४९

अथैकोनपञ्चाशः पटलविसरः ।

अथ ता देवता भगवन्तं शाक्यमुनिं सर्वांश्च बोधिसत्त्वां
सर्वश्रावकप्रत्येकबुद्धांश्च त्रिः प्रदक्षिणीकृत्य शिरसा प्रणम्य बुद्धं
भगवन्तं निरीक्षमाणाः स्थिताः अभूवं निरीक्षमाणाः
समन्त्रतन्त्रकल्पविस्तराणि च । भाषन्ते स्म स्वमुद्राणां चौषध्यो
यथाभिमतं भाषन्ते स्म । अनुज्ञाता तथागतेनार्हता सम्यक्सम्बुद्धेन
सत्त्वानामर्थाय सर्वमुद्रामन्त्रपटलविसरं भाषते स्म स्वकं स्वकं
मुद्रापटलमोषधीनां च कल्पं भाषन्ते स्म ॥

तुम्बुरुः सार्थवाहो एवमाह - आदौ तावद् गन्धेन हस्ताबुद्वर्त्य चन्दनमिश्रेण
वान्यैर्वा सुगन्धजातिभिर्देवीनामग्रतः प्राङ्मुखः स्थित्वोदङ्मुको वा
वामहस्तेन दक्षिणहस्ताङ्गुष्ठं मुष्टियोगेन गृहीत्वा अवसव्येन भ्रामयित्वा
नाभिदेशे स्थापयेत् । मुष्टियोगेन शिरःस्थाने वा न्यसेत् । एष भगवं ! तुम्बुरेः
सार्थवाहस्य समयमुद्रा मम । तदेव हस्तौ कर्मार्थसाधका
वामहस्तेनाङ्गुष्ठमभ्यन्तरे प्रक्षिप्य दृढं प्रगृह्य मुष्टियोगेन नाभिदेशे
न्यसेत् । एष भगवं ! मम जयाया मुद्रा सर्वकर्मकरा । तदेव मुष्टिं तर्जन्यां
विकास्य तर्जयेत् । दक्षिणां दिशि सर्वविघ्ना प्रनश्यन्ते । एष द्वितीयो महामुद्रः
द्वितीयमङ्गुलिमुत्क्षिप्य पश्चिमां दिशि मावर्जयेत् । एष द्वितीयो महामुद्रः
सर्वदुष्टा नागां स्तम्भयति निर्विषीकरणे च प्रयोक्तव्यः ।
तृतीयमङ्गुलिमुत्क्षिप्य उत्तरायां दिशि आवर्जयेत्
सर्वयक्षयक्षीकिन्नरमहोरगकूष्माण्डाश्च वश्या भवन्ति । आकृष्टा एषा
तृतीया महामुद्रा भवति । सर्वाशापारिपूरिका । सर्वकर्माश्चाभिमुखा भवन्ति
। चतुर्थमङ्गुलिं विकास्य अभ्यन्तरस्थितमङ्गुष्ठं सङ्कोच्य हस्ततले
पूर्वायां दिशि आवर्जयेत् । सर्वे देवा वश्या भवन्ति । देवानामग्रतः प्राङ्मुखो
भूत्वा दर्शयेत् । सर्वभूता वश्या भवन्ति । सर्वसत्त्वानं च प्रियो भवति । एषा
चतुर्था महामुद्रा सर्वकामफलप्रदा । द्वौ हस्तौ संयम्य सर्वमङ्गुलिं
विकास्य अञ्जल्याकारेण मूर्धन्यास्पृशेत् । ऊर्ध्वमधश्चावलोकयेत् ।
आब्रह्मस्तम्बपर्यन्तात् । अधश्च रसातलम् । सर्वदेवदानवां वशमानयति ।

२९३, प्। ५४३)

एष पञ्चमो महामुद्रः सर्वकर्मार्थसाधकः । एतदेव भगवं ! पञ्च
महामुद्रा सर्वकामफलप्रदा भवति ॥

विजया एवमाह - पञ्च एव भगवं ! मम महामुद्रा भवन्ति ।
वामहस्तेनाङ्गुष्ठाभ्यन्तरं कृत्वा यथा नखा न दृश्यन्ते तथा कार्यं
दृढं मुष्टिं कृत्वा प्रहारमार्जनयोगेनाधः अवलोकयेत् । एष प्रथमा
महामुद्रा । द्वितीयमपि ऊर्ध्वमवलोकने । तृतीयं दिग्दक्षिणमवलोकने चतुर्थं
सर्वदिग्ग्रहणे । पञ्चमं शिरसि न्यस्तम् । एत एव पञ्चमहामुद्रा
सर्वकामफलप्रदा भवन्ति इति ॥

अजिता एवमाह - उभौ हस्तौ संयम्य उभौ अङ्गुष्ठमध्ये प्रक्षिप्य
सुषिरञ्जल्याकारं कृत्वा मध्यमाङ्गुलिसूचिकौ कन्यसाङ्गुलिमुच्छ्रितौ
पाशाकारं कृत्वा उभौ तर्जन्यौ तथैव चानामिकाववष्टभ्य अजिता नाम
महामुद्रा भवति । दुर्दान्तदमका पुण्या सर्वकर्मार्थसाधकः । तदेव मुद्रं
दक्षिणां दिशि मावर्जयेत् । द्वितीया महामुद्रा विजया नाम भवति । एवं
पश्चिमायां दिशि मवर्जयेत् । जया नाम महामुद्रा भवति । एवमुत्तरायां दिशि
मावर्जयेत् । अपराजिता नाम भवति महामुद्रा । एवं पूर्वायां दिशि मावर्जयेत् ।
महासार्थवाहो नाम महामुद्रा भवति । एत एव पञ्चमहामुद्राः
सर्वाशापारिपूरका भवन्ति इति ॥

अपराजिता एवमाह - पञ्च एव भगवं मम महामुद्रा भवन्ति । पूर्ववत् हस्तौ
प्रक्षाल्य कृष्णपक्षे बन्धयितव्याः । तेनैव विधिना यथा साधनेऽस्मिं तथा
योज्याः । दक्षिणाभिमुखं स्थित्वा देवीनामग्रतः उभौ हस्तौ संश्लिष्य
मध्यमानामिकातर्जन्यादिभिः त्रिसूच्याकारं तृशूलं कृत्वा
कनिष्ठिकाङ्गुलिमध्यमङ्गुष्ठौ च मध्ये प्रक्षिप्य हस्ततलेऽस्मिं मूर्ध्नि
स्थाने तदा न्यसेत् । प्रथमं महामुद्रः अपराजिता नाम एवं सर्वे प्रयोक्तव्याः
। यथा अजितायाः । यन्नामिका भगिन्यः भ्रातृसहिताः तन्नामकाः सर्वेषां
महामुद्रा भवन्ति । यदेष हस्ततले एतत् सागरम् । यदेतदङ्गुष्ठं यद्
भ्रातुस्तुम्बुरोः यदेतदङ्गुल्यः सर्वे भगिन्यः अनुपूर्वसञ्ज्ञकाः । तर्जनी जया
मध्यमा विजया अनामिका अजिता कन्यसा अपराजिता । एतदनुपूर्वक्रमेण
पद्भ्यामेव योज्यः ।

२९४, प्। ५४४)

ध्याताः नमस्कृताश्च सान्निध्यं कल्पयन्ति । चिन्तिता नाचिन्तिता मुद्रा भवन्ति ।
सर्वकर्मकराः सर्वाशापरिपूरकाः विषमस्थे चिन्तयितव्या महामुद्राः ।
भयं न भवति इति ॥

तुम्बुरुः सार्थवाह एवमाह - अथेषां सामान्यतः अगदाभिधानं भवति ।
अस्माकं च ओषधीनां प्रभावो येन वश्या भवन्ति सर्वभूताः । कतमं च तत् ।
अश्वत्थन्यग्रोधशुङ्गां गृहीत्वा क्षीरेण पीषयित्वा गोक्षीरेणालोड्य सितपक्षे
अश्विनिनक्षत्रेण इन्दुवारे तिथौ सप्तम्यां पूर्वाह्ने ऋतुमत्याः स्त्रियाया
अप्रसवनधर्मिन्याः सार्थवाहमन्त्रेण परिजप्य सप्तवारां तथैव मुद्रां
बध्वा पापयेत् पूर्वाभिमुखां कृत्वा नारी गर्भं ग्रहेष्यते । पुत्रं जनयते
दीर्घायुष्यं सुपतिना च सह स्वप्तव्यम् । तेषामेव मूलं गृहीत्वा
मूलनक्षत्रेणोत्तरायां दिशि गतायां शिलायामादित्यवारेण सूक्ष्मचूर्णानि
कारयेत् । यस्य ददाति स वशो भवति आहारपानभोजनादिषु
गन्धमाल्यताम्बूलादिषु प्रयोक्तव्यम् । यथा शरीरेषु विशति तथा कार्यम् । स्पृशति
वाचा सत्त्वेनोपतिष्ठति । तदेव शुङ्गौ तेनैव विधिना यथा स्त्रिया तथात्मना पिबेत् ।
स्त्रीशतमपि गच्छति अव्यवच्छिन्नरेतः । तथा स्त्रियामपि
बृहल्लिङ्गतामभिनिर्वर्त्तयति । गोर्जरुकः शतपादी वा नरशक्रफलानि तथैव
चूर्णमिदं पयसा सह पेयं यस्य गृहे प्रमदाशतमस्ति । एवमनेन प्रकारेण
पूर्वमूलां स्वमुद्रां मन्त्रेणोपेताः वजयित्वा विषमुपविषं च सर्वं योज्यम्
। सर्वकर्मिषु च सर्वभूतानां वशीकरणमुत्तमं साधनीयाश्चेति ॥

जया एवमाह - जयन्तीमूलं गृह्य तथैव कर्तव्यं यथा तुम्बुरेः सर्वकर्माणि
साधयति । अथाकाशगमनमिच्छेत् । जयन्तीमूलं तृलोहपरिवेष्टितं कृत्वा
पुष्ययोगेन सोमवारेण शुक्लपक्षसप्तम्यां सपूर्णमास्यां
चतुर्दश्याष्टम्यां त्रिरात्रोषितेन शुचिना कुङ्कुममिश्रं कृत्वा मुखे
प्रक्षेप्तव्याः । चन्द्रग्रहे मुक्ते अन्तर्हितो भवति । स्वमन्त्रम् अक्षरलक्षं जप्त्वा
गुडिकां प्रक्षिप्य चन्द्रग्रहे मुक्ते विद्याधरो भवति कामरूपी यथेष्टगत्तिः
विंशतिवर्षसहस्राणि जीवति । उद्गीर्णे पुनर्दृश्यति । मानुषे पुनः एवं
सर्वकर्माणि करोतीति ॥

२९५, प्। ५४५)

विजया एवमाह - किन्तु अयं विशेषः । अगस्तिवन्दाकं गृह्य ज्येष्ठोदकेन
दिव्यवारिणा वा पिष्ट्वा स्वमन्त्रेणाभिमन्त्र्य पादौ म्रक्षयेद्योजनशतं
गमनागमनं करोति । अखिन्नं यावन्न त्यजते । विजयामूलं गृह्य तथैव
कर्तव्यम् । तथा जयायाः सर्वं करोति इति ॥

अजिता एवमाह - अजितमूलं सङ्गृह्य तथैव कर्त्तव्यम् । सर्वं साधयति इति ।

अपराजिता एवमाह - अपराजितामूलं गृह्य शुक्लकृष्णौ सपत्रफलमूलौ सर्वं
तथैव कर्तव्यं यथा सार्थवाहस्येति । किन्त्वयं विशेषः । आशुकारि क्षिप्रं
सिद्ध्यतीति ।

पुत्रञ्जरी कृताञ्जली सहा च सहदेवा च महोषधी ।
छत्राधिच्छत्रा तथा देवी महाकालश्च विश्रुतः ।
नाकुली गन्धनाकुल्यौ तथा सङ्कुचितकर्णिका ॥

एतेषां मूलमादाय शूर्जचूर्णानि कारयेत् ।
अनेन पृष्टमात्रस्तु वशमायान्ति देहिनः ॥

रक्तशालितुषं चैव कुङ्कुमं सहचन्दनम् ।
कस्तूरिकासमायुक्तं दिव्यवारिसमप्लुतम् ॥

त्रिलोहाकारयेवेष्टं वै गुटिकां कुर्वीत मन्त्रवित् ।
अक्षमात्रं ततः कृत्वा गुटिकां वक्त्रे तं तां न्यसेत् ॥

चन्द्रग्रहेऽथ रात्रौ वा जपेन्मन्त्रं समाहितः ।
प्रभाते सिद्धमन्त्रस्तु यथेष्टं याति देहजः ॥

परिवर्तयते जापं वक्त्रस्था गुटिका सदा ।
यथेष्टपशुरूपी वा समन्ताद्धिण्डति मेदिनीम् ॥

उद्गीर्णे तहा युक्तिः स्वदेही भवति जापधीः ।
अन्यथा यदि वक्त्रस्था विश्वरूपा भवेत् सदा ॥

स्वमन्त्रेणात्मरक्षं तु कृतजापीं विशिष्यते ।
अन्यथा हृयते गुटिका यदि रक्षां न करोति जापी ॥

२९६, प्। ५४६)

सर्वमन्त्रास्तु सिद्ध्यन्ते मन्त्रराट् सर्वलौकिकाः ।
पूजनात् सर्वकल्पानां सर्वसर्वैश्च भाषिताम् ॥

तेऽस्मिं सिद्धिमायान्ति मन्त्रतन्त्राभिभाषिताम् ।
विचरन्ति महीं कृत्स्नां विचित्रा वेषधारिणो ॥

गतियोनिविदेहस्थाः श्वानवायसरूपिणः ।
मार्जार तथोलूकाः मूषमण्डूकवृश्चिकाः ॥

सर्वयोनिसमाकीर्णाः विदेहा देहविस्थिताः ।
पर्यटन्ति महीं कृत्स्नां सर्वभूतरुताविनः ॥

सर्वसत्त्वे वशा वेषा सर्वभूते प्रियोदया ।
कुर्वन्ति च सदा मर्त्या तदा तेषां नियोजयेत् ॥

नान्येषां कथ्यते लोके पूजिताश्चैव देवतैः ।
सर्वं च सर्वतो ज्ञेयं सर्वमन्त्रप्रसाधकम् ॥

कथितं कथयिष्यन्ति ये चान्ये भुवि मानवाः ।
तत् सर्वं कल्पविसरम् इह चोक्तं लोकमातरैः ॥

एवमुक्तास्तु देवा वै सूत्रान्तसहपञ्चमाः ।
तूष्णीम्भूता ततस्तस्थु प्रणम्य जिनपुङ्गवम् ॥

निषण्णो धर्मश्रवणाय तस्मिं पर्षद्वरेद्वरे ।
अधिष्ठानां च बुद्धानाम् अशेषाणां च जिनात्मजाम् ॥

अध्येष्य च महावीरं तूष्णीम्भूतास्तदनन्तरे ।
अथ वज्रधृक् श्रीमां पूजयामास देवताः ॥

साधुकारमदात् तेषां सत्त्वानुग्रहकाम्यया ।
साधु साधु ततः कन्य समये तिष्ठध्व यत्नतामिति ॥

आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात्
सप्तचत्वारिंशतिमः पटलविसरात् तृतीयः
चतुःकुमार्योपयिकसर्वसाधनजपनियममुद्रा-
ओषधितन्त्रमन्त्रसर्वकर्मपटलविसरं परिसमाप्त इति ॥

शुभं भूयात् ॥