अथ चतुश्चत्वारिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
सर्वतथागतधर्मवरोत्वचिन्त्यगुणव्यूहालङ्कारभूतकोटिनिष्ठासङ्ख्येयजिन-
मुद्रामुद्रितं सर्वसत्त्वचिह्नभूतं मुद्रापटलपरमगुह्यतमं
सर्वलौकिकलोकोत्तरश्रेयसमन्त्रतन्त्रकल्पविकल्पितं सर्वसत्त्वैः
परमार्थदर्शनपथप्रवृत्तिभूतं
सर्वमन्त्रसर्वसञ्ज्ञासाधारणभूतमिहैव जन्मनि सर्वसत्त्वानां
सर्वाशापारिपूरकं
सर्वबुद्धबोधिसत्त्वानामाराधनपरसुखहेतुकबोधिसम्भारपरिपूरणनिमित्तम्
आह्वाननविसर्जनगन्धपुष्पधूपसर्वमाल्योपहाराविद्याविद्यावेशनदर्शन-
सर्वकार्यार्थसाधनसर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगयक्ष-
राक्षसपिशाचकूष्माण्डरौद्रसौम्यभावदमकाध्यक्षभूताधिपति-
सर्वकार्यसन्दर्शनज्वलनाकाशगमनान्तर्द्धानवशीकरणबोधिसम्भार-
निमित्ताश्चर्याद्भूतं सर्वमन्त्रतन्त्रार्त्थानुनीतं सर्वविद्याराजनमस्कृतं
सर्वविद्यासाधकं सर्वबुद्धमात्रामन्त्रितं
यथेप्सितार्त्थसत्त्वमनोरथापरिपूरकं सर्वासां सर्वमन्त्राणां
दृष्टधार्मिकहेतुनिष्पादकं सङ्क्षेपतो यथा यथा युज्यते यथा यथा साध्यते
तथा तथा साधयते । एषा मञ्जुश्रीः ! परमार्त्थपटलसर्वबुद्धानां
परमार्त्थगुह्यतमं भाषिष्ये । पूर्वं भाषितवां सर्वबुद्धैः
भाषिष्यन्तेऽनागता बुद्धा भगवन्तः । एतर्ह्यहं भाषिष्ये तच्छ्रूयतां
महासत्त्व ! भाषिष्ये । तच्छ्रूयतां महासत्त्व ! भाषिष्ये । साधु च सुष्ठु च
मनसि कुरु मञ्जुरव ! मनोज्ञप्रतिभानवां वक्ष्येऽहं वक्ष्येऽहमिति ॥
शाक्यसिंह नरश्रेष्ठो सम्बुद्धो ऋषिसत्तमः ।
सत्त्वमर्त्थमभिज्ञाय परमार्त्थार्त्थदर्शनम् ॥
गुह्यमात्रार्त्थमुद्रा वै भाषसे मुनिपुङ्गव ! ।
शुद्धावासपुरे रम्ये शुद्धसत्त्वसमाश्रिते ॥
महापर्षद्वरे श्रेष्टे वीतरागालये तदा ।
भाषिते कल्पराजे तु मञ्जुभागीततत्त्विते ॥
२२९, प्। ४७९)
बुद्धपुत्रैस्तदामात्यैः परमार्त्थविदैर्विदैः ।
शाक्यसिंहस्तदा आह शृणुध्वं पर्षत् कथे ॥
बुद्धपुत्रस्तथा ज्येष्ठ महायानाग्रधर्मिणः ।
नाम्ना समन्तभद्रो वै इत्युवाच गिरां वराम् ॥
बालरूपी महारूपी कुमारस्त्वं वर्ण्यसे जिनैः ।
शाक्यस्य कुलजो दक्षः श्रीमां बुद्धो निरीक्ष्यते ॥
त्वं हि विश्वमहाप्राज्ञो लोकानुग्रहकाम्यया ।
