अथ पञ्चचत्वारिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते
स्म । सर्वां च शुद्धावासभवनसन्निपतितां देवगणानामन्त्रयते स्म ।
शृण्वन्तु भवन्तो देवसङ्घाः ! मञ्जुश्रियस्य कुमारभूतस्य
महाऋद्धिविकुर्वणप्रातिहार्यविक्रीडितचेष्टितबालरूपस्वरूपनिदर्शनयथा-शयत्
वसन्तोषणमहायानाग्रधर्मप्रापणं
सत्त्वपाकसंयोजनमुद्रामन्त्रप्रभावतत्रसत्त्वयोजनमभिप्रायसम्पूरणार्थ।
म् मुद्रापटलं परमगुह्यतमं सर्वमन्त्रतन्त्रकल्पेषु बीजभूतं सारभूतं
परमरहस्यं महागुह्यतमं परमोत्तरतन्त्रेषु सर्वलौकिकलोकोत्तरेषु
अप्रकाश्यं परमगोप्यं नाशिष्याणां च देयम्
अश्राद्धानामनुत्पादितबोधिचित्तानां मत्सरिणामन्यतीर्थायतनभक्त्यानां
महायानाग्रधर्मविद्वेषिणां सर्वमन्त्रतन्त्रेषु अगौरवजातानाम् । एतेषां
प्रकाश्य अन्येषां प्रकाश्यमिति समयज्ञानां बुद्धशासने प्रतिपन्नानां
सुरूपसुवेषश्राद्धमविकलचित्तसन्धानमहोत्साहा सर्वमन्त्रेषु च सगौरव
सर्वबुद्धबोधिसत्त्वेषु प्रत्येकबुद्धार्यश्रावक सर्वदेव सब्रह्मचारी
सप्रतीसादरजातेषु सत्त्वेषु महासन्नाहसन्नद्धेषु
सकलसत्त्वधात्वोत्तारणाभ्युद्यमोद्यतेषु महाकारुणिकेषु
क्षान्तिसौरभ्यसुवचस्केषु सत्त्वेष्वेतेषां देयमन्येषामदेयमित्याह च ॥
एक मुद्रागणः श्रेष्ठः प्रयुक्तो मन्त्रयोजितः ।
करोति कर्म विविधा मनेष्टा मनुयोजिता ॥
जापिभिः सर्वकालं तु प्रयोक्तव्यः सिद्धिमिच्छता ।
नाम्ना त्रैलोक्यविख्यातः बुद्धैः अजितः सदा ॥
स्त्रीसम्पत्करो ह्येष प्रतितः सर्वजन्तुभिः ।
श्रीवत्सो नाम मुद्रोऽयं प्रमुखोऽष्टशते भुवि ॥
मुद्राणामष्टशतं ज्ञेयं मञ्जुघोष ! शृणोहि मे ।
पुरा जिनवरैर्गीतं बुद्धपुत्रैश्च धारितम् ॥
अहं वक्ष्ये प्रत्यहं वर्त्तमानमनागतम् ।
अर्थार्थं समनुमोद्ये रक्ष्येऽहं भुवनत्रये ॥
२४२, प्। ४९२)
मञ्जुघोषस्तथा हृष्टः उवाच वदतां वरम् ।
देशयन्तु महात्मानो बुद्धाः सर्वत्र पूजिताः ॥
यं श्रुत्वा पुरुषाः प्राज्ञाः नियतं बोधिमाश्रये ।
सर्वेषां तु प्रवृत्तानां जपहोमव्रते स्थिताम् ॥
ध्रुवं मन्त्रास्तु सिद्ध्येयुरिमैर्मुद्रैस्तु मुद्रिताः ।
अध्येष्येऽहं महावीरं शाक्यसिंहं नरोत्तमम् ॥
अस्माकं सत्त्वमर्थाय धर्मकोशार्थपूरणम् ।
महायानाग्रधर्मार्थं मन्त्रचर्यार्थसाधक ॥
दुर्दान्तदमकं पुण्यं पवित्रं पापनाशनम् ।
देशयन्तु महावीरा पटलं मुद्रसम्भवम् ॥
पूरणार्थं तु मुद्राणां सूचनार्थं तु देवताम् ।
अनुकम्पार्थं तु जापिनाम् * * * * * * * * (?) ॥
एवमुक्त्वा तु मञ्जुश्रीः कुमारो बालरूपिणः ।
निरीक्ष्य सुगतश्रेष्ठं सुखो मञ्जुरवस्तदा ॥
उवाच मधुरां वाणीं मुनिश्रेष्ठो विनायक ।
कलविङ्करुतः श्रीमां मेघदुन्दुभिनिःस्वनः ॥
ब्रह्मस्वरेण वचसा वाचो मभ्याचचक्ष सः ।
शृणोथ भूतगणाः सर्वे कल्पार्थं मन्त्रदेवताम् ॥
समयं सर्वदैवानां मुख्यं मुद्राश्च दैवतम् ।
समतिक्रान्तबुद्धैस्तु प्रत्येकार्हतसाधकैः ॥
कः पुनरन्यसत्त्वैस्तु विद्यादैवतलौकिकैः ।
एष मुद्रागणज्येष्ठः सर्वमुद्रेषु कत्थ्यते ॥
यं तथा जापिनः सर्वे नियतं सिद्ध्यन्ति देवता ।
आदौ किसलयं नाम्ना द्वितीयं भवति मेखला ॥
तृतीयं सुमेखला चैव चतुर्थी सुमनसोद्भवा ।
पञ्चमी सङ्कलेत्याहुः षष्ठी रेखा प्रघुष्यते ॥
२४३, प्। ४९३)
सुवर्णा सप्तमी ज्ञेया माला भवति चाष्टमी ।
नवमी अङ्कुशी ख्याता दशमी सप्तदशच्छदा ॥
एकादशी भवेत् कुन्ता सुकुन्ता द्वादशी भवेत् ।
कर्दमी त्रयोदशी चात्र पटही पञ्चदशी भवेत् ॥
षोडशी तु भवेद् यष्टिः मुष्टिः सप्तदशी विदुः ।
अष्टादश समाख्याता वज्रमाला प्रगीयते ॥
हेममालोनविंशा तु पद्ममाला थ विंशति ।
नागी नागमुखी चैव तृतीया भवति महामुखी ॥
वक्त्रा च वक्त्रसहिता छत्री भवति लोहिता ।
