५१

अथ एकपञ्चाशः पटलविसरः ।

अथ खलु वज्रपाणिर्गुह्यकाधिपतिः सर्वावन्तं महापर्षन्मण्डलमवलोक्य
सर्वांस्तां शुद्धावासोपरिनिषण्णां भूतसङ्घानामन्त्रयते स्म । शृण्वन्तु
भवन्तो मार्षा यमान्तकस्य क्रोधराजस्यापरिमितवलपराक्रमस्य
दुर्दान्तदमकस्य वैवस्वतजीवितान्तकरस्य दुष्टसत्त्वनिग्रहतत्परस्य
महाबोधिसत्त्वस्य मञ्जुश्रियभाषितस्य महाबोधिसत्त्वस्यादौ तावत्
पटविधानं भवति ॥

न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।
अरीणां भयमुत्पन्ने पटमेतं लिखापयेत् ॥

गृह्य कृष्णे निशापक्षे चतुर्दश्याष्टमौ तिथौ ।
श्मशाने मृतकं प्राप्य ब्राह्मणस्य अम्बरं तम् ॥

गृह्य ततो रात्रौ असृणां रङ्गयेत् ततः ।
भूयो जलशौचं तु सुशुष्कं कारयेत्ततः ॥

क्रूरं चित्रकरं क्रुद्धं भीषणे चापि लेखयेत् ।
श्मशाने कृष्णपक्षे च त्रिरात्रेणैव समापयेत् ॥

अष्टमीं चतुर्दशीरात्रौ महावसादीपदीपितः ।
तत्र स्थितः चित्रकरः दक्षिणाभिमुखः सदा ॥

कपाले मानुपासीने कृतरक्षः समाहिते ।
स्वयं वा आलिखेन्मन्त्री अरिदुःखभयार्दितः ॥

प्रथमे रात्रिमारब्धे अरीणोऽपि महद् भयम् ।
द्वितीये महाज्वरेणापि अविष्टः शत्रुमूर्च्छितः ॥

तृतीये मुञ्चते प्राणां परलोकगतो भवेत् ।
कुतस्तस्य भवेच्छान्ति अप्रसन्नेन मन्त्रिणा ॥

देहं शुष्यति शत्रोर्वै ग्रहभङ्गोपजायते ।
लिखनात् पटमेवं तु घमान्तस्य महाभये ॥

क्रुद्धं व्याघ्रचर्मनिवर्त्तनम् ॥

प्द्फ़् ८, प्। ५५३)

नानाप्रहरणं घोरं दण्डहस्तं भयानकम् ।
रक्तनेत्रं सरोपं च त्रिनेत्रगतिचिह्नितम् ॥

ऊर्ध्वकेशं सजालं वै धूम्रवर्णं क्वचित् तथा ।
कृष्णाञ्जननिभं घोरं प्रावृण्मेघसमप्रभम् ॥

कृतान्तरूपसङ्काशं महिषारूढं तु आलिखेत् ।
क्रूरकर्मं महाभीमं रौद्रं रुद्रघातकम् ॥

यमजीवितनाशं वै उद्यन्तं सत्त्वघातकम् ।
क्रूरं भृशं सर्वकर्माणं भीषणापतिदारुणम् ॥

भयस्यापि भयत्रासं मारकं सर्वदेहिनाम् ।
एतत् क्रुद्धवरं लिख्य आत्मशोणितवर्णकैः ॥

व्यतिमिश्रमुज्ज्वलैर्लेख्य महावसागव्यमिश्रितैः ।
कपालभाजनैश्चापि मानुषास्थिसुसम्भवैः ॥

कूर्चकैर्वर्किकैर्मुक्तो मृतकेशसुसम्भवैः ।
अभुञ्जानस्तथालिख्य स्वयं वा चित्रकरेण वा ॥

प्रभूतबलिपुष्पाद्यैः रक्तमाल्यैर्वरचन्दनैः ।
महामांसवसाधूपैर्वसादीपैश्च भूषितम् ॥

कारयेत् पटवरमादौ अन्ते मध्ये च पूजना ।
परिस्फुटं तु पटं कृत्वा वित्तं दत्त्वा तु शिल्पिने ॥

प्रभूतं चापि मूल्यं वै येन वा तुष्यते सदा ।
अवध्यं तस्य कर्तव्यं धर्मं चापि सहाभयम् ॥

यथेप्सितं तस्य कुर्वीत वीरमूल्यं समासतः ।
सफलं शिल्पिने कर्म निरामिषं चापि वर्जयेत् ॥

तथा तथा प्रयुञ्जीत यथासौ सम्प्रतुष्यते ।
महारक्षा च कर्तव्या अन्यथा मृयते ह्यसौ ॥

सकुटुम्बो नश्यते ** (?) आत्मनश्चापि रक्षयेत् ।
जप्तविद्येन कर्त्तव्यं प्रत्येषां विधिरुच्यते ॥

प्द्फ़् ९, प्। ५५४)

परिस्फुटं तु पटं कृत्वा दृष्ट्वा वा मनसेप्सितम् ।
सर्वां च कारयेत् कर्मां रौद्रां शत्रूपघातकाम् ॥

गृह्य पटवरं गच्छेद् यथेष्टं यत्र वाञ्छितम् ।
महायक्षां महाराज्ञां महावित्तसगर्विताम् ॥

महामानातिमानानां क्रूरां क्रूरकर्मिणाम् ।
रत्नत्रयापकारीणां नास्तिक्यां मन्त्रवर्जिताम् ॥

अपूजकानां तु मन्त्राणां तद्भक्तासृतनिन्दकाम् ।
जापिनां निन्दका ये च तेषां चैव पराभवा ॥

तेषां प्रयोगः कर्त्तव्यः विधिदृष्टेन कर्मणा ।
अधर्मिष्ठां तथा नित्यां सर्वसत्त्वानुतापिनाम् ॥

तेषां तु कर्म प्रयुञ्जीत सद्यः प्राणोपरोधिनम् ।
गृह्यारिष्टफलं पत्रं त्वचं चापि समूलतः ॥

काञ्जिकम् आम्लसंयुक्तं मानुषास्थिसचूर्णितम् ।
कटुतैलविषं चैव अम्लवेतसमार्द्रकम् ॥

राजिकं रुधिरं चैव मानुषोद्भवसम्भवम् ।
गृह्य सर्वं समायुक्तं पटं स्थाप्य विवेकतः ॥

दक्षिणाभिमुखो भूत्वा पटश्चापि उदङ्मुखः ।
कृत्वाग्निकुण्डं यथेष्टं वै शुक्लकाष्ठैः कटुमुद्भवैः ॥

ज्वालयं कटकैश्चापि तस्मिं कुण्डे समाहितः ।
पुह्यात् सर्वसमायुक्तं विधिनिर्दिष्टहौमिकम् ॥

अग्निराहूय मन्त्रैस्तु क्रोधराजस्य वै पुनः ।
बद्ध्वा शूलमुद्रं तु सर्वकर्मेषु वा इह ॥

सहस्राष्टमाहुतिं दद्यादग्निकुण्डे सरोषतः ।
प्रथमे पुत्रमरणं सत्त्वे प्राप्ते तु तं भवेत् ॥

द्वितीये चापि ** (?) वै पार्षद्याः सनायकाः ।
तृतीये मरणं तस्य यस्योद्दिश्यं हि तत् कृतम् ॥

प्द्फ़् १०, प्। ५५५)

अर्धरात्रे यदा जापः क्रियते पटसन्निधौ ।
शत्रूणां च वधार्थाय तत् तथैवानुवर्तते ॥

राष्ट्रभङ्गं भवेत् तस्य सेनायां मारिसम्भवम् ।
अग्निदाहं महावातं महावृष्टिश्च जायते ॥

समस्तं सर्वतश्चक्रं परचक्रेण हन्यते ।
विविधोपद्रवा तस्य महाव्याधिसमाकुलम् ॥

देहं शुष्यति सर्वं वै तस्य राज्ञो न संशयः ।
अमानुषाकीर्ण सर्वन्तं गृहं तस्य समाकुलम् ॥

धृतिं न लभते शय्याम् आवर्तं च महीतले ।
राक्षसैः प्रेतक्रव्यादैः गृहं तस्य समावृतम् ॥

आर्त्तो बिभेति सर्वत्र तीव्रदुःखैः सुदुःखितः ।
अशक्ता रक्षितुं तस्य महेश्वराद्या भुवि देवता ॥

ब्रह्माद्या लोकपालाश्च शक्राद्या त्रिदशेश्वराः ।
सर्वमन्त्राः सर्वदेवाश्च सर्वलौकिकसम्भवा ॥

दुष्टारे मानिने क्रुद्धे तदन्तं तस्य जीवितम् ।
अर्धरात्रे तु मध्याह्ने भाषितो यत्र जापिनः ॥

क्रुद्धो वैवस्वतः साक्षाद् यमराजावकल्पते ।
यथेष्टं कृष्णपक्षे च पटं संस्थाप्य महीतले ॥

महतिं पूजां बलिं कृत्वा श्मशानारण्यसम्भवे ।
एकवृक्षे तथा लिङ्गे शैले प्रान्ते गुहासु वा ॥

एकाकी अद्वितीयश्च सदा कर्म समारभेत् ।
महारण्ये विविक्ते च शून्ये देवकुलेषु च ॥

शून्ये मन्दिरे नद्याम् अम्बुधेः तटमाश्रिते ।
तत्र देशे समीपे वा तत्रस्थे वा यथेप्सितम् ॥

योजना**(?)भ्यन्तर सदा कर्माणि कारयेत् ।
एतत् प्रमाणकर्माणि कारयेच्छुचिना सदा ॥

प्द्फ़् ११, प्। ५५६)

अप्रमेयस्थितो वापि गतदेशामितः शुचिः ।
अचिन्त्यमन्त्रविषये अचिन्त्यं मन्त्रगोचरम् ॥

अचिन्त्यो ऋद्धिमन्त्राणाम् अचिन्त्यं सिद्धिजापिनाम् ।
अचिन्त्यं दृश्यते कर्म फलं चापि अचिन्त्यकम् ॥

क्रोधराजस्य यमान्तकस्य महात्मने ।
कर्मम् ऋद्धिविषयं विकुर्वणं च महोदयम् ॥

अचिन्त्यं रूपिणां सिद्धि दृश्यते ह महीतले ।
अशक्ता रक्षयितुं सर्वे बोधिसत्त्वा महर्द्धिकाः ॥

किं पुनर्लोकिका मन्त्राः सग्रहा मातराश्च ताः ।
ईशानश्च सविष्णुर्वा स च स्कन्दो पुरन्दरः ॥

समये धारिता तेऽपि सजिना जिनपुत्रकाः ।
बोधिसत्त्वा महात्मानो दशभूमिसमासृताः ॥

प्रत्येकबुद्धा ह्यर्हन्त वीतरागा महर्द्धिकाः ।
अशक्ता रक्षयितुं तेऽपि समयं तैः पुरा कृतम् ॥

सङ्क्षेपेण तु वक्ष्यामि शृणुध्वं भूतकाङ्क्षिणा ।
नान्यो निवर्त्तने शक्तः अप्रसन्नेन जापिने ॥

कुतस्तस्य भवेच्छान्तिरतुष्टे मन्त्रवरे इह ।
यदा प्रसन्नमनसः करुणार्द्रा वा भवेत् कदा ॥

जापिनः क्रोधराजस्य यमान्तस्य महात्मने ।
तदादौ लभते शान्तिं धृतिं वा जीवधारणम् ॥

पिचुमन्दं कटुतैलं च काञ्जिकं विषपञ्चमम् ।
रुधिरं मानुषं मांसं लवणं त्रिकटुकं पुनः ॥

राजिकं शङ्खचूर्णं च अम्लवेतसमार्द्रकम् ।
धुर्धूरकस्य तु मूलानि कोम***** (?) च ॥

एरण्डमू***(?)क्षारं कुसुम्भं ***** (?) ।
मदनोद्भवमू**(?) लशुनं गृञ्जनकं त**(?) ।

प्द्फ़् १२, प्। ५५७)

पलाशशाखोटकं चैव पलण्डुं ससुरासवा ।
सर्वान्येतानि समं कृत्वा जुहुयात् अग्नौ पटसन्निधौ ॥

हुते सहस्रमष्टे तु शत्रुनाशः समूलतः ।
सर्वां वा राजिकां हन्या पारिपद्यां शुभाशुभाम् ॥

समूलोद्धरणं तस्य द्वितीये सन्ध्ये तु जुह्वता ।
तृतीये समनुप्राप्ते सन्ध्ये जुह्वत जापिना ॥

दुर्भिक्षं भवते तस्य जने चापि सनैगमे ।
अनावृष्टिमहामार्यः राक्षसाकीर्णसर्वतः ॥

अग्निदाहं शिलापातं वज्रनिर्घातसाशनिः ।
जनपदं देशविषयं वा यवाः तस्य नराधिपे ॥

वह्नोपद्रवसम्पातं परचक्रागमं तथा ।
अनेकधा बहुधाश्चापि तस्य देशे उपद्रवाः ॥

जायन्ते विविधाकाराः महालक्ष्मीप्रणाशनैः ।
धुर्धूरकमूलं जुहुयादेकम् उन्मत्तिस्तस्य जायते ॥

कटुकं जुह्वतो नित्यं महादाहेन गृह्यते ।
अत्यम्लं जुह्वतो मग्नौ महाज्वरं शीतसम्भवम् ॥

सम्भवेत् तस्य देहस्थः दुष्टराज्ञां बलगर्विताम् ।
महायक्षां धनिनां क्रूरां महासैन्यसमासृताम् ॥

द्विरात्रे सप्तरात्रे वा मरणं तस्य जीवितम् ।
यो यस्य देवताभक्तः नक्षत्रो वा नामतो लिखेत् ॥

श्मशानाङ्गारैः कृतिं कृत्वा पटस्याग्रतभूसृतम् ।
आकस्थ पादतो मूर्ध्ना सङ्क्रुद्धो जपमाचरेत् ॥

अकस्माद् विविधैः शूलैः गृह्यतेऽसौ नराधिपः ।
महाव्याधि समाक्रान्तः मृयते ** (?) तत्क्षणात् ॥

पशु****(?) चापि व्यङ्गो (?) पुनः ।
भक्ष्य
*(?) क्रूरैः कश्मला****(?)वैः ॥

प्द्फ़् १३, प्। ५५८)

क्रव्यादैः पूतनैश्चापि पिशाचैः प्रेतमातरैः ।
तत्क्षमाद्धन्यते चापि आत्मनश्चापि सेवकैः ॥

अथ वज्रधरः श्रीमाम् इत्युक्त्वा परिषेत्तदा ।
सर्वबुद्धां नमस्कृत्य तूष्णीम्भूतो ततः स्थिरे ॥

लोकानां हितकाम्यार्थं पुनरेवमुमूचत ।
सर्वां यक्षगणां मन्त्रः यक्षीणां च स सर्वतः ॥

उवाच बोधिसत्त्वो वै यक्षसेनापतिस्तदा ।
यक्षीणां पटलं वव्रे सर्वकर्मोपसंहितम् ॥

सर्वाकर्षं वशं चैव सर्वशल्याननुद्धरम् ।
मैथुनार्थी यदा मन्त्री रागान्धो वाथ मूढधीः ॥

न शक्य प्रतिपक्षेण सुगताज्ञैर्निवारितुम् ।
अनादिमति संसारे पुराभ्यस्तं सुदुःखितैः ॥

दुःखा दुःखतरं तेषां गतिरुक्ता तथागतैः ।
शोभनां गतिमाप्नोति ब्रह्मचारी जितेन्द्रियः ॥

भद्रं शिवं च निर्दिष्टमन्ते शान्तिमवाप्नुयात् ।
त्रियानसमतारूढः माप्नुयान्ते सुनिर्वृतिम् ॥

विपरीताः कुगतिग्रस्ता ये रागान्धा तपस्विनाम् ।
संसारगहने घोरे भ्रमन्ति गतिपञ्चके ॥

तेषां दुःखितामर्थे कामभोगं तु वर्ण्यते ।
ते निर्वृता सर्वपापा तु त्रिधा दोषनिवर्तिता ॥

शास्तुराज्ञासमाविष्टा मुच्यन्ते सर्वबन्धना इति ॥

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद्
एकूनपञ्चाशतिमः यमान्तकक्रोधराजाभिचारुकनियमः द्वितीयः पटलविसरः
परिसमाप्तः ।
प्द्फ़् १४, प्। ५५९)