त्वदीयं कल्पविसरं मुद्रामुद्रितं त्विदम् ॥
अध्येषय महावीर ! बुद्धपुत्र ! महर्द्धिक ।
सारभूतं कल्पस्यास्य महर्द्धिकम् ॥
एवमुक्तस्तु वीरेण बुद्धपुत्रेण धीमता ।
मञ्जुमां त्वरितो जात बालक्रीडाभिनिर्मित ॥
प्रणम्य सुगतं नाथं जगदेकान्तचक्षुषम् ।
उवाच मधुरां वाणीं करुणार्द्रम्रेडितेन तु ॥
कथयेयु भगवां बुद्धः प्रज्ञाबलतत्त्ववित् ।
कथं तु सर्वमन्त्रा वै सिद्ध्यन्ति जपिनां ध्रुवम् ॥
कथं वै ह्यविकल्पेन अमोघान् गच्छन्ति प्राणिनाम् ।
सिद्ध्येयुः क्षिप्तजप्ताभिः सर्वार्त्थेषु न योजिता ॥
आ भवाग्राच्च संसारादा वीच्यान्ताश्च नारकाः ।
एतेष्वाश्रिता ये च प्राणिनोर्धत्रिधातुका ॥
आहूयन्ते निगृह्यन्ते आवेश्यन्ते च पश्यताम् ।
सर्वकर्मार्त्थयुक्ते च तुष्टिपुष्ट्यर्थकारणैः ॥
दशभूम्याश्रिता ये च सौगते वर्त्मनि स्थिता ।
बोधिसत्त्वा विबुद्धाश्च प्रत्येकां वा बोधिमाश्रिताः ॥
वीतराग महात्मन आहूयन्ते सुपूजिता ।
समयैर्मन्त्रिभिर्युक्ता इमैर्मुद्रैः समुद्रिता ॥
२३०, प्। ४८०)
कथयन्ति यथाभूतं स्वतन्त्रा चापि दर्शिनम् ।
पूर्ववृत्तमवृत्तं वा वर्तमाने च योगिनः ॥
स्वर्गलोककथाचिन्त्या परदेहाश्रितापि वा ।
अनागतं च यथातत्थ्यं निदर्शनं चापि वर्णितम् ॥
कथयन्ति यथान्यायं मन्त्रमुद्रसमीरिता ।
सिद्धिं चापि तथा क्षिप्रं दद्यान्मुद्रैश्च पूजिताः ॥
मन्त्रिज्ञैः मन्त्रिभिर्युक्तः बलिहोमसुपूजिताः ।
कुर्यात् क्षिप्रतरं सिद्धिं बुद्धा बुद्धसुतास्तथा ॥
अर्हन्तोऽपि महात्मानः खड्गिणः सिद्धिदा सदा ।
लौकिका ये च मन्त्रा वै तथा लोकोत्तरा परे ॥
ये च सिद्धास्तथा यक्षा गन्धर्वा मथ किन्नरा ।
असुरा सुरा सदा सत्त्वा सर्वसत्त्वा त्रिधा स्थिता ॥
अपर्यन्तेषु दिक्ष्वेषु लोकधात्वन्तरेषु च ।
गतिपञ्चसु ये सत्वा युक्तायुक्ताश्च सर्वदा ॥
सिद्धिं गच्छेयु तत् क्षिप्रम् इमैर्मुद्रैः सुमुद्रिता ।
एष विख्यातः सुगतैर्मन्त्रज्ञैस्तु मुनिभिः विमलम् ॥
विटकं विधिवद् ज्ञेयं विसरं पटलोत्तमम् ।
सर्वबुद्धैस्तथा लोके श्रेयसार्थमुदाहृता ॥
मुद्रा पञ्चशिखेत्याहुः सर्वबुद्धैः प्रकाशिता ।
श्रेयसार्थं हि भूतानां मञ्जुघोषस्य धीमते ॥
सर्वतः शिरजा ज्ञेया मूर्ध्नजास्तु तथागताम् ।
सा तु सर्वार्थदा ज्ञेया धर्मकोशप्रपूरणी ॥
