थः स्वप्नवत्पश्येन्मञ्जुघोषं नराधिपम् ।
त्वयैव ऋद्धिमाविष्टः स राजा शोकमूर्च्छितः ॥

पश्यतेऽसौ तदा स्वप्ने प्रत्यक्षं च बालिनम् ।
कुमारं विश्वमात्मानं मञ्जुघोष महर्द्धिकम् ॥

विकुर्वन्तं तथा धर्मं बोधिसत्त्वं सवालकम् ।
विचित्रम् अचिन्त्यताम् ऋद्धिं मञ्जुश्रीः त्वत्प्रसादतः ॥

अवीचिगमनं नृपतेः उत्थानं च सत्त्वरम् ।
विविधां धर्मतांश्चैव अपायं नाशशोभनम् ॥

गतिमाहात्म्यगुणांश्चैव सर्वश्रावकवर्जिताम् ।
विस्तरेण ततः कृत्वा सूत्रकौ कृत्यनाशनम् ॥

अजातशत्रोर्नृपतेः विनोदं सूत्रकौ कृत्यनाशनम् ॥

अजातशत्रोर्नृपतेः विनोदं चातिविस्तरम् ।
समासेन इदं प्रोक्तं विस्तरार्थार्थभूषितम् ॥

वचनं सर्वबुद्धानाम् आदिमध्यावसायिनाम् ।
सर्वसत्त्वहितार्थाय भाषितः कल्पविस्तरः ॥

त्वं कुमार तदा काले मञ्जुश्रीर्वच सर्वतः ।
विनेष्यसि महीपालां पापकर्मानुवर्तिनाम् ॥

अचिन्त्यं ते ऋद्धिविषयं विनेयं वापि अचिन्तितम् ।
सर्वभूतगणांश्चैव त्वं विनेता भविष्यसि ॥

इत्येवमुक्त्वा महावीरो बुद्धानां च महाद्युतिम् ।
मञ्जुघोषं तदा काले शुद्धावासोपरिस्थितम् ॥

उवाच वदतां श्रेष्ठः सम्बुद्धो द्विपदोत्तमः ।
भविष्यसि त्वं सम्बुद्ध बहुकल्पाभिनिर्गतैः ॥

अचिन्त्यैर्गणनास****(?)नुषैर्गणनासमैः ।
मञ्जुध्वजोऽथ नामो वै बुद्धा लोके भविष्यसि ॥

प्द्फ़् ४७, प्। ५९२)

बुद्धकृत्यं तदा कृत्वा अनुपूर्वेण वो सदा ।
विमोच्यथ बहुं सत्त्वां परिनिर्वाणं ते भविष्यति ॥

इत्युक्त कुमारो वै बालरूपी महर्द्धिकः ।
स दीर्घं निःश्वस्य संविग्नः करुणाविष्टचेतसा ॥

चिरमालोक्य सम्बुद्धं साश्रुबिन्दून् मुमूच्चचु ।
सप्रणामाञ्जलिपुटः निषसाद ततः पुनः ॥

ततो क्ष्मातलाधस्थः अजाताख्यो नृपोत्तमः ।
प्रणम्य शिरसा विप्रं महाकाश्यपमद्भुतम् ॥

विबुद्धश्चेतनायातं पादौ वन्द्य अग्रणः ।
निःश्वस्य च चिरं कालं विस्तरार्थं निवेद्य च ॥

निषण्णो नृपतेः पुत्रः अजाताख्यो मगधेश्वरः ।
महाकाश्यपं ततो वव्रे गच्छामोस्तं चितालयम् ॥

पूजितं चैत्यबिम्बस्थम् उपकारार्हमानुषाम् ।
तत्रस्थः श्रावको ह्यग्रः ऋद्ध्या चैवमुपागमम् ॥

तस्योत्वहृते चित्तम् अयुक्तं मम ऋद्धिये ।
पद्भ्यां गन्तुमिच्छामि महाचैत्तं समागमम् ॥

अपश्चिमे गतिः शास्तुः दर्शनार्थं तु मागमम् ।
ततोऽर्धपथे तस्थुः सङ्घाराते तु स व्रती ॥

यावत् पश्यते तत्र सङ्घारामनिवासिनम् ।
महल्लं भिक्षुनवकमुमायसत्त्वं विमोइतम् ॥

स दृष्ट्वा उपसङ्क्रान्त महल्लो तं चिरोषिणम् ।
महेशाख्यं महाभागं शुद्धसत्त्वनिरामयम् ॥

उपसङ्क्रम्य तं विप्रं वन्दित्वा पादयोस्तदा ।
उवाच तं महाभागं स्वागतं ते किमागतम् ॥

कुत्र वा यास्यते क्षिप्रम् उद्विग्नो वा *(?) वतिष्ठसे ।
उवाच सो तम् ऋषिं तं बालम् आयुष्मं न श्रुतं त्वया ॥

प्द्फ़् ४८, प्। ५९३)

शास्ता वै सर्वलोकस्य सम्बुद्धो द्विपदोत्तमः ।
पिता मे अग्रधीः बुद्धः प्रदीपार्चिरिव निर्वृतः ॥

अस्तं गतो महावीरः शून्यीभूता हि मेदिनी ।
सर्वशून्यास्तथा लोकाः शून्या भूताश्च मे दिशाः ॥

ततः प्रहृष्टो महल्लोऽसौ विपरीतो बालचेतनः ।
प्रसह्य वचनं चाह निर्वृतोऽसौ प्रदीर्घकः ॥

प्रलम्बबाहुरत्युच्चच्छत्राकारसमशिरः ।
अस्माकं नायको ह्यग्रः शिक्षाशिक्षसुवर्तिनः ॥

यथेष्टं विचरिष्यामि साम्प्रतं तेन निवृते ।
इत्येवमुक्तो महल्लेन प्रहृष्टोऽसौ महर्द्धिकः ॥

भृकुटिं कृत्वा ततो वक्त्रे हुङ्कारोऽसौ प्रयोजयेत् ।
रुरुष्य तत्क्षणाद् विप्रः वासनाभावितो यतिः ॥

हन्यान्महीतले तत्र पादाङ्गुष्ठेन तत्क्षणात् ।
सर्वं प्रचलिता उर्वी पर्वतोच्चाः समो रवः ॥

क्षुभिताः सागराः सर्वे सर्वे वृक्षाश्च पर्वताः ।
कन्दरा गुहविन्यस्ता नागराजाश्च देवता ॥

नष्टा लोका मही तस्मिं काले चन्द्रभास्करौ ।
निवाता वा ततस्तस्थुः उल्काश्चापि पपेतुरे ॥

ततोऽसौ मन्त्रमिति ख्यातः श्रावकाणां कुलोद्भवम् ।
एकाक्षरः सहुङ्कारः सर्वकर्मकरः शुभः ॥

असाधितोऽपि करोत्येष जापमात्रेण मन्त्रराट् ।
सर्वशस्त्रंस्तथा स्तम्भं विषं स्थावरजङ्गमम् ॥

सर्वेषान्दुष्टसत्त्वानां जापमात्रेण स्तम्भनः ।
करोति कर्मवैचित्र्यम् अन्यांश्चैव विशेषतः ॥

ऋद्ध्या वावर्जितस्तेन विनयित्वा च तत्क्षणात् ॥

प्द्फ़् ४९, प्। ५९४)

श्रावकेण तदाग्रेण नीतोऽसौ चितिसन्निधौ ।
पद्भ्यां गतो हि सो भिक्षुः वीतरागो महर्द्धिकः ॥

गत्वासौ पश्यते तत्र मुनिनो देहचिताश्रिताम् ।
अनेकधा दैवसङ्घैस्तु महापूजां प्रवर्तिताम् ॥

विविधाकारवरोपेतां सर्वाकारसुभूषिताम् ।
चितामारोपितं देहं मुनिनो गौतमस्य वै ॥

दृष्ट्वा तु तं महाभागं महाकाश्यपमद्भुतम् ।
सर्वे ते वीतदोषा वै भिक्षवश्च महर्द्धिकाः ॥

सर्वे देवगणा भूताः हाहाकारं प्रमुञ्च्य च ।
आक्रन्द्य च महच्छब्दं रवं चापि सुशोकजम् ॥

प्रत्युद्गम्य ततः सर्वे देवनागा महर्द्धिकाः ।
उवाच तं महाभागं वन्दस्व द्विपदोत्तमम् ॥

तवैचोदीक्षणं तं विश्वा देवसङ्घा समानुषाः ।
सर्वे भूतगणाश्चैव ऋषयक्षनराधिपाः ॥

पितादीपनतं निष्ठा अशक्ता दीपयितुं चिताम् ।
ततोऽसौ वीतदोषस्तु महाभोगो महर्द्धिकः ॥

कृत्वा प्रदक्षिणं बाहु बहुधानुस्मृत्य तथागतम् ।
चितान्ते अन्तिमे भागे वन्दतेऽसौ महर्द्धिकः ॥

आयसीं च तदा द्रोणीं भित्वा पादौ विनिर्गतौ ।
वन्दित्वा पादयोर्मूर्ध्ना परामृश्य पुनः पुनः ॥

उद्वीक्ष्य बहुधा तत्र चरणौ मुनिवरे वरौ ।
प्रविष्टा भूयसस्तत्र आयसीं द्रोणिमाश्रितौ ॥

निषण्णोऽसौ ततोत्थाय वीतरागो महर्द्धिकः ।
परिवारोऽथ अर्हन्तैः वीतरागैर्महर्द्धिभिः ॥

राजा मागधो मुख्यः आगतोऽसौ चितान्तिके ।
अनुपूर्व्या तथा **(?) हस्त्यश्वरथवाहनैः ॥

प्द्फ़् ५०, प्। ५९५)

महासैन्या थ भूपालाः सर्वे सबलवाहनाः ।
आगता वन्दितुं तत्र मुनिं शाक्यमुनिं तदा ॥

शयानं भूतले शान्ते प्रान्तेऽरण्ये ।
नद्या हिरण्यवतीतीरे चैत्ये मकुटबन्धने ॥

शान्तधातुसमाविष्टे भूतकोटिसमासृते ।
मागधो नृपतिस्तत्र महासैन्यसमागतः ॥

सोऽपि पश्यति तं दिव्यं विविधाकारचेष्टितम् ।
महानुशंसं प्रभावं च आश्चर्यं भुवि मण्डनम् ॥

चैत्तदेहजं तत्र चितामारोपितं मुनिम् ।
आनन्दो नामतो भिक्षुः सुशैक्षे परिचारकः ॥

यमेव मनुजं श्रेष्ठं वत्सलो मे सदा रतः ।
भविष्यति तदा काले आर्त्ते विक्लबमानसः ॥

महाकाश्यपं ततो गत्य पादयोर्निपतितो भुवि ।
एवं चोवाच दुःखार्तः वेपथुन्ते सगद्गदः ॥

अद्य मे निर्वृतः शास्ता अनाथोऽहं स साम्प्रतम् ।
सतिमेलयनं त्राणं त्वमेव परिकीर्त्तितः ॥

तेनैव मुनिचन्द्रेण व्याकृतोऽहं तवान्तिके ।
सर्वक्लेशप्रहाणां तु अर्हत्वं त्वमन्तिके ॥

रात्र्यां पश्चिमे यामे निर्दिष्टं तेन जिनेन वै ।
त्रियते तुभ्य नित्यं वै मयैव परिनिर्वृतः ॥

बुद्ध कृत्यार्थ तुभ्यं वै कृतं तेन हितैषिणा ।
मयापि दुःखितः त्यक्त्वा शान्तियातो महामुनिः ॥

अनिरुद्धो नामतो धीमां समाश्वासयति तं यतिम् ।
मा रोदन्तथा शोचं मा शोकं च समाविश ॥

मा व्रजल्ल**(?)स्थानम् एतमेव समाश्रय ।
एष एव भवेच्छास्ता निर्वृते लोकचक्षुषे ॥

प्द्फ़् ५१, प्। ५९६)

मुनिना व्याकृतो ह्यत्र बुद्धकृत्यं करिष्यति ।
वयं च भवता सार्धम् अनुयास्याम काश्यपम् ॥

ऋद्धिमात्रं महाभागं तेजवन्तं महद्युतिम् ।
द्वितीयमिव शास्तारं प्रतिबिम्बं महीतले ॥

महाकाश्यपमुख्यं तु श्रावकाणां महर्द्धिकम् ।
तिष्ठन्तं ध्रियमाणं वै मा शोकं चेत्तु वै कृथा ॥

एवमालापिनः सर्वे करुणाविष्टा महर्द्धिका ।
वीतरागा महायोगा मुनिपुत्रा निषण्णवाम् ॥

चितामादीपितो तैस्तु मल्लैश्चापि नराधिपैः ।
आदीप्ते तु समन्ता वै भस्मीभूतं तु तं चितम् ॥

तं दृष्ट्वा देवसङ्घा तु भोगवन्तो महोरगाः ।
शान्तये तच्चितास्थानं चन्दनोदकवारिणा ॥

महावर्षं प्रमुञ्चन्ता स्थिता भूयोऽथ तत्क्षणात् ।
महापुष्पौघमुत्सृज्य पुनरेव महीतले ॥

आगता तत्क्षणात् सर्वे जिनधातुं सुपूजना ।
सर्वे परस्परं युद्धं कर्तुमारब्ध तत्क्षणात् ॥

ब्रह्माद्या शक्रयामाश्च सर्वदेवगणास्तथा ।
निवारिता वीतरागैस्तु श्रावकैश्च महर्द्धिकैः ॥

माअकाश्यपेन विभज्यं वै धातवो जिनमूर्तिजा ।
स्तोकस्तोकानि दत्तानि पूजनार्थाय सर्वतः ॥

त्रिधा यानपरावृत्तिं निष्ठाशान्ति च कारणात् ।
महाकाश्यपस्तदा योगी वीतरागो महर्द्धिकः ॥

चिन्तयामास तं बोध्यं महल्लकस्य अभाषितम् ।
माहैव प्रवचनं कृत्स्नं द्वादशाङ्गं सुखोदयम् ॥

सूत्रविनयाभिधर्मं वै धूमकालिकतां व्रजेत् ।
अस्तं याते महवीरे विषलोपो भविष्यति ॥

प्द्फ़् ५२, प्। ५९७)

सङ्गातव्यमिमं कृत्स्नं वचनं बुद्धभाषितम् ।
गच्छामः सहिताः सर्वे वीतरागा महर्द्धिकाः ॥

मागधानां पुरं श्रेष्ठं राजाख्यं नगरं शुभम् ।
कुशाग्रपुरे रम्ये पर्वते सुशिलोच्चये ॥

वैशाल्यां च शुभे देशे चैतस्थाने सुशोभने ।
एवम्प्रकारा ह्यनेकांश्च शासनार्थं तु कारणात् ॥

मल्ला पलायिनः सर्वे चक्रिरे स महर्द्धिका ।
तस्मिं काले युगान्ते वै अस्तं याते मया तु वै ॥

महीपाला भविष्यन्ति परस्परविधे रता ।
भिक्षवो बहुकर्मान्ता सत्वा लोभमूर्च्छिता ॥

अश्राद्धा युगान्ते वै उपासकोपासिकास्तथा ।
परस्परवधासक्ताः परस्परगवेषिणः ॥

छिद्रप्रहारिणो नित्यं सव्रणा दोषदस्तथा ।
भिक्षवो ह्यसंयतास्तत्र मुनिरस्तं गते युगे ॥

स्थापिता रक्षणार्थाय शासनं भुवि मे तदा ।
अष्टौ महर्द्धिका लोके वीतरागा निराश्रवाः ॥

अर्हन्तः तदा ज्येष्ठा राहुलाद्या प्रकीर्त्तिता ।
तेषां दर्शनं नास्ति तस्मिं काले युमाधमे ॥

अमोघं दर्शनं तेषां सिद्धिकाले तु मन्त्रिणाम् ।
मयात्र स्थापिताः सर्वे ऋद्धिमन्त्रो महर्द्धिकाः ॥

प्रणिहितं मया तेषां दण्डकर्ममहायशाम् ।
आज्ञोल्लङ्घनं तेषां किञ्चिच्छिष्या व्यतिक्रमे ॥

तिष्ठध्वं यावत् सद्धर्मं भूतकोटिं निरामिषम् ।
मम वाक्यमिदं पुण्यं यावद् धुष्यते तले ॥

गतः शा*(?) निरात्मनः परिनिर्वाथ निराश्रवाः ।

प्द्फ़् ५३, प्। ५९८)

भिक्षाभिक्षुकाः सर्वे भिक्षुण्यश्च सुमत्सराः ।
तर्कुकाः कुत्सिता नित्यं परिभूता तदा युगे ॥

सुस्थिता शासने मह्यं गृहदारगवेषिणः ।
उपासकाश्च तदा काले परदारसदारताः सदा ॥

चिह्नमात्रं तदा सञ्ज्ञा परिशेष्वेव चतुर्विधे ।
वैराभ्यासरताः सर्वे परस्परविहेठकाः ॥

तीर्थिका क्रान्तभूयिष्ठा सर्वाक्रान्ता च मेदिनी ।
भविष्यन्ति तदा काले द्विजवर्णरता जना ॥

मिथ्याचारा तथा मूढा प्राणिहिंसारता नरा ।
मया तु परिनिर्वाणो व्याकृतोऽयं कलौ युगे ॥

बहुनार्या नराश्चैव परदाररताः सदा ।
अकुशलेषु रताः सर्वे कुशलार्थार्थवर्जिताः ॥

बहुसत्त्वा भविष्यन्ति मयि शान्तगते भुवि ।
ममैतच्छरीरपूजा तु देवसङ्घा महोजसा ॥

मनुष्याश्चैव महात्मानो यक्षभूतगणास्तथा ।
असुरा अथ गन्धर्वा किन्नराश्च महर्द्धिकाः ॥

गरुडा अथ गन्धर्वा राक्षसा ऋषयस्तथा ।
सिद्धा योगिनश्चैव महोजसा ॥

विविधाकारसत्त्वास्तु विविधां गतियोनिजाः ।
भवसूत्रनिबद्धास्तु च्छिन्नबन्धनधीमता ॥

करिष्यति तदा पूजां शरीरेऽस्मिं गतिज्वरे ।
नदीहिरण्यवतीतीरे यमकशालवने वने ॥

चैत्ये मकुटबन्धे तु मल्लानामुपवर्तने ।
परिनिर्वृते च तत्राहं शान्तिं गच्छेद् भयवर्जिताम् ॥

ममैतद् धातु ****(?) हृयमाणैः परैस्तदा ।
देवैश्च रसुरैश्चापि सर्वभूतगणैस्तथा ॥

प्द्फ़् ५४, प्। ५९९)

विभज्य स पृथग् भागेषु व्यस्तं कारिता अभूत् ।
मनुष्यराजा महासैन्यः अजाताख्यो मागधस्तदा ॥

प्रर्थयामास सर्वेषां श्रावकां सुमहर्द्धिकाम् ।
ममाप्यकृतपुण्यस्य पितुर्मरणकारिणः ॥

अभ्युद्धरथ महात्मानं दुःखितं पतितं तु माम् ।
ततोऽग्र्यः श्रावको धीमां बुद्धस्य सुतमौरसः ॥

महाकाश्यपेति विख्यातः प्रजानां हितकारकः ।
तं तु दृष्ट्वाथ वैक्लव्यम् अजाताख्यास्य धीमतः ॥