लोहिता चाष्टविंशा तु नीललोहितिका सिनी ॥
ज्योत्स्ना जनि तामसी द्वात्रिंशा कथिता भुवि ।
तारा सुतारा तारावर्ता सुमुद्रजापि ॥
घोररूपिणी विख्याता रात्री भयदा सदा ।
महाप्रभावेति विख्याता या मुद्रा भुवि लोचना ॥
सप्तत्रिंशतिमुद्रास्तु सङ्ख्या ह्येषा प्रगीयते ।
श्वेता पण्डरा चैव एवला मामकी च या ॥
महाभयहरी देवी भ्रुकुटी तु प्रगीयते ।
अजिता अपराजिता ख्याता जया विजया पराजिता ॥
साधकी साधनी चैव तारा श्वेतेति गीयते ।
घटकर्परमित्याहुः सुगती गतिशोधिका ॥
पद्मी पद्मसुता चैव वज्री वज्रमनोद्भवा ।
स्त्रीसङ्ख्या गणो मुद्रैः पुरुषाणां तु प्रगीयते ॥
भद्रं मुद्रपीठं तु आसनं शयनं भुवि ।
स्वयम्भूशम्भुचक्रश्च कुलिशो मुसलस्तथा ॥
स्वस्तिको लिङ्गमुद्रश्च पक्षिराड् गरुत्मनः ।
मुद्रो मरुडध्वजो ज्ञेयः विष्णुरुद्रसवासवः ॥
२४४, प्। ४९४)
ब्रह्मा पद्मोद्भवः श्रीमां श्रीसम्पुट एव च ।
तथ्यं यमलमुद्रं च मयूरासनमेव तु ॥
विदितं सर्वदिग् धीमां कार्त्तिकेयार्थदः सदा ।
कुमारस्यानुचरो ज्ञेयः मञ्जुघोषस्य ॥
तस्य मुद्रं महावीर्यं ता ताः शक्तिधरः सदा ।
मयूरासनमुद्रं तु तस्यैवैतत् प्रयुज्यते ॥
अनेन बद्ध्वा मन्त्रेण कार्त्तिकेयस्य युक्तितः ।
यावन्तो लौकिका मुद्रा शैवाश्चैव सवासवाः ॥
सर्वे भवन्ति बद्ध्वा वै वश्यार्थं हि प्रयुज्यते ।
एष मुद्रा करो ह्यर्थां पुष्कलां साधु चेष्टिताम् ॥
प्रसन्नो बुद्धपुत्रस्य मञ्जुघोषस्य धीमतः ।
बुद्धशासनमवतीर्णो बालरूपी महर्द्धिकः ॥
कार्त्तिकेयोऽथ विख्यातः मन्त्रमुख्येऽथ लौकिके ।
सर्वेषां च प्रयोक्तव्यो बालिशानां विशेषतः ॥
ग्रहमातरकूष्माण्डैः गृहीता कटपूतनैः ।
दैत्यदानवयक्षैश्च पिशाचोरगराक्षसैः ॥
क्रव्यादैर्मानुषैश्चापि नित्यं चापि विमोक्षकः ।
रौद्रसत्त्वेऽथ दुष्टेभिः पिशिताशनव्यन्तरैः ॥
मुद्रितेभिश्च मनुजैर्मुद्रोऽयं सम्प्रमोक्षकः ।
सर्वसत्त्वार्थयुक्तश्च प्रयुक्तः सुखदः सदा ॥
सङ्क्षेपेण तु उक्तोऽयं विस्तरश्चैव सञ्ज्ञकम् ।
अपरं मुद्रं प्रवक्ष्यामि यं बद्ध्वा सुखी भवेत् ॥
जापिनः सर्वकर्मेषु प्रयुक्तस्याप्यमोघवाम् ।
नाम्ना बुद्धासनो नाम महामुद्रा प्रकत्थ्यते ॥
विस्तरः सर्वतन्त्रेषु पठ्यते तां निबोधत ।
यं बद्ध्वा जापिनः सर्वे नियतं बोधिपरायणाः ॥
२४५, प्। ४९५)
कः पुनः सिद्धिकामानां भोगालिप्सपरायणम् ।
पूर्वव चौक्षसमाचारः स्थित्वा च प्राङ्मुखः शुचिः ॥
उभौ हस्तौ समौ कृत्वा अञ्जल्याकारमाशृतौ ।
कुर्याद् विकासितौ चाग्रे उभावङ्गुष्ठनामितौ ॥
मध्यमाङ्गुलिमाश्लिष्टौ कुण्डलाकारचिह्नितौ ।
पर्यङ्केनोपविष्टे तु नाभिदेशे तदा न्यसेत् ॥
एष मुद्रावरः श्रेष्ठः सर्वकर्मेषु योजितः ।
उत्तमेषु च उत्तिष्ठे नाधमे मध्यमेऽपि वा ॥
क्षिप्रमर्थकरो ह्येष सिद्धः सर्वत्र युज्यते ।
महापुण्यो पवित्रोऽयं मङ्गल्यमघनाशनः ॥
सर्वपापहरः पुण्यः मुद्रोऽयं सिद्धिहेतवः ।
द्वितीयमपरं मुद्रा महामुद्रा प्रकत्थ्यते ॥
नाम्ना शत्रुञ्जयी नाम सर्वविघ्नविनाशिनी ।
यं बद्ध्वा शत्रवः सर्वां वशं कुर्यान्न संशयः ॥
सर्वेच्छोषमायान्ति गच्छन्ते वाथ दासताम् ।
रागो द्वेषश्च मोहश्च स्वपक्षः सगणैः सह ॥
लोभमात्सर्यमानश्च विचिकित्सा कथङ्कथा ।
प्रमाद्यो माया कौसीद्यं साध्येष्या कुमार्गता ॥
मित्थ्यादृष्टिदशे माने दन्ते स्तम्भे च लुब्धता ।
दशा कुशलपथा कर्मा सर्वे ते शत्रवः स्मृताः ॥
एष शत्रुगणः प्रोक्तो बुद्धैर्बुद्धसुतैस्तथा ।
एष मार्गेष्ववस्थाभिः प्राणिनो य च माशृता ॥
बुद्धशासनहन्तारः तेषां मुद्रा प्रयुज्यते ।
इयं मुद्रा महामुद्रा गीतं बुद्धैः पुरा सदा ॥
प्रयोक्तव्या प्राणिनां ह्येषा दमनार्त्थं पापनाशनी ।
तथैव पुरतः स्थित्वा उभौ पाणिसमाश्रये ॥
२४६, प्। ४९६)