पूरणार्थं तु मन्त्राणां मुद्राणां च महर्द्धिकम् ।
सर्वेषां लोकोत्तरां श्रेष्ठां लौकिकानां च सर्वदा ॥
मञ्जुघोषस्य तन्त्रे तु अग्रा ह्यग्रतमा मता ।
प्रभावतः सर्वकर्माणि क्षिप्रं कुर्यार्थनामतः ॥
२३१, प्। ४८१)
शुचिर्भूत्वा शुचौ देशे बध्नीयान्मुद्रवरं प्रभुम् ।
आदौ हस्तौ थ कृत्वा वै सुषिराकारसम्पुटौ ॥
आकोशविरलाङ्गुष्ठौ न्यस्ताङ्गुष्ठौ थ सूचितौ ।
पञ्चसूचिकविन्यस्तौ मुद्रा पञ्चशिखा भवेत् ॥
शिरःस्थाने सदा न्यस्ता एकसूच्याथ अङ्गुलैः ।
मुद्रा एकचीरा तु मूर्ध्नि स्थानेषु योजिता ॥
कन्यसाङ्गुलिविन्यस्ता सुश्लिष्टा मध्यमौ तथा ।
अङ्गुष्ठौ सूचितौ उभौ ॥
त्रिसूच्याकारसमायोगात् तृशिखा मुद्रमुदाहृता ।
सर्वैरङ्गुलिभिर्युक्तैः आकोशा सुषिरसम्भवैः ॥
शिरःस्थाने सदा न्यस्ता मुद्रा शिरवरा भवेत् ।
स एव उच्छ्रिताङ्गुल्यौ ईषित् सङ्कुचिताग्रकौ ॥
महावीरा तु सा ज्ञेया महामुद्रा महर्द्धिका ।
एते पञ्च महामुद्रा पूर्वं जिनवरैस्तदा ॥
निर्दिष्टा सर्वमुद्राणां कथयन्ति मनीषिणौ ।
ज्येष्ठा मुद्रमुख्यनां * * * * * * (?) मुद्रिताम् ॥
लोकोत्तरां तु सर्वा वै लौकिकानां च सर्वतः ।
एता पञ्च महामुद्राः प्रयोगा सिद्धिहेतवः ॥
सुसिद्धा सिद्धतमा ह्येता ज्येष्ठाश्च भाषिता ।
मञ्जुघोषस्य मूर्धजा प्रभावात्यद्भुतचेष्टिता ॥
यावन्ति सौगता मुद्रा सर्वेषां सिद्धिहेतवः ।
मुद्रा मुद्रेति विख्याता श्रीमन्तं किसलयोद्भवम् ॥
मञ्जुघोषस्य मूर्धजं महापुण्यतमं शिवम् ।
यं बध्वा महासत्त्वा नियतं बोधिमवाप्नुयात् ॥
महामुख्यावतंसं तं श्राद्धम् अविकलेन्द्रियम् ।
सदा यज्ञं प्राज्ञयुक्तं च विधिवत् कर्ममाचरेत् ॥
२३२, प्। ४८२)
तादृशेन तु युक्तेन सत्त्वेनैव सुयोजिता ।
मुद्रेयं कुरुते ह्यर्थां यथेष्टां चापि पुष्कलाम् ॥
उपदेशात्तु विद्वांसः मतिमन्तोऽर्थसाधकाः ।
आचार्यसम्मता लोके शिष्या ग्राह्यास्तु सर्वदा ॥
विधिवत् कर्मदृष्टेन पुरुषेणेह भक्तितः ।
महायानगतैर्नित्यं मुद्रेयं सम्प्रयुज्यते ॥
सर्वेषां तु मुद्राणां त्रिधा मन्त्रेषु योजिताम् ।
अग्रा ह्यग्रतमा लोके ते मुद्रा प्रभावतः ॥
सिद्ध्यर्त्थं सिद्धिकामानां तथा मन्त्रैः सुयोजिताम् ।
क्षिप्रमर्थकरा ह्येते सर्वसौख्यफलप्रदाः ॥
मञ्जुघोषः स्वयं तिष्ठेन्मुद्रैरेतैः समाहित ।