समन्वाहरति तत्कालम् ऋद्ध्या चैवमधिष्ठयेत् ।
भागैकं गृह्णयामास सधातूनां जिननिःश्रिताम् ॥

अन्येदपहृतादन्यैः भोगिभिश्च महाबलैः ।
अन्योन्यरभसात् क्षोभं कृत्वा चैव परस्परम् ॥

नीत्वा धातुं तदाकाशैः स्वगृहं चापि तस्थुते ।
महाकाश्यपो तदा भिक्षुः अग्रश्रावकः तदा मुनिः ॥

चिन्तयामास * * * * * * * * * * * (?) ।
अहो कष्टं मनुष्येषु शून्योऽयं भुवि मण्डले ॥

बुद्धैः प्रत्येकबुद्धैस्तु श्रावकैश्च महर्द्धिकैः ।
आलोकहीना सत्त्वा वै भवचारकचारिणा ॥

ते दुःखां विविधां तीव्राम् अनुभविष्यति ते चिरम् ।
धातुं पूजयित्वा तु लोकनाथस्य तापिने ॥

अनुभविष्यन्ति ते सौख्यं देवलोकमनल्पकम् ।
राज्यं च मथ भोगांश्च मन्त्रसिद्धिसुदुर्लभाम् ॥

प्राप्स्यन्ति विविधाकारां विचित्रगतिचेष्टिताम् ।
लोकस्याग्रा*(?)पदामिष्टां त्रिधा मोक्षभूषिताम् ॥

पूजयित्वात् **(?)नां प्राप्नुयात् सिद्धिमुत्तमाम् ।
एवं चिन्तयित्वा तु ब्राह्माणः लोकविश्रुतः ॥

प्द्फ़् ५५, प्। ६००)

श्रावको मुनिवरे ज्येष्ठः काश्यपो नाम नामतः ।
सङ्गृह्य च तदा धातुं संविभर्त्ति तदा भुवि ॥

स्तोकं दत्वाजाताख्ये मागधस्यैव यत्नतः ।
एवं नराधिपेषु सर्वेषु अष्टेष्वपि महाद्युतिः ॥

सर्वेभ्यः सर्वतो दद्याच्छ्रावकोऽसौ महात्मनः ।
पुनरेव भवस्तस्थौ अनित्यसञ्ज्ञमभावत ॥

शोचयामास सत्त्वानां करुणाविष्टेन चेतसा ।
रोदिष्यन्ति चिरं सत्त्वा कल्पां बहुविधां तथा ॥

सद्धर्भिन्तर्धितै लोके शास्तुनो शाक्यपुङ्गवे ।
सङ्गातव्यमिमं वाच्यं माहैवं धूमकालिकम् ॥

ततोऽभ्युत्थितवां वीरः प्रभावामृतचेतसः ।
आमन्त्रयामास मन्त्रजेन्द्रम् अजाताख्यं नराधिपम् ॥

गच्छामो राजगृहं नगरं शास्तुशासनसत्कृथा ।
गाथकुम्भसुविन्यस्तां धातुं प्रक्षिप्य यत्नतः ॥

तेऽत्र पूर्वेण आयाता क्षिप्रं राजगृहं तदा ।
स्थानं वेणुवनं प्राप्य स्थापयामास जिनोद्भवाम् ॥

स्तूपं महाद्भुतं कृत्वासौ लोकनाथस्य तापिने ।
पूजयामास तं स्तूपं विविधाकारभूषणैः ॥

माल्यचीवरच्छत्रैश्च चूर्णगन्धैस्तु धूपनैः ।
छत्रैः पताकैर्विचित्रैश्च घण्टामाल्यविलेपनैः ॥

अनेकाकारविचित्रैस्तु दीपमालाभि स्रग्मिभिः ।
पूजां कृत्वा महीपाल प्रणामगतचेतसः ॥

मूर्ध्ना प्रणम्य तं स्तूपं प्रणिधिं चक्रिरे तदा ।
लोकाग्रं पूजयित्वा तु यन्मया कुशलं बहु ॥

अनेकताथागतीपूजा **(?)याहमचिन्तिया ।
उत्थाय ततो राजा महाकाश्यपमब्रवीत् ॥

प्द्फ़् ५६, प्। ६०१)

अश्रु सम्परामृज्य वाष्पाकुलितलोचनः ।
कृपाविष्टहृदयः पितरं संस्मरेत् तदा ॥

आर्यो मे महाप्राज्ञः साक्षिभूतो भवस्व माम् ।
यन्मया कारितं पापं नियतावीचिपरायणम् ॥

तादृशं धर्मराजं तु शास्तुर्वचनपथे स्थितम् ।
घातयित्वा तु तं पितरं न शक्नोमि विनोदितुम् ॥

कल्याणमित्र आर्यो मे धर्मार्थं देष्टुमर्हति ।
एवमुक्तो माअत्मासौ अग्रश्रावकौ जिने ॥

काश्यपो नामतः धीमाम् इमं वाचमुदीरयेत् ।
मा भैष्ट महाराज कृतं ते कुशलं बहु ॥

अस्ति ते जन्मिनोऽभ्यासः अनेकशतधा पुरा ।
बुद्धानामनुत्पादा प्रत्येकजिनसम्भवः ॥

नगर्या वाराणस्यां श्रेष्ठिपुत्र अभूत् तदा ।
अज्ञानाद् बालचापल्याद् रथ्यायां निर्ययौ तदा ॥

स एव भगवं तत्र प्रत्येकजिनमागतः ।
भिक्षार्थी हिण्डते तत्र लोकानुग्रहकाम्यया ॥

बालस्य दृष्ट्वा तं प्रसन्नगतमानसम् ।
पादयोर्निपत्य पप्रच्छ किं करिष्यसि तैर्भिक्षु ॥

तूष्णीमेव स्थितो भगवां खड्गकल्पमसम्भव ।
तदा तेन तु बालेन चीवरे गृह्यमस्थित ॥

गच्छ गच्छ इमं श्रेष्ठं मन्दिरं ध्वजभूषितम् ।
अस्माकनेतदावासं पादौ प्रक्षाल्य भोक्षसे ॥

भुक्ष्व क्षिप्रं यथाकामं क्रीडिप्यामो यथेष्टतः ।
ततोऽसौ वीतदोषस्तु त्रिमलान्तकघातकः ॥

प्द्फ़् ५७, प्। ६०२)

ततस्तेन तु बालेन प्रविशित्वा अम्ब उच्यते ।
देहि भक्ष मया अम्ब भिक्षांश्च विविधां बहूम् ॥

मित्रो मे ह्यागतो ह्यत्र पांसुक्रीडनकश्चिरात् ।
मोदिष्यसि चिरं तेन तिष्ठते द्वारमागतः ॥

तदा स त्वरमाना तु द्वारं निर्ययु तत्क्षणात् ।
पश्यते तं महाभागं शान्तवेषं महर्द्धिकम् ॥

तदा सा क्षिप्रमागत्य गृहीत्वा भाजनं शुभम् ।
सुप्रक्षाल्य ततो हस्तौ * * * * * * * * (?) ॥

गृहीत्वा ओदनं चौक्षमनेकरसभूषितम् ।
विविधाकारभक्षांश्च भाजने न्यस्य राजते ॥

आगम्य च तदा क्षिप्रं पात्रे निवेद्य च ।
पादयोर्निपतिता सा तु ससुता धर्मवत्सला ॥

गृहीत्वासौ पिण्डपातं तु आकाशे अभ्यगच्छत ।
ततोऽसौ ज्वलमानस्तु दीपमालेव दृश्यते ॥

तेन तेषां वाचिको धर्म विद्यते खड्गचारिणाम् ।
प्रभाव ऋद्धिसत्त्वानां दर्शयन्ति महात्मनः ॥

अतिकारुणिका तेऽपि सत्त्वेभ्यो गतमत्सराः ।
परलोकार्थं तु सत्त्वेभ्य। ऋद्धिं सन्दर्शयन्ति ते ॥

तेन कर्मविपाकेन मात्रया सह बालकः ।
पञ्चजन्मसहस्राणि देवत्वमथ कारयेत् ॥

देवानां देवराजासौ सा एव जननी अभूत् ।
अमनुष्याणां चक्रवर्त्तित्वं मनुजेश अभूत् तदा ॥

अनुभूय चिरं सौख्यं बिम्बासारसुतो इह ।
यस्ते आकर्षितो भगवां चीवरान्तेऽथ गृह्य च ॥

वाचा दुर्भाषिता उक्ता भिक्षुवादेन चोदितः ।
पांसुक्रीडनको मह्य भयस्वेति पुरा तदा ॥

प्द्फ़् ५८, प्। ६०३)

वाचो गतस्य कर्मस्य अनिष्टस्य कटुकस्य च ।
तीव्रं प्रतापनादुःखम् अनुभूय चिरं बहु ॥

नरके पतितो घोरे अनीप्सको दुःखदुःसहम् ।
कर्मपाशानुबद्धास्तु सत्त्वा गच्छन्ति दुर्गतिम् ॥

हसद्भिः क्रियते कर्म रुदद्भिरनुभूयते ।
पूर्वं वालिशभावेन प्रत्येकजिनतापिने ॥

वाचा निश्चारिता दुष्टा तस्य कर्मस्य ईदृशम् ।
नरकेभ्यः व्यसित्वा तु मनुष्यत्वमिहागतः ॥

नारके चेतना ह्यासीद् विपाकजाते नराधिप ।
तेन तीव्रेण रोषेण जीविता ते द्वतपूर्विकाम् ॥

पूर्विकां वासनां स्मृत्वा प्रत्येकजिनचारिणीम् ।
सम्मुखं दर्शितो बुद्धः पूज्यश्चैवमकारिता ॥

तेनैव हेतुना ह्यासीद् राज्यत्वमिह कारय ।
एवं वेणुवने तेषाम् अन्योन्या संलपेद् भुवि ॥

एकश्च अग्रशिष्यो मे द्वितीयः स नराधिप ! ।
प्रणम्य शतधा स्तूपं स्वगृहेणैव ययौ तदा ॥

ततोऽसौ शिष्यमुख्यैर्मे पिप्पलागुहवासिनः ।
सन्निपात्य मुनिं सर्वां वीतरागां महर्द्धिकाम् ॥

द्वादशाङ्गं प्रवचनं कृत्स्नं विनयं चैवमगायत ।
तन्मया कथितो धर्मः पूर्वं जिनवरैस्तथा ॥

स तेन शिष्यवराग्रेण त्रिप्रकारं समादिशेत् ।
ग्रथनं सूत्रभेदेन विनये वाभिधर्मतः ॥

तृबन्धान्मोचयेत् सत्त्वां त्रिदोषां चापि शोषयेत् ।
तृदुखान्मुक्तवां धीरः त्रियानं स्थापयेत् तदा ॥

शासनार्थं तु *(?) *** (?) अग्रधीः ।
महाराजा
(?)विख्यातो मागधेयो नराधिपः ॥

प्द्फ़् ५९, प्। ६०४)

यावदादङ्गपर्यन्तं वारणस्यामतत्परम् ।
उत्तरेण तु वैशाल्यां राजा सोऽथ महाबलः ॥

भविष्यति न सन्देहः शासनार्थं करिष्यति ।
त्वया कुमार ! निर्दिष्टः व्याकृतः शान्तिमुत्तमे ॥

तस्यापि सुतो राजा उकाराख्यः प्रकीर्त्तितः ।
भविष्यति तदा क्षिप्रं शासनार्थं च उद्यतः ॥

तदेतत् प्रवचनं शास्तु लिखापयिष्यति विस्तरम् ।
पूजांश्च महतीं कृत्वा दिक्समन्तान्नयिष्यति ॥

न चास्य दुर्गतिं चास्य देवेषूपपत्स्यते ।
विंशद् वर्षाणि त्रिंशच्च पितृणा सह जन्मिनः ॥

वेलायामर्धरात्रे तु पञ्चत्वं यास्यते तदा ।
गोत्रजेनैव रोगेण अभिभूतोऽसौ भविष्यति ॥

महारोगेण दुःखार्त्तः दिवसानि षड्विंशति ।
समस्तव्याधिग्रस्तोऽसौ विविधाकारमूर्छितः ॥

च्युतोऽसौ नरपतिः क्षिप्र देशेषूपपत्स्यते ।
नियतं प्राप्स्यते बोधि सोऽनुपूर्वेण यत्नतः ॥

एते चान्ये च बहवः अतीता येऽप्यनागता ।
कृत्वा तु विविधां कारां प्रत्येकजिनतापिषु ॥

इष्टां विशिष्टां सम्पत्तिं दिव्यामानुषिकांस्तथा ।
तेऽनुपूर्वेण गच्छन्ति शान्तिं निर्जरसम्पदम् ॥

हीनोत्कृष्टराजानो मध्यमाश्च नराधिपाः ।
आद्ये तु युगे कथिता नहुपाद्या पार्थिवादयः ॥

बुधशुक्रोदयो नित्यं मन्त्रसिद्धा नराधिपा ।
शान्तनुश्चित्रसुचित्रश्च पाण्डवा सनराधिपाः ॥

कार्तिकः कार्त्तवीर्योऽसौ ******(?)शरथी पुरा ॥

अर्जुनः सिद्धमन्त्रस्तु द्विद्रोणसुतोऽपरः ।
अश्वत्थामा परा मन्त्री साधयामास मन्त्रराट् ॥

प्द्फ़् ६०, प्। ६०५)

शास्तुमूर्जितमन्त्रास्त्रैः क्ष्मापत्यं कारयेत् तदा ।
समन्तात् त्रिषु द्वीपेषु जम्बूद्वीपगता तदा ॥

देवकारांश्चैव मन्त्राणि पार्थिवादयः ।
तेऽपि ताथागतिं पूजाम् अनुमोद्या दिविं गताः ॥

बुद्धत्वनियता तेऽपि केचित् प्रत्येकयानिका ।
श्रावकत्वनियता केचित् सर्वे ते मोक्षपरायणाः ॥

कालव्यस्थानुरूपेण आयुषश्च विकल्पते ।
उत्तमा दीर्धमानुष्ये मध्या मध्यमके तथा ॥

अन्तिमे तु युगे कष्टे कलिप्राप्ते युगाधमे ।

अन्योऽन्य वैरसंसक्ता परस्परविहेढकाः ।
नीचोत्पत्तिमायाताः शस्त्रसम्पातमृत्तवः ॥

शस्त्रप्रवृत्तिसमुत्साहा परदाराभिरतस्तदा ।
भविष्यन्ति न सन्देहः भूपाला लोककुत्सिताः ॥

धूर्ता निकृष्टकर्माणः अनार्या मत्सरिणस्तथा ।
भविष्यन्ति तदा काले मध्ये द्वापरयो कलौ ॥

सङ्क्षेपेण तु वक्ष्यामि कुमारस्तं नोबिधत ।
वर्तमाने तु यत्काले पार्थिवा भुवि मण्डले ॥

तेषां तु रूपचिह्नानि वर्णतश्च निबोधताम् ।
प्रसेनजित् कोसलो राजा बिम्बिसारस्तथापरः ॥

उदयनः क्षत्रियश्रेष्ठः शतानीकसमुद्भवः ।
सुबाहुः सुधनख्यातो महेन्द्रचन्द्रसमस्तथा ॥

लिच्छवीनां तथा जातः सिंहो वैशाल्यमुद्भव ।
उदाविद्योतमुद्योतमहासेनश्च कथ्यते ॥

उज्जयन्यां तथा चण्डः कपिलाह्वे पुरे नृपः ।
राजा शुद्धोदनश्चैव वैराटाख्यो महाबलः ॥

प्द्फ़् ६१, प्। ६०६)

इत्येते क्षत्रियाः प्रोक्ता महीपालाः शास्तु पूजकाः ।
सम्मुखं बुद्ध पश्यन्ति शाक्यसिंहे नरोत्तमम् ॥

धर्मं श्रुत्वा ततस्तेऽपि चिरं प्राप्स्यन्ति सम्पदाम् ।
नियतं मोक्षकामास्तु शान्तिं प्राप्स्यन्ति तेऽपि ताम् ॥

इत्येते लोकविख्याता भूपाला क्षितिमण्डले ।
वर्णतः क्षत्रियः प्रोक्तः चिह्नतो नामसञ्ज्ञितः ॥

पूजयिष्यति ते वाक्यं मयैव कथितं भुवि ।
त्वयैव व्याकृतो लोके कुमारो बालरूपिणः ॥

अजाताख्यो नामसौ नियतं बोधिपरायणः ।
मयि वर्षशते परिनिर्वृते भुवि मण्डले ॥

निरालोके निरानन्दे अज्ञानतमसा वृते ।
भविष्यति तदा शून्या मेदिनी जिनवर्जिता ॥

तस्मिं काले महाघोरे कुसुमाह्वे नगरे तदा ।
अशोको नाम विख्यातः पार्थिवो भुवि पालकः ॥

तीव्रकारी सरोषी च निर्घृणोऽसौ भवेत् तदा ।
कल्याणमित्रमागम्य वीतरागं महर्द्धिकम् ॥

भिक्षुं शीलसम्पन्नं निज्वरं गतचेतसम् ।
पूर्ववासनहेतुं च पांशुदानं महर्द्धिकम् ॥

नियतं क्षेत्रसम्पन्नं पार्थिवोऽसौ महाधनः ।
धर्माधर्मविचारी च सघृणी कारुणिको हि सौ ॥

हेतुमुद्घाटयामास वीतरागो महर्द्धिकः ।
त्वया हि नृपतेः पूर्वम् अज्ञानाद् बालचापलात् ॥

जिने शाक्यसिंहस्य पांसु अञ्जलिना तदा ।
पात्रे भस्मे प्रतिष्ठाप्य प्राप्ता सम्पत्तयो दिवि ॥

देवलोकं व्यवित्वा तु पितृलोकमिहागतम् ।
भुक्ष्व राज्यं महीपाल ! जम्बूद्वीपं सकाननम् ॥

प्द्फ़् ६२, प्। ६०७)

आराध्य मन्त्रं यक्षस्य जम्भलस्य महात्मने ।
ततो भूतरथः सिद्धः क्षितिपश्च महात्मनः ॥

यक्षास्तस्य तिष्ठन्ते आज्ञो दीक्षितमानसाः ।
नागाश्चैव तिष्ठन्ते भव्याः किङ्करहेतवः ॥

एवं महर्द्धिका धर्मात्मा बलचक्री अभूत् तदा ।
यथेष्टगमनं तस्य निषेद्धा न क्वचिद् भवेत् ॥

पूर्वस्थापितकार्ये तु जिनानां धातुवरा भुवि ।
नगरे राजमुख्ये तु वने वेणुवने तदा ॥

गृह्य धातुधरे धातुं कुशलालम्बनमानसः ।
पूजयामास तं स्तूपं यथा पौराणमकारय ॥

गृह्यन्तं धातुकुम्भं तु विभज्य शतधा पुनः ।
क्षणेनैकेन मेधावी यक्षाणामाज्ञाविनिर्दिशेत् ॥

जम्बूद्वीप इमं कृत्स्नं स्तूपालङ्कृतभूषणम् ।
कारयन्तु भवन्तो वै धातुगर्भां वसुन्धराम् ॥

आज्ञाप्रतीच्छते यक्षाः अर्धरात्रे तु यत्नतः ।
अमानुषेयं कृतिं कृत्वा शिलायष्ट्योच्छ्रितां भुवि ॥

अनेकस्तम्भसहस्राणि रोपयामास ते तदा ।
पूजनार्थं तु चैत्यानां चिह्नभूतं च देहिनाम् ॥

कृत्वा तु विविधां स्तूपां लोकनाथेभ्य तापिषु ।
क्षणेनैकेन ते यक्षा नृपतेऽन्तिकमागताः ॥

प्रणिपत्य ततो मूर्ध्ना वाचा निश्चारगुह्यकाम् ।
यथाज्ञप्तं कृतं सर्वं किं न पश्यसि भूते ॥

ततोऽसौ पार्थिवः क्षिप्रम् आरुरोह रथं तदा ।
विविधाकारपूजार्थम् अनेकाकारशोभनाम् ॥

काञ्चनं राजतं षष्ठं विविधांस्तपभूषणाम् ।
ततो भूतरथं क्षिप्तं पूरयामास पार्थिवः ॥

प्द्फ़् ६३, प्। ६०८)

क्षणेनेकन तं देशं यत्र ते धातुधरा जिना ।
विचित्राकारपूजाभिः पूजयेत नराधिपः ॥

शोभने मेदिनीं कृत्स्नां जिनधातुधरैस्तदा ।
प्रणिधिं चक्रिरे राजा धर्माशोको महात्मवान् ॥

अनेन कुशलार्थेन बुद्धो भूमामनुत्तरः ।
एवं विदित्वा महात्मासौ धर्माशोको नराधिपः ॥

मृतोऽसौ देवतां याति नियतं बोधिपरायणः ।
अशीतिवर्षाणि सप्तं च पूजये धातुवरां भुवि ॥

जीवेद् वर्षशतं सार्धं कृत्वा राज्यमकण्टकम् ।
स्वकर्मजनितास्तस्य व्याधिरुत्पन्नदेहजे ॥

तेनैव व्याधितो दुःखी मृतः स्वर्गोपगो भवेत् ।
महतीं सम्पदं प्राप्य अनुभूय दिवौकसाम् ॥

अनुपूर्वेण मेधावी बोधिं प्राप्स्यति दुर्लभाम् ।
मन्त्रा सिद्ध्यन्ति तत्काले वज्राब्जकुलयोरपि ॥

जम्भलाद्यास्तथा यक्षा अस्मिं शासनवर्त्तिनः ।
यक्षिण्यश्च समाख्याता हारीत्याद्या महर्द्धिकाः ॥

चक्रवर्तिसमुत्पादे मन्त्रा सिद्ध्यन्ति चक्रिणः ।
जिनैस्तु कथिता ये मन्त्रा विद्याराजा महर्द्धिकाः ॥

उष्णीषप्रभृतयः सर्वे ये चान्ये जिनभाषिताः ।
उत्तमां साधनां कुर्यात् तस्मिं काले सुशोभने ॥

उत्तमैर्नाधमाः साध्या उत्तमां गतिमाशृतैः ।
दिलीपो नहुषश्चैव मान्धाता सगरस्तथा ॥

साधयित्वा तु ते मन्त्रां चक्रिणां जिनभाषिताम् ।
तेजोराशिस्तदा सिद्धः नहुषस्य महात्मनः ॥

राजा सितातपत्रस्तु सिद्धस्तु सगरस्य वै ।
दिलीपस्य तथा मन्त्रं सिद्धमेकमक्षरम् ॥

प्द्फ़् ६४, प्। ६०९)

मान्धातस्य तथा लोके सिद्ध उष्णीषमुन्नतः ।
जयोष्णीषस्तथा सिद्धो धुन्धुमारे नृपोत्तमे ॥

कन्दर्पस्य तथा राज्ञो विजयोष्णीष कथ्यते ।
प्रजापतिस्तस्य पुत्रो वै तस्यापि लोचना भुवि ॥

प्रजापतेः सुतो नाभिः तस्यापि ऊर्णमुच्यति ।
लाभिनो ऋषभपुत्रो वै स सिद्धकर्म दृढव्रतः ॥

तस्यापि माणिचरो यक्षः सिद्धो हैमवते गिरौ ।
ऋषभस्य भरतः पुत्रः सोऽपि मन्त्रान् तदा जपेत् ॥

सोऽनुपूर्वेण सिद्धस्तु महावीरं भुवि स्तदा ।
एते चाऽन्ये च बहवः पार्थिवा लोकविश्रुताः ॥

साधयित्वा तु मन्त्राणां राज्यं कृत्वा दिवं गताः ।
जिनेन्द्रैर्ये तु उक्तानि विद्याराजा महर्द्धिकाः ॥

ते सर्वे शोभने काले युगेऽशीतिसहस्रगे ।
सिद्धाः साधयिष्यन्ति मन्त्रतन्त्रार्थकोविदाः ॥

एते चान्ये च बहवः पार्थिवा लोकविश्रुताः ।
ततोऽशीतिसहस्राणि वर्षाणां शतमेव व ॥

राज्यं कृत्वा ततः स्वर्ग नियतं बोधिपरायणाः ।
मध्यमे तु तदा काले दिव्यामाश्चर्यमहर्द्धिकाः ॥

मन्त्राः सिद्धिमेवासुरब्जपाणिसमोदिताः ।
मन्त्रिभिर्नरमुख्यैस्तु भूपालैः सार्धभूमिकैः ॥

राजा च ब्रह्मदत्तो वै वाराणस्यां महापुरे ।
सिद्धः अब्जपाणिस्तु लोकीशो लोकविश्रुतः ॥

महावीर्यो महात्मासौ अतिकारुणिको महान् ।
सत्त्वानां मन्त्ररूपेण दिदेश धर्मदेशनाम् ॥

प्द्फ़् ६५, प्। ६१०)

तस्यापि च सुतो धीमान् पुण्यकर्मा दृढव्रतः ।
तस्यापि सिद्धो महावीर्यो हर्याख्येति विश्रुतः ॥

तेन मन्त्रप्रभावेन जितः शक्र अभूत् तदा ।
तस्यापि सुतः श्वेताख्यो राजाभूत् सर्वदस्तदा ॥

तस्यापि वरदा मन्त्रा महाश्वेता नाम नामतः ।
साधयित्वा तु तां मन्त्रं जीवेद् वर्षशतत्रयम् ॥

तेन मन्त्रप्रभावेन सुखावत्या स गच्छति ।
नियतं बोधिमेवास्य ये चान्ये व्याहृता मया ॥

मध्यमे तु तदा काले मध्यमन्त्रांस्तु साधयेत् ।
अधमेऽतियुगे कष्टे मयि बुद्धत्वमागते ॥

मन्त्राः सिद्धिं प्रयास्यन्ति वज्राब्जकुलयोरपि ।
त्वया कुमार ! मन्त्रा वै ये पूर्वं कथिता भुवि ॥

तेऽपि सिद्धिं प्रयास्यन्ति मन्त्रा वै भागहेतुताम् ।
इतराणि तु मन्त्राणि लौकिकां विविधां तथा ॥

कश्मला विकृतरूपाश्च अन्तरिक्षा तु खेचरा ।
भौम्या च मथ यक्षिण्यः पिशाच्या विविधास्तथा ॥

गरुडाः किन्नराश्चैव प्रेता राक्षसभाषिता ।
पिशाचोरगरक्षाणां नागीनां च महर्द्धिका ॥

मन्त्रा सिद्धिं प्रयास्यन्ति युगे कष्टे युगाधमे ।
कुमाररूपास्तु मन्त्रा वै कुमारिरूपास्तु सर्वदा ॥

तेऽपि सिद्धिं प्रयास्यन्ति तस्मिं काले भयानके ।
त्रिविधास्तु तथा मन्त्रा त्रिप्रकारास्तु साधना ॥

त्रिविधेनैव कालेन त्रिविधा सिद्धिरिष्यते ।
सङ्क्षेपेण तु वक्ष्यामि कथ्यमानमतिविस्तरम् ॥

राज्ञे सौ (?)यस्य पृष्ठते त भवे नृपः ।
विशोक इति विख्यातो लोके धर्मा
(?)रिणः ॥

प्द्फ़् ६६, प्। ६११)

तस्य सिद्धा इमा मन्त्रा देवी षण्डरवासिनी ।
विशोकः साधयित्वा तु आजहार दिवौकसाम् ॥

नाकपृष्ठे चिरं सौख्यमनुभूय स महानृपः ।
पुनरेव गच्छन्मानुष्यं धर्मशीलो हि बुद्धिमाम् ॥

राज्यं विविधसम्पत्तिम् अनुभूय महाद्युतिः ।
पूजयेद् धातुवरां श्रीमां वर्षाणि षट्सप्तति ॥

ततो ज्वरेणाभिभूतोऽसौ भिन्नदेहो दिवं गतः ।
तस्याप्यनन्तरे राजा शूरसेनः प्रकथ्यते ॥

विघुष्टो धर्मचारी च शासनेऽस्मिं सदा हितः ।
तेनापि साधिता मन्त्रा देवीस्तूपमहाश्रिया ॥

तेनापि कारिता शास्तुः कारा सुमहती तदा ।
स्तूपैरलङ्कृता सर्वा समुद्रान्ता वसुन्धरा ॥

तस्य कर्मविपाकेन व्याधिरुत्पन्नदेहजा ।
पक्षमेकं क्षयित्वासौ च्युतदेहो भविष्यति ॥

कृत्वा राज्यं वर्षाणि दश सप्त च मानवीः ।
च्युतोऽसौ स्वर्गमाविष्टो नियतं बोधिपरायणः ॥

तस्याप्यनन्तरो राजा नन्दनामा भविष्यति ।
पुष्पाख्ये नगरे श्रीमां महासैन्यो महाबलः ॥

तेनापि साधितो मन्त्र पिशाचो पीलुनामतः ।
तस्य मन्त्रप्रभावं तु महाभोगो भविष्यति ॥

नीचमुख्यसमाख्यातो ततो लोके भविष्यति ।
तद्धनं प्राप्य मन्त्री सौ लोके पार्थिवतां गतः ॥

भविष्यति तदा काले ब्राह्मणास्तार्किका भुवि ।
सिद्धयाभिमानलुब्धा वै नगरे मगधवासिनः ॥

भविष्यन्ति न सन्देहां मिथ्यागर्वितमानिनः ।
तेभिः **(?)वारितो राजा * * * * * * (?) ॥

प्द्फ़् ६७, प्। ६१२)

धर्मशीलोऽपि धर्मात्मा तेषां दास्यति तं धनम् ।
कल्याणमित्रमागम्य पूजे धातुवरानसौ ॥

केवलं तु तदाभ्यासाद् दानाविक्लवहेतुना ।
विहारा कारिता तेन षोडशाष्टौ च धीमता ॥

भविष्यति तदा काले नगरे पुष्पसाह्वये ।
मन्त्रिमुख्यो महात्मा वै घृणी साधु तथा द्विजः ॥

स भविष्यति धर्मात्मा तस्या राज्ञोऽतिशाक्यिनः ।
सोऽपि सिद्धमन्त्रस्तु यक्षिणी वीरमती भुवि ॥

तेनापि कारितं श्रेष्ठं जिनानां धातुवरो भुवि ।
अतिप्राज्ञो हि संवृतो यक्षिण्यास्तु प्रभावतः ॥

तेन वासनकर्मेण पूर्ववासनचोदितः ।
अनुपूर्वेण मेधावी बोधिं प्राप्स्यति दुर्लभाम् ॥

स्त्रीकृतेन दोषेण मृत्युं प्राप्स्यन्ति मानवाः ।
वररुचिर्नाम विख्यात अतिरागी अभूत् तदा ॥

नन्दोऽपि नृपतिः श्रीमां पूर्वकर्मापराधतः ।
विरागयामास मन्त्रीणां नगरे पाटलाह्वये ॥

विरक्तमन्त्रवर्गिस्तु सत्यसन्धो महाबलः ।
पूर्वकर्मापराधेन महारोगी भविष्यति ॥

महाज्वरेण दुःखार्तः अर्धरात्रे भविष्यति ।
आयुस्तस्य च वै राज्ञः षट्षष्टिवर्षां तथा ॥

नियतं श्रावके बोधौ तस्य राज्ञो भविष्यति ।
तस्याप्यन्यतमः सख्यः पाणिनिर्नाम माणवः ॥

नियतं श्रावकत्वेन व्याकृतो मे भविष्यति ।
सोऽपि सिद्धमन्त्रस्तु लोकीशस्य महात्मनः ॥

साधयेत् प्रज्ञाकामस्तु क्रोधं हालहलं द्विजः ।
तस्य राज्ञोऽपर **(?) चन्द्रगुप्तो भविष्यति ॥

प्द्फ़् ६८, प्। ६१३)

जपेन्द्रयक्षसिद्धस्तु कारयेद् राज्यमकण्टकम् ।
महायोगी सत्यसन्धश्च धर्मात्मा स महीपतिः ॥

अकल्याणमित्रमागम्य कृतं प्राणिवधं बहु ।
तेन कर्मविपाकेन विपस्फोटैः स मूर्छितः ॥

अर्धरात्रे रुदित्वासौ पुत्रं स्थापयेद् भुवि ।
बिन्दुवारसमाख्यातं बालं दुष्टमन्त्रिणम् ॥

ततोऽसौ चन्द्रगुप्तस्य च्युतः कालगतो भुवि ।
प्रेतलोकं तदा लेभे गतिं मानुषवर्जिताम् ॥

मन्त्राभ्यासात् तदा युक्तो गतिं त्यक्त्वा दिवि गतम् ।
मन्त्रहेतुसमुत्पादात् कुशलालम्बनचेतनाम् ॥

प्रत्येकं बोधिमायाति सोऽनुपूर्वेण नराधिपः ।
राज्ञाथ बिम्बसारेण बालेनाव्यक्तचेतसा ॥

पुरा कारितं चैत्यं सिंहदत्तेन भवान्तरे ।
तस्य कर्मप्रभावेन दिवं यातो ह्यनिन्दितः ॥

पञ्च जन्मसहस्राणि अमरेभ्यो भुक्तवान् सुखम् ।
स्वर्गलोकाच्च्यवित्वा तु मनुष्येन्द्रोपपद्यते ॥

जातो राजकुले चन्द्रगुप्तस्य धीमतः ।
बाल एव ततो राजा प्राप्तः सौख्यमनल्पकम् ॥

प्रौढो धृष्टश्च संवृत्तः प्रगल्भश्चापि प्रियवादिनम् ।
स्वाधीन एव तद् राज्यं कुर्याद् वर्षाणि सप्तति ॥

मन्त्रा केशिनी नाम सिद्धा तस्य नराधिपे ।
कुमार ! त्वदीयमन्त्रे तु सिद्धिं गच्छेयु ते तदा ॥

भविष्यति तदा काले मन्त्रसिद्धिस्त्वयोदिता ।
कुमाररूपी विश्वात्मा लोकानां प्रभविष्णवः ॥

भावयन्ति न सन्देहो मन्त्ररूपेण देहिनाम् ।

प्द्फ़् ६९, प्। ६१४)

तस्मिं काले सदा सिद्धिर्भविष्यन्ति पठिता भुवि ।
मन्त्री तस्य राज्ञस्य बिन्दुसारस्य धीमतः ॥

चाणक्य इति विख्यातः क्रोधसिद्धस्तु मानवः ।
यमान्तको नाम वै क्रोधः सिद्धस्तस्य च दुर्मतेः ॥

तेन क्रोधाभिभूतेन प्राणिनो जीविताद्धता ।
कृत्वा तु पापकं तीव्रं त्रीणि राज्यानि वै तदा ॥

दीर्घकालाभिजीवी सौ भविता द्विजकुत्सितः ।
तेन मन्त्रप्रभावेन सदेहमासुरीं भजेत् ॥

आसुरीं तनुमाविष्ट दीर्घकालं स जीवयेत् ।
ततोऽसौ भिन्नदेहस्तु नरकेभ्यो विगच्छतः ॥

ततोऽसौ नारकं दुःखम् अनुभूयेह दुर्गतिः ।
विविधा नारकां दुःखाम् अनिष्टां कर्मजां तदा ॥

कल्पमेकं क्षयित्वासौ क्रोधमन्त्रप्रचोदितम् ।
च्युतोऽसौ नरकाद् दुःखात् तिर्यगेभ्योपपद्यते ॥

नागयोनिं समापद्य भीमरूपी भविष्यति ।
नागराजो महाक्रोधी महाभोगी विषदर्पितः ॥

दारुणं कर्मचारी च * * * * * * * * (?) ।
च्युतोऽसौ दुष्टकर्मा तु यमलोकमगच्छत ॥

सुनिदा यमराजासौ प्रेतराजो महर्द्धिकः ।
एवं दुःखसहस्राणि अनुभूय पुनः पुनः ॥

सोऽनुपूर्वेण दुर्मेधा भुविमायात माणवः ।
मानुष्यं जन्ममायातः भीमरूपी भविष्यति ॥

दरिद्र क्रोधनश्चैव अल्पशाख्यो भविष्यति ।
प्रत्येकबुद्धा ये लोके निराशाः खड्गचारिणः ॥

हीनदीयानुकम्प्यास्तु विचरन्ति महीतले ।

प्द्फ़् ७०, प्। ६१५)

ते तं दुर्मतिं दृष्ट्वा वै परचित्तविदोस्तदा ।
ते तत्र मनुबद्धास्तु कारुण्यान्नान्यहेतवः ॥

तेन कुल्माषखण्डास्तु गृहीता भक्षहेतुना ।
क्रोधमन्त्राभिभूतेन हेतुमुद्घाटिता तदा ॥

तेषां निर्यातयेद् भिक्षं तत्रैकस्य महात्मनः ।
इदं भोः प्रव्रजिताः ! सर्वे ! भक्षयध्वं यथासुखम् ॥

तस्यानुकम्पा बुद्धेभ्यः ऋद्धिं दर्शितवां तदा ।
ततोऽसौ विस्मयाविष्टः प्रभावोद्गतमानसः ॥

प्रपतेत् सर्वतो मूर्ध्ना बुद्धेभ्यः खड्गकल्पिषु ।
आकाशेन गताः सर्वे वीतदोषा यथेष्टतः ॥

तेनापि कुशलार्थेन प्रत्येकां बोधिचिन्तिताम् ।
यादृशा हि महात्मानः शान्तवेषा महर्द्धिकाः ॥

तादृशोऽहं भवेल्लोके मा दुःखी मा च दुर्गतिः ।
क्षीणकर्मावशेषस्तु च्युतः स्वर्गोपगः सदा ॥

सोऽनुपूर्वेण धर्मात्मा प्रत्येकं बोधि लप्स्यते ।
तस्मान्न कुर्यान्मन्त्रेभ्यः साधनमाभिचारुकम् ॥

बुद्धिर्बोधिसत्त्वैश्च प्रतिषिद्धमाभिचारुकम् ।
अतिकारुणिका बुद्धा बोधिसत्त्वास्तु महर्द्धिकाः ॥

प्रभावार्थं तु मन्त्राणां दर्शितं सर्वकर्मिणः ।
चिन्तामणयो मन्त्रा भाषितास्तु तथागतैः ॥

बालरूपा मूढचित्तास्तु क्रोधलोभाभिभूतयः ।
परस्परं प्रयोज्यन्ते ये मन्त्रा आभिचारुके ॥

प्रतिषिद्धं तथा बुद्धैर्बोधिसत्त्वैस्तु धीमतै। ।
सर्वप्रकार तु मन्त्राणां सत्त्वेभ्यो भोगवर्धनम् ॥

आकर्षणं तु सत्त्वानां विविधां ***** (?) ॥

प्द्फ़् ७१, प्। ६१६)

साधनीयास्तु मन्त्रा वै न जीवमुपरोधतः ।
तस्मिं काले भविष्यन्ति भिक्षवो मे बहुश्रुताः ॥

मातृचीनाख्यनामास्तु स्तोत्रं कृत्वा ममिव तु ।
यथा भूतगुणोद्देशैः यथाकारमभाषत ॥

प्रसाद्य सर्वतश्चित्तं बुद्धानां शासने रतः ।
मन्त्रसिद्धस्तु दुर्लक्ष्यः मञ्जुघोषस्तवैव तु ॥

गुणवां शीलसम्पन्नः धर्मवादी बहुश्रुतः ।
पुरा तिर्यग्गतेनैव इमां स्तोत्रमभाषत ॥

नृपाख्ये नगरे रम्ये खण्डाख्ये च वने वतु ।
सार्धं शिष्यगणेनैव विहरामि यथासुखम् ॥

तत्रस्थो वायस आसी मां चित्तं सम्प्रसादयेत् ।
प्रसाद्य च मयि चित्तं भिन्नदेहो दिवं गतः ॥

देवेभ्यश्च च्यवित्वा तु मनुष्येभ्योपपत्स्यते ।
मनुष्येभ्योपपन्नस्तु प्रव्रजेच्छासने मम ॥

प्रव्रजित्वा महात्मासौ यथाभूतं हि मां तदा ।
स्तविष्यति तदा काले मातृचीनाख्य सव्रती ॥

स्तोत्रोपहारं यथार्थं च नानादृष्टान्तरहेतुभिः ।
प्रकर्ता सर्वभूतानां हितायैव सुभाषितम् ॥

अनुग्रहार्थं तु सत्त्वानां स्तोत्रचोदनतत्परः ।
भविष्यति तदा काले युगान्ते लोकनिन्दिते ॥

तेन कर्मविपाकेन भिन्नदेहो दिविं गतः ।
सोऽनुपूर्वेण मेधावी अनुभूय विविधां सुखाम् ॥

बोधिं प्राप्स्यति सर्वज्ञिंउत्तमार्थमचिन्तियाम् ।
चतुर्थे वर्षशते प्राप्ते निर्वृते मयि तथागते ॥

नागाह्वयो *(?) भिक्षुः शासनेऽस्मिं हिते रतः ।
मुदितां भूमि
(?)तु *(?)वेद् वर्षशतानि षट् ॥

प्द्फ़् ७२, प्। ६१७)

मायूरी नामतो विद्या सिद्धा तस्य महात्मनः ।
नानाशास्त्रार्थधात्वर्थं निःस्वभावार्थतत्त्ववित् ॥

सुखावत्यां चोपपद्येत यदासौ त्यक्तकलेवरः ।
दोऽनुपूर्वेण बुद्धत्वं नियतं सम्प्रपत्स्यते ॥

सङ्गनामा तदा भिक्षुः शास्त्रतत्त्वार्थकोविदः ।
सूत्रनीतार्थनेयानां विभज्य बहुधा पुनः ॥

लोकाभिधायी युक्तात्मा तुच्छशीलो भविष्यति ।
तस्य सिद्धा शालदूतीति कथ्यते ॥

तस्य मन्त्रप्रभावेन बुद्धिरुत्पन्न श्रेयसी ।
सङ्ग्रहे सूत्रतत्त्वार्थं शासनस्य चिरस्थिते ॥

जीवेद् वर्षशतं सार्धं त्यक्तदेहो दिविं गतः ।
अनुभूय चिरं सौख्यं दीर्घसंसारसंसरम् ॥

अनुपूर्वेण चात्मासौ बोधिमाप्तो भविष्यति ।
एवं बहुधाकारो भिक्षवो मयि शासने ॥

प्रज्ञा धर्मशीलास्तु भविताभूत् तदा युगे ।
अपश्चिमे तु तदा काले नन्दनामतः ॥

सोऽपि मन्त्रार्थयुक्तात्मा तन्त्रज्ञोऽथ बहुश्रुतः ।
तस्य भद्रघटः सिद्धः यक्षमन्त्रप्रचोदितः ॥

महायानाग्रसूत्रे तु मया च कथिता पुरा ।
तस्मिं काले घटे तस्मिम् उज्जहार महातपा ॥

तस्य दृष्टसदा तत्र पुस्तकेऽस्मिं मन्त्ररूपिणे ।
रक्षा न कारिता तत्र घटेऽस्मिं यक्षसाधिते ॥

अनप्रमादात् स्मृतिभ्रंशा घटो मूर्धटके हृतः ।
तोऽसौ सिद्धमन्त्रस्तु भिक्षुर्मन्त्रतपी अभूत् ॥

घटं निरीक्षया*(?)स नाभिपश्येत तत्र वै ।
ततोऽसौ क्रोध*(?)काङ्गः विस्फूर्जन अभाषत ॥

प्द्फ़् ७३, प्। ६१८)

आब्रह्मस्तम्बपर्यन्तं शक्राद्यां समहेश्वराम् ।
मन्त्रेनाकृष्यमानेयं नाहं मन्त्री न मन्त्रराट् ॥

ये मन्त्रा बुद्धपुत्रैस्तु मन्त्रा जिनवरैस्तथा ।
भाषिता निग्रहार्थाय दुर्दान्तदमकापि वा ॥

ते तु सर्वे भुविर्नास्ति यदि नाकृष्यामि चोरीणाम् ।
ततोत्थाय ततो मन्त्री सिद्धकर्मदृढव्रतः ॥

यथा तु विहिते मन्त्रे प्रयोगाकृष्टहेतवः ।
प्रयोजयामास तं दिक्षु कृइप्राकर्षणतत्परः ॥

क्षणेना स्मृतमात्रेण क्षिप्रकर्मायतिह्यसौ ।
हुङ्कारेकेण मात्रेण ब्रह्माद्यामानयेद् भुवि ॥

आकृष्टा सर्वदेवास्तु ब्रह्माद्याः सशक्रकाः ।
हाहाकारं प्रमुञ्चाना आर्त्ता भैरवनादिनः ॥

किं करोम किमानीता नाम यं मन्त्रापराधिनः ।
शीघ्रं च त्वरमाणस्तु भिक्षुर्धीमां विशारदः ॥

दिवौकसां मन्त्रयामास घटं प्रत्यर्पयथ इतो इह ।
अन्योन्यं वै सुराः सर्वे स भिक्षुः सम्प्रभाषत ॥

क्षिप्रं वदत भद्रं वो ये नेनापहृतो घटः ।
निरीक्षयामास ते देवाः न दास्यन्तेऽथ समन्ततः ॥

ससन्वाहरति देवेशः केनायं घटकोऽपहृतः ।
पश्यते वज्रिणः श्रीमां बोधिसत्त्वो महाद्युतिः ॥

तस्यास्ति सुतो घोरः महारोषी सुदारुणः ।
निर्मितो विघ्नरूपेण विचेरुः सर्वतो जगत् ॥

तेनासौ घटो नीत देवेशः सम्प्रभाषितम् ।
अस्ति वज्रकुले विघ्नः क्रीडते लीलया भुवि ॥

पूजितोऽह*(?)मेनेति तेनासौ घटको हृतः ।
एवमुक्त्वा तु देवेशः पुनरेव दिविं मताः ॥

प्द्फ़् ७४, प्। ६१९)

सर्वे विसर्जिता देवाः स्वमन्त्रेणैव ते तदा ।
क्षणेनैव तु तत्रैकः मुहूर्तसुतरानपि ॥

आनयामास तं विघ्नमवशात् सघटं तदा ।
ततस्तेन तु विघ्नेन प्रेतानां घटमाददे ॥

ततो नीतेन तु विघ्नेन इमां वाचामभाषिता ।
प्रेतलोके घटो नीतः न वयं तत्र दोषिणः ॥

रुष्टो सोऽपि महामन्त्री तं विघ्नमभ्यभाषत ।
गच्छ गच्छ महाविघ्न ! मा भूयो एवमाचरेत् ॥

ततस्तेन तु ते प्रेता आनीतास्तत्क्षणादपि ।
क्षुभिताक्रान्तमनसः दीनाः सूचीमुखा हि ते ॥

आर्तस्वरं च क्रन्देयुर्महाघोरतमा हि ते ।
चुक्रुतुः करुणां वाणीं परित्रायस्व महात्मन ॥

घटं वो इह आनीता यथेष्ट कुरुते वयम् ।
महाकारुणिको मन्त्री वेपथु सम्प्रजायताम् ॥

करुणार्द्रेण मनसा इमां वाचामभाषत ।
किं दुःखं भवतां लोके सम्प्रभाषथ मा चिरम् ॥

ते ऊचुर्दीनमनसा बुभुक्षास्मत् सम्प्रधावते ।
त्रिपिताः प्रेतलोकेऽस्मिं चिरं कालं महात्मनः ॥

महाकारुणिको भिक्षुस्तेषामेव प्रददौ घटम् ।
ततस्ते तुष्टमनसाः सत्त्वरामालयं गताः ॥

तेषां चिन्तितमात्रेण अन्नपानं भवेद् घटे ।
भविता चन्दनमालेऽस्मिं भिक्षुर्नन्दको भुवि ॥

तस्मिं कालाधमे प्राप्ते जीवेद् वर्षशतत्रयम् ।
महात्मा बोधिनिम्नस्तु क्षिप्रं प्राप्स्यति दुर्लभाम् ॥

भविष्यन्ति न सन्देहः तस्मिं काले युगाधमे ।
राजा गोमुख्यस्तु शासनान्तर्वाषको मम ॥

प्द्फ़् ७५, प्। ६२०)

प्राचिं दिशिमुपादाय कश्मीरे द्वारमेव तु ।
नाशयिष्यति तदा मूढः विहारां धातुवरांस्तथा ॥

भिक्षवः शीलसम्पन्नां धातयिष्यति दुर्मतिः ।
उत्तरां दिशमाशृत्य मृत्युस्तस्य भविष्यति ॥

अमानुषेणैव क्रुद्धेन सराष्ट्रा पशुबान्धवः ।
आक्रान्तोऽद्रिखण्डेन पातालं यास्यति दुर्मति ॥

अधो अथ गतिस्तस्य नरकान्नरकतरं भृशम् ।
दुःखा दुःखतरं तीव्रं सम्प्रपत्स्यति दारुणम् ॥

अवीचिर्नाम विख्यातं नरकं पापकर्मिणा ।
मुच्यतेऽसौ महाकल्पं गोमिषण्डो दुरात्मनः ॥

अकल्याणमित्रमागम्य कृतं पापसुदारुणम् ।
तस्मात् सर्वप्रयत्नेन शासनेऽस्मिं तथागते ॥

प्रसाद्यमखिलं चित्तं सम्प्रभोक्ष्यथ सम्पदाम् ।
बुद्धत्वनियतं मार्गम् अष्टाङ्गपथयायिनम् ॥

गमिष्यथ सदा सर्वे अशोकं निर्जरसं पुरम् ।
तस्यानन्तरे महीपालः बुद्धप्क्ष इति श्रुतः ॥

महायक्षो महात्यागी बुद्धानां शासने रतः ।
भविष्यति न सन्देहः तस्मिं काले युगाधमे ॥

अतिप्रीतो हि नृपतिः शास्तुः शासनतत्परः ।
विहारारामचैत्यांश्च शास्तुर्बिम्बाननुत्तमाम् ॥

वाप्यः कूपाश्च * * * * * * * (?) अनेकधाः ।
कारयित्वा महाराजा दिवं गच्छेद् गतायुषः ॥

तस्य सिद्धो महावीर्यः अब्जकेतुर्महीतले ।
पृथिवां पालनां प्रार्थे बोधिसत्त्वस्य महात्मने ॥

तस्य मन्त्रप्रभावेन जीवेद् वर्षशतत्रयम् ।
तेन कर्मावशेषेण क्षिप्रं बोधिमवाप्नुयात् ॥

प्द्फ़् ७६, प्। ६२१)

तस्यापि च सुतो राजा महासैन्यो महाबलः ।
गम्भीरयक्षो विख्यातः पृथिवीमखिलोदिताम् ॥

सोऽपि राजाथ युक्तात्मा तस्मिं काले भविष्यति ।
विहारावसथचैत्यांश्च वापीकूपांश्च नैकधा ॥

कारयिष्यति न सन्देहो भूपतिः स महाद्युतिः ।
तेनापि साधितं मन्त्रं मञ्जुघोषस्य धीमतः ॥

षडक्षरं नाम यद् वाक्यं महार्थं भोगवर्धनम् ।
तस्य मन्त्रप्रभावेन महाभोगी भवे ह्यसौ ॥

अनुपूर्वेण मेधावी क्षिप्रं बोधिपरायणः ।
विविधाकारकारांस्तु शासनेऽस्मिं तथागते ॥

भविष्यति तदा काले उत्तरां दिशिमाशृतः ।
नेपालमण्डले ख्याते हिमाद्रेः कुक्षिमाश्रिते ॥

राजा मानवेन्द्रस्तु लिच्छवीनां कुलोद्भवः ।
सोऽपि मन्त्रार्थसिद्धस्तु महाभोगी भविष्यति ॥

विद्या भोगवती नाम तस्य सिद्धा नराधिपे ।
अशीतिवर्षाणि कृत्वासौ राज्यं तकरवर्जितम् ॥

ततः प्राणात्यये नृपतौ स्वर्गलोके जजग्मसु ।
तत्र मन्त्राशु सिध्यन्ति शीतला शान्तिकपौष्टिका ॥

तारा च लोकविख्याता देवी पण्डरवासिनी ।
महाश्वेता परहितोद्युक्ता अखिन्नमनसां सदा ॥

इत्येवमादयो प्रोक्ता बहुधा नृपतयोस्तदा ।
अनेकधा बहुधाश्चैव नानारूपविवर्णिताः ॥

शास्तुपूजकास्तेऽपि म्लेच्छराजा न है ।
वविषः सुवृषश्चैव भावसु शुभसुस्तथा ॥

भाकमः पदक्रमश्चैव कमलश्चैव कीर्त्यते ।
भासुप्तः वत्सकश्चैव * * * * * (?) पश्चिमः ॥

प्द्फ़् ७७, प्। ६२२)

उदयः जिह्नुनो ह्यन्ते म्लेच्छानां विविधास्तथा ।
अम्भोधेः भ्रष्टमर्यादा बहिः प्राज्ञोपभोजिनः ॥

शस्त्रसम्पातविध्वस्ता नेपालाधिपतिस्तदा ।
विद्यालुप्ता लुप्तराजानो म्लेच्छतस्करसेविनः ॥

अनेका भूपतयो प्रोक्ता नाना चैव द्विजप्रिया ।
भविष्यन्ति तदा काले चीनं प्राप्य समन्ततः ॥

राजा हिरण्यगर्भस्तु महासैन्यो महाबलः ।
विस्तीर्णश्च तन्त्रश्च प्रभूतजनबान्धवः ॥

म्लेच्छप्रणतो विजयी च शास्तुः शासनतत्परः ।
तेनापि साधितो मन्त्रः कुमारस्यैव महाद्युतेः ॥

विद्याराजामष्ट अक्षरम् * * * * * * * (?) ।
महावीरं नाम विख्यातं सम्पदानां महास्पदम् ॥

तेन बालधियो राजा राज्यहेतोः समाहितः ।
यस्य स्मरितमात्रेण बुद्धत्वं नियतं पदम् ॥

सोऽल्पकार्यनियुञ्जानः राज्यहेतो नराधिपः ।
आकाङ्क्षमानयद्येवं वरदानमनुत्तमम् ॥

ब्रह्माद्या देवतां कृत्स्नामाज्ञापयति सर्वदा ।
किं पुनर्मानुषां लोके इतरां भावकुत्सिताम् ॥

जीवित्वा वर्षशतं सार्धं दिवं गच्छन्महानृपः ।
सोऽनुपूर्वेण धर्मात्मा उत्तमां बोधिमाप्नुयात् ॥

तस्मिं देश इमा विद्या ये कुमारेण भाषिता ।
सत्वरा तेऽपि सिद्ध्यन्ते नान्ये विद्या कदाचन ॥

बोधिसत्त्वो महाधीरः मञ्जुघोषो महाद्युतिः ।
तस्मिं देशे तु साक्षाद् वै तिष्ठते बालरूपिणः ॥

सिद्धिक्षेत्राऽथ परं दिव्यं मानुष्यैः साधयिष्यति ।
तुरुष्कनामा वै राजा उत्तरमायामाशृत ॥

प्द्फ़् ७८, प्। ६२३)

महासैन्यो महावीर्यः तस्मिं स्थाने भविष्यति ।
कश्मीरद्वारपर्यन्तं बष्कलोद्यं सकाविशम् ॥

योजनशतसप्तं तु राजा भुङ्क्तेऽथ भूतलम् ।
सप्तसप्ततिसहस्राणि लक्षौ द्वौ तस्य भूपतेः ॥

भविष्यति न सन्देहो तस्मिं काले युगाधमे ।
सोऽपि सिद्धमन्त्रस्तु जीवेद् वर्षशतत्रयम् ॥

साधिता केशिनी विद्या नराध्यक्षेण धीमता ।
आत्मना श्रेयसार्थं तु विहारां कारयेद् बहून् ॥

षडाशीतिसहस्राणि कुर्यात् स्तूपवरांस्तथा ।
महायानाग्रधर्मं तु बुद्धानां जननीस्तथा ॥

प्रज्ञापारमिता लोके तस्मिं देशे प्रतिष्ठिता ।
स राजा भिन्नदेहस्तु स्वर्गलोकं गमिष्यति ॥

सोऽनुपूर्वेण क्षितीपेशः बोधिं प्राप्स्यति मुत्तमाम् ।
तस्यान्तरे क्षितिपतेः महातुरुष्को नाम नामतः ॥

धीमतः बहुमतः ख्यातो गुरुपूजकतत्परः ।
सदा सोऽपि साधे स मन्त्रं वै तारादेवीं महर्द्धिकाम् ॥

सोऽपि प्रसिद्धमन्त्रस्तु राज्यहेतो थ भूतले ।
महायक्षा महासैन्यः महेशाक्षोऽथ भूपतिः ॥

सम्मतो बन्धुवर्गाणां राजा सोऽपि भविष्यति ।
अष्टौ सहस्रविहाराणां तस्मिं काले भविष्यति ॥

तस्य मन्त्रप्रभावेन जीवेद् वर्षशतद्वयम् ।
यदासौ भिन्नदेहस्तु तुषितेभ्योपपद्यते ॥

सोन्मत्त्तो देवपुत्राणां बोधिसत्त्वो महर्द्धिकः ।
सोऽनुपूर्वेण धर्मात्मा बोध्यङ्ग समभिपूरतः ॥

प्राप्नुयामतुलां बोधिं सोऽनुपूर्वेण यत्नतः ।
तत्र देशे सदा कालं तिष्ठते प्रवरं बहु ॥

प्द्फ़् ७९, प्। ६२४)

जिनैस्तु कथितं पूर्वम् अधुना चर्यया भुवि ।
वीतरागैः समाक्रान्तं नागैश्चापि महर्द्धिकैः ॥

लोकपालास्तथा यक्षाः शास्तु शासनरक्षकाः ।
भविष्यन्ति तदा काले सद्धर्मा रक्षका भुवि ॥

एवं बहुविधाः प्रोक्ता भूपाला लोकविश्रुताः ।
कथिताः कथयिष्यन्ति तस्मिं काले सुदारुणे ॥

पश्चाद्देशपर्यन्तम् उज्जयन्यामतः परे ।
समुद्रतीरपर्यन्तं लाडानां जनपदे तथा ॥

शीलाह्वो नाम नृपतिः बुद्धानां शासने रतः ।
पुरीं बलभ्य सम्प्राप्तो धर्मराजा भविष्यति ॥

विहारां धातुवरां चित्रां श्रेयसां प्राणिनांस्तथा ।
कारयिष्यति युक्तात्मा भूपतिर्धर्मवत्सलः ॥

पूजां च विविधाकारां जिनबिम्बां मनोरमाम् ।
पूजयेद्धातुवराम् अग्र्यां लोकनाथेभ्यो यशस्विषु ॥

नासौ मन्त्रसिद्धस्तु केवलं कर्मजोत्तमः ।
तत्र देशे समाख्यातो भिक्षुः पिण्डचारिकः ॥

शीलवां बुद्धिसम्पन्नो बुद्धानां शासने रतः ।
कालचारी महात्मासौ प्रविष्टो पिण्डचारिकम् ॥

पश्यते राजकुलं श्रेष्ठं विस्तीर्णं च जनावृतम् ।
प्रविष्टो तत्र भिक्षार्थी क्षुधया च समन्वितः ॥

तृषितो क्लान्तमनसो न लेभे पिण्डकं तदा ।
गृहीत्वासौ पुरुषैः क्षिप्रं निर्ययुः तद्गृहात् परम् ॥

ततो सौद्विग्नमनसो रक्षितो राजभटैस्तदा ।
निर्ययुर्नगरात् तस्मात् स्वालयं तत्क्षणाद् गतः ॥

क्षुधितो तृपितश्चैव दुःखी च दुर्मतिं गतः ।
ततोऽसौ भक्तच्छिन्नस्तु अर्धरात्रे समुपस्थिते ॥

प्द्फ़् ८०, प्। ६२५)

प्राणत्यागं तदा चक्रुः यती सौ लघुचेतसः ।
प्रणिधिं च तदा चक्रे लाडानामधिपतिर्भवेत् ॥

ततोऽसौ कालगतो भिक्षुर्धराख्ये नृपतौ कुले ।
उत्पद्येत महात्मासौ शास्तुः शासनपूजकः ॥

दशवर्षाणि विंशं च राज्यं कृत्वा मकण्टकम् ।
लुब्धः स्वजनप्रयोगेण अजीर्णयतिमूर्छितः ॥

भिन्नदेहो ततो राजा कालं कृत्वा दिविं गतः ।
देवा तुषितवरा नाम मैत्रेयो यत्र तिष्ठति ॥

धर्मश्रावी महात्मासौ तत्रासौ उअपपत्स्यते ।
धर्मं शृण्वन्ति सत्कृत्य मैत्रेयस्य महाद्युतेः ॥

सोऽनुपूर्वेण बोधिं च प्राप्स्यति दुर्लभाम् ।
शीलाख्ये नृपतौ वृत्ते चपलस्तत्र भविष्यति ॥

वर्षार्धपक्षमेकं तु पञ्च मासां तथैव तु ।
राज्यं कृत्वा विभिन्नोऽसौ शस्त्रिभिः शस्त्रजीविभिः ॥

स्त्रीकृतेनैव तु दोषेण शस्त्रभिन्नो अधो गतः ।
तस्याप्यनुजो ध्रुवाख्यस्तु ध्रुवः स्थावरतां गतः ॥

सेवक कृपणो मूर्खः लाडानामधिपतिर्भवेत् ।
शेषा नराधिपाः सर्वे मूर्धान्तास्तु सेवकाः ॥

तेषां च पूर्वजा वंशाः शीलाह्वोपरते तदा ।
भविता भूपतयः सर्वे अम्भोजे तीरपर्षगाः ॥

नृपः इन्द्रो सुचन्द्रश्च धनुः केतुस्तथैव च ।
पुष्पनामो ततः प्रोक्ता वारवत्यां पुरोद्भवः ॥

वलभ्यां पुरिमागम्य आद्यमस्यानुपूर्वका ।
प्रभनामा सहस्राणि विष्णुनामा तथैव च ॥

अनन्ता नृपतयो प्रोक्ता यादवानां कुलोद्भवाः ।
तेषामपश्चिमो राजा विष्णुनामा भविष्यति ॥

प्द्फ़् ८१, प्। ६२६)

ऋषिशापाभिभूतस्तु सपौरजनबान्धवः ।
अस्तं गते नृपो धीमाम् उदके प्लाविता पुरी ॥

द्वारवत्या तदा तस्य महोदधिसमाश्रिता ।
उत्तरां दिशि सर्वत्र नानारम्भनितम्बयोः ॥

अनन्ता नृपतयः प्रोक्ता नानाजातिसमाशृताः ।
शकवंश तदा त्रिंशत् मनुजेशा निबोधता ॥

दशाष्ट भूपतयः ख्याता सार्धभूतिकमध्यमा ।
अन्ते नागसेना तु विलुप्ता ते परे तदा ॥

ततो विष्णुहरश्चैव कुन्तनामाजितः परः ।
ईशानसर्वपङ्क्तिश्च ग्रहसुव्र तथापरः ॥

ततस्ते विलुप्तराजानः भ्रष्टमर्याद सर्वदा ।
विष्णुप्रभवौ तत्र महाभोगो धनिनो तदा ॥

मध्यमात् तौ भकाराद्यौ मन्त्रिमुख्यौ उभौ तदा ।
धनिनौ श्रीमतौ ख्यातौ शासनेऽस्मिं हिते रतौ ॥

जप्तमन्त्रौ तथा मन्त्रे कुमारस्त्वयि मन्त्रराट् ।
ततः परेण भूपालो जाताना मनुजेश्वरौ ॥

सप्तमष्टशता त्रीणि श्रीकण्ठावासिनस्तदा ।
आदित्यनामा वैश्यास्तु स्थानमीश्वरवासिनः ॥

भविष्यति न सन्देहो अन्ते सर्वत्र भूपतिः ।
हकाराख्यो नान्तः प्रोक्तो सार्वभूमिनराधिपः ॥

तत्र देशे इमे मन्त्रा सिद्धिं गच्छेयु वै तदा ।
धर्मराजेन ये प्रोक्ता विद्या शान्तिकपौष्टिका ॥

विविधां भोगविषयां सम्पदां विविधांस्तथा ।
नाना च रूपधारिण्यो यक्षिण्यश्च महर्द्धिकाः ॥

भविष्यन्ति तत्र वै सिद्धा तस्मिं काले युगाधमे ।
दक्षिणां दिशिमाश्रित्य ससमुद्रां वसुन्धराम् ॥

प्द्फ़् ८२, प्। ६२७)

राजा श्वेतसुचन्द्रश्च सातवाहन एव तु ।
महेन्द्रं शङ्करश्चैव वल्लभोऽथ महीपतिः ॥

सुकेशिकेशिश्च विख्याता दक्षिणां दिशि ।
मङ्गलो वल्लभः प्रोक्तो गोविन्दः बृन्दखेतुः ॥

मुत्पातः पोतश्चैव महेन्द्रः चन्द्र एव तु ।
गोपेन्द्रो इन्द्रसेनश्च प्रद्युम्नो माधवस्तदा ॥

गणशङ्करश्चैव व्याघ्रं सिंओ तथा बुधः ।
बुधः शुद्धस्तथा कुम्भः निकुम्भश्चैव कीर्त्यते ॥

मथितः सुमितश्चैव * * * * * * * * (?) ।
बलः पुलिनश्चैव सुकेशिः केशिनस्तथा ॥

अनन्ता बहवो ख्याता भूपाला दक्षिणां दिशि ।
अतीतानागता चापि वर्त्तमाना निबोधिता ॥

नानामृत्युभवे ह्येते नानाव्याधिसमाप्लुता ।
शस्त्रसम्पातदुर्भिक्षैः मृताः केचिद् दिविं गताः ॥

इत्येते नृपतयः सर्वे कथिता विपुकस्तथा ।
महेन्द्रान्त नृपोताख्यातः तथासहितस्तथा ॥

भविष्यन्ति तदा अभूत् * * * * * * * * (?) ।
तस्मिं काले तदा देशे मन्त्राणां सिद्धिमिच्छताम् ॥

साधनीया इमा मन्त्राः क्रोधाद्याः कुलिशोचिताः ।
आभिचारुककर्मेषु वश्यार्थे च तथा हितम् ॥

मञ्जुश्रियोऽथ माहात्मा वै कुमारो बालरूपिणः ।
सिध्यते च तदा देशे कलिप्राप्ते च तदा युगे ॥

पर्वतविन्ध्यमाशृतं सागरे लवणोदके ।
कार्तिकेयेति समाख्यातः सत्त्वानां वरदायकः ॥

आज्ञां भो बोधिसत्त्वेन मञ्जुघोषेण धीमता ।
सत्त्वानां हितकाम्यर्थं निवसेद् दक्षिणां दिशि ॥

प्द्फ़् ८३, प्। ६२८)

कार्तिकेयस्य ये मन्त्राः कथिता मञ्जुभाणिना ।
तस्मिं देशे तदा सिद्धिः भविष्यति न संशयः ॥

श्रीपर्वते तदा देशे विन्ध्यकुक्षिनितम्बयोः ।
द्वीपेष्वेव च सर्वत्र कलिङ्गोद्रेषु कीर्त्यते ॥

त्रैगुण्या म्लेच्छदेशेषु समन्ततः ।
अम्भोधेः कुक्षितीरान्ताः नृपा ख्याता अनन्तकाः ॥

कामरूपकलाख्या हि हिमाद्रेः कुक्षिमाश्रिताः ।
बहवो नृपतयो प्रोक्ता उद्रसन्धिषु सर्वदा ॥

नानाम्लेच्छगणाध्यक्षा शास्तुपूजकतत्पराः ।
इन्द्रो सुचन्द्रमहेन्द्रश्च भूपाल म्लेच्छवासिनाः ॥

क्ष्मापालो उभौ तत्र षोडशार्द्धा शासने रता ।
पूजकाः शास्तुबिम्बानां त्वत्प्रसादा ॥

भविष्यन्ति न सन्देहो प्रसन्ना शासने जिने ।
बहवो नृपवराः प्रोक्ताः पूर्वायां दिशिमाशृताः ॥

अतीतानागता ये तु वर्त्तमानाश्च सर्वदा ।
आद्यं नृपवरं वक्ष्ये गौडानां वंशजो भुवि ॥

जातोऽसौ नगरे रम्ये वर्धमाने यशस्विनः ।
लोकाख्यो नाम सौ राजा भवति गौडवर्धनः ॥

मामानुत्पन्नलोकेऽस्मिं भवितासौ धर्मचिन्तकः ।
बहवः क्षितिपाः क्रान्ता विविधा जीवकर्मिणः ॥

मध्यकाले समास्वासा मध्यमा मध्यधर्मिणः ।
अनन्ते व युगे नृपेन्द्रा शृणु तत्त्वतः ॥

समुद्राख्यो नृपश्चैव विक्रमश्चैव कीर्त्तितः ।
महेन्द्रनृपवरो मुख्य सकाराद्यो मतः परम् ॥

देवराजाख्यनामासौ युगाधमे * * * * (?) ।
निर्द्धाख्ये नृपः श्रेष्ठः बुद्धिमान् धर्मवत्सलः ॥

प्द्फ़् ८४, प्। ६२९)

तस्याप्यनुजो बलाध्यक्षः शासने च हिते रतः ।
प्राचीं समुद्रपर्यन्तां चैत्यालङ्कृतशोभनाम् ॥

करिष्यति न सन्देहः कृत्स्नां वसुमतीं तदा ।
विहारारामवापीश्च उद्याना मण्डवकां सदा ॥

करिष्यति तदा श्रीमां सङ्क्रमां सेतुकारकः ।
शास्तुर्बिम्बान् तदा पूजेत् तत्प्रसन्नांश्च पूजयेत् ॥

कृत्वा राज्यं महीपालो निःसपत्नमकण्टकम् ।
जीवेद् वर्षां षट्तृंशत्तृंशाहं प्रव्रजेनृपः ॥

ततोत्मानं घातयेद् राजा ध्यायन्तः सम्प्रमूर्च्छितः ।
पुत्रशोकाभिसन्तप्तः यतिवृत्तिसमाशृतः ॥

ततोऽसौ भिन्नदेहस्तु नरकेभ्योपपद्यत ।
त्रीणि एकं च दिवसानि उपित्वा नरकं गतिम् ॥

देहमुत्सृज्य दिविं गच्छेत् सदा नृपः ।
देवानां सुकृतिनां लोकः शुद्धावास इति स्मृतः ॥

देवराजा भवेत् तत्र शुद्धात्मा बोधिनिम्नगः ।
शतशः सहस्रशश्चैव अनुभूय दिविं सुखम् ॥

पुनरेव मानुष्यं प्राप्य बुद्धो भूयो भवान्तरे ।
तेनैव कारितं कर्म अन्यजन्मेषु देहिनाम् ॥

पुरीमुज्जयनीं ख्याता मालवानां जने तदा ।
तत्रायनीमुख्यः वणिजो यो महाधनः ॥

बुद्धानामसम्भवे काले शून्ये लोके निरास्पदे ।
प्रत्येकबुद्धा लोकेऽस्मिं विहरन्ति महर्द्धिकाः ॥

सत्त्वानां हितकामाय विचरन्ति महीतले ।
पुरी उज्जयिनी प्राप्य प्रविष्टा पिण्डचारिका ॥

वर्गचारिणो महात्मानः रथ्यायामवतरतत् ।
वाण्याजेय तुस्तदा सैव दृष्ट्वा तु सम्मुखां मुनिम् ॥

प्द्फ़् ८५, प्। ६३०)

निमन्त्रयामास तदा भक्तेन स्वगृहं चैव नयेत् तदा ।
नीत्वा मुनिवरां क्षिप्रमासनेन निमन्त्रयेत् ॥

सङ्घीभवध्व भवतः भक्तकालोऽयमुपस्थितः ।
तेऽपि तूष्णीं महात्मानो न वाचां भाषिरे तदा ॥

पात्रं च नामयामास वाणिजे यस्य सर्वदा ।
वणिजा इङ्गितज्ञाश्च बुद्धिमन्त्रो भवेत् तदा ॥

पात्रं च पूरयामास विविधाकारभोजनैः ।
तदासौ स्वहस्तेनैव तेषां प्रायच्छ यत्नतः ॥

गृहीत्वा तु ततः सर्वे प्रजग्मुः सर्वतोनभम् ।
दीपमालेव दृश्यन्ते व्योममूर्तिसमाश्रिताः ॥

ततोऽसौ हृष्टरोमस्तु संवेगबहुलस्तदा ।
भूम्यां च पतितस्तत्र ऋद्ध्या वर्जितमानसः ॥

प्रणिधिं च तदा चक्रे प्रव्याहारवभं यथा ।
अनेन कुशलमूलेन यन्मया प्राप्तमद्यतः ॥

एषा मुनिवरा मग्र भवेद् बुद्धो ह्यनुत्तरः ।
दशजन्मसहस्राणि चक्रवर्त्ति तदा भुवि ॥

ततोऽसौ व्युक्तदेहस्तु कोटिशष्टिदिवौकसाम् ।
अनुभूय चिरं सौख्यं त्यक्त्वा जन्म दिवौकसाम् ॥

मानुषाणां तदा जन्म प्राप्नुयात् परवशा इह ।
तस्य राजकुले जन्म भवतीह तु सर्वदा ॥

बालाख्यो नाम सौ नृपतिर्भविता पूर्वदेशकः ।
आजन्मसहस्राणि चिरसौख्यमनावृतम् ॥

प्राप्नुवन्ति या नृपतिः श्रीमां सर्वज्ञत्वं च पश्चिमम् ।
एवं बहुविधं मत्वा सम्पदो विपुलास्तथा ॥

को नु कुर्यात् तदा शास्तुः पूजनाध्येषणांस्तथा ।
कारांश्च श्रेयसीं युक्तां बोधिमार्गवियोजनीम् ॥

प्द्फ़् ८६, प्। ६३१)

तस्यापरेण नृपतिः गौडानां प्रभविष्णवः ।
कुमाराख्यो नामतः प्रोक्तः सोऽपि रत्यन्तधर्मवाम् ॥

तस्यापरेण श्रीमाम् उकाराख्येति विश्रुतः ।
ततः परेण विश्लेष तेषामन्योन्यतेष्यते ॥

महाविश्लेषणा ह्येते गौडा रौद्रचेतसः ।
ततो देव इति ख्यातो राजा मागधकः स्मृतः ॥

सोऽप्यतहतविध्वस्तरिपुभिः समता वृतः ।
यस्यापरेण चन्द्राख्यः नृपतित्वं कारयेत् तदा ॥

सोऽपि शस्त्रविभिन्नस्तु पूर्वचोदितकर्मणा ।
तस्यापि सुतो द्वादश गणनां जीवेन्मासपरम्परम् ॥

सोऽपि विभिन्नशस्त्रेण बाल एव अभूत् तदा ।
तेषां परस्परोपविघ्नचित्तानां रौद्राणामहिते रताम् ॥

भविष्यति तदा काले भकाराख्यो नृपपुङ्गवः ।
अग्रणीर्गौडलोकानां महाव्याधिसमाकुलः ॥

तेनैव व्याधिना आर्त्तः कालं कृत्वा अधो गतः ।
तस्यापरेण दकाराख्यः कतिपायां दिवसां दश ॥

भविता गौडदेशेऽस्मिं गङ्गातीरसमाशृतः ।
तस्यापरेण भकाराख्यस्त्रीणि दिवसानि कारयेत् ॥

ततो गोपालको राजा भविता सर्वदस्तदा ।
प्रियवादी च सो राजा घृणी चैव महाबलः ॥

स्त्रीवशः कृपणो मूर्खः जितशत्रुर्भवेद् युवाम् ।
कल्याणमित्रमागम्य महात्यागी भवेत् तदा ॥

विहारांश्चैत्यवरां रम्यामारामां विविधास्तदा ।
वाप्योऽथ जलसम्पन्ना सत्रागारां सुशोभनाम् ॥

सेवतो बहवस्तस्य यशः कीर्त्याथमुद्यतः ।
देवायतनरम्यां वै गुणावसथकारिणः ॥

प्द्फ़् ८७, प्। ६३२)

पापण्डीभिः समाक्रान्तं नानातीर्त्थिकवासिभिः ।
आक्रान्तः सो दिशः सर्वा समुद्रातीरचर्यगाः ॥

क्रिपी भोगी प्रमादी च स राजा धर्मवत्सलः ।
भविष्यति न सन्देहः स प्राचीं दिशि मूर्जितः ॥

सद्यातीसारसंयुक्तवार्द्धिक्ये समुपस्थितः ।
गङ्गातीरमुपाश्रित्य राज्यं कृत्वा तु वै तदा ॥

विंशद् वर्षाणि सप्तं च जन्मनाशीतिको मृतः ।
ततोऽसौ भिन्नदेहस्तु तिर्यगेभ्योऽपिपद्यते ॥

नागराजा ततः श्रीमान् धर्मवत्सलः ।
येनास्य कारितं चैत्य शास्तुबिम्बं मनोरमम् ॥

विहारां कारितवांश्चात्र सङ्घस्यार्थे तदा भुवि ।
तेन कर्मविपाकेन अन्तिमे च भवे श्रिते ॥

बुद्धत्वं नियतं मार्गं प्राप्नुयादचलं पदम् ।
ततः परेण गौडानां तीर्थिकाक्रान्तपुरं भुवि ॥

ता पूर्वदेशेऽस्मिन् नगरे तीर्थिकसमाह्वये ।
भगवाख्ये नृपे ख्यातः गौडानां प्रभविष्णवः ॥

अभिषिक्तो दक्षिणात्येन प्रतिना प्रभविष्णुना ।
राज्यं कृत्वा तु वै तत्र पश्चिमां दिशिमागतः ॥

प्रविश्य नगरीं रम्यां साकेतां तु यथेप्सितः ।
अरिणा भूतस्तु पुनरेव निवर्तते ॥

प्राचीं समुद्रपर्यन्तां तस्करैश्च समावृतः ।
शस्त्रप्रहारविध्वस्तमृतोऽसौ प्रेततां गतः ॥

त्रीणि वर्षाणि कृत्वासौ भूपालो राज्यमल्पकम् ।
ततो दस्युर्भिर्ग्रस्तः मृतः प्रेतमहर्द्धिकः ॥

त्रीणि वर्षाणि तत्रैव प्रेतेभ्यो राज्यमकारयेत् ।
ततोऽपि सो त्यक्तदेहस्तु प्रेतलोकां सुदारुणाम् ॥

प्द्फ़् ८८, प्। ६३३)

तस्मान्मुक्तजन्मानः स्वर्लोकं च सदा व्रजेत् ।
तस्याधरेण नृपतिस्तु समुद्राख्यो नाम कीर्तितः ॥

त्रीणि दिवसानि दुर्मेधः राज्यं प्राप्स्यति दुर्मतिः ।
तस्याप्यनुजो विक्यातः भस्ममाख्यो नाम नामतः ॥

प्रभुः प्राणातिपातसंयुक्तः महासावद्यकारिणः ।
निर्घृणी अप्रमत्तश्च स्वशरीरे तु यत्नतः ॥

परलोकार्थिने नासौ बलिसत्त्वदिहैव तु ।
अकल्याणमित्रमागम्य पापं कर्म कृतं बहु ॥

द्विजैराक्रान्ततद्राज्यं तार्किकैः कृपणैस्तथा ।
विविधाकारभोगांश्च मानुषा पितरास्तथा ॥

विविधां सम्पदां सोऽपि प्राप्तवान् नृपतिस्तथा ।
सोऽनुपूर्वेण गत्वासौ पश्चिमां दिशि भूपतिः ॥

कश्मीरद्वारपर्यन्तम् उत्तरां दिशिमाशृतः ।
तत्रापि जितसङ्ग्रामी राज्यं कृत्वा तु वै तदा ॥

द्वादशाब्दानि सर्वत्र मासां पञ्चदशस्तथा ।
पृथिव्यामार्तरोगोऽसौ मूर्छितश्च पुनः पुनः ॥

महादुःखाभिभूतस्तु भिन्नदेह अधोगतः ।
तेषां परस्परतो द्वेषे लुब्धानां राज्यहेतुनाम् ॥

महाशस्त्रोपसम्पातं कृत्वा ते तु परस्परम् ।
अभिषिञ्च्य तदा राज्यं सकराख्यं बालदारकम् ॥

चिह्नमात्रं तु तं कृत्वा पुनरेव निवर्त्तते ।
यैर्द्विजातिमुक्यानां भिन्नास्तेऽपि परस्परम् ॥

मागधां जनपदां प्राप्य पुरे उदुम्बराह्वये ।
द्वै बालौ द्विजातिमुख्यश्च अभिषेच्य स्वयं भुवि ॥

ततोऽनुपूर्वेण गत्वासौ प्राचीं दिशिमाशृतः ।
गौडां जनपदां प्राप्य निःसपत्ना ह्य वै तदा ॥

प्द्फ़् ८९, प्। ६३४)

घातितौ बालमुख्यौ तौ कलिङ्गक्षु दुरात्मना ।
अकल्याणमित्रमागम्य कृतं प्राणिवधो बहुम् ॥

पूर्वसम्मानिता ये तु नृपैर्विग्रहमानिभिः ।
घातयामास सर्वेषां गौडानां जनवासिनाम् ॥

सोमाख्योऽपि ततो राजा एकवीरो भविष्यति ।
गङ्गातीरपर्यन्तं वाराणस्यामतः परम् ॥

नाशयिष्यति दुर्मेध। शास्तुर्बिम्बां मनोरमाम् ।
जिनैस्तु कथितं पूर्वं धर्मसेतुमनल्पकम् ॥

दाहापयति दुर्मेधः तीर्त्थिकस्य वचे रतः ।
ततोऽसौ क्रुद्धलुब्धस्तु मित्थ्यामानी ह्यसम्मतः ॥

विहारारामचैत्यांश्च निर्ग्रन्थां वसथां भुवि ।
भेत्स्यते च तदा सर्वां वृत्तिरोधमकारक ॥

भविष्यते च तदा काले मध्यदेशे नृपो वरः ।
रकाराद्योतयुक्तात्मा वैश्यवृत्तिमचञ्चलः ॥

शासनेऽस्मिं तथा शक्त सोमाख्यससमो नृप ।
सोऽपि याति तवान्तेन नग्नजातिनृपेण तु ॥

तस्याप्यनुजो हकाराख्य एकवीरो भविष्यति ।
महासैन्यसमायुक्तः शूरः क्रान्तविक्रमः ॥

निर्धारये हकाराख्यो नृपतिं सोमविश्रुतम् ।
वैश्यवृत्तिस्ततो राजा महासैन्यो महाबलः ॥

पूर्वदेशं तदा जग्मुः पुण्ड्राख्यं पुरमुत्तमम् ।
क्षत्रधर्मं समाशृत्य मानरोपमशीलिनः ॥

घृणी धर्मार्त्थको विद्वां कुर्यात् प्राणिवधं बहून् ।
सत्त्वानुपीडनपरो निग्रहायैव सो रतः ॥

पराजयामास सोमाख्यं दुष्टकर्मानुचारिणम् ।
ततो निषिद्धः सोमाख्यो स्वदेशेनावतिष्ठतः ॥

प्द्फ़् ९०, प्। ६३५)

निवर्तयामास हकाराख्यः म्लेच्छराज्ये मपूजितः ।
तुष्टकर्मा हकाराख्यो नृपः श्रेयसा चार्थधर्मिणः ॥

स्वदेशेनैव प्रयातः यथेष्टगतिनापि वा ।
तैरेव कारितं कर्म राज्यहर्षीसमन्वितैः ॥

अधुना प्राप्तवां भोगां राज्यवृत्तिमुपाशृताम् ।
पूर्वं प्रत्येकबुद्धाय भक्ताच्छादनदत्तवाम् ॥

पादुकौ च तदा दत्तौ च्छत्रचामरभूषितम् ।
तस्य धर्मप्रभावेतौ महाराज्यतृदेवतौ ॥

भुक्तवां भोगसम्पत्तीः देवमनुष्यसर्वदा ।
सोमाख्यो द्विजाह्वयो महाभोगी भवे ह्यसौ ॥

भोगां द्विजातिषु दत्त्वा वै राज्यं कृत्वा वै तदा ।
सार्धं सप्तमं तथा * * * * * * * * * (?) ॥

वर्षा दश सप्तं च मासमेकं तथापरम् ।
दिवसां सप्तमष्टौ च मुखरोगसमाकुलः ॥

कृमिभिर्भक्षमाणस्तु कालं कृत्वा अधोगति ।
अमानुषाक्रान्तविध्वस्तं तत् पुरं च अभूत् तदा ॥

मानुषेणैव दोषेण ज्वरार्तो व्याधिमूर्च्छितः ।
मृतो मन्त्रप्रयोगेण राजासौ कालगतस्तदा ॥

अवीचिर्नाम विख्यातं नरकं पापकारिणा ।
तत्रासौ उपपद्येत ज्पापकर्मान्तचारिणः ॥

महाकल्पं तदा नरके पच्यतेऽसौ दुष्टचेतसः ।
ततो टटं हहवं चैव सञ्जीवं कालसूत्रं तु ॥

असिपत्रवनं घोरम् अनुभूय पुनः पुनः ।
तिर्यक्प्रेतलोकं च पुनस्तथा ॥

एवं जन्मसहस्राणि संसारे संसरतः पुनः ।
नासौ विन्दति सौख्यानि दुःहधानी भवेद् सदा ॥

प्द्फ़् ९१, प्। ६३६)

तस्मात् सर्वप्रयत्नेन शासनेऽस्मिं तथागते ।
प्रसाद्यमखिलं चित्तं गच्छध्वं निर्जरसम्पदम् ॥

बुद्धे कारापकारां च अनन्ता भवति कर्मता ।
बुद्धे प्रासादः कर्तव्यः धर्मसङ्घे च वै तथा ॥

भवन्ति लोके अग्रस्तु त्रिरन्त्रे पूजका नृपा ।
महेशाख्यमहेराज्यं महाभोगा धनेश्वरा ॥

प्राप्नुयाद् विविधां सोख्यां सम्पदां विपुलां नृपा ।
पूजयित्वा तु लोकाग्र्यां लोक ईश्वरतां व्रजेत् ॥

शक्रत्वमथ याम्यत्वं ब्रह्मत्वं च पुनः पुनः ।
प्रत्येकबुद्धा बुद्धत्वं श्रावकत्वं च वै भुवि ॥

प्राप्नुवन्ति त्रियानमग्रत्वं द्वौ यातौ निःस्पृहतां गतः ।
एवं ह्यचिन्तिया बुद्धा बुद्धज्ञानोपचिन्तियः ॥

अचिन्तियो हि फलं तेषां विपाको भवन्त्यचिन्तियः ।
अतः परेण सोमाख्यो नृपतौ अप्यस्तमिते भुवि ॥

अन्योन्यक्षोभशीलस्तु गौडतन्त्रो भविष्यति ।
सदा उद्यतशस्त्रास्तु अन्योन्यापि नपेक्षिणः ॥

दिवसा सप्तमेवं तु मासमेकं तथापरम् ।
गणज्यं तदा तन्त्रे भविष्यति सदा भुवि ॥

गङ्गातीरे एतस्मिं विहाराध्युषितमालये ।
ततः परेण सुतस्तस्य सोमाख्यस्य च मानवे ॥

मासान्यष्टौ दिवसा पञ्च साधाहे सुनिशात्यन्तु ।
वैश्यवर्णशिशुस्तदा * * * * * * * * (?) ॥

नागराजसमाह्वेयो गौडराजा भविष्यति ।
अन्ते तस्य नृपे तिष्ठं जयाद्यावर्णतद्विशौ ॥

वैश्यैः परिवृता वैश्यं नागाह्वेयो समन्ततः ।
दुर्भिक्षोपद्रवास्तेऽपि परचक्रोपद्रुतास्तदा ॥

प्द्फ़् ९२, प्। ६३७)

तेषां राज्यमसम्प्राप्तं महातस्करमाकुलाः ।
ते तं भ्रष्टमर्यादा * * * * * * * * * (?) ॥

वर्षा पञ्चकमेकं वै भुङ्क्ते तत्र समाकुलाम् ।
प्राणात्ययं तदा चक्रुः कृत्वा प्राणिवधं बहून् ॥

पूर्वकर्मपराधेन ते जना वैश्यवृत्तयः ।
अन्योन्यक्षोभशीलास्तु भविष्यन्ति तदा अभूत् ॥

प्रभविष्णुस्तदा तेषां क्षत्रवृत्तिसमाश्रितः ।
भविष्यन्ति न सन्देहः गौडतन्त्रे नराधिपः ॥

शस्त्रभिन्ना तथा केचिद् व्याधिभिश्च समाकुलाः ।
कालं कृत्वा ततो याता नरकेभ्यो नराधिपा ॥

स्त्रीप्रधानं शिशुस्तत्र पुनरेव नराधिपः ।
पक्षमेकं तथा वै शस्त्रभिन्नो हतस्तदा ॥

महादुर्भिक्षसम्पातं परचक्रसमाकुलम् ।
प्राच्या जनपदा व्यस्ता उत्रस्ता गतमानसा ॥

भविष्यन्ति न सन्देहः तस्मिं देशे नराधिपाः ।
मधुरायां जातवंशाढ्यः वणिक् सूर्वी नृपो वरः ॥

सोऽपि पूजितमूर्त्तिस्तु मागधानां नृपो भवेत् ।
तस्याप्यनुजो भकाराख्यः प्राचीं दिशि समाशृतः ॥

तस्यापि सुतः पकाराख्यः प्राग्देशेष्वेव जायतः ।
क्षत्रियः अग्रणी प्रोक्तः बालबन्धानुचारिणः ॥

दश वर्षाणि सप्तं च बन्धनस्थमधिष्ठितः ।
गोपाख्येन नृपतिना बद्धो मुक्तोऽसौ भगवाह्वये ॥

पश्चाद्देशसमायातः अकाराख्यो महानृपः ।
प्राचिं दिशिपर्यन्तं गङ्गातीरमतिष्ठत ॥

शूद्रवर्णो महाराजा महासैन्यो महाबलः ।
सो तं तीरं समाशृत्य तिष्ठते च समन्ततः ॥

प्द्फ़् ९३, प्। ६३८)

पुरीं गौडजने ख्यातं तीर्थाह्वति विश्रुतः ।
समाक्रम्य राजासौ तिष्ठते च महाबलः ॥

तत्रौ च क्षत्रियो बालः वणिना च तथागतः ।
रात्रौ प्रविष्टवांस्तत्र रात्र्यन्ते च प्रपूजितः ॥

शूद्रवर्णै नृपः ख्यातः पुनरेव निवर्तयम् ।
गङ्गातीरपर्यन्तं नगरे नन्दसमाह्वये ॥

मागधानां तदा राज्यं स्थापयामास तं शिशुम् ।
काशिनं पद प्राप्य वारणस्यमतः पुरे ॥

प्रविशेच्छूद्रवर्णस्तु महीपालो महाबलः ।
महारोगेण दुःखार्तः अभिषेचे स तं तदा ॥

अभिषिच्य तदा राज्यं ग्रहाख्यं बालदारकम् ।
महारोगाभिभूतस्तु भूमावावर्त वै तदा ॥

ततोर्ध्वं निःश्वस्य यत्नेन भिन्नदेहोऽपि तीर्यतः ।
तिर्येभ्ये वसं मासाम् अष्ट सप्तं च वै तदा ॥

ततोऽसौ मुक्तजन्मान देवेभ्यो मुपपद्यते ।
विविधां देवसम्पत्तिं विंशजन्मानि वै तदा ॥

ततोऽनुपूर्वेण धर्मात्मा प्रत्येकं बोधिमाप्नुयात् ।
तेनैवोपार्जितं कर्म पूर्वकालेषु जन्मनि ॥

प्रत्येकबुद्धो महात्मा वै वस्त्रैः समभिच्छादितः ।
उपानहं नामयामास हस्त्यश्वरथहेतुना ॥

भोजनं च तदा तस्य तस्मा दद्युः प्रयत्नधीः ।
तेन कर्मविपाकेन देवराजा शतक्रतुः ॥

भविता देवलोकेऽस्मिं त्रिंशत्कोट्यास्तु जन्मतः ।
भुविमायात राजासौ भविता इह जन्मनि ॥

परैरुपार्जितं राज्यम् अनुभोक्ता भविष्यति ।
तस्यापि च सुतो राजा वाराणस्यां तु प्रतिष्ठितः ॥

प्द्फ़् ९४, प्। ६३९)

समन्ताद्धतविध्वस्तविलुप्तराज्यो भविष्यति ।
द्विजक्रान्तमभूयिष्ठं तद् राज्यं रिपुबिस्तदा ॥

प्रमादी कामचारी च स राजा ग्रहचिह्नितः ।
अपश्चिमे तु काले वै पश्चाच्छत्रुहतो मृतः ॥

मागधो नृपतिस्तेषाम् अन्योन्यावरोधिनः ।
सोमाख्ये नृपते वृत्ते प्राग्देशे समन्ततः ॥

गङ्गातीरपर्यन्तं वाराणस्यामतः परम् ।
भविष्यति तदा राजा पकाराख्यः क्षत्रियस्तदा ॥

योऽसौ शूद्रवर्णेन अकाराख्येन पूजितः ।
नगरे नन्दसमाख्याते गङ्गातीरे तु समाश्रिते ॥

भविता क्षत्रियो राजा पूर्वकर्मैस्तु चोदितः ।
तेनैव कारितं कर्म कृतं चाप्यनुमोदितम् ॥

अतिक्रान्ते तदा काले कनकाह्वे शास्तुसम्भवे ।
वाराणस्यां महानगर्यां श्रेष्ठिरासीन्महाधनः ॥

वणिजः स सुतो बालः बालिशैस्तु समावृतः ।
पांसुक्रीडनमर्थाय रथ्यायां प्रतिपद्यते ॥

स्वगृहे स्तूपवरं दृष्ट्वा पितामात्राभिपूजितम् ।
तदेव मन्सा वर्ते स्तूपं कृत्वा तु पांसुना ॥

पूजां च कारयामास निर्माल्यकुसुमैस्तदा ।
संस्तवामास तं स्तूपं बुद्धत्वं श्राद्धगतिस्मृतिः ॥

क्रीडते बालस्तत्र शुशुभिः परिवारितः ।
जिने कनकशास्तुस्य श्रावकाग्रो तदैककः ॥

वीतदोषस्तु युक्तात्मा त्रैधातुकमुक्तधीः ।
तदासौ वीतदोषस्तु पिण्डपातमहिण्डत ॥

प्रविशते च तदा नगरीं वारणस्यां सुशोभनाम् ।
वीतरागस्तदादेशं यत्र ते बालिशा भुवि ॥

प्द्फ़् ९५, प्। ६४०)

यत्र ते शैशवः सर्वे समन्तात् परिवारिताः ।
एहि भिक्षु इहागच्छ वन्द स्त्वं शास्तुचैत्यकम् ॥

अस्माभिः कारितं यत्नात् न त्वं पश्यसि शोभनम् ।
ततः श्रेष्ठिसुतो बालः गृहीत्वा तृणवरितितम् ॥

क्रीडया बन्धयामास वीतरागं महर्द्धिकम् ।
समन्वाहरति तत्रासौ वीतरागो महर्द्धिकः ॥

पश्यते भुवि तत्रस्थं चैत्यं कारितकं हि तैः ।
बालिशं मूर्ध्नि मासृज्य एवं वोच महात्मधीः ॥

मुञ्च दारक गच्छामो यत्र त्वं कारितं कृतिः ।
आगता च ततः सर्वे यत्र धातुधरं भुवि ॥

वन्दित्वा वीतरागा महात्मासौ शिशुभिश्चैतदासमैः ।
पुनरेव प्रस्थितो वीरः पिण्डकार्थं यथेप्सतः ॥

ततः श्रेष्ठिसुतो बालः गृहीत्वा चीवरान्तिकम् ।
स्वगृहं नीतवां ह्यासीद् भोजनार्थं च कारयेत् ॥

ततः श्रेष्ठिमुख्योऽसौ दृष्ट्वा तं बालिशम् ।
गृहीत्वा चीवरान्ते तु वीतरागं महर्द्धिकम् ॥

भीतो हृष्टरोमश्च गृहं मे आगतोऽग्रजः ।
पादयोर्निपतितं क्षिप्रं मुञ्चापयति बालकम् ॥

गृहीत्वा तु सुतं तस्य क्षमापयामास यत्नतः ।
पात्रं तु गृहीत्वा वै जिने अग्रजिते हिते ॥

पूरयामास तं पात्रं शालिव्यञ्जनभक्षकैः ।
सुतं चामन्त्रयामास गृह्य मन्त्र प्रयच्छ भोः ॥

ततो बालोऽथ सप्रज्ञो हस्तौ प्रक्षाल्य यत्नतः ।
गृहीत्वा पात्रपूरं तु वीतरागाय नामयेत् ॥

नामयित्वा तु तं क्षिप्रं पादयोर्निपतितो भुवि ।
वीतरागो गृहीत्वा तु भुक्तवाम् ॥

प्द्फ़् ९६, प्। ६४१)

वीतरागो तदा ह्यासीत् सुखसंस्पर्शं च लब्धवाम् ।
अपरस्तत्र बालो वै मात्सर्याविष्टमानसः ॥

केवलं रोषचित्तेन वीतरागो परेऽहनि ।
प्रभूतं खाद्यभोज्यं च गृहीत्वा तं प्रयच्छत ॥

यद्यस्ति कुशलं किञ्चित् त्वयि दत्वा तु पिण्डकम् ।
अनेन श्रेष्ठिसुतस्याहं भविता आढ्यतमो भुवि ॥

ततस्ते तीर्थिकाः सर्वे द्विजातिवनिता तदा ।
सन्निपत्य तदा सर्वे कलहं निन्दकं कृत्वा ॥

बालिशस्त्वं न जानासि मुण्डकानां कुतो गतिः ।
आत्मना अस्थिता ह्येते परेषां कुत्र निर्वृतिः ॥

तस्य बालकसत्त्वस्य द्वेषमुत्पन्न तादृशम् ।
नाशयामास एतेषां शास्तारेणोपवर्णिताम् ॥

धर्मसेतु सदा कीर्तिं विहारां चैत्यवरां भुवि ।
श्रेष्ठिमुख्यसुतस्यैव आघातं चैव कारयेत् ॥

एतेषां मुण्डकानां तु दत्त्वा दानं कुतो गतिः ।
कुगतिग्रस्तचित्तानां विघातं कारयाम्यहम् ॥

यो सौ वाद्यतमो बालो सोमाख्योऽपि नृपो ह्यसौ ।
अनुभूय चिरं दुःखं विपाकः तस्य नैष्ठिकम् ॥

श्रेष्ठिमुख्यस्य पुत्रोऽसौ भिन्नदेहो दिविं गतः ।
अनुभूय चिरं सौख्यं दिवौकसानां तदा तदा ॥

च्युतोऽसौ देवलोकेऽस्मिम् ।
तदाजन्मे बन्धं सेत्स्यति सर्वदा ॥

तृजन्मोपगतो मर्त्यः क्ष्मापतिः भविता पुनः ।
पुनश्च पतितः कर्मेण तत्र तत्र तदा तदा ॥

भविता जन्मलोकेऽस्मिं नृपतित्वं कारयेद् भुवि ।
निर्माल्यदानं यस्स्तूपे निवेद्य सौ बालचापलात् ॥

तेनास्य भोगा क्लिष्टा वै क्लिष्टादानस्य तत् फलम् ।
दुःखेन भोगांस्तु प्राप्तस्तु नग्नसन्धीव सौ नृपः ॥

प्द्फ़् ९७, प्। ६४२)

अस्थैर्या बालवत्त्वच्च चलचित्ततया च सदा ।
कुर्वीत महतीं पूजां शास्तुर्धातुवरे भुवि ॥

तेन कर्मविपाकेन राज्यैश्वर्यं चलतां व्रजेत् ।
भूत्वा भवति राजा अभूत्वा प्रतिगच्छति ॥

उदीच्यप्रतीच्यमध्यौ सो नृपतित्वं कारयेद् भुवि ।
यो सौ मुक्तधीवन्धः पुनर्मुक्तश्च बालकः ॥

तेन कर्मविपाकेन बद्धो मुक्तश्च बालकः ।
पञ्चजन्मशतानैव बद्धो मुक्तश्च बालकः ॥

अपश्चिमे तु तदा जन्मे बन्धं छेत्स्यति सर्वदा ।
पञ्चपञ्चाशवर्षस्तु सप्तसप्ततिकोऽपि वा ॥

प्राचीं समुद्रपर्यन्तां राजासौ भविता भुवि ।
विन्ध्यकुक्षिनिविष्टास्तु प्रत्यन्तम्लेच्छतस्कराः ॥

सर्वे ते वशवर्ति स्यात् पकाराख्ये नृपतौ भुवि ।
हिमाद्रिकुक्षिसन्निविष्टा तु उत्तरां दिशिमाशृताम् ॥

सर्वां जनपदां भुङ्क्ते राजासौ क्षत्रियस्तदा ।
पांसुना कृत्वा स्तूपम् अज्ञानाद् बालभावतः ॥

मागधेषु भवेद् राजा निःसपत्नमकण्टकः ।
सैमामटवीपर्यन्तां प्राचीसमुद्रमाशृतः ॥

लौहित्यापरतो धीमाम् उत्तरे हिमवांस्तथा ।
पश्चात् काशिपुरी रम्यां शृङ्गाख्ये पुर एव वा ॥

अत्रान्तरे महीपालः शास्तुशासनदायकः ।
पञ्चकेसरिनामानौ जित्वा नृपतिनौ सौ ॥

स्वं राज्यमकारयत् * * * * * * * * * (?) ॥

सर्वास्तां सिंहजास्तेऽपि ध्वस्तोन्मूलिता तदा ॥

हिमाद्रिकुक्षिप्राच्यां भो दशानूपः तीरमाश्रयेत् ।
सत्त्वा जनपदां भुङ्क्ते राजासौ क्षत्रियस्तदा ॥

प्द्फ़् ९८, प्। ६४३)

अभिवर्धमानजन्मस्तु भोगास्तस्य च वर्द्धताम् ।
वार्धिक्ये च तदा प्रोक्ते भोगां निश्चलतां व्रजेत् ॥

अशीतिवर्षाणि जीवेयुः सप्त सप्त तथा पराम् ।
ततो जीर्णाभिभूतस्तु कालं कृत्वा दिविं गतः ॥

देवलोकेऽस्मिं चिरसौख्यमनुभूय तथा नृपः ।
पुनश्चवति कर्मेण पूर्वसङ्क्लेशितेन तु ॥

तिर्यक्षु न्वसे मासं नागराजमहर्द्धिकः ।
ततोऽसौ भिन्नदेहस्तु मानुषेभ्योपपद्यते ॥

क्षत्रियो धीमतो जतो वणिग्जीवी विशारदः ।
कल्याणमित्रमागम्य भोक्तासौ जिनशासने ॥

साधयेद् विद्याराज्ञीं तारादेवीं महर्द्धिकाम् ।
सिद्धमन्त्रस्तु जिनो नासौ यथेष्टगतिचारिणः ॥

विद्याधराणां तदा राजा भविता सुगतस्तदा ।
चक्रवर्तिस्तदा ख्यातो नाम्नासौ चित्रकेतवः ॥

विद्याधराणां तदा कर्म ख्यातोऽसौ मतिमांस्तथा ।
अशीतिवर्षकोट्यानि नवसप्तानि चैतदा ॥

दिव्यमानुष्यमाद्येन भविता चक्रवर्त्तिनः ।
परिवारस्तस्य कन्यानां षष्टिकोट्यो मजायत ॥

ततोऽसौ भिन्नदेहस्तु तारादेव्यानुचोदितः ।
देवानामधिपतिं गच्छेत् तत्र धर्मं च देशयेत् ॥

सोऽनुपूर्वेण महीपाल क्षिप्रं बोधिपरायणः ।
पकाराख्ये च नृपतौ वृत्ते तदा काले युगाधमे ॥

भिन्नं परस्परं तत्र महाविग्रहमाशृताः ।
बृत्यस्तस्य तु सप्ताहं राज्यैश्वर्यमकारयेत् ॥

ततोऽनुपूर्वेण सप्ताहाद् वकाराख्यो नृपतिस्तथा ।
सोऽप्यह*****(?) प्रक्रमेत दिशास्ततः ॥

प्द्फ़् ९९, प्। ६४४)

पकाराख्ये नृपतौ तत्र भकाराद्यो मतः परः ।
सोऽपि त्रीणि वर्षाणि राज्यैश्वर्यमकारयेत् ॥

तस्याप्यनुजो वकाराख्यो व्रतिना समधिष्ठितः ।
त्रीणि वर्षाणि एकं च भविता राज्यवर्द्धन ॥

अजीर्णितौ उभावप्येतौ सद्यातीसारमूर्च्छितौ ।
कालगतौ लोके यक्षेभ्योपपद्यते ॥

तेऽनुपूर्वेण धर्मात्मानो प्रत्येकां बोधिमाप्नुयाम् ।
तस्याप्यनुजो धकाराख्यः क्षत्रियो धर्मवत्सलः ॥

भविता सोऽपि रजा वै त्रीणि वर्षाणि ।
भवितासौ नराधिपः ॥

तस्यापि कन्यसो राजा वकाराख्योऽथ विश्रुतः ।
भविता तत्र देशेऽस्मिं सार्वभूमिकभूपतिः ॥

हस्त्यश्वरथयानानि नौयानानि समन्ततः ।
जेता रिपूणां सर्वेषां समरे प्रत्युपस्थिताम् ॥

स इमां जनपदां सर्वां कृत्स्नां चैव वसुन्धराम् ।
शास्तुबिम्बैर्विहारैश्च जिनानां धातुधरैस्तथा ॥

शोभापयति सर्वां वै कृत्स्नां चैव वसुन्धराम् ।
नृपपूर्वी तथा तस्य द्विजातिः शाक्यजस्तथा ॥

मानी तीक्ष्णोऽथ स प्राज्ञः बोधिनिम्नोऽथ मानधीः ।
सैवास्य सुखायतां याति तस्मिं काले युगाधमे ॥

क्षत्रियः अग्रधीः प्रोक्तः राजा वै धर्मवत्सलः ।
जीवेद् वर्षशतं विंशत् सप्त चाष्टं च यत्नतः ॥

स्त्रीकृतेनैव दोषेण कालं कृत्वा दिविं गतः ।
सोऽनुपूर्वेण मेधावी प्राप्नुयाद् बोधिमुत्तमाम् ॥

ततः परेण विख्यातः श्रीनामाथ महीपतिः ।
गौडतन्त्रे महाराजा भविता धर्मवत्सलः ॥

प्द्फ़् १००, प्। ६४५)

गौडानां च पुरे श्रेष्ठे वकाराद्ये च महाजने ।
कारयेत् तत्र राज्यं वै जितशु समन्ततः ॥

विहारां कारयामास सप्त*(?)ष्टौ च तत्र वै ।
द्विजमुख्या तथा युक्ते शाकजेति समाश्रिते ॥

तेन साहाय्यतां याते कुर्याद् राज्यं समन्ततः ।
अशीतिरेकं च वर्षाणि जीवेत् तत्र नराधिपः ॥

भृत्यदोषेण धर्मात्मा कालं कृत्वा दिविं गतः ।
अनुपूर्वेण तथा राज्यं देवानामपि कारयेत् ॥

ततोऽसौ भिन्नदेहस्तु स्वर्गात् स्वर्गतमं व्रजेत् ।
परिपूर्य कुशलात् धर्मां बोधि ये तस्य हेतवः ॥

तस्यैव भृत्यो राजा वै कुर्याद् राज्यमकण्टकम् ।
नाम्ना यकाराद्यस्तु महीपालो भविष्यति ॥

सप्त चैकं च वर्षाणि कुर्याद् राज्यं तदा युगे ।
सैव घात्यते स्त्रीभिः घातितश्च अधो गतः ॥

पुनः पकारवंशास्तु राजा भविताथ क्षत्रियः ।
तेनासौ भृत्यवर्गस्तु घातितोऽसौ निरन्तरः ॥

अकल्याणमित्रमागम्य कृतं प्राणिवधं बहून् ।
भविता सर्वलोकेऽस्मिं प्रतापोर्जितमूर्च्छितः ॥

क्षिप्रकारी चपलस्तु मद्यपश्च शठप्रियः ।
मद्यप्रमादात् सम्मूढः तदासौ शयने भुवि ॥

भिन्नोऽसौ शस्त्रघातैस्तु अरिभिश्च समुद्यतैः ।
ततोऽसौ भिन्नदेहस्तु कालं कृत्वा अधोगतः ॥

तस्याप्यन्यतमो भ्राता रकाराद्यो नामतः स्मृतः ।
अष्टचत्वारिंशद्दिवसानि राज्यकर्त्ता सदा भुवि ॥

दत्वा द्रविणं द्विजातिभ्यः कालं कुर्यान्न संशयः ।
ततः परेण भूपालः स्वादाद्यो भविता तदा ॥

प्द्फ़् १०१, प्। ६४६)

स एव शूद्रवर्णस्तु व्यङ्गः कुत्सित एव तु ।
अधर्मभूयिष्ठः दुःशीलो विग्रहे च सदा रतः ॥

द्विजातिगणसामन्तां संयतां प्रव्रजितांस्तथा ।
स हापयति सर्वा वै निग्रहे च सदा रतः ॥

तीव्रशासनकर्ता च तस्करां घातकस्तथा ।
निषेद्धा सर्वदुष्टानां पाषण्डव्रतमाशृताम् ॥

विनिर्मुक्ता च दाता च राज्यं कृत्वा तु वै तदा ।
दशवर्षाणि सप्तं च जीवेद् भूपतिस्तत्र वै ॥

कुष्ठदुःखाभिभूतस्तु कालं कृत्वाथ तिर्यत् ।
तिर्यग्भ्यो नागराजस्तु महाभोगी विशारदः ॥

मूर्त्तिमां परमवीभत्सी स्फुटाटोपी च वै तदा ।
अनुभूय चिरं दुःखं धर्मतस्तस्य नैष्ठिकम् ॥

एवम्प्रकाराः कथिता भूपाला लोकवर्द्धना ।
विदिता सर्वलोकेऽस्मिं प्राच्या च स्थितदेहिनी ॥

पकाराख्यस्य नृपतौ वंशाद् वंशजोऽपरः ।
क्षत्रियः शूरविक्रान्तः त्रिसमुद्राधिपतिस्तदा ॥

भविता प्राच्यदेशेऽस्मिं महासैन्यो महाबलः ।
शास्तुधातुधरैर्दिव्यैर्विहारावसथमन्दिरैः ॥

उद्यानविविधैर्वाप्यैः कूपमण्डपसङ्क्रमैः ।
सत्रागारतथानित्यं शोभापयति मेदिनीम् ॥

भक्तोऽसौ जिनवरां श्रेष्ठाम् उत्तमं यानमाशृतः ।
शाक्यप्रव्रजितेनैव स तदा निष्ठितो ह्यसौ ॥

वर्जयेद् दक्षिणां सर्वां दक्षिणां चैव प्रभावयेत् ।
नाम्ना ककारविख्यातः स्मृतिमांश्चैव विशारदः ॥

राज्यं कृत्वा तु भूपालः वर्षाण्येकविंशति ।
ततोऽसौ विषूचिकाभिश्च कालं कृत्वा दिविं गतः ॥

प्द्फ़् १०२, प्। ६४७)

सोऽनुपूर्वेण मेधावी क्षिप्रं बोधिपरायणः ।
तस्यैव शेषवंशास्तु पराधीनायतनवृत्तनः ॥

ततः परेण भूपाला गोपाला दासजीविनः ।
भविष्यति न सन्देहो द्विजातिकृपणा जना ॥

अधर्मिष्ठ तदा काले निर्नष्टे शास्तुशासने ।
मन्त्रवादेन सत्त्वानां कुशलार्थां नियोजयेत् ॥

कुमारेण तु ये प्रोक्ता मन्त्रा भोगवर्द्धना ।
साधनीया तदा काले राज्यैश्वर्येण हेतुना ॥

न साध्या उत्तमा सिद्धिः तस्मिं देशे तु वै तदा ।
धर्मचक्रे तथा रम्ये महाबोधिवने तथा ॥

यत्रासौ भगवां शान्तिं निरोपधिं च प्रविष्टवाम् ।
तत्र साध्यौ इमौ मन्त्रौ तारा भृकुटी च देवता ॥

समुद्रकूले तथा नित्यं विस्फूर्ज्यां सरितावरे ।
गङ्गातीरे तु सर्वत्र साधनीयाब्जसम्भवा ॥

योऽसौ बोधिसत्त्वस्तु चन्द्रनामाथ विश्रुतः ।
स वै तारमिति प्रोक्ता विद्याराज्ञी महर्द्धिका ॥

स्त्रीरूपधारिणी भूत्वा देवी विचेरुः सर्वतो जगतः ।
सत्त्वानां हितकाम्यार्थं करुणार्द्रेण चेतसा ॥

सहां च लोकधातुस्थां तैम्भ्याख्यमिति वर्तते ।
महर्द्धिको बोधिसत्त्वस्तु दशभूम्यानन्तरप्रभुः ॥

विनेयः सर्वसत्त्वानां तारा देवी तु कीर्त्यते ।
अयत्नसिद्धिमेवास्य रक्षावरणगुप्तये ॥

यत्नेन साध्यते देवी भोगैश्वर्यविवर्द्धना ।
बोधिसम्भारहेतुं च * * * * * * * * (?) ॥

अनुबद्धा तदा देवी करुणाविष्टा हि देहिनाम् ।
मन्त्ररूपेण सत्त्वानां बोधिसम्भारकारणा ॥

प्द्फ़् १०३, प्। ६४८)

सर्वेषां तुष्टिपुष्ट्यर्थं पूर्वायां दिशिमाश्रितः ।
सहस्रार्धं पुनः कृत्वा आत्मनो बहुधा पुनः ॥

भ्रमते वसुमतीं कृत्स्नां चत्वारो दधि पर्ययाम् ।
पूर्वेण ततः सिद्धिः वाराणस्यां परेण वा ॥

सक्षेत्रस्तस्य देव्या तु पूर्वदेशः प्रकीर्तितः ।
सिद्ध्यते यक्षराट् तत्र जम्भलस्तु महाद्युतिः ॥

भोगकामैः तदा सत्त्वैः तस्मिं काले युगाधमे ।
यक्षराट् तारादेव्या तु साध्येतौ पुष्टिकामतः ॥

क्रोधनास्तु तथा मन्त्राः साध्यतां दक्षिणापथे ।
म्लेच्छतस्करद्वीपेषु अम्भोधेर्मध्य एव वा ॥

सिध्यते च तदा तारा यक्षराट् चैव महाबलः ।
हरिकेले कर्मरङ्गे च कामरूपे कलशाह्वये ॥

विविधा दूतिगणाः सर्वे यक्षिण्यश्च महर्द्धिकाः ।
मञ्जुघोषेण ये गीता मन्त्रा भोगहेतवः ॥

तत्र देशे यथा सिद्धिः नान्यस्थानेषु तथा भवेत् ।
पूर्वं दिशि विदिक्षुश्च मन्त्रा विविधहेतवः ॥