समाश्लिष्टौ थ तौ कृत्वा अञ्जल्याकारमाशृतौ ।
अङ्गुष्ठयुगले क्षिप्रं तर्जन्यौ सन्न्यसेदुभौ ॥
कुण्डलाकारसंश्लिष्टौ तृतीये पर्वमाश्रयेत् ।
एषा अर्थकरी मुद्रा द्वितीया कथिता जिनैः ॥
शत्रूणां नाशयेत् क्षिप्रं हृदयांसि प्रदोषिणाम् ।
तृतीयं मुद्रं प्रवक्ष्यामि मञ्जुघोष ! शृणोहि ताम् ॥
नाम्ना शल्यहरी दिव्या सर्वशल्यविनाशिनी ।
सर्वत्र योजिता मुद्रा सर्वव्याधिचिकित्सकी ॥
विषशस्त्रकृतां दोषा। जलपावकसम्भवाम् ।
अनिलोद्भवदोषांश्च दुष्टसत्त्वगरप्रदाम् ॥
क्रव्यादां मानुषांश्चापि सविषां स्थावरजङ्गयाम् ।
यच्च देहगतां शल्यां नारीणां प्रसवात्मिनाम् ॥
संसाराभिरतां चान्यां प्राणिनां दोषपीडिताम् ।
सर्वनेतास्तथा शल्याः विशल्यकरणी ह्ययम् ॥
एष मुद्रा महामुद्रा स्मरिता सर्वजन्तुभिः ।
विशल्या सुखिता क्षिप्रं भवते नात्र संशयः ॥
नाममात्रेण ते मर्त्या मन्त्रस्यास्य प्रभावतः ।
सर्वव्यादिविनिर्मुक्ता विचरन्ते महीतले ॥
पूर्ववच्चौक्षसमाचारा शुचिर्वस्त्रशुची तदा ।
बध्नीयान्मुद्रवरं श्रेष्ठं तृतीयं पापनाशनम् ॥
उभौ हस्तौ समायोज्य विपरीताकारसम्भवाम् ।
समौ व्यक्तौ अञ्जल्याकारौ हृदयस्थाने तु तं न्यसेत् ॥
एष मुद्रा महामुद्रा सर्वानर्त्थनिवारणी ।
यं बद्ध्वा जापिनः सर्वे नियतं बोधिपरायणाः ॥
चतुर्थीं तु महामुद्रां महायक्षीं तमादिशेत् ।
महाप्रभावा विज्ञेया सर्वमन्त्रेषु जापिनाम् ॥
२४७, प्। ४९७)
अत्र यक्षगणाः सर्वे यक्षिण्यश्च महर्द्धिकाः ।
मन्त्रदेवतसर्वेषु उत्तमाधममध्यमाः ॥
सर्वसत्त्वैस्तु सम्पूज्या मुद्रेयं सम्प्रगीयते ।
आदौ बद्ध्वा जपेन्मन्त्रं होमसाधनकर्मसु ॥
सर्वत्र योजिता पुण्या सर्वमन्त्राणि साधयेत् ।
वर्जप्राणिस्तथा मान्त्रः सर्वमुद्रेश्वरी ह्ययम् ॥
पठिता लोकनाथैस्तु पुरा ज्यैष्ठैर्ह्यतीतकैः ।
तथैव शुचिनो भूत्वा स्थित्वा उदङ्मुखस्तदा ॥
बध्नीयान्मुद्रवरे श्रेष्ठेः सर्वकर्मेषु जापिनः ।
दमनार्थं सर्वभूतानाम् * ** * * * * * (?) ॥
यथायं कुरुते क्षिप्रं यः सत्त्वाचेष्टितं भुवि ।
उभौ हस्तौ तदा न्यस्य सम्पुटाकारवेष्टितौ ॥
कुर्यात् त्रिसूचिकाकारम् अङ्गुष्ठौ कन्यसमध्यमौ ।
अन्योन्यसंश्लिष्टौ चतुर्भिश्चाप्यथ नामितौ ॥
कुर्यान्मुद्रवरं ह्युक्तं शिरःस्थाने तु संस्थितम् ।
यं दृष्ट्वा सर्वभूता वै विद्रवन्ति न संशयः ॥
पञ्चमी तु महामुद्रा शृणु त्वं मञ्जुरवः सदा ।
नाम्ना त्रिसमया चैव महापुण्यतमा शिवा ॥
दुर्दान्तदमनी नित्यं सर्वसत्त्वार्त्थसाधनी ।
घोररूपी महेशाक्षा कालरात्रिसमप्रभा ॥
कृतान्तरूपिणी भीमा यमस्यापि भयानिका ।
चण्डा च चण्डरूपीति दुःप्रेक्षा दुःसहा सदा ॥
रुद्रवासवयक्षेषां राक्षसग्रहमातराम् ।
देवाननुसरांश्चैव मन्त्रमुख्यां महर्द्धिकाम् ॥
सर्वसत्त्वा तथा नित्यं दुर्दान्तदमकी हिता ।
अकालमृत्युविनाशाय मृत्युनाशाय वै हिता ॥
२४८, प्। ४९८)
सृष्टा सर्वबुद्धैस्तु कृतान्तस्यापि भयावहा ।
यं बद्ध्वा पुरुषा नित्यं समयज्ञा भवन्ति ह ॥
ये च मन्त्राश्रिता नित्यं तेऽपि मुक्ता जपे रता ।
तेषां सिद्ध्यन्ति मन्त्रा वै अयत्नेनैव देहिनाम् ॥
अजापिनोऽपि भवेज्जापी अशुचिः शुचिनो भवेत् ।
संयुक्तः क्रोधराजेन यमान्तेनेह मुद्रया ॥
सर्वकर्मकरा ह्येषा संयुक्ता तत्त्वदर्शिभिः ।
सर्वविघ्नविनाशार्थं सर्वव्याधिचिकित्सना ॥
सर्वसत्त्वार्थसम्भारा खर्वदुष्टनिवारणा ।
सर्वासां पूरणार्थाय विहिता मुनिवरैः पुरा ॥
एष मुद्रा हिता लोके समयभ्रंशाच्च पूरणी ।
बद्ध्वा तु मुद्रवरं श्रेष्ठं समयज्ञस्तत्क्षणाद् भवेत् ॥
सर्वेषां चैव मन्त्राणां लौकिकानां च ततोत्तमात् ।
प्रविष्टो मण्डलो ज्ञेयः मुद्रा मन्त्रेण ईरितः ॥
तथैव शुचिनो भूत्वा पूर्ववत् सर्वकर्मसु ।
त्रिसूच्याकार तथा वज्रम् अङ्गुलीभिः समाचरेत् ॥
ज्येष्ठमध्यम-अङ्गुल्यौ अङ्गुष्ठैश्च सता न्यसेत् ।
मूर्ध्नि स्थाने ततः कृत्वा अपसव्येन भ्रामयेत् ॥
एष मुद्रवरा श्रेष्ठा प्रयुक्तः सर्वकर्मसु ।
एता पञ्च महामुद्रा लोकनाथैस्तु भाषिता ॥
नियतं पुरुषवरा बद्ध्वा सम्बोध्यग्रं स्पृशन्ति ह ।
सर्वासां पूरयत्येते जापिनां मनसोद्भवाम् ॥
सर्वतथ्यं यथाभूतं दर्शयन्ति यथेप्सितम् ।
अपरे मुद्रवरा श्रेष्ठा पञ्च चैव प्रकाशिता ॥
शिरः वक्त्रोऽथ गात्रं च उत्पलं कवचं तथा ।
एते मुद्रवरा दिया मञ्जुघोषस्य धीमतः ॥
२४९, प्। ४९९)
पुरा लोकवरैर्मुख्यैः कथिता तत्त्वदर्शिभिः ।
अहं च मञ्जुरवं वक्ष्ये कत्थ्यमानं निवोध्यताम् ॥
शृणुष्वैकमना नित्यं मुद्रा मुद्रवरोत्तमाम् ।
पूर्ववच्चौक्षसमाचारः स्थित्वा धातुवराग्रतः ॥
बध्नीयात् करपुटे नित्यं मुद्रां पञ्चार्थसञ्ज्ञिकाम् ।
उभे करपुटाग्रे तु कड्मलाकारकारिते ॥
दद्युः शिरवरे नित्यं शिरमुद्रेति सञ्ज्ञितम् ।
यथैवोत्पलमुद्रा तु न्यस्तः दुरवरे सदा ॥
सा च सर्वतः क्षिप्ता गात्रमुद्रा विधीयते ।
स चैव कुतो ज्ञेया वक्त्रमुद्रा तु सा भवेत् ॥
तथैव हस्तौ सन्न्यस्य नाभिस्थाने तु सन्न्यसेत् ।
ईषि तर्जन्याङ्गुल्यनाभिमात्मनः संस्पृशेत् ॥
सा भवेत् कवचमुद्रा तु आत्मरक्षा तु सा भवेत् ।
सर्वत्र योजिता ह्येते सफला सर्वार्थसाधिका ॥
एते मुद्रा महामुद्रा मङ्गल्या मघनाशना ।
जापिभिः सर्वकालं तु प्रयोक्तव्याः सफला हिताः ॥
महावीर्या महापुण्या सर्वानर्थनिवारिका ।
यं बद्ध्वा पुरुषा नित्यं नियतं बोधिपरायणाः ॥
अपरे पञ्च महामुद्रा लोकनाथस्य तापिनः ।
मुनिने शाक्यसिंहाय तथा रत्नशिखे गुरौ ॥
सुपुष्पाय सुकेशाय तथा सुमनसोरवे ।
सङ्कुसुमाय च बुद्धाय तथा पद्मोत्तरे वरे ॥
सम्पूर्णाय सुनेत्राय शुद्धा चैव जगद्गुरोः ।
पितामहाय चैव मुक्ताय जगद्वराम्बरमुक्तये ॥
एतेषानां च बुद्धानामन्येषां च महात्मनाम् ।
अतीतानागता सत्त्वां वर्तमानां स्वयम्भुवाम् ॥
२५०, प्। ५००)
सर्वेषानां च बुद्धानां मूर्ध्नि सम्भूतिलक्षणा ।
महाप्रभावा महामुद्रा समन्ताज्ज्वालमालिनः ॥
उष्णीषा इति विख्याता तृधातुसमालये ।
चक्रवर्त्ती महापुण्यो मङ्गल्यो मघनाशना ॥
सर्वेषां च विद्यानां विद्याराजः स्मृतः प्रभुः ।
एकाक्षरसंयुक्तः मन्त्रो सुगतमूर्धजः ॥
मुद्रो तस्य विदो ज्ञेयो प्रभुरेकाक्षरस्य तु ।
चक्रवर्त्ती जिनकुले जात मुद्रः परमेश्वरः ॥
उभौ हस्तौ समाश्लिष्य सम्पुटाकारचिह्नितौ ।
मुष्टियोगेन बद्ध्वा वै मध्याङ्गुल्यौ सुसूचितौ ॥
ईषित् सङ्कोच्यवत्कृत्वा कुण्डालाकारदर्शितौ ।
एष सर्वत्रगे मुद्रा सर्वमन्त्रेश्वरो विदो ॥
मूर्धानं देवतं कृत्वा सुषिराकारकुड्मलम् ।
ईषिन्नामिततर्जन्यौ कन्यसं तु सुपूजितौ ॥
एष मुद्रवरः श्रेष्ठः तेजोराशे तु कथ्यते ।
तदेव सम्पुटं चाग्र्या छत्राकारसञ्ज्ञकम् ॥
विकास्याङ्गुली सर्वां सितातपत्रेति सञ्ज्ञितम् ।
जयोष्णीषं हितं देवं हि मध्याङ्गुल्यौ सुसूचितौ ॥
तदेव विसारितौ चाग्रे पाणिभिः सर्वतो गतैः ।
उष्णीषसङ्कभवा ज्ञेया सर्वत्रार्थदर्शिभिः ॥
मुनिमूर्धजसम्भूता मुद्रा अग्रा प्रगीयते ।
पञ्चमा तु भवेत् सा तु सर्वमुष्णीषसम्भवा ॥
अनेन वै सर्वबुद्धानां यावन्तमुष्णीषमूर्धजाम् ।
सर्वे ते च समायान्ति सर्वकर्मेषु योजिता ॥
सर्वे मुनिवरैर्मुद्रा ये गीता भुवनत्रये ।
सर्वेषां तु मुद्राणां मुद्रेयं परमेश्वरी ॥
२५१, प्। ५०१)
अनेनावाहयेन्मन्त्राम् अनेनैव विसर्जयेत् ।
अनेन सर्वकर्माणि कुर्यात् सर्वत्र जापिनः ॥
एते पञ्च महामुद्रा पुरा गीता मुनिवरैः ।
सर्वकमार्थयुक्ता वै सर्वमुष्णीषसाधिका ॥
यावन्तो मुनिवरैः गीता उष्णीषा भुवनत्रये ।
सर्वेषां तु सर्वत्र इमे पञ्चार्थपूरणा ॥
सर्वमुष्णीषतो ज्ञेया मुद्रा वै च असङ्ख्यका ।
तेषां पञ्च वरा प्रोक्ता सर्वमुष्णीषसाधनी ॥
अवलोकितमुद्रस्य पञ्च वैते सुमुद्रकाः ।
प्रकृष्टा पद्मकुले श्रेष्ठा मुद्रे ते भुवि मण्डले ॥
उष्णीषं च शिरोवक्त्रपद्ममुद्रा च कथ्यते ।
महाकरुणजा देवी तारा भवति पञ्चमी ॥
पूर्व चौक्षसमाचारः धौतवस्त्र सुजप्तधीः ।
पाणिना शिरसा मृश्य ऊर्ध्वहस्तो भवेन्नरः ॥
वामपाणितले लेख्यां मुष्टियोगेन वेष्टयेत् ।
एष उष्णीषमुद्रोऽयम् अवलोकितमूर्धजाम् ॥
तदेव शिरवरे दत्त्वा शिरमुद्रा प्रगीयते ।
तदेव सङ्कुचौ चापि नाभिदेशे प्रतिष्ठितौ ॥
विकास्य अङ्गुली सर्वां पद्ममुद्रेति सा विदोः ।
उपरिष्टादेव वक्त्रान्ते हस्तौ तौ न समाशृते ॥
अन्योन्यमिश्रितौ हस्तौ विरलाङ्गुलिमाश्रितौ ।
तदेव वक्त्रमुद्रा तु पद्मकेतोऽथ गीयते ॥
या तु पद्मध्वजे मुद्रा नागलोके प्रकथ्यते ।
स भवेन्मुष्टियोगेन उभौ हस्तौ समाश्रितौ ॥
उभौ तर्जन्यतां चोर्ध्वौ सूचीभूतौ सुचिह्नितौ ।
अङ्गुष्ठपीडितौ श्रेष्ठौ तारामुद्रेति कथ्यते ॥
२५२, प्। ५०२)
एषा मुद्रवरा श्रेष्ठा करुणा पद्मध्वजे विदोः ।
इत्येवं पञ्च महामुद्रा कथिता पद्मालये सदा ॥
बोधिसत्त्वस्य मुख्ये ता लोकीशस्य महात्मने ।
अत्र पद्मकुले भवन्ति बन्धं सर्वकर्मसु ॥
मन्त्रनाथेश्वरो ये च विद्या देवतलौकिका ।
सर्वे ते अत्र वै मुद्रे मुद्रा यान्ति सुमुद्रिता ॥
ये च यक्षेश्वरा गीता वज्रपाणिमहर्द्धिका ।
महामन्त्रार्त्थरौद्राश्च क्रोधप्राणहरा तथा ॥
ये चान्ये लौकिका मुख्या मन्त्रयुक्ताश्च देवता ।
सर्वे ते च समायान्ति मुद्रैरेतैः सुमुद्रिता ॥
एते मुद्रा महामुद्रा पवित्रा पापनाशना ।
यं बद्ध्वा जापिनः सर्वे क्षिप्रमायान्ति क्षिप्रतः ॥
मुक्ता ताथागती मुद्रा अन्येषां परमेश्वरी ।
अवलोकितनाथस्य सर्वव्याधिचिकित्सने ॥
मुद्रै तो पञ्च महाभोगा विचरन्ति महीतले ।
स्त्रीरूपधारिणो भूत्वा सर्वसत्त्वार्थयोजिता ॥
यं बद्ध्वा पुरुषा प्राज्ञ ! नियतं बोधिपरायणा ।
अपरा पञ्च महामुद्रा वज्रपाणि महर्द्धिका ॥
य एष वज्रेश्वरः श्रीमां सर्वमन्त्रेश्वरः प्रभुः ।
दशभूम्यपतिः श्रीमां सर्वानर्थनिवारकः ॥
महाभयप्रदो चण्डः दुष्टसत्त्वनिवारणः ।
दुर्दान्तदमको धीमां दक्षः सत्त्वार्थसिद्धिषु ॥
यक्षरूपेण सत्त्वानाम् आत्मना चेष्टिते भुवि ।
सत्त्वार्थक्रियायुक्तः धर्मार्थमवतारयेत् ॥
बोधिसम्भारमर्थाय विचेरुर्यक्षरूपिणः ।
ये ते सत्त्वा हिता लोके यक्षिण्या सह मोहिता ॥
२५३, प्। ५०३)
तेषां सिद्धिर्न भवेन्मन्त्रां वाचा दुश्चरितेरिताम् ।
बोधिसत्त्वो महापुण्यः बहुरूपी महर्द्धिकः ॥
प्रदोष्य चित्तं मन्त्रेशे कुतः सिद्ध्यन्ति मानवाः ।
मुद्रैता पञ्च वरा प्रोक्ता बुद्धैश्चापि महर्द्धिका ॥
वज्रपाणिर्महापुण्या तां च क्षिप्र सुयोजयेत् ।
तथैव हस्तावुद्वर्त्य श्वेतचन्दनकुङ्कुमैः ॥
तथैव सम्पुटाकारौ कुड्मलाकारवेष्टितौ ।
शिरःस्थाने तथा न्यस्तौ चापि सुस्थितौ ॥
सा तु वज्रशिरा ज्ञेया महामुद्रा हिता विदोः ।
यक्षसेनापतेर्मुद्रा द्वितीया भवति मूर्धजा ॥
उष्णीषमुद्रा हिता लोके उष्णीषं यक्षपतेर्हितम् ।
तदेव वज्रं शिरामुद्रा ऊर्ध्वमञ्जलिस्थापिताम् ॥
एष मुद्रा महामुद्रा उष्णीषेति प्रगीयते ।
तृतीया वज्रोद्भवा नाम ललाटस्थाने तु सा भवेत् ॥
सन्न्यस्ताञ्जलिसम्पूर्णा ध्रुवौ मध्येष्वनामिकौ ।
एषा वज्रोद्भवा नाम वज्रपाणेऽर्थसाधिका ॥
चतुर्थी तु मुहामुद्रा वज्रवक्त्रेति गीयते ।
उत्तानौ हस्ततलौ न्यस्य वेणिकाकारसम्भवौ ॥
वक्षःस्थाने तथा न्यस्य मध्याङ्गुल्यां सुसूचितौ ।
एषा मुद्रा महामुद्रा वरा यक्षवरे हिता ॥
सर्ववज्रालया च सा * * * * * * * * (?) ।
पञ्च मात्रा महामुद्रा वज्रपाणि महर्द्धिका ॥
तथैव हस्तौ सन्न्यस्य नाभिस्थाने तु कारयेत् ।
तर्जन्यां कुञ्चितौ कृत्वा अङ्गुष्ठाग्रे तु नामयेत् ॥
तृतीये पर्वमाश्लिष्य कन्यसौ च सुसंस्थितौ ।
बद्ध्वो च वेणिकाकारां शेषैरङ्गुलिभिस्तदा ॥
२५४, प्। ५०४)
एषा वज्रालया नाम महामुद्रा प्रगीयते ।
अत्रैव सर्वमुद्रा तु लौकिका ये च वज्रिणे ॥
शैवाः शक्रकाश्चापि रिषीणां च महर्द्धिका हिता ।
सा वरा मतङ्गिनो ह्यग्रा मुद्रा प्रोक्ता महात्मभिः ॥
यक्षराक्षप्रेतैश्च कूष्माण्डैः कटपूतनैः ।
ये तु मुद्रा वरा प्रोक्ता विष्ण्वीन्द्रैश्च वनाह्वयैः ॥
ईशानमातरैर्लोकग्रहैश्चापि * * * * * * * * * (?) ।
भास्करेन्दुविवस्वाक्षैर्वसवश्चापि सुपूजितैः रक्षात्मकैः ॥
सृष्टा मुद्रवरा ये तु सर्वभूतगणैः सदा ।
सर्वे चैव समायान्ति मुद्रेऽस्मिं वज्रमालये ॥
प्रथिता मुद्रवरा ह्यग्रा कुलेऽस्मिं वज्रमाह्वये ।
मुक्ता तथागतीं मुद्राम् अवलोकीशस्यापि महात्मनः ॥
मुद्रा ह्येके तु मुक्ता वै अन्येषां प्रभुरिष्यते ।
एषा मुद्रा महामुद्रा यक्षसेनापतेर्विदोः ॥
यं बद्ध्वा पुरुषा नियतं सर्वे बोधिपरायणाः ।
एषा मुद्रा वरः श्रेष्ठः परमाहुस्तथागताः ॥
हत्येता पञ्च महामुद्रा वज्रपाणे यशस्विनः ।
जापिभिः सर्वकालं तु स्मर्तव्या च महाभये ॥
आशु नश्यन्ति भूता वै क्रव्यादा पिशिताशिना ।
यक्षराक्षसप्रेतांसि कूष्माण्डाः कटपूतना ॥
देवगन्धर्वमनुजाः किन्नराश्च ससिद्धकाः ।
ग्रहमुख्यवरा गरुडा मातराश्च महर्द्धिकाः ॥
येऽपि ते लोकमुख्याश्च ब्रह्माविष्णुमहेश्वराः ।
सर्वसत्त्वाश्च वै लोके येषु सर्वत्र माशृताः ॥
सर्वे ते दृष्टमात्रं वै विद्रवन्ति न संशयः ।
एते मुद्रा जिनैह्यासी वज्रधृते प्रभोः ॥
२५५, प्। ५०५)
मन्त्रनाथस्य यक्षेशे लोकीशस्यापि महात्मने ।
तस्माच्च जापिभिः सर्वैः नियतं सिद्धिलिप्सुभिः ॥
स्मर्तव्या जपकाले तु सर्वमन्त्रेषु सिद्धिदा ।
योऽसौ किसलयेत्याहुः मुद्रामादौ प्रगीतवाम् ॥
तथैव हस्तौ सन्न्यस्य उरःस्थाने न्यसेद् बुधः ।
तामादौ वेणिकां कृत्वा अङ्गुलीभिः समन्ततः ॥
सा विद्या किसलये मुद्रा लौकिकां मन्त्रदेवताम् ।
तामादौ योजयेत् क्षिप्रं क्षुद्रकर्मेषु धीमताम् ॥
ज्वररोगगता सर्वान् नाशयेन्नात्र संशयः ।
सैव सुमनसा ज्ञेया कन्यसाङ्गुलिनामितौ ॥
पटही तु भवेत् सा तु मध्यमाङ्गुलिनामितौ ।
कन्दर्पी च भवेत् सा च उभौ अङ्गुष्ठमुच्छ्रितौ ॥
घटखर्परिका ज्ञेया अनामिकाग्रसुनामितौ ।
तथैव कुङ्मलं कृत्वा हस्ताग्रौ च सुभूषितौ ॥
उत्पलाकारचिह्नं तु मुद्रमुत्पलमुच्यते ।
विकासितोभयौ हस्तौ अङ्गुलीभिः समन्ततः ॥
एषा वै पद्ममुद्रा तु भवे ज्योत्स्ना सनामितौ ।
तथैव योजितां सर्वाम् अङ्गुल्याग्राग्रकारिता ॥
एषा सुपर्णिने मुद्रा सुपर्णीति प्रगीयते ।
तदेव लम्पुटाकारं विपर्यस्ताकारचेष्टितम् ॥
सा भवेद् यमलमुद्रा तु गरुत्मस्यापि महात्मने ।
तथैव हस्तौ सन्न्यस्य मुष्टियोगेन योजितौ ॥
उभयाङ्गुष्ठमध्यस्थौ लिङ्गमुद्रेति गीयते ।
उत्थिताङ्गुष्ठमध्यस्थौ तदेवं शङ्खमिष्यते ॥
तदेव हस्तौ विस्रज्य जया भवति विश्रुता ।
विजया भवते मुद्रा कन्यसाङ्गुलिवेष्टितौ ॥
२५६, प्। ५०६)
अनामिकाभिः समायुक्ता अजिता भवति पूरणी ।
विसृज्य हस्तौ संयुक्तौ वामहस्तेन मीलयेत् ॥
अङ्गुष्ठाग्रमधो नाम्य मुष्टिं बद्ध्वेह पण्डितः ।
एषापराजिता ज्ञेया मुद्रेयं च सुपूजिता ॥
चतुःकुमार्यो विधि ज्ञेया भगिन्येषु प्रकीर्तिता ।
तुम्बुरुस्त्वेष विख्यातः ज्येष्ठभ्राता प्रकल्प्यते ॥
नौयानसमाश्रिता ह्येते अम्भोधेस्तु निवासिनः ।
विचरन्ति इमं स्थाने महापुण्यमहर्द्धिकाः ॥
वश्यार्थं सर्वभूतानां सृष्ट्वा ब्रह्मविदो विदे ।
सर्वत्र पूजिता ह्येता गुह्यमन्त्रैस्तु योजिता ॥
अमोघा सिद्धिमेतांसि सर्वकर्मेषु योजिता ।
क्षिप्रमर्थकराः सिद्धा मङ्गल्या मघनाशनाः ॥
शुचिना शुचिकर्मेषु साधनीया तथोत्तमैः ।
ऊत्तं ज्वलनं शान्तं खचरं कायि सिद्धये ॥
मध्यं समध्यकर्मेषु अशौचं कश्मलादिषु ।
ये चापि पापकर्मा वै नित्योच्छिष्टाश्च देहिनाम् ॥
तेषां सिद्ध्यन्त्ययत्नेन क्षुद्रकर्माणि वै सदा ।
तथैव हस्तौ संयम्य नाभिदेशे समानयेत् ॥
मह्यमाङ्गुल्यतः सूच्या वेणिकाकार वेष्टयेत् ।
सुमेखला च सा मुद्रा उद्वेष्टा भवति मेखला ॥
तमेव मधतलौ न्यस्तौ मुद्रा भवति सम्पुटा ।
सैवमुच्छ्रिता ग्रीवे श्रीसम्पुटमुच्यते ॥
नाभिस्थाने तदा न्यस्य अपसव्येन भ्रामयेत् ।
रजनी मुद्रवरा ह्येषा दुष्टसत्त्वनिवारणी ॥
दक्षिणे करमुद्यम्य मुष्टियोगेन माश्रयेत् ।
मुद्रा मुष्टिरेत्याहुः सर्वमन्त्राणि चूर्णनी ॥
२५७, प्। ५०७)
सैवाङ्गुलिमुत्सृज्य उभौ हस्तौ प्रयोजिता ।
मुष्टिमुद्रा वरेत्याहुः पिशिताशननाशनी ॥
सा तु सङ्कुचिता ज्ञेया अङ्गुल्याग्रौ सुकुञ्चितौ ।
मुद्रा सुकुन्ता विज्ञेया कुन्ता चैव प्रसारितैः ॥
तारा सुतारा विधिज्ञेया एकरूपौ उभौ भवेत् ।
उत्पलाकारसन्न्यस्ता तर्जनीभिः सुसंहता ॥
एकसूचिकमित्येव सम्पुटाकारवेष्टितौ ।
तदेव प्रसारिता हस्तौ तारा भवति घुष्यते ॥
तदेव हस्तौ सन्न्यस्य अञ्जल्याकारकारितौ ।
तर्जन्या मिश्रितौ श्रेष्ठौ तृतीये पर्वणि स्थिते ॥
अङ्गुष्ठौ चान्ते मुद्रा भवति लोचना ।
तदेवाङ्गुलिमुत्सृज्य तर्जन्यौ सम्प्रयोजितौ ॥
तदेव विहिता मुद्रा मुद्रा मामक्या सम्प्रयोजिता ।
एवला मुद्रवरेत्याहु मध्यमाङ्गुल्यैः सुनामितैः ॥
श्वेता याभ्रमुद्रा वै करैश्चात्र प्रसारितैः ।
पण्डरा तु भवेन्मुद्रा मुष्टिभिः सम्प्रपीडितैः ॥
महाप्रभावा महापुण्या तर्जन्यावुच्छिरितावुभौ ।
तदेव हस्तौ सम्मिश्र सम्पुटाकारवेष्टितौ ॥
तर्जनीभिः ततो कृत्वा नेत्राकारं तु पीडयेत् ।
भ्रुकुटी मुद्रवरा ख्याता महाभयहरी सदा ॥
इत्येते चाष्ट मुद्रा वै कथिता जिनवरैः पुरा ।
महाप्रभावा महापुण्या महेशाख्या महर्द्धिका ॥
सर्वमुद्रेषु सर्वत्र मन्त्रैश्चापि विशेषतः ।
सर्वत्र पूजिता ह्येते स्मर्तव्यार्थफलप्रदा ॥
महारक्षा पवित्राश्च मङ्गल्यमघनाशनाः ।
सर्वत्र पूजिता बुद्धैः सर्वमन्त्रांश्च साधयेत् ॥
२५८, प्। ५०८)
तारा भृकुटी चैव श्वेता पण्डरवासिनी ।
मामकी लोचना चैव सुतारा तारवर्तिनी ॥
इत्येते च महामुद्रा पठिता लोकतत्त्विभिः ।
एष रक्षाविधिः प्रोक्तः महारक्षेषु कथ्यते ॥
महापापहरी ह्येता महामुद्रा स्वयम्भुवे ।
लोकीशस्य च वीरस्य महायक्षपतेस्तथा ॥
एते मुद्रा महापुण्या नियता सिद्धिहेतवः ।
कथिता लोकमुख्यैश्च सम्बुद्धैश्च यशस्विभिः ॥
तथैव हस्तौ सन्न्यस्य बेणिकाकारसम्भवौ ।
सम्पीडितौ विपर्यस्तौ *(?)द्रा भवति सङ्कुला ॥
तथैव सूचिकाग्रं तु अङ्कुशस्याहु वर्णितः ।
तथैव करपुटोऽग्रं वै उन्ननाम्यो शिरःस्थितौ ॥
विकास्य अङ्गुलीं सर्वां छत्रा भवति शोभना ।
संयम्य मुष्टिमाकारौ रात्री भवति देवता ॥
तामसी विसृतैर्नित्यं मुद्रा भवति तत्त्वतः ।
तथैव अङ्गुलां वेष्टौ ऊर्ध्वमङ्गुष्ठनामितौ ॥
विषनिनीशना सृष्टा रेखमुद्रा यशस्विभिः ।
मनसा नामितौ ज्ञेया महामानसमुद्रितैः ॥
तथैव हस्तावुत्सृज्य एकहस्तेन मीलयेत् ।
तर्जन्यौ वेष्टयेन्मध्याम् एषा सा गरुडध्वजा ॥
उभौ हस्तौ समायुक्तौ वेणिमाशृत्य मध्यजौ ।
हंसमालेति मुद्रेयं नाम्ना सर्वत्र गीयते ॥
तदेव विसृतौ हस्तौ तृसूच्याकारवेष्टितौ ।
सा भवेत् वज्रमुद्रा तु मुद्रा श्रेष्ठतमा हिता ॥
प्रकृष्टा सर्वमुद्राणां वज्रपाणेः समाहिता ।
तदेव विसृताङ्गुल्यौ पद्ममाला तु सा भवेत् ॥
२५९, प्। ५०९)
ज्येष्ठा मुद्रवरा ख्याता पद्मकेतोः समा भवेत् ।
एषा मुद्रवरा दिव्या महापुण्या महोद्भवा ॥
प्रयुक्ता सर्वकर्मेषु सिद्धिमायान्ति देहिनाम् ।