यस्मिं स्थाने तु वश्चैताः स्वयं मञ्जुरवः सदा ॥
रक्षा ह्यग्रां प्रकल्पीत जिनपुत्रो महर्द्धिकः ।
बालरूपी महात्मा वै विश्वरूपी महर्द्धिकः ॥
बहुरूपी च सत्त्वानां मुद्रारूपी थ देहिनाम् ।
बालिशानां तु सत्त्वानां संसारार्णवचारिणाम् ॥
तेषामर्थकरः क्षिप्रं मुद्रारूपेण तिष्ठते ।
मञ्जुघोषस्य शिरजाः सर्वमूर्ध्नि प्रतिष्ठिता ॥
सर्वार्थसम्पदा ह्येते जप्तमात्रैस्तु योजिता ।
मूलमन्त्रेण संयुक्ता हृदयस्यानुगतेन वा ॥
सर्वे सौगतिभिश्च मन्त्रैभिश्च सुयोजिता ।
ये तु अब्जकुले मन्त्रा वज्रिणे चापि कपर्दिने ॥
सर्वैश्च लौकिकैश्चापि मुद्रैर्युक्तार्थफलप्रदा ।
एते पञ्च महामुद्रा मन्त्रयुक्तार्थफलप्रदा ॥
विकल्प्या मन्त्रगतां त्यज्य मुद्रैर्वाथ फलप्रदा ।
महारक्षा महापुण्या बद्धमात्रेण देहिनाम् ॥
२३३, प्। ४८३)
स्मरितैह्येभिर्महामुद्रैर्महारक्षा विदीयते ।
कः पुनर्जप्तमात्रैस्तु मन्त्रमुद्रासमाश्रितैः ॥
यावद् वा जापिनः सर्वे नियतं बोधिमाप्नुयात् ।
अपरे तु महामुद्राः शूलपट्टिशसम्भवाः ॥
महाशूलोऽथ मुद्राणां घोरदारुणमुच्यते ।
क्रोधराजेन मुख्येन यमान्तेनेह योजिता ॥
करोति विविधां कर्मां दारुणां प्राणरोधिनाम् ।
महाभयप्रदां मुद्रां विपस्यस्यापि महात्मने ॥
दुष्टसत्त्वां विनाशाय सृष्टास्तृभवालये ।
तैरेव योजिता मन्त्रा विविधां मुद्रमाशृता ॥
तेषां विनाशनायैव सृष्टा जिनवरैः सदा ।
मन्त्रचर्यार्त्थयुक्तायाः शासनार्थाय कल्पिता ॥
विहिता लोकनाथैस्तु मुद्रा तन्त्रार्त्थदर्शना ।
दुष्टसत्त्वप्रयुक्तानां गरकिल्विषरोगदाम् ॥
तेषां निर्नाशनार्थैव उक्तां सर्वार्थकर्मिकाम् ।
यमशासननाशाय मृत्युपाशाय मोक्षणाः ॥
नित्यं प्राणहरा मुद्रा प्रयुक्ता मन्त्रयोजिता ।
यमदूतहरा पुण्या मृत्युर्नाशनी स्मृता ॥
यमशासननीतानामानेता प्राणदा स्मृता ।
सर्वरोगविनाशार्थं यमस्यापि भयप्रदा ॥
मुनिमुख्यैस्तथा युक्ता प्राणसन्धारणी हिता ।
शासनेऽस्मिन् प्रसन्नानां हिता रक्षा विधीयते ॥
सफला नाशनी दुष्टां गीता मञ्जुरवे हिता ।
सर्वार्थप्रापणी देवी महामुद्रा प्रगीयते ॥
महाप्रहरणे त्वाहुः अपरा मुद्रपरावरा ।
तथैव हस्तौ सन्न्यस्य तर्जन्यौ पाशसम्भवौ ॥
२३४, प्। ४८४)
कन्यसौ सूचयेन्नित्यं मुष्टियोगेन योजितौ ।