कथितास्तु तदा काले साधनीयास्तु देहिभिः ।
मध्यदेशे तथा मन्त्री भूपाला विविधास्तथा ॥

विस्तरां सत्त्वदौर्बल्याम् अल्पबुद्धिं निबोधताम् ।
सङ्क्षेपो नृपतिमुख्यानां सङ्ख्या तेषां निगद्यते ॥

मकाराद्यो नकाराद्यः पकाराद्यश्च कीर्त्यते ।
दकाराद्यश्च इकाराद्यः सकाराद्यश्च अकाराद्य ॥

ग्रहाख्यश्च कीर्त्याख्यः हकाराद्यश्च घुष्यते ।
शकाराद्यश्च भवेत् तदा * * * * * * * (?) ॥

जकाराद्यो वकाराद्यो लकाराद्यः सोमचिह्नितः ।
हकाराद्यश्चैव प्रख्यातः अकाराद्य पुनस्तथा ॥

प्द्फ़् १०४, प्। ६४९)

सकारो लकाराद्यश्च स्त्र्याख्यया लोकविद्विषः ।
सकाराद्यो मकाराख्यः लोकानां प्रभविष्णवः ॥

क्रमतः कृमिनः चिह्नः ब्राह्मणाश्च वैश्यवृत्तयः ।
अधर्मकर्मा भूयिष्ठाः विद्विष्टाः स्त्रीषु लोलुपाः ॥

प्रभूतपरिवारा महीपालास्तस्मिं काले युगाधमे ।
भविष्यन्ति न सन्देहः मध्यदेशे नराधिपाः ॥

विंशद् वर्षाणि शतं चैव आयुरेषा युगाधमे ।
मनुष्याणां तदा काले दीर्घमायुरिति कीर्त्यते ॥

तेषां मध्योत्कृष्टानाम् अन्तरा उच्चनीचता ।
अल्पायुषो नृपतयः सर्वे कथिता तु तदा युगे ॥

नदीगङ्गा तथा तीरे हिमाद्रेश्च नितम्बयोः ।
कामरूपे तथा देशे भविष्यन्ति तथा नृपाः ॥

आद्ये मध्ये तथान्ते च अङ्गदेशेषु कथ्यते ।
आद्यं वृत्सुधानश्च कर्मराजा स कीर्तितः ॥

अन्तेऽङ्गपतिः तदङ्गं च सुभूतिर्भूतिरेव च ।
सदहो भवदश्च कामरूपे अजातयः ॥

सुभूमृगकुमारान्ता वैशाल्यां वकारयोः ।
तत्रासौ मुनिर्जातः कपिलाह्वे पुरोत्तमे ॥

शुद्धान्ता शाक्यजाः प्रोक्ता नृपा आदित्येक्षसम्भवा ।
शुद्धोदनान्तविख्याता शाक्यं शाक्यवर्द्धनाम् ॥

अल्पवीर्यास्तु मन्त्रा वै कथिता लोकपुङ्गवैः ।
जिनप्रोक्तास्तु ये मन्त्राः सर्वचेटगणास्तथा ॥

तथा विविधा दूतिगणाः सर्वे वज्राब्जकुलयोरपि ।
साध्यमानस्तु सिध्यन्ते मन्त्रतन्त्रार्थकोविदैः ॥

सर्वे ते लौकिका मन्त्राः सिध्यन्तेऽत्र मध्यतः ।
विशेषतो मध्यदेशस्थाः साधनीया जिनभाषिता ॥

प्द्फ़् १०५, प्। ६५०)

विविधाकारचिह्नैस्तु विविधाकारकारणैः ।
विविधप्रयोगप्रयुक्तास्तु विविधा सिद्धिदेहिनाम् ॥

मध्यशेदे तथा मन्त्राः साध्या वै भोगवर्धनाः ।
रक्षाहेतुपरित्राणं वश्याकर्षणदेहिनाम् ॥

अतीतानागता प्रोक्ताः मध्यदेशे नराधिपाः ।
विविधाकारचिह्नैस्तु विविधायुष्यगोत्रतः ॥

सर्वे नरपतयः प्रोक्ता उत्तमाधममध्यमाः ।
त्रिप्रकारा तथा सिद्धिः त्रिधा कालेषु योजयेत् ॥

त्रिविधास्तु तथा मन्त्राः कथिता मुनिवरैस्तथा ।
अनन्ता नृपतयः प्रोक्ता मध्यदेशेऽथ पश्चिमे ॥

उत्तरापरपूर्वैस्तु विदिक्षुः सर्वतस्तथा ।
द्वीपेषु बहिः सर्वेषु चतुर्धा परिचिह्नितैः ॥

अनन्ता महीपतयः प्रोक्ता अनन्ता मन्त्रसाधनाः ।
अनन्ता दिशमाश्रित्य अनन्ता मन्त्रसिद्धयः ॥

निग्रहानुग्रहार्थाय शासनेऽन्तर्हिते मुनौ ।
मन्त्रा नृपतिषु काले वै मञ्जुघोषेण भाषिता ॥

क्रीडारक्षविकुर्वार्थं कालचर्या तु कथ्यते ।
मन्त्रमाहात्म्यसत्त्वानां गतियोनिनृपाह्वये ॥

देशकालसमाख्यातः मन्त्रसाधनलिप्सुनाम् ।
प्रसङ्गा नृपतयः कथिताः शासनान्तर्विते पथे ॥

मन्त्राणां गुणमाहात्म्यं फलमन्ते च बोधितः ।
कथिता द्वे परे याने नृपा पूर्वनिबोधिताः ॥

प्रतिष्ठितास्तु न सन्देहः तस्मिं काले युगाधमे ।
कथिता नृपतयः सर्वे ये तु दिशमाशृताः ॥

प्रव्रज्या ध्रुवमास्थाय (?)यप्रवचने तदा ।
शासनार्थं करिष्यन्ति म
(?)दसदारता ॥

प्द्फ़् १०६, प्। ६५१)

अस्तं गते मुनिवरे लोकैकाप्रसुवक्षुषे ।
तेषां कुमार ! वक्ष्यामि शृणुष्वैकमनास्तदा ॥

युगान्ते चष्ट लोके शास्तुप्रवचने भुवि ।
भविष्यन्ति न सन्देहो यतयो राज्यवृत्तिनः ॥

तद्यथा मातृचीनाख्य कुसुमाराख्यश्च विश्रुतः ।
मकाराख्ये कुकाराख्यः अत्यन्तो धर्मवत्सलः ॥

नागाह्वश्च समाख्यातो रत्नसम्भवनामतः ।
गकाराख्यः कुमाराख्यः वकाराख्यो धर्मचिन्तकः ॥

अकाराख्यो महात्मासौ शास्तुशासनदुर्धरः ।
गुणसम्मतो मतिमाम् लकाराख्यः प्रकीर्तितः ॥

रकाराद्यो नकाराद्यः प्रकीर्तितः ।
बुद्धपक्षस्य नृपतौ शास्तुशासनदीपकः ॥

अकाराख्यो यति ख्यातो द्विजः प्रव्रजितस्तथा ।
साकेतपुरवास्तव्यः आयुपाशीतिकस्तथा ॥

अकाराद्यस्तथा भिक्षुः रागी सौ अक्षिणां दिशि ।
षष्टिवर्षायुषो धीमान् काव्याख्यः पुरवासिनः ॥

थकाराद्यो यतिश्चैव विख्यातो दक्षिणां दिशि ।
परप्रवादिनिषेद्धा च मन्त्रसिद्धिस्तथा यतिः ॥

अपरः प्रव्रजितः श्रेष्ठः सैह्विकापुरवास्तवी ।
अनार्या आर्यसञ्ज्ञी च सिंहलद्वीपवासिन ॥

परप्रवादिनिषेद्धासौ तीर्थ्यानामतदूषकः ।
भविष्यन्ति युगान्ते वै तस्मिं कालेऽथ भैरवे ॥

वकाराद्यो यतिः प्रोक्तो लकाराद्यश्च कीर्तितः ।
रकाराद्यो विकाराद्यः भिक्षुः प्रव्रजितस्तथा ॥

भविष्यति न सन्देहः शास्तुशासनतत्परः ।
बालाकौ नृपतौ ख्याते सकाराद्यो यतिस्तथा ॥

प्द्फ़् १०७, प्। ६५२)

विहारारामचैत्यांश्च वाप्यकूपांश्च सर्वदा ।
शास्तुबिम्बा तथा चिह्ना सेतुः सङ्क्रमाश्च वै ॥

भविष्यति न सन्देहः शास्तुभिन्नार्ध्वगः स्मृतः ।
ततः परेण मकाराद्यः ककाराद्यश्च कीर्तितः ॥

नकाराद्यः सुदत्तश्च सुषेणः सेनकीर्तितः ।
दत्तको दिनकश्चैव परसिद्धान्तदूषकः ॥

वणिक्पूर्वी वैद्यपूर्वी च उभौ दीनार्थचिन्तकौ ।
चकाराद्यो यतिः ख्यातः रकाराद्यमत परे ॥

भकाराद्यः प्रथितश्राद्धः शास्तुबिम्बार्थकारकः ।
मकाराद्यो मातमान् जातो यतिः श्राद्धस्तथैव च ॥

विविधा यतयः प्रोक्ता अनन्ताश्च भविता तदा ।
सर्वे ते यतयः ख्याता शास्तुशासनदीपकाः ॥

निर्नष्टे च निरालोके शासनेऽस्मिं तदा भुवि ।
करिष्यति न सन्देहः शास्तुबिम्बां मनोरमाम् ॥

सर्वे वै व्याकृता बोधो अग्रप्राप्ताश्च मे सदा ।
दक्षिणीयास्तथा लोके त्रिभवान्तकरास्तथा ॥

मन्त्रतन्त्राभियोगेन ख्याताः कीर्तिकराः स्मृताः ।
अधुना तु प्रवक्ष्यामि द्विजानां धर्मशीलिनाम् ॥

मन्त्रतन्त्राभियोगेन राज्यवृत्तिमुपाश्रिता ।
भवति सर्वलोकेऽस्मिं तस्मिं काले सुदारुणे ॥

वकाराख्यो द्विजः श्रेष्ठ आढ्यो वेदपारगः ।
सेमां वसुमतीं कृत्स्नां विचेरुर्वादकारणात् ॥

त्रिसमुद्रमहापर्यन्तं परतीर्थानां विग्रहे रतः ।
षडक्षरं मन्त्रजापी तु अभिमुख्यो हि वाक्यतः ॥

कुमारो गीतवाह्यासीत् सत्त्वानां हितकाम्यया ।
एतस्यै कल्पविसरान्महितं बुद्धितन्द्रितः ॥

प्द्फ़् १०८, प्। ६५३)

जयः सुजयश्चैव कीर्तिमान् शुभमतः परः ।
कुलीनो धार्मिकश्चैव उद्यतः साधु माधवः ॥

मधुः समधुश्चैव सिद्धः नमस्तदा ।
रघवः शूद्रवर्णस्तु शकजातास्तथापरे ॥

तेऽपि जापिनः सर्वे कुमारस्येह वाक्यतः ।
ते चापि साधकः सर्वे बुद्धिमन्तो बहुश्रुताः ॥

आमुखा मन्त्रिभिस्ते च राज्यवृत्तिसमाश्रिता ।
तस्यापरेण विख्यातः विकाराख्यो द्विजस्तथा ॥

परे पुष्पसमाख्याता भवितासौ क्रोधसिद्धकः ।
निग्रहं नृपतिषु दरिद्रात् परिभवाच्च वै ॥

मञ्जुघोष इह प्रोक्तः क्रोधराट् स यमान्तकः ।
सत्त्वानामथ दुष्टानां दुर्दान्तदमकोऽथ वै ॥

अहितानिवारणार्थाय हितार्थायोपबृंहने ।
अनुग्रहायैव सत्त्वानां तनुप्राणोप्रोधिने ॥

सो हि माणवको मूढः दरिद्रः क्रोधलोभितः ।
आवर्त्तयामास तं क्रोधं नृपतेः प्राणोपरोधिनः ॥

तस्यापरेण विख्यातः सकाराद्यो द्विजस्तथा ।
मन्त्रार्थकुशलो युक्तात्मा * * * * * * * (?) ॥

प्रभुः बहुतरः ख्यातो मन्त्रजापी भवेत् तदा ।
साधयामास तं मन्त्रं वै वश्यार्थं नान्यकारणम् ॥

वशीभूतेषु भूतेषु धनमन्तो भवति ततः ।
ततः परेण वै ख्यातो द्विजो धर्मार्थचिन्तकः ॥

शकाराद्यो मत अन्ते भवितासौ मालवे जने ।
प्रसन्ने शासने ह्यग्रो मन्त्रजापी हि वै भुवि ॥

वेताडग्रहदुष्टां च ब्रह्मराक्षसराक्षसाम् ।
सर्वभूतनभूतांश्च क्रव्यादां विविधां**(?) ॥

प्द्फ़् १०९, प्। ६५४)

सर्वे ते वशिनस्तस्य विषाः स्थावरजङ्गमाः ।
सर्वे वै वशिनस्तस्य द्विजचिह्नस्य तथाहितैः ॥

ततः परेण विख्यातः द्विजो दक्षिणापथे ।
वकाराद्यः समाख्यातः शास्तुशासनतत्परः ॥

विहारारामचैत्येस्तु शास्तुबिम्बे मनोरमे ।
अलङ्करोति सर्वा वै मेदिनीं द्विसमुद्रगाम् ॥

तस्यापरेण विख्यातः द्विजश्रेष्ठो महाधनः ।
भकाराद्यस्तथा ख्यातो दक्षिणां दिशिमाशृतः ॥

मन्त्ररूपी महात्मा वै नियतं बोधिपरायणः ।
मध्यदेशे तथा ख्यातं सम्पूणो नामत द्विजः ॥

विनयः सुविनयश्चैव पूर्णो मधुरवासिनः ।
भकाराद्यो धनाध्यक्षो नृपतीनां मन्त्रपूजकः ॥

इत्येते द्विजातयः कथिताः शास्तुशासनपूजकाः ।
मध्यान्त आदिमुख्याश्च विविधायतनगोत्रजाः ॥

नानादेशद्विजातीनां पूजका ते परिद्विजाः ।
नानातीर्थाश्च गोत्राश्च विविधाचारगोचराः ॥

समन्ताद् यतयः प्रोक्ता मानवाश्च बहुश्रुताः ।
धर्मराजा स्वयं बुद्धः सर्वसत्त्वार्त्थसाधकः ॥

सर्वेषां चैव भूतानां तृदेवानां च कीर्तिताः ।
चत्वारोऽपि महाराजाः स्र्वलोकेषु कीर्तिताः ॥

विरूढो विरूपाक्षश्च धृतराष्ट्रोऽथ यक्षराट् ।
शक्रश्च अथ देवानां नियतायुः प्रकीर्तितः ॥

सुजामा देवपुत्रश्च सुनिर्मितो वशवर्तिनः ।
राजा सन्तुपितः प्रोक्तः काम***रोऽ(?)परः ॥

शक्राद्य एकना*(?)स्तु कामधात्वी धरास्तथा ।

प्द्फ़् ११०, प्। ६५५)

अनन्ताः कथितास्तेऽपि नानारूपधरा सुराः ।
अतः ऊर्ध्वं समा सर्वे तेऽपि महर्द्धिकाः ॥

एवं सञ्ज्ञा सुरश्रेष्ठाः आ सञ्ज्ञाताः प्रकीर्तिताः ।
न तेषां प्रभविष्णु स्यात् तुल्यवृत्तिसमाश्रया ॥

अतः अवीचिपर्यन्तं न राजा तत्र विद्यते ।
नरकाष्ठौ षोडशोत्सिद्धौ सपर्यन्ता तेऽपि कीर्तिता ॥

अनृपाः कर्मराजानः यमराजा प्रेतनां विभु ।
सुवर्णः पक्षिणां राजा गरुत्मा स महर्द्धिकः ॥

किन्नराणां द्रुमो ख्यातः भूतानां रुद्र उच्यते ।
विद्याधराणां नृपो विद्या चित्रकेतुर्महर्द्धिकः ॥

असुराणां तथा हेतौ वेम चित्रिथोत्तमः ।
ऋषीणां व्यास इत्युक्तः सिद्धानां च महारथः ॥

नक्षत्राणां सोम निर्दिष्टः ग्रहाणां भास्करस्तथा ।
मातराणां तथा राजा ईशानमभिकीर्तितः ॥

दिवशानां प्रतिम प्रोक्तः राशीनां कन्य उच्यते ।
सरितां सागरः प्रोक्तः मेघानां तु सुपुष्करः ॥

ऐरावतो हस्तीनामश्वानां हरिवरस्तथा ।
तिर्यराजाथ सर्वत्र प्रह्लादः परिकीर्तितः ॥

अनन्ता गतयः प्रोक्ता राजानश्च अनन्तका ।
समन्तात् सर्वतस्तेषु बुद्धो लोके नरोत्तमः ॥

उत्तमां कुरुमाद्यः प्रभविष्णुस्तेषु न विद्यते ।
दीपेष्वेव परेतेषु पूर्वापरयतस्तथा ॥

जम्बूद्वीपनिवासिस्यां पूर्वायां स नराधिपाः ।
अनन्ता च क्रिया प्रोक्तां चतुर्द्वीपा सनराधिपा ॥

सङ्क्षेपा कथिता ह्येते कत्थ्यमानातिविस्तरात् ।
प्रभूता भूतपतयो पूर्व्यां त्रिदेवासुरजन्मिनात् ॥

प्द्फ़् १११, प्। ६५६)

अनन्तलोकधातुस्था अनन्ता गुणविस्तरा ।
अनन्ता कथिता ह्यत्र कल्पेऽस्मिं भूनिवासिनः ॥

कथिता मन्त्रसिद्ध्यर्थे देशकालसमात्ययात् ।
सिद्ध्यन्ते मन्त्रराजानो विविधा दूतगणास्तथा ॥

एष धर्मः समासेन कथिता मुनिपुङ्गवैः ।
अधुना कथितं ह्येतत् शुद्धावासोपरिस्थितैः ॥

मञ्जुश्रियो महावीरः पप्रच्छ लोकनायकम् ।
य एष कथितो कर्म कथं चैनं धारयाम्यहम् ॥

पेयालं विस्तरेण कर्तव्यं सर्वेषां नृपतीनां कर्म स्वकं जातकं
महापरिनिर्वाणसूत्रं मञ्जुश्रियस्य कुमारस्य मुनिश्रेष्ठ ।

अभाषत बोधिसत्त्वार्थमन्त्राणां च सविस्तराम् ।
बोधिमार्गार्थबोध्यर्थं धर्मसूत्र इति स्मृतः ॥

विसरं कल्पमन्त्राणां कर्म आयूषि भूनृणाम् ।
नृपतीनां तथा कालमायुषे परिकीर्तनम् ॥

धर्मसङ्ग्रहणं नाम पिटकं बोधिपरायणम् ।
मन्त्रतन्त्राभियोगेन कथितं बोधिनिम्नगम् ॥

धारयस्त्वं सदा प्राज्ञः मन्त्रतन्त्रार्थपूरकम् ॥

इति ॥

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतसङ्कान्महायानवैपुल्यसूत्रात्
पटलविसरात् एकपञ्चाशराजव्याकरणपरिवर्तः परिसमाप्त इति ।
प्द्फ़् ११२, प्। ६५७)