भुवि मण्डलविख्याता प्रसिद्धा सर्वकर्मसु ॥
वक्त्रार्थवक्रिता ज्ञेया उभौ पाणितले समे ।
सन्यस्ताङ्गुलिमग्रे तु तर्जन्याङ्गुलिमुच्छ्रिता ॥
मुद्रा वक्त्रमिति ज्ञेया अर्द्धवक्त्रा तु कन्यसैः ।
समौ मुष्टितलौ ज्ञेयौ अङ्गुष्ठोत्तमनामितौ ॥
लोहितामुद्रमित्याहुः मध्यमानामितसुलोहिता ।
नीललोहितिका ज्ञेया मुद्रा रुद्रस्य मूर्ध्नजा ॥
महाप्रभावा विख्याता या मुद्रा भुविमण्डले ।
सर्वविघ्नहरी देवी दुष्टसत्त्वनिवारणी ॥
सा मुद्रा कथ्यते लोके शृणुध्वं भूतिकाङ्क्षिणः ।
तथैव हस्तौ संयम्य मुष्टिमादौ प्रकल्पयेत् ॥
विसृतौ मध्यमौ ज्ञेयौ ईषित् सङ्कुचिताथ सूचितौ ।
महामुद्रा इति ख्याता मुद्रा सा भयसूदनी ॥
तथैव सूच्याग्रौ तौ हस्तौ सुव्यक्तमीलितौ ।
एषा विष्णुमिति ख्याता मुद्रा सर्वत्र पूजिता ॥
ब्राह्मी तु भवे मुद्रा उभौ अङ्गुष्ठमिश्रितौ ।
तथैव कुड्मलाकारा मुद्रा वैन्द्रीति उच्यते ॥
सा भवेन्माहेश्वरी मुद्रा उभौ कन्यसमुच्छ्रितौ ।
तदेव हस्तावुत्सृज्य नृत्ययोगेन माश्रयेत् ॥
वामबाहुस्तदा नित्यम् उभयाग्रं प्रकल्प्यते ।
दक्षिणं भुजमाश्लिष्य तर्जन्याकारवेष्टितम् ॥
एषा वज्रधरा नित्यं वराहीति प्रकल्प्यते ।
तदेव विसृतौ बाहू नत्ययोगेन कल्पितौ ॥
२६०, प्। ५१०)
उभौ तर्जन्याकारतः क्षिप्रौ वज्रचामुण्डि मुच्यते ।
स एव विसृताकारौ उभौ पाणौ समाश्रुतौ ॥
ऊर्ध्वमाशृत्य गता दृष्टिः घोरा चामुण्डि मुच्यते ।
कौमारी तु भवेन्मुद्रा कार्त्तिकेयस्य महामही ॥
तदेव हस्तौ विन्यस्य सूच्याग्रं तु मीलयेत् ।
विसृतैरङ्गुलीभिश्च इयं मुद्रा सर्वमातरी ॥
एषा सर्वमुद्राणां मातराणां तु महर्द्धिका ।
एतेन सर्वकर्मा वै बालिशानां तु कल्पयेतु ॥
सूतिकानां च नारीणां गर्भस्थानं च देहिनाम् ।
रक्षमोक्षणमुद्रेषु प्रेतव्यन्तरकश्मलैः ॥
मोक्षणार्थं तु कल्पीत ग्रहमातरनैरृताम् ।
हितार्थं प्राणिनां लोके मुद्रा भवति सुखावहा ॥
श्रेयसः सर्वमन्त्राणां भूतानां प्रयुक्ता सुखदा हिता ।
क्षुद्रकर्मेषु सर्वत्र योजयेत् सर्वत्र जापिनः ॥
एते मुद्रा सदा मन्त्रैरेतैरेव प्रयोजयेत् ।
तथैव हस्तौ सन्न्यस्य स्वकुण्डलाभोगवेष्टितौ ॥
अङ्गुलीभिः समन्ताद् वै मुद्रा नागीति गीयते ।
तथैव मङ्गुलिमध्यस्थौ सूच्याग्रं तु मीलितौ ॥
भवेन्नागमुखी मुद्रा प्रकृष्टा सर्वकर्मसु ।
या सा मुद्रवरा ज्ञेया माला लोके प्रकल्पते ॥
तथैव हस्तौ सन्न्यस्य अङ्गुलीभिः समन्ततः ।
वेणिकाकार बद्ध्वा वै मुष्ट्याकारं तु कारयेत् ॥
तथैव सम्पुटाकारौ अङ्गुष्ठौ मध्यनामितौ ।
सा भवेन्मालमुद्रा तु सर्वकर्मार्थसाधनी ॥
तथैव मङ्गुलिभिर्नित्यम् उच्छ्रितैः सप्तभिः सदा ।
सा तु सप्तच्छदा मुद्रा तृषु लोकेषु गीयते ॥
२६१, प्। ५११)
एते मुद्रवरा ह्यग्रा यथोक्तास्ते दर्शिता पुरा ।
एतेषानां तु मुद्राणां निर्दिष्टा पूर्वविस्तराम् ॥
सर्वा येकतमा ज्ञेया विधिनिर्दिष्टदर्शिता ।
विस्तरार्थगता ह्येते विकल्पार्थाः सविस्तराः ॥
स्मृताः सर्वे भवेन्मुद्रा सर्वमुद्रैस्तु मुद्रिता ।
मुद्रा चाष्टशता ज्ञेया उक्ता सर्वार्थसाधिका ॥
एक एव भवेत् तेषां यथासङ्ख्यार्थपूरणी ।
नृत्ययोगेन स्थित्वा वै ऊर्ध्वं पश्येज्जापिनः ॥
ललाट मङ्गुली न्यस्य तर्जन्या कन्यसान्विताम् ।
कृत्वा वै नेत्रयोगेन स्थितकोऽञ्जलिना न्यसेत् ॥
सर्वत्रादर्शनी नाम मुद्रा चाष्टशतात्मिका ।
अनेन मन्त्रा सिध्यन्ते यथोक्ता सर्वज्ञदर्शिना ॥
सर्वमुद्रास्तु अत्रैव प्रयोक्तव्या ह्यविकल्पतः ।
यथोक्तमुद्रागणा ह्येष उक्तोऽयं मन्त्रसमासत इति ॥
आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात्
सर्वतथागताचिन्त्यधर्मधातुमुद्रामुद्रिता त्रिचत्वारिंशतिमः स्वचतुर्थो
मुद्रापटलविसरः ।
२६२, प्। ५१२)