हस्तौ सम्पुटितौ नित्यौ अङ्गुष्ठाबुच्छ्रितावुभौ ॥
एष मुद्रा महापुण्या महाशूले समागता ।
विविधा लोकनाथैस्तु विचित्रप्रहरणोद्भवा ॥
यो यस्य चिन्तयेज्जापी शत्रोः प्रहरणानि वै ।
तेनैव च्छिन्दयेद् गात्रं चित्तोत्पादाच्च तद् भवेत् ॥
नियतं नाशयेच्छत्रुं मुद्रा मन्त्राश्च योजिता ।
निहन्याच्छत्रुगणां सर्वामन्त्राश्चापि महर्द्धिकाम् ॥
यमदूतगणां विघ्नां ग्रहांश्चापि समातराम् ।
पूतनास्कन्दरुद्रश्च प्रेतांश्चापि महर्द्धिकाम् ॥
जप्ता वैवस्वतां लोकां कृत्स्नां चैव सवासवाम् ।
यमान्तकक्रोधराजेन नान्यं मन्त्रं प्रयोजयेत् ॥
मुद्रैरेतैः प्रयुञ्जीत महाशूलसमैस्तदा ।
सद्यं वैवस्वतं हन्यात् कः पुनर्भुवि मानुषाम् ॥
सर्वप्रहरणी मुद्रां सर्वदुष्टां विनाशिनीम् ।
विहिता लोकमुख्यैस्तु सम्बुद्धैर्द्विपदोत्तमैः ॥
तथैव हस्तौ सन्न्यस्य मध्यमां शृत्य कारयेत् ।
तथैव हस्तौ कृत्वेह मुष्टियोगेन कारयेत् ॥
अङ्गुष्ठाग्रौ तु पीडितौ ।
सुषिरावाङ्गुलिसंयुक्तौ मध्याङ्गुल्यसमुच्छ्रितौ ॥
सूचिकाग्रौ तथा नित्यौ तर्जन्याङ्गुलिमाश्रितौ ।
एषा मुद्रा वरा घोरा शूलेत्याहुर्मुनिवराः ॥
महाशूला भवेत् साधुः तर्जन्याकुञ्चितावुभौ ।
विसृतैः पट्टिशा ज्ञेया महामुद्रवरा परा ॥
तदेव सङ्कुचाग्रौ तु अङ्गुल्यास्त्रिभिरुच्छ्रिता ।
एष सा त्रिशूलमुद्रेति प्रवदन्ति मनीषिणः ॥
२३५, प्। ४८५)
विचित्रप्रहरणा ज्ञेया अङ्गुष्ठावुभयोच्छ्रितौ ।
महाशूलसमा ह्येते महावीर्या भयानकाः ॥
पापसत्त्वविनाशाय तन्त्रेऽस्मिं मञ्जुरवे वरे ।
दुर्दान्तदमिता ह्येता महामुद्राद्भुतचेष्टिता ॥
रौद्रप्राणहरा ते विकृताकारसम्भवा ।
महाघोरतमा रौद्रा महाक्रूरतमाहिता ॥
महाघोरवरा ज्येष्ठा बहुरूपिण्यः प्रकाशिता ।
सर्वत्र जापिनो बुद्धा जराव्याधिविवर्जिता ॥
विचरन्ति इमां लोकां संसिद्धा जापिनः सदा ।
विहिता मृत्युनाशाय सम्बुद्धैर्मुनिपुङ्गवैः ॥
जराव्याधिविनाशिन्यः मृत्युनाशाय संसृजेत् ।
योजिता मन्त्रिभिः क्षिप्रं कृतान्तस्यापि भयानका ॥
सृजेत् प्रभुवरः श्रीमां शुद्धावासपुरे वरे ।
मुनिसत्तमजे मुद्रा शाक्यसिंए नरोत्तमे ॥
न बुद्धा मन्त्र भाषन्ते न मुद्रा क्रूरकर्मिणाम् ।
सत्त्वकारणवात्सल्यात् सर्वज्ञार्थप्रपूरणा ॥
ऋद्धिविक्रीडनार्त्था वा बोधिसम्भारकारणा ।
उपायसत्त्ववैनेया महायानाग्रनियोजना ॥
महासंसारपूरणा ।
अधिमुक्ति वसां सत्त्वां मन्त्रमुद्रामुदाहृताम् ॥
आकाश चेति या बुद्धा न बुद्धा वाचाय कल्पिता ।
निःप्रपञ्चार्थयुक्तानां कुतः सङ्कल्पगोचरम् ॥
धर्मधातुसमा निष्ठा भूतकोटिसमा च या ।
मन्त्रयुक्तानां निष्ठा मुद्रा समुद्रिता ॥
कथयन्ति भवाङ्गानां मुक्त्यर्थं हेतवां सदा ।
सर्वज्ञमुद्रमाख्याता सर्वज्ञानार्थप्रपूरणा ॥
२३६, प्। ४८६)
युक्तियुक्तार्थपूजार्थं मुद्रामुद्रमुदाहृता ।
बुद्धैश्च बुद्धपुत्रैश्च अचिन्त्याचिन्त्यगोचरैः ॥
सर्वज्ञदर्शिनो मुद्रा उष्णीषाद्याः प्रभाविताः ।
अवलोकितमुद्रा तु वज्रपाणे थ लौकिकाः ॥
कथिताः कथयिष्यन्ति श्रेयसार्थं हि देहिनाम् ।
यावद् बुद्धसुतैर्मुद्रा मुनिश्रेष्ठैश्च भाषिताः ॥
सर्वार्थपूरणा मुद्रा प्रभावाचिन्तचिन्तिता ।
विकल्पार्थं हि भूतानां त्रिधा मन्त्रास्तु भाषिता ॥
एक एव भवेन्मन्त्रः यो बुद्धैस्तु भाषितः ।
सौगतार्थं तु मन्त्राणां मन्त्रो ह्येकः प्रगीयते ॥
उष्णीषाधिपतिः श्रीमाम् एकवर्णौथ वि सदा ।
चक्रवर्ती भवेन्नित्यं तकारो रेफसंयुत ॥
ऊकारसहितो नित्यं युक्तोऽथ प्रगीयते ।
स भवेच्चक्रिणः श्रीमां बुद्धानां मूर्द्धजो वरः ॥
भापरं मन्त्रमित्याहुर्बुद्धषुत्रस्य धीमतः ।
प्रभावात् तत्समो ज्ञेयः मकारोऽन्त्यार्त्थ गीयते ॥
मञ्जुघोषस्य विख्यातः हृदयोऽयं बुद्धमूर्ध्नजः ।
प्रभावातिशयो ज्ञेयः महापुण्य महर्द्धिकः ॥
सर्वार्थपूरणो मन्त्रः * * * * * * * * (?) ।
मुद्रा पञ्चशिखोपेतौ उभयार्थार्थपूरणौ ॥
मुद्रा पञ्चशिखा वापि मकारे चापि योजितौ ।
परमार्थं बोधयेच्चार्थम् इहैवार्थं तु भोगदौ ॥
अपरं मन्त्रमित्याहुः * * * * * * * * (?) ।
जकारं रेफसंयुक्तम् अवोष्मार्थपूजितम् ॥
एष मन्त्रवरो ह्यग्रः अब्जकेतोऽथ मूर्ध्नजः ।
मुद्रे पद्मवरे युक्तो आर्या पुष्ट्यार्थजन्मिनाम् ॥
२३७, प्। ४८७)
जापिनां कर्मसिद्धिं तु कुर्यात् सर्वार्थसम्पदाम् ।
अपरं वज्रिणे मन्त्रां ह्रङ्कारं बाहुमूर्धजम् ॥
एष मन्त्रवरो ह्यग्रः चण्डोऽथ गीयते ।
प्रयुक्तो वज्रालये मुद्रे कुर्यात् प्रायार्थकर्मिणाम् ॥
दुर्दान्तदमको घोरो मन्त्रोऽयं नाशहेतवः ।
उक्तार्थं शासनार्थं च यथोक्तं विधिमाचरेत् ॥
न कुर्यात् पापकर्माणