अथ षट्चत्वारिंशः पटलविसरः ।
अथ खलु भगाअं शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु त्वं मञ्जुश्रीः !
पञ्चममुद्रापटलविसरं त्वदीयं सर्वतथागतधर्मकोशानुप्रविष्टं
परमगुह्यतमं धर्मधात्वसङ्ख्येयाचिन्त्यमुद्रामुद्रितं
सर्वमन्त्रचर्यानुप्रविष्टं परमरहस्यतमं सर्वलोकोत्तरोत्कृष्टतमं
सर्वलौकिकानुचरितां मोद्यतमं कतमं च तद् भाषिष्येऽहम् । पूर्वं
तथागतैः भाषितवन्तः ॥
अथ मञ्जुश्रीः क्मारभूतो बोधिसत्त्वो महासत्त्वः पुनरपि उत्थायासनाद्
भगवतः चरणयोर्निपत्य भगवन्तमेतदवोचत् । तत् साधु भगवां देशयतु
सर्वमन्त्रचर्यानुप्रविष्टां सर्वसत्त्वानामर्थाय अस्माकं
चानुकम्पामुपादाय
महाप्रणिधानमहानिर्हारमहाबोधिमण्डोपसङ्क्रमणचर्यापरिपूरणताय
पञ्चमं महामुद्रापटलविसरं सङ्क्षेपतः पञ्च चैव महामुद्राः ।
अपर्यन्ता च स्थितमुद्राम्
आह्वाननविसर्जनसर्वकर्मार्थसर्वमनोरथमाशापारिपूरणतायै
सर्वमन्त्रतन्त्रमहामुद्रानुप्रवेशनतायै
सर्वसत्त्वसन्तोषणमहासमयसर्वमुद्रानुप्रवेशनतायै यस्येदानीं कालं
मन्यश्चेति ॥
एवमुक्तस्तु भगवतो शाक्यसिंह नरोत्तम ।
मञ्जुप्रतिभो धीमां तूष्णीं तस्थौ तदान्तरे ॥
इयं वसुमती कृत्स्ना षड्विकार। प्रकम्पिरे ।
सर्वभूतगणा त्रस्ता क्षुभितं चापि ऋषालयाः ॥
तृधातुगतयः सत्त्वास्तत्क्षणादेव मागताः ।
दृष्ट्वा आगतां सत्त्वा वव्रे वाणी ऋषिसत्तमः ॥
शाक्यकुलजो दक्षः मुद्रां देशे तु तत्क्षणात् ।
यं बद्ध्वा पुरुषा प्राज्ञा नियतं बोधिपरायणाः ॥
सर्वमन्त्राश्च सिद्धेयु सौगता ये च लौलिका ।
पञ्च चैव महामुद्रा बद्धा मुनिवरैः पुरा ॥
२६३, प्। ५१३)
अधुना शाक्यमुद्देक्ष्यः बद्ध्वैता तृभवालये ।
स्वयमेव भगवां शास्तु हस्तोत्तानतां कृथा ॥
वेणिकाकारमावेष्ट्य मध्यमाङ्गुलि नामयेत् ।
कन्यसौ संस्पर्शयेद् धीमाम् उभा अङ्गुष्ठ उच्छ्रये ॥
अङ्कुञ्च्यमञ्जुल्याकारं दर्शयेन्मञ्जुरवेहिताम् ।
एषा मुद्रा महामुद्रा सर्वबुद्धानुवर्णिनी ॥
सर्वथा साधिता देवी पूर्णेति च गीयते ।
तदेव हस्तौ भ्रामयित्वा तु नाभिदेशे तु सन्न्यसेत् ॥
आशासम्पादिनी क्षिप्रं महापुण्या हिता हि सा ।
मनोरथेति समाख्याता दुर्दान्तदमनी सदा ॥
तदेव हस्तौ सन्न्यस्य मुष्टियोगेन वेष्टयेत् ।
उरःस्थाने सदा न्यस्या तृतीया भवति सुनिर्मला ॥
चतुर्थी तु भवेत् सा तु शिरःस्थाने सुमुद्रया ।
पञ्चमी तु भवे ज्येष्ठा मुक्ता सर्वगतां नु गुणान् ॥
लोकधात्री तु सा ज्ञेया प्रसिद्धा सर्वकर्मसु ।
एष एव सदायोगः प्रयोक्तव्यः सर्वकर्मसु ॥
आकृष्टावङ्गुलितर्जन्यौ आकृष्य वश्यता हिता ।
विक्षिप्तैर्विसर्जनं कुर्यात् मनसा मोक्ष एव तु ॥
सर्वं दर्शयेत् क्षिप्रं सर्वकर्मार्थसाधयेदिति ॥
आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात्
चतुःचत्वारिंशतिमः महामुद्रापटलविसरः परिसमाप्त इति ।
२६४, प्। ५१४)