अथ सप्तचत्वारिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तं च
महापर्षन्मण्डलम्
अनन्तव्यूहालङ्कारसर्वज्योतिप्रभास्वरविकुर्वाणानन्तगुह्यतमं
सर्वगुह्यतमं सर्वमन्त्रानुचरितं नाम समाधिं समापद्यते ।
समन्तरसमापन्नस्य भगवतः ऊर्णाकोशाद् रश्मयो निश्चरन्ति स्म । सर्वतश्च
समन्ता दशसु दिक्षु रित्यूर्ध्वमधस्तिर्यक् महतावभासेनावभास्य
सर्वमन्त्रां सञ्चोद्य पुनरपि भगवतः ऊर्णाकोशान्तर्हिता । समनन्तरान्तर्हिते
रश्मिभिः चतुर्दिक्षु च आधश्चोर्ध्वं चत्वारः कुमार्यो भ्रातृसहिता तस्मिन्नेव
महापर्षन्मण्डले अधः सुमेरुपर्वतराजसमीपे
बुद्धाधिष्ठानेनाधिष्ठितोऽभूत् । सन्निपतिता सन्निषण्णा
महाबोधिसत्त्वकुमारभूतं रिद्ध्या विक्रीडनसन्दशर्नार्थं
महामन्त्रचर्यानिर्हारार्थं
सर्वलोकोत्तरलौकिकमन्त्रचर्याक्रीडासमनुप्रेवशवशमाकर्षसमाश्वासन-
चर्यासमनुप्रवेशनार्थम् ॥
अथ खलु भगवां शाक्यमुनिर्वज्रपाणिं बोधिसत्त्व महासत्त्वं तस्मिन्नेव
पर्षदि सन्निपतितम् ईषिन्निरीक्ष्य सर्वं च बोधिसत्त्वगणम् ॥
अथ सा सर्वावती पर्षदिह महापृथिवी च देवतागणपरिवृता
महाभूतैकमन्त्रालयम् ओषध्यो महाज्योतींषि नगां सञ्चाल्य प्रचलिता रणिता
प्ररणिता क्षुभिता सम्प्रक्षुभिता दक्षिणा दिगुन्नमति उत्तरा दिगवन्नमति
पश्चिमदिगुन्नमति पूर्वा दिगवनमति अन्तादवनमति मध्यादुन्नमति
मध्यादवनमति अन्तादुन्नमति महतस्य चावभासस्य लोके प्रादुर्भावोऽभूत् ॥
अन्यानि चाप्रभेयानि असङ्ख्येयानिश्चर्याद्भुतानि प्रातिहार्याणि सन्दृश्यन्ते स्म ।
ताश्च देवसङ्घा निःप्रपञ्चमहतालम्बनज्ञानशान्तिपदं नाम समाधिं
समापद्यते स्म । यन्न शक्यं सर्वप्रत्येकबुद्धार्हत्त्वमहाबोधिसत्त्वैरपि
ज्ञातुम् । कः पुनर्वादः समापद्येतुम् अन्येषां सर्वलौकिकलोकोत्तराणां
तीर्थायतनानाम् अभिभवनार्थं सर्वमन्त्रतन्त्रानुप्रवेशनार्थं
सर्वविमोक्षधर्मपरिपूरणार्थं सर्वसत्त्वानां च
शान्तिपदमनुप्रापणार्थं
२६५, प्। ५१५)
सर्वभूतमनुकम्पाभूतकोटितथताचिन्त्यबोधिमण्डवज्रासनमाक्रमणतिष्ठ-
पदमनुप्रापणार्थं च भगवां शाक्यमुनिः ध्यायन्तः स्थितोऽभूत् ॥
अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो वज्रपाणिं बोधिसत्त्वं
महायक्षसेनापति आमन्त्रयते स्म - भाष भाष त्वं भो ! जिनपुत्र !
सर्वमन्त्रचर्यानुप्रवेशं सर्वलौकिकमन्त्राणां सारभूतं तमं
परमरहस्यं सर्वभूतसत्त्वानां समयानुप्रवेशं
यथाशयमनोरथसर्वपारिपूरकम् अनुज्ञातस्त्वं भो ! जिनपुत्र !
सर्वबुद्धैर्भगवद्भिः
अतीतानागतप्रत्युत्पन्नैस्तथागतमन्त्रकोशसर्वज्ञतापरिपूरणार्थम् इह
कल्पराजपटलविसरे सर्वविक्रीडालीलाचिन्त्याश्चर्याद्भुतविकुर्वणसन्दर्शनार्थं
सर्वज्ञज्ञानमुद्भावनार्थम् ॥
अथ खलु वज्रपाणिः बोधिसत्त्वो महासत्त्वः मञ्जुश्रियं
कुमारभूतमामन्त्रयते स्म । शृण्वन्तु भो ! धर्मधर सर्वतथागतानां
समतानुरक्षणदक्षकथायास्यहं चतुःकुमारीणां भ्रातृसहितानां
सरहस्यं पटविधानहोमजापकालक्रियानियमः प्रतिमाविधानमण्डलसमय-
आह्वाननविसर्जनापूजनार्घदीपगन्धधूपमाल्यविलेपनचूर्णवस्त्रनिवेदन-
ध्वजपताकघण्टामालप्रदीपस्रग्विधिसाधनसाध्योपायनियमक्रमः
शान्तिकपौष्टिकाभिचारुक
अन्तर्द्धानाकाशगमनपादप्रचारिकवशीकरणावेशनविद्वेषणोत्सादन-शोषण
मोअनस्तम्भनमारण
विविधसत्त्वाकारकरणपीडनतर्जनभर्त्सनबहुपदापदकरणक्रियो
मार्गसन्दर्शनयथेस्टकर्मफलः
बन्धनरोहणावन्ध्यकरणसर्वकर्ममन्त्रतन्त्रसाधनोपयिकेषु स्थानेषु
नियोजनः सिद्धिपरिपूरणा । तच्छ्रूयतां भो ! जिनपुत्र ! ॥
अथ वज्रपाणिः श्रीमां प्रणिपत्य सुगतं विभुम् ।
उवाच मधुरां वाणिं शब्दार्थभूषिताम् ॥
अनर्थां कर्णसुखां चैव मधुरार्थसुकूजिताम् ।
बह्वार्थकरीमिष्टां सर्वमन्त्रास्पदकरी ब्रह्मस्वरनिनादिनीम् ॥
कलविङ्करुताघोषा स्पष्टगम्भीरसंयमी ।
सूक्ष्मार्थतत्त्वावचोदनीम् * * * * * * * (?) ॥
सर्वमन्त्रेश्वरीं श्चैव वाचं भाषेऽथ वज्रधृक् ।
शृणोथ भूतगणाः सर्वे देवसङ्घा महर्द्धिका ॥
वक्ष्यमाणां तथा कल्प सविस्तरं सर्वकर्मिकम् ।
२६६, प्। ५१६)
चतुर्मूर्तिर्महौजस्क चतुर्दिक्षु समागमम् ।
चतुर्वर्णसमायुक्तं चतुरक्षरभूषितम् ॥
चतुर्मन्त्रसमोपेतं स पुमां पञ्चमाशृताम् ।
चतुर्थगतिमाहात्म्यं चतुर्भूतसमागमम् ॥
सभ्रातृपञ्चमं ज्येष्ठं महाभूताकाशमुद्भवम् ।
सर्वत्राप्रतिहतं श्रेष्ठं सर्वमन्त्रार्थसाधनम् ॥
सर्वकर्मकरं पूज्यं ज्येष्ठं मङ्गल्यमघनाशनम् ।
प्रवृत्तं सर्वभूतानां मन्त्ररूपेण श्रेयसाम् ॥
चतुःकुमार्येति विख्याता कुमारा पञ्चमात्मका ।
वाय्वम्बुज्योतिषिं पृथिवीं खपञ्चमात्मकाम् ॥
तेषां मन्त्ररूपिण्यां विपाको भवति देहिनाम् ।
पञ्चमो श्रेयसो मुख्यो भ्रातृरूपेण मन्त्रराट् ॥
तेषां मन्त्रं प्रवक्ष्यामि अपराख्य शृणोथ मे ।
अथ ते सर्वभूता वै प्रहृष्टमनसा अभूत् ॥
निषण्णा धर्मतां ज्ञात्वा सौम्यचित्ता समाहिता ।
श्रोतुकामा हि वै सर्वो निश्चलायतलोचना ॥
अथ मञ्जुवरां श्रीमाम् ऊर्ध्वक्ष्य सुगतात्मजम् ।
वज्रपाणिं महायक्षं सर्वमन्त्रेश्वरालयम् ॥
कृपावकृष्टहृदयो अपरोऽभूत् तदन्तरे ।
सर्वबुद्धा वै प्रत्येकार्हश्रावका * * * * (?) ॥
बोधिसत्त्वा महासत्त्वा दशभूमिसमाशृता ।
सर्वसत्त्वा तथा लोके मुख्या अग्रतमाश्च ये ॥
निषण्णा सर्वतः सर्व गतिपञ्चसुयोजिताः ।
जन्मिनो वरमुख्याश्च पराः परपूजिता ॥
भवाग्रा ह्यावीचिपर्यन्ताम् अनन्तां धातुमाशृताम् ।
त्रिजन्माध्यक्षपर्यन्ता दशभूमाधिपा परा ॥
२६७, प्। ५१७)
श्रोतुकामा हि वै सर्वे निपेतुस्तं समागमम् ।
अथ वज्रधराध्यक्षो विदित्वा सर्वमागताम् ॥
सत्त्वां बोधिसत्त्वांश्च सर्वमन्त्रेश्वरालयाम् ।
सुरज्येष्ठां तथा देवां दशभूम्येश्वराम् ॥
सर्वसत्त्वां विदित्त्वैनां प्रसन्नां बुद्धशासने ।
मन्त्रं प्रत्याहरेद्धीमां मन्त्रनाथेश्वरस्तदा ॥
नमः सर्वबुद्धानामप्रतिहतशासनानाम् अचिन्त्याद्भुतरूपिणाम् । ॐ तुरु तुरु हुलु
हुलु मा विलम्ब समयमनुस्मर मम कार्यं साधय हूꣳ हूꣳ फट् फट् स्वाहा ॥
सर्वकर्मिकोऽयं मन्त्रः । हृदयोऽयं सर्वबुद्धबोधिसत्त्वानां
सर्वलौकिकलोकोत्तराणां सर्वव्याधिराजाधिपतीनां च मूलमन्त्रोऽयम् अनेन
सर्वकर्माणि कारये ॥
सर्वद्रव्याणि साधयेत् सर्वकर्मकरो विभुः ।
अनेन तु सदा कर्म कुर्यात् क्षिप्रार्थसाधने ॥
तत्र मन्त्रं प्रवक्ष्यामि देवसङ्घा शृणोथ मे ।
ॐ देव स्वाहा । सार्त्थवाहायस्तुम्बुरेर्मन्त्रः । ॐ जये स्वाहा । ॐ अजिते स्वाहा । ॐ
अपराजिते स्वाहा । एते मूलमन्त्रा सभ्रातृसहितानां चतुर्भगिनीनां
लोकपूजितानां हृदयानि भवन्ति । तासाम् ॐ रूपिणि ॐ विरूपिणि विश्वात्मने । एते
हृदयोद्भवा मन्त्रास्तुम्बुरेर्हृदये मन्त्रा भवन्ति । ॐ देवेशाय स्वाहा ।
उपहृदयानि भवन्ति । ॐ वामानि पिशाचि ॐ महाराक्षसि स्वाहा । ॐ विकृतरूपिणि
स्वाहा । ॐ प्रकीर्णकेशी कृतान्तरूपिणि स्वाहा । ॐ वज्ररूपिणि कृतान्तरात्रि भयानकि
स्वाहा । तुम्बुरेः सार्थवाहस्योपहृदयं भवति । ॐ चतुर्वक्त्रविभूषितमूर्तिं
त्रिनेत्रा लम्बोदर बहुरूपि स्वाहा । ॐ धु धु ज्वलय सर्वदिशां स्वाहा । सर्वेषां
भगिनीनां भ्रातृसहितानां दिव्यस्तु मन्त्रोऽयम् । ॐ हूꣳ सर्वेषां शिखा । ॐ ह्रीः
जः सर्वेषां शिरः । ॐ ध्यायिनि स्वाहा । सर्वेषां मन्त्रः । ॐ दृक् सर्वेषां नेत्रः
। ॐ भगिनीनां भ्रातृसहितानां चन्दनकुङ्कुमानुलिप्तानां समया च
रक्षितानां
२६८, प्। ५१८)
हिमवन्तससागरचारिणां दृढव्रतानां बुद्धधर्मसङ्घानुज्ञातानां
श्रीः । ह्रीः । रीम् । व्रीः । भुजः । एष सर्वभगिनीनां सर्वभ्रातृसहितानां गात्रे
महामन्त्रः । सर्वकर्मिकः प्रसिद्धः सर्वकर्मसु । परमगुह्यतमः । ॐ आयाहि
महादेव विश्वरूपिणे स्वाहा । ॐ तुम्बुरे सार्थवाहस्याह्वाननमन्त्रा । ॐ
गच्छगच्छ महादेव विश्वात्मने स्वाहा । तुम्बुरेः सार्थवाहस्य विसर्जनमन्त्रा
। ॐ आयाहि देवि कुमारिके किं चिरायसिसमयमनुस्मर । मम कार्यं सम्पादय
स्वाहा । जयायाह्वाननमन्त्रा । ॐ आयाहि महाभोगिनि कार्यं मे साधय
समयमनुस्मर स्वाहा । ॐ महायोगान्धरि विस्तीर्णधनप्रिये स्वाहा । अजिताया
आह्वाननमन्त्रा । ॐ श्मशानवासिनि रूपपरिवर्तिनि देहानुचरे स्वाहा । अपराजिताया
आह्वाननमन्त्रा पुनरेव सर्वमण्डलां लौकिकलोकोत्तरामालिखेत् । सर्वकर्मेषु च
योजयेत् । परकल्पविधानेनापि ईप्सितमर्थं साधयेत् । अस्मिन्नेव कल्पविसरे
मूलकल्पराजपटलसमतासम्मतश्चतुःकुमारिणां
कुमारसहितानामादिमाख्यायते मन्त्रोऽयं बुद्धात्मजो यमिच्छति ।
सर्वकर्मिकमित्याहुः बुद्धपुत्रा महर्द्धिका ।
कुलाग्रा मन्त्रमुख्याश्च सर्वमन्त्रेश्वरो विभुः ॥
करोति विविधां कर्मां विचित्रां साधुवर्णिताम् ।
प्रसह्यं चापि भूतानां चित्तं हरति तृजन्मिनाम् ॥
गत्यर्थवश्यताहेतुनापत्यार्तसमुद्भवम् ।
प्रसह्यं कुरुते कर्म गतियोनिविनिर्गतः ॥
चतुर्भगिन्येति विख्याता * * * * * * * (?) ।
सभ्रातृसहिता नित्यं महोदधिनिवासिनः ॥
नौयानसमारूढा सभ्रातृसहपञ्चमा ।
कर्णधारोऽथ चित्तासां तुम्बुरुर्नाम सञ्ज्ञितः ॥
विचरन्ति महीं कृत्स्नां सत्त्वानुग्रहतत्पराम् ।
विचित्ररूपधारिण्यो विचित्राबह्रणभूषिताः ॥
विचित्रैव फलं सातां विचित्रोपकरणपूजिताम् ।
पर्यटन्ति महीं सर्वां सशैलसहसागराम् ॥
२६९, प्। ५१९)
तासां मन्त्रो महाज्येष्ठः तुम्बुरुर्नाम इष्यते ।
सार्थवाहस्य मन्त्रो वै त्र्यम्बकस्य जनाधिपे ॥
चतुरक्षरसंयोगा ओङ्कारसपँजकः ।
प्रथमः सर्वमन्त्राणां चार्चनं कुर्यात् गन्धधूपदीपमाल्योपहार्विशेषैः
बलिविधानं दत्वा जपं कुर्यात् । अनाकुलपदाक्षरैः । गुह्यप्रदेशे
एषामन्यतमं श्रेष्ठं मन्त्रं गृहीत्वा त्रिःकालमष्टसहस्रं जपेत् । आगताया
अर्घं दत्वा सर्वकर्माणि कारयेत् । अर्घमन्त्रं चात्र भवति । ॐ प्रविगृह्णतु
भगिन्यः सभ्रातृसहिता चार्घम् । समयमधितिष्ठन्तु स्वाहा । अर्घमन्त्रा
सर्वेषां भ्रातृसहितानां सर्वोपचारमन्त्राणि भवन्ति । ॐ ज्वल ज्वल
महाहुताशार्चि महाद्युतीनां स्वाहा । सर्वेषां प्रदीपमन्त्रा । ॐ धूꣳ धूꣳ ।
अरितवासिनि धूपशिखे सुरभिगन्धमनोहरे प्रतिगृह्णतु देव्यः भ्रातृसहिताः
ध्यायन्तां स्वाहा । धूपमन्त्रः सर्वेषाम् । ॐ कुसुमवासिनि कुसुमाढ्ये
सुरभिमाले सुगन्धिमनोहरे वने कुसुमा जाताः सुकुमाराः सुगन्धिनः । तां
निवेदितो भक्त्या प्रतिगृह्णध्वं मनोजवा स्वाहा । पुष्पमन्त्रा । अनेन पूजां
कुर्वीत । ॐ गन्धगन्धाधिवासे स्वाहा । गन्धमन्त्रा । ॐ बलिते बलिनि स्वाहा ।
बलिमन्त्रा । ॐ लालावति स्वाहा । निवेद्यमन्त्रा । ॐ सू । वस्त्रमन्त्रा । ॐ फट् ।
घण्टामन्त्रा । ॐ स्वरव्यञ्जनमन्त्रा । ॐ छादय छत्रमन्त्रा । ॐ दोधूयते
धूयते स्वाहा । चमरमन्त्रा । ॐ केलिमहोकलिहृदयङ्गमे स्वाहा ।
सर्वद्रव्योपकरणाञ्जनरोचनादर्शप्रसाधनमन्त्रा । ॐ समस्तव्यापिनि स्वाहा ।
सर्वदिग्बन्धवज्रप्राकारमन्त्रा । ॐ मण्डलिने स्वाहा । इत्यूर्ध्वमधः
बन्धमन्त्रा । सर्वतश्च समन्ताशेषबन्धं भवति । ॐ नमः
सर्वबुद्धानामप्रतिहतशासनानाम् । ॐ हूꣳ हः । सर्वकर्मिकोऽयं
महाविद्याराजा शासनो नाम । वशिता सर्वभूतानां चतुःकुमारीणां
सभ्रातृसहितानां पीडनो शोषणो रोधनो बन्धनः वशयिता निग्रहानुग्रहे रतः
सर्वभूतग्रहमातर सर्वकर्मेषु अप्रतिहतशासनः गुह्ये प्रदेशे अववरके वा
जप्यमानश्चतुर्भगिनीनां सभ्रातृसहितानां यं रोचते तं कारयति ।
याच्यमानस्तु यं वरं रोचते
२७०, प्। ५२०)
तं वरं याचयितव्या शीघ्रं वरमनुप्रयच्छति । एवं
बन्धनताडनतर्जनतर्जनमारणादीनि कर्माणि कुर्वन्ति । अनेनैव
विद्याराजेनोपतप्यमाना सह जप्यमाना सर्वकर्माणि कुर्वन्ति । आसां मन्त्राणि
भवन्ति । विसर्जनाध्येषणादीनि कार्याणि कुर्वन्ति ॥
ॐ रूपिणि गच्छ गच्छ
समयमनुस्मर स्वाहा । जयाया विसर्जनमन्त्रा । ॐ वामने पिशाचि प्रकीर्णकेशि
विश्वरूपिणि गच्छ गच्छ मम कार्यं साधय स्वाहा । विजयाया विसर्जनमन्त्रः
। ॐ लहु लहु रूपिणि गच्छ गच्छ समयमनुस्मर मम कार्यं समादाय स्वाहा ।
अजिताया विसर्जनमन्त्रा । ॐ विश्वरूपिणि विकृते विकृतानने सर्वदुष्टनिवारणि गच्छ
गच्छ ममार्थं साधय स्वाहा । अपराजिताया विसर्जनमन्त्रा एते
विसर्जनाध्येषणमन्त्रा । यन्मनीषितं कार्यम् । विचित्रकुसुमैरञ्जलिं पूरयित्वा
याचयित्वा प्रसाद्य च देवीनामग्रतः सभ्रातृसहितानां क्षेप्तव्याः । ततस्ता
मुक्ता भवन्ति । सभ्रातृसहिता सान्निध्यं च कल्पयन्ते । यथेष्टं च
वरमनुप्रयच्छन्ति विचरन्ति यथासुखमिति । वाचा वक्तव्या प्रतिदिनं च
कर्तव्यमेवमुपरुध्यमाना मोक्षणाच्च सान्निध्यं न परित्यजन्ति । सततक्रिया
अन्यथा उपरुध्यमाना नावतिष्ठन्ते कर्तव्यम् ॥
अथ ते भगिन्यः सभ्रातृसहिताः थरथरायमानाः पीड्यमानाश्च
वेपथुरुपजातशङ्का बोधिसत्त्वानुभावेन चतुर्दिक्षु रागत्य एवं
वाचमुदीरयन्ते - परित्रायस्व भगवं वज्रपाणि परित्रायस्व । पीडिताः स्म
भगवं सुपीडिताः स्म । गतिरन्या न विद्यते । त्वमेव भगवं शरणम् । त्वमेव
त्राणमिति ॥
अत्रान्तरे विद्याराजेन शासने सुशासिता
सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्या
सर्वसत्त्वाश्च सर्वगतिसङ्गृहीताश्च सुविनीताश्च सुशासिता महाविद्याराजेन
वज्राधिपतिनानुभावेन ताः भगिन्यः भ्रातृसहिताः भीताः सुविनीता आर्तस्वरं
क्रन्दमानाः अवतिष्ठन्ते ॥
अथ खलु मञ्जुश्रीः बोधिसत्त्वो महासत्त्वः तां देवतां
भ्रातृसहितानामन्त्रयते स्म । मा भैष्टत भगिन्यः मा भैष्टथ । बुद्धं
शरणं गच्छध्वम् ।
२७१, प्। ५२१)
द्विपदानामग्रं धर्मं शरणं गच्छध्वम् । विरागाणामग्रं सङ्घं
शरणं गच्छध्वम् । गणानामग्र्यम् ॥
अथ ता भगिन्यः सभ्रातृपञ्चमाः बुद्धं शरणं गच्छन्ति । एवं शरणं
गच्छन्ति । सङ्घं शरणं गच्छन्ति स्म । ततस्ताः सुखसौमनस्याः परमेण
सुखसौमनस्येन समन्वागता अभूवन् । मुक्तगाढबन्धनात्मानं सञ्जानते
स्म । प्रीतीसुखसमर्पिताः लब्धप्रसादपरमसञ्जातहृष्टरोमकूपाः
इदमुदानमुदानयन्ति स्म ॥
अहो आश्चर्यमिदं प्राप्तो रत्नत्रयोद्भवे ।
सुखिताः स्म क्षणाल्लब्धात् सर्वदुर्गतिघहिताः ॥
सुगतौ स्वर्गमोक्षौ च सदा बुद्धिनिवेशिता ।
ततस्तां तुष्टमनसो मञ्जुघोषं निरीक्ष च ॥
प्रणिपत्य चरणौ मूर्ध्ना इदं वाचमुदीरयम् ।
त्रातस्त्वं सर्वदुःखेभ्यः गतिस्त्वं भो महाद्युतेः ॥
यस्त्वं सर्वधर्माणां गभीरपदमक्षरा ।
त्वं देशयसे नाथ बन्धुभूत नमोऽस्तु ते ॥
आज्ञापय महावीर मन्त्रनाथं जिनात्मजम् ।
किमानीताः स्म देवेन आज्ञां किं करवानि ह ॥
एवमुक्तास्तु वीरो वै सर्वबुद्धात्मजो विभुः ।
उवाच मधुरां वाणीं देवताभिः स चोदितः ॥
गच्छ त्वं शरणं भूयः वज्रपाणिजिनात्मजे ।
अवैवर्तिकसङ्घो वै बोधिसत्त्वाग्रजोद्भवेत् ॥
तृरत्नमादौ कृत्वा वै वंशजं जिनवरात्मजम् ।
चित्तं च बोधो ईरध्वं मैत्रचित्ता भवोत्सुका ॥
ततो वा सर्वतः कृत्वा जघ्नुः स्वस्थतास्पदम् ।
ततस्ता देवताः सर्वे प्रणिपत्य जिनात्मजम् ॥
२७२, प्। ५२२)
आज्ञां सम्पाद्य सर्वं वै येन वज्री तदोन्मुखा ।
नमस्कृत्वा तु तां क्षिप्रं वज्रपाणिं महाद्युतिम् ॥
अभिष्टुत्य ततः सर्वे स्थिताः तन्मुखोद्भवाः ।
प्रसमीक्ष्य तदा कन्या सभ्रातृसहपञ्चमा ॥
वज्रपाणिं च यक्षेशं निरीक्षमाणाः स्थिताः ।
अभूवं नित्यार्थमास्पदा देव्यः अनित्यार्थार्थभूषिताः ॥
प्रणेममधुरां वाचामात्ममन्त्रार्त्थशोभनाम् ।
नमस्ते सर्वबुद्धानां बोधिसत्त्वां महर्द्धिकाम् ॥
प्रत्येकार्हसङ्घं च असतांश्चैव योगिनाम् ।
आत्ममन्त्रार्थविस्तारं कथयामो महाद्युते ॥
यथातत्त्वावबोधार्त्थं जनानां तु महीतले ।
सरहस्यं गुह्यमन्त्राणां त्वद्वक्षान्निसृतात्मनाम् ॥
अनुरक्षार्थमन्त्राणाम् आस्पदार्थार्त्थभूषणाम् ।
एवमुक्ते तु मन्त्रेशः वज्रपाणिर्महाद्युतिः ॥
ईषिस्मितमुखो भूत्वा विलोक्य विकसन्मुखः ।
पूजयामास तां कन्यां सभ्रातृसखीजनाम् ॥
अनुज्ञातं मया यूयं निर्विशङ्क भविष्यथ ।
संश्राव्य कल्पविस्तारं सरहस्यं समण्डलम् ॥
जन्तुभिः पूजिता नित्यं वरं वो दास्यथ सर्वदा ।
ऋषिभिः पूजिता यूयं यक्षराक्षसकिन्नरैः ॥
गरुडैर्देवगन्धर्वैः असुरैश्चापि महर्द्धिकैः ।
कूष्माण्डैः मातरैश्चापि समग्रैः सोमभास्करैः ॥
लोकपालैः धनाध्यक्षैः पतद्भिः वसवैस्तथा ।
तैरिवेयं सुराध्यक्षैः पिशाचोरगमानुषैः ॥
भूताध्यक्षैः निशाध्यक्षैः पिशिताशनव्यन्तरैः ।
राक्षसाधिपमुख्यैश्च रौद्रचित्तैर्विहेठकैः ॥
२७३, प्। ५२३)
दैत्यदानवसङ्घैश्च यमैः प्रेतमहर्द्धिकैः ।
मानुषामानुपैश्चापि ब्रह्मविष्णुमहेश्वरैः ॥
सुरमुख्यैर्महाज्येष्ठैः सिद्धचारणपूतनैः ।
योगिभिर्जिनपुत्रैश्च पूजिता वो भविष्यथ ॥
न सन्देहो प्रभावा वरक्रमा * * * * * (?) ।
जयाया मन्त्रमित्याहुः कल्पविस्तारविस्तरा ॥
नव कोट्यस्तु मन्त्राणां तन्त्रकल्पसविस्तरा ।
विजया चैव मन्त्राणां षष्टिर्लब्धा प्रकीर्तिता ॥
अजिताया तु भवेन्मात्र लक्षषोडशकोद्भवा ।
अपराजिताया तु कन्याया चतुःकोट्यः उदाहृताः ॥
तुम्बुरेः सार्थवाहस्य नवकोट्योऽथ गायतः ।
तत्प्रमाणा भवेत् कल्पा नृसुरासुरपूजिताः ॥
सर्वं शैवमिति ख्यातं सर्वैर्भूतलवासिभिः ।
मयैव निगदितं पूर्वं कल्पे मस्मिं सविस्तरे ॥
पश्चादन्यो जनः प्राहुः कल्पमन्त्रां पृथक् पृथक् ।
तुम्बुरुः सार्थवाहस्य त्र्यम्बकस्य तु धीमतेः ॥
अनन्ता कल्पविस्तारा शर्वस्यास्य कपर्दिने ।
यत्प्रभावार्थं मन्त्राणां सिद्धिं यास्यन्ति भूतले ॥
अनुज्ञाताथ वै यूयं कल्पराजेऽथ वै सदा ।
भाषध्वं मन्त्रतन्त्राणां सरहस्यं सविस्तरम् ॥
सगुह्यं गुह्यतमं चापि सर्वसत्त्वसुखोदयम् ।
इत्युक्त्वा वज्रधृक् श्रीमां वज्रमाशृत्य लीलया ॥
तूष्णीम्भूत तदा तस्थौ रत्नपङ्कजमुच्छृते ।
अथ ताः कन्यकाः क्षिप्रं सभ्रातृमथपञ्चमाः ॥
प्रणिपत्य मन्त्रनाथं वै यक्षेशं जिनवरात्मजम् ।
वज्रपाणिं महावीरं मन्त्रनाथेश्वरं विभुम् ॥
२७४, प्। ५२४)
उवाच मधुरां वाचाम् एकैकामनुपूर्वतः ।
मण्डलं तु समासेन वक्ष्येऽहं भुजयोदयम् ॥
ज्येष्ठमण्डलमित्याहुः जया ज्येष्ठमगायत ।
विजने रहसि सम्पाते विगते चैव महाजने ॥
प्रच्छन्नेऽग्रप्रसम्बाधे सरित्तीरे शिलोच्चये ।
विविक्ते कानने रम्ये बुद्धाध्युषितमन्दिरे ॥
शून्ये देवकुले चापि शून्ये वेश्मसु शोधिते ।
एकवृक्षे शुभे रम्ये महोदधिसमाश्रये ॥
एकलिङ्गे श्मशाने च विगते धूमपांसुभिः ।
वज्रासनमहापुण्ये धर्मचक्रे सुशोभने ॥
यत्र शान्तिं गतो बुद्धः यत्र जातो महामुनिः ।
एते स्थाना भवेन्मुख्या मण्डलालिखने शुभा ॥
गङ्गातीरेऽथ सर्वत्र सद्वीपपुलिनाश्रये ।
सरिद्वराश्च मुख्या ये कीर्त्तिता लोकविश्रुता ॥
तेषु तीरेषु सर्वत्र नित्यं मण्डलमालिखेत् ।
समन्तात् सर्वतोयान्ता महोदधिसमप्लवा ॥
हिमवन्तविन्ध्या तोयान्ता प्रस्थिता निम्नगाम्बुधेः ।
सरिद्वरिष्ठेषु तीरेषु युक्तो मण्डलमालिखेत् ॥
अन्ये वा रहसि भूभागे उडये वा सुशोभिते ।
देवायतनरम्येषु स्तूपे चापि महोच्छ्रिते ॥
धातुगर्भे तथा चैत्ये चापीकूपासु वीथिकैः ।
तेषु तीरेषु सर्वत्र मध्ये चापि सुशोभितैः ॥
गोष्ठे पद्मसरत्सर्वां क्वचित् तोयाश्रयोद्भवैः ।
अन्यैर्वा स्थानाग्रैर्नित्यं विहारारामभूषितैः ॥
यथेष्टमनसो तुष्टिः मुनिजुष्टे महीतले ।
पर्वताग्रैर्ग्रहैश्चापि कन्दरैः सानुचिह्नितैः ॥
२७५, प्। ५२५)
शान्तैरावसथैर्दिव्यैः ग्रहैश्चापि विजन्तुभिः ।
ध्यानानुकूलैः प्रशस्तैश्च ऋषिमुख्यैर्निषेवितैः ॥
यत्र वा मनसो तुष्टिः तत्र मण्डलमालिखेत् ।
एषु स्थानेषु वै नित्यं यथोदिष्टैः सुपूजितैः ॥
निपेतुर्देवताः क्षिप्रं सान्निध्यं चापि कल्पयेत् ।
तत्र स्थाने तदा नित्यं जपहोमक्रमो विधिः ॥
ये साध्या मन्त्रमुख्याश्च उत्तमाधममध्यमाः ।
सिद्ध्यन्ति मन्त्राः सर्वे वै सिद्धक्षेत्रेष्विहोदिते ॥
सिद्ध्यन्ति सर्वमन्त्रा सर्वे वै ज्येष्ठमध्यमकन्यसा ।
विविधा हि भवे सिद्धिः त्रिविधैव क्रियाविधिः ॥
त्रिप्रकारस्तु मन्त्राणां त्रिधा कालप्रभेदतः ।
त्रिसन्ध्यं सर्वमन्त्राणां त्रिधा कर्मफलोन्मुखाः ॥
शान्तिकं कर्म निर्दिष्टं जयाख्ये मण्डले शुभे ।
विजयाख्ये तु पौष्ट्यर्थम् अजिताख्ये चाभिचारुकम् ॥
अपराजिताख्ये तथा नित्यं निर्दिष्टं क्षुद्रकर्मसु ।
सर्वकर्मसु मन्त्रज्ञः तुम्बुराख्यं समालिखेत् ॥
पञ्चैव मण्डला ज्ञेया अम्भोधे तु निवासिनाम् ।
समन्ताच्चतुरश्रं वै उक्तिमात्रं खनेद् भुवि ॥
चतुर्हस्ताष्टहस्तं वा संशोध्य पाणिना पुनः ।
कठण्णः शर्कराङ्गारः तुषकेशमवस्कराम् ॥
कपालास्थिशकृदुष्टां संशोध्य पाणिना ततः ।
स्वयं चापि परैस्तत्र सर्वावस्करतां जपेत् ॥
कृमिजन्तुसमाकीर्णाः संशोध्यः यत्नतो व्रती ।
आपूर्यारन्यमृत्तिकैः शुचिभिश्च सुगन्धिभिः ॥
नदीकूलोद्भवैर्मेध्यैस्तथा वल्मीकाग्रसम्भवैः ।
गोष्ठभूतलयोर्मध्ये तदन्यैर्वा पार्थिवोद्भवैः ॥
२७६, प्। ५२६)
सिकताभिः समन्ताद् वै सञ्छाद्य प्रसन्नधीः ।
अथवा गोमयमिश्रैर्वा मृत्तिकाभिः समन्ततः ॥
समन्तमालेपयेत् क्षिप्रं पञ्चगव्यसमासृतैः ।
कुङ्कुमाक्तैस्तथा स्निग्धैः विविधैः गन्धमिश्रितैः ॥
मृत्तिकाभिः समन्ताद् वै मण्डलं तु समन्ततः ।
आलेप्य भुवि यत्ना वै मन्त्रविन्मन्त्रतन्त्रवित् ॥
पञ्चाङ्गिकचूर्णैस्तु विविधैः धूपवासितैः ।
आलिखेन्मण्डलं दिव्यं समन्ता चतुर्हस्तकम् ॥
अष्टहस्तप्रमाणं वा ज्येष्ठं मण्डलमुच्यते ।
चतुर्हस्तोऽथ कनिष्ठं मध्यमं परिकीर्त्यते ॥
पञ्चहस्तोऽथ विख्यातः षट् हस्तोऽथ मुक्तवाम् ।
सर्वेषां तु देवीनां सभ्रातृसहितात्मनाम् ॥
मण्डलप्रमाणमित्युक्तः समन्ता च्चतुरश्रितम् ।
चतुर्द्वारं चतुःकोणं चतुस्तोरणभूषितम् ॥
आलिखेन्मण्डलं दिव्यं प्रशस्तं चारुरूपिणम् ।
मध्ये कुमारमालिख्य बालरूपसुभूषणम् ॥
कुङ्कुमाकारवर्णाभं वाममध्येऽथ संस्थितम् ।
नीलोत्पलं समन्ताद्यकरलग्नोपशोभितम् ॥
दक्षिणे करविन्यस्तं श्रीमालं फलमायतम् ।
किञ्चिद्वरदं देवं मञ्जुघोषं महाप्रभुम् ॥
किञ्चिदुन्मीलिताक्षं तु ईषित्प्रेक्षणदेवताम् ।
दक्षिणेन समन्ताद् वै महोदधि समालिखेत् ॥
तत्रस्था नावारूढं देव्यां भ्रातृपञ्चमाम् ।
आलिखेन्मन्त्रविद्यानां सुवेषां चारुरूपिणाम् ॥
विचित्राभरणविन्यस्तां विचित्रप्रहरणोद्यताम् ।
कुमार्याकारचेष्टानां सभ्रातृकुमारविक्रमाम् ॥
२७७, प्। ५२७)
नौयानसमारूढां सभ्रातृसहपञ्चमाम् ।
कर्णधारसमोपेतां तुम्बुरुः सार्थवाहिकाम् ॥
महोदधि समन्ताद् वै मण्डलाभ्यन्तरं स्थितम् ।
ऋषाद्यै प्राणिभिर्युक्तं स्फोटकं वारिपूजितम् ॥
आलिखेन्मण्डलं धीमां गुप्ते रहसि सर्वतः ।
यथा हि विधिनिर्दिष्टं तत्त्वं चापि कीर्त्तितम् ॥
तत् सर्वं कारयेत् क्षिप्रं लौकिकेष्वेव योजयेत् ।
यावन्ति शैवतन्त्रेऽस्मिं ये तन्त्रे चापि गारुडे ॥
ब्रह्माद्यैरृषिमुख्यैश्च भृग्वङ्गिरसकाश्यपैः ।
मार्कण्डमुनिवरैश्चापि पुलस्त्यागस्तिसम्भवैः ॥
वासवैः शक्रदेवैश्च रुद्रेन्द्रसभास्करैः ।
विविधैः सत्त्वमुख्यैश्च यमाद्यैः प्रेतमहर्द्धिकैः ॥
ग्रहमातरकूष्माण्डैः यक्षराक्षसपूजितैः ।
मानुषामानुषे लोके चित्तनाथैर्महर्द्धिकैः ॥
पूजिता कल्पविस्तारा विष्णुरुद्रसवासवैः ।
कथिता कल्पमहात्म्यं निखिलाश्चैव भूतले ॥
तस्मिं मण्डले योज्या सिद्ध्यन्तीह न संशयः ।
विविधा योनिमुख्यैस्तु विविधाकारचेष्टितैः ॥
कथिता कथयिष्यन्ति देवीनां कल्पविस्तराम् ।
तस्मिं समये नियोक्तव्या जयाख्ये मण्डले भुविरिति ॥
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रीमूलकल्पात्
पञ्चचत्वारिंशतमः पटलविसरात् प्रथमः
चतुर्भगिनीमण्डलमनुप्रवेशसमयगुह्यतमपटलविसरः परिसमाप्त इति ।
२७८, प्। ५२८)