५०

अथ पञ्चाशः पटलविसरः ।

अथ खलु भगवां वज्रपाणिर्यक्षसेनापतिः तस्यां पर्षदि सन्निपतितोऽभूत् ।
सन्निषण्णः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं
जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य स येन भगवांस्तेनाञ्जलिं प्रणम्य
भगवन्तमेतदवोचत् - यो हि भगवं मञ्जुश्रिया कुमारभूतेन क्रोधराजा
यमान्तको नाम भाषितः तस्य कल्पं विस्तरशो भगवता न प्रकाशितम् । नापि
मञ्जुश्रिया कुमारभूतेन । अहं भगवं पश्चिमता जनतामवेक्ष्य भगवता
परिनिर्वृते शासनान्तर्धानकालसमये वर्तमाने महाभैरवकाले युगाधमे
सर्वश्रावकप्रत्यकेबुद्धविनिर्मुक्ते बुद्धक्षेत्रे तथागतशासनसंरक्षणार्थं
धर्मधातुचिरस्थित्यर्थं सर्वदुष्टराज्ञां निवारणार्थं
रत्नत्रयापकारिणां निग्रहार्थं
वैनेयसत्त्वकौशलाचिन्त्यबोधिसत्त्वचर्यापरिपूरणार्थम्
अचिन्त्यसत्त्वपाकमभिनिर्हरणार्थं च पश्चिमे भगवं काले पश्चिमे सुगतसमये
शासनविप्रलोपे वर्तमाने य इमं यमान्तकं नाम क्रोधराजानं यथाविधि
कल्पविनिर्दिष्टं प्रयोक्ष्यति तस्य सिद्धिः भविष्यति । नियतं च दुष्टराज्ञां
शासनापकारिणां च सत्त्वानां महायक्षाणां महोत्साहिनां
निग्रहानुग्रहप्रवृत्तानां महाकरुणाविरहितानां तेषामयं क्रोधराजा
प्रयोक्तव्यः नान्येषाम् ॥

अथ भगवां तूष्णी***(?) (?)विकुर्वणाधिष्ठानं नाम समाधिं कल्प्यते
स्म । मञ्जुश्रीः ***** (?) तूष्णीम्भावेन स्थितोऽभूत् । (?)श्च पर्षन्मण्डल
षड्
**(?)जायत ।

प्द्फ़् १६, प्। ५४५)

णोत् च्लेअर्

प्द्फ़् १७, प्। ५४६)

तेऽस्मिं सिद्धिमायान्ति मन्त्रतश्चाविभाषितम् ।
विचरन्ति महीं कृत्स्नां विचित्रा वेषधारिणो ॥

गतियोनिविदेहस्थाः श्वानवायसरूपिणः ।
मार्जार तथोलूकाः मूषमण्डूकवृश्चिकाः ॥

सर्वयोनिसमाकीर्णाः विदेहा देहविस्थिताः ।
पर्यटन्ति महीं कृत्स्नां सर्वभूतरुताविनः ॥

सर्वसत्त्वे वशा वेषा सर्वभूते प्रियोदया ।
कुर्वन्ति च सदा मर्त्या तदा तेषां नियोजयेत् ॥

नान्येषां कथ्यते लोके पूजिताश्चैव देवतैः ।
सर्वं च सर्वतो ज्ञेयं सर्वमन्त्रप्रसाधकम् ॥

कथितं कथयिष्यन्ति ये चान्ये भुवि मानवाः ।
तत् सर्वं कल्पविसरम् इह चोक्तं लोकमातरैः ॥

एवमुक्तास्तु देवा वै सूत्रान्तसहपञ्चमाः ।
तूष्णीम्भूता ततस्तस्थु प्रणम्य जिनपुङ्गवम् ॥

निषण्णो धर्मश्रवणाय तस्मिं पर्षद्वरेद्वरे ।
अधिष्ठानां च बुद्धानाम् अशेषाणां च जिनात्मजाम् ॥

अध्येष्य च महावीरं तूष्णीम्भूतास्तदनन्तरे ।
अथ वज्रधृक् श्रीमां पूजयामास देवताः ॥

साधु साधु ततः कन्द * * * * * *(?)मिति ॥

आर्यमञ्जुश्रिय * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * *

प्द्फ़् १९, प्। ५४८)

भीताश्च देवसङ्घा उत्रस्ताः सर्ववालेशाः ।
सर्वदेवाश्च नागाश्च दानवेन्द्राः समातराः ॥

सर्वे च ग्रहमुख्याद्या देवसङ्घाः प्रकम्पिरे ।
मानुषा प्रकम्पे भिन्नमनसो दुष्टचित्ताश्च पूतनाः ॥

आर्ता भीताः ततस्ते वै रौद्रचित्ता नराधिपाः ।
शरणं ते तदा जग्मुः धर्मराजस्य शासनम् ॥

गुह्यकेन्द्रस्य यक्षस्य वज्रपाणिमहाद्युतेः ।
मञ्जुघोषस्य ते भीताः कुमारस्यैव मन्त्रराट् ॥

समयं च तदा चक्रे मञ्जुघोषस्य अन्तिके ।
परित्रायस्व भो वाल ! सर्वसत्त्वानुकम्पक ! ॥

निर्दहिष्यामि नो अद्य क्रूरमन्त्रैः सुदारुणैः ।
क्रोधेन मूर्च्छिता ह्यद्य प्रतिष्ठाम महीतले ॥

ततस्तां बोधिसत्त्वा वै बालरूपी महाद्युतिः ।
मा भैष्ठथ सुराः ! सर्वे ! यक्षराक्षसदानवा ! ॥

समयं वओ मया ह्युक्तः अलङ्घ्यः सर्वदेवतैः ।
मानुषामानुषाश्चापि सर्वभूतैस्तु केवलैः ॥

मैत्रचित्त सदा भूत्वा तन्मन्त्रं स्मरते सदा ।
सम्बुद्धं द्विपदामग्र्यं शाक्यसिंहं नरोत्तमम् ॥

तेनैव भाषितं मन्त्रम् उष्णीषाद्याः सलोचनाः ।
त्रैलोक्यगुरवश्चक्री तेजोराशिं जयोद्भवम् ॥

विजयोष्णीषमन्त्राद्यां पद्मपाणिं सलोकितम् ।
अवलोकितनाथं च भृकुटी तारां यशस्विनीम् ॥

देवीं च सितवासिन्यां महाश्वेता यशोवतीम् ।
विद्यां भोगवतीं चापि हयग्रीवश्च मन्त्रराट् ॥

एते मन्त्रकूले मन्त्रा प्रधाना (?)ननिःसृता ।
एका
****(?)र्ती वा मन्त्रा****(?)तिं प्रभुम् ॥

प्द्फ़् ४, प्। ५४९)

स्मृत्वा देवदेवं च मन्त्रनाथं महाद्युतिम् ।
क्रोधमप्रभवो तस्य यमान्तो नाम नामतः ॥

अवलोकितनाथस्य चेतांसि करुणोदयाः ।
महाकरुणाकृष्टमनसो पूर्वबुद्धैः प्रकाशिता ॥

सा तारा तारयते जन्तूम् अवलोकितभाषिता ।
विद्या समाधिजा आर्या स्त्र्याख्या सञ्ज्ञारूपिणी ॥

बोधिसत्त्वोऽथ चरते बोधिचारिकमुत्तमाम् ।
लोकधातुसहस्राणि असङ्ख्या बहुधा पुनः ॥

पर्यटन्त तदा देवी सत्त्वानां हितकारणा ।
स्त्रीरूपधारिणी भूत्वा मन्त्ररूपेण देहिनाम् ॥

विधिनेयतदां सत्वां बोधियानेति योजयेत् ।
चर्या बोधिसत्त्वानाम् अचिन्तेयं प्रकाशिता ॥

वज्रपाणिं तथावीरं मन्त्राणामधिपतिं स्मरेत् ।
मामकीं कुलन्दरीं देवीं त्रैलोक्यप्रतिपूजिताम् ॥

शङ्कुला मेखलां चैव वज्रमुष्टिं यशस्विनीम् ।
क्रोधेन्द्रतिलकं शत्रुं नीलदण्डं सभैरवम् ॥

एते दूतिगणाः क्रोधाः विद्याध्यक्षाः प्रकीर्तिताः ।
प्रधाना वज्रकुले सर्वे अस्मद्रक्षिता हि ते ॥

गजगन्धं तथा लोके बोधिसत्त्वं महर्द्धिकम् ।
महास्थानगतं धीमं बोधिसत्त्वं महर्द्धिकम् ॥

ज्येष्ठं तनयमुख्यं तु समन्तभद्रं सुशोभनम् ।
यः स्मरेत् तदा काले भयं तेषां न विद्यते ॥

माणिभद्रं तथा नित्यं जम्भलं यक्षमुत्तमम् ।
सर्वश्रावकप्रत्येकं बुद्धानां च कुतो भयम् ॥

स्मरणात् पूजनात् तेषां महारक्षा प्रकीर्त्तिता ।
बृहत् फलं तदा देवां पुण्या**(?) असञ्ज्ञका ॥

प्द्फ़् ५, प्। ५५०)

स्त्रीरूपधारिणां देवीं वीतरागां महर्द्धिकाम् ।
रत्नत्रये च पूजां वै प्रसन्ना जिनशासने ॥

तेषां न विद्यते किञ्चित् मित्रामित्रभयं यदा ।
समयं तत्र इत्युक्तः अलङ्घ्यं सर्वमन्त्रिभिः ॥

एतत् क्रोधवरे ख्यातं यमान्तस्यैव वर्णिते ।
समये च स्थितां सत्त्वाम् अभक्षाः सर्वमानुषाः ॥

ततस्ते हृष्टमनसः सर्वे देवा ह्यमानुषाः ।
समये तस्थिरे सर्वे जिनपुत्रानुबुद्धिना ॥

यक्षसेनापतिः क्रुद्धः वचनं चेत् पराभवम् ।
सम्प्रकम्प्य तदा सर्वां लोकधातुमसङ्ख्यकाम् ॥

निरर्थं क्रोधराजं तु किमर्थमिदं प्रकाशितम् ।
जिनपुत्रैस्तदा पूर्वं सत्त्वानां विनयकारणात् ॥

प्रभावं क्रोधराजस्य उद्यष्टं च पुरातनम् ।
एवमुक्तोस्ततो वज्री वज्रं निक्षिप्य तस्थुरे ॥

ततः प्रहस्य मतिमां बालरूपी महर्द्धिकः ।
कुमारो मञ्जुघोषो वै इमां वाचमुदीरयेत् ॥

मा प्रदुष्य महायक्ष ! वज्रपाणि ! महर्द्धिक ! ।
मया प्रकाशितो ह्येष क्रोधराजो महर्द्धिकः ॥

तवैव मन्त्रं दास्यामि यथेच्छं सम्प्रकाशय ।
त्वया न शक्यं क्रोधस्य प्रभाअं परिकीर्तितम् ॥

तयैव संस्थितो ह्येष देहस्थ इह दृश्यते ।
आकृष्टः तेन वै तुभ्यं हृदयं ते यदि पृच्छसि ॥

न शक्यं निवर्त्तितुं ह्यत्र क्रोधाविष्टो हि वै प्रभो ।
यथे*(?) सम्प्रकाशयस्त ******(?)वानुमन्यतः ॥

प्द्फ़् ६, प्। ५५१)

त्यक्तो मन्त्रवरैः सर्वैः अपसन्नेषु शासने ।
वैचिकित्सो ** (?) मर्त्यो अश्राद्धेषु दुःस्थिते ॥

सद्धर्मरत्नसङ्घे च प्रतिक्षेप्तव्याः समाहिते ।
नग्नके च सदोच्छिष्टे अशुच्याचारगोचरे ॥

अगुप्ते ह्यमन्त्रयुक्ते च नित्योच्छिष्टे हि निर्घृणे ।
देवावसथचैत्येषु विहाराङ्गणमण्डले ॥

मैथुनाभिरता तत्र तेषां क्रोधो विनाशयेत् ।
समयभ्रष्टा प्रसन्नाश्च मन्त्रयुक्तिमजानका ॥

इषिस्खलितगताचारा तेषां क्रोधो निपातयेत् ।
सर्वेषां मानुषां लोके अप्रमादो न विद्यते ॥

प्रमादमभिरागिन्यः समयभ्रंशानुच्छिद्रिणे ।
हन्यन्ते क्रोधराजेन अप्रयुक्तैस्तु मन्त्रिभिः ॥

सर्वथा बालिशाः सर्वे प्रमादा वशगामिनः ।
वीतरागां साअ मुक्त्वा प्रत्येकार्हश्रावकाम् ॥

सर्वे वै क्रोधराजस्य वध्या दण्ड्याश्च सर्वतः ।
एवमुक्तास्तु मञ्जुश्री करुणाविष्टेन चेतसाम् ॥

अचिन्त्यं चर्यबुद्धानां बोधिसत्त्वां महर्द्धिकाम् ।
एवमुक्त्वा ततः सर्वां तूष्णीम्भूतो हि तस्थुरे ॥

अथ वज्रधरः श्रीमां भूयो वज्रं परामृशेत् ।
गृह्य वज्रं तदा तुष्टो लब्ध्वानुप्तां प्रभाषत इति ॥

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायान्वैपुल्यसूत्रात्
अष्टचत्वारिंशत्तमः
यमान्तकक्रोधराजपरिवर्णनमन्त्रमाहात्म्यनियमपटलविसरः परिसमाप्त इति ॥

प्द्फ़् ७, प्। ५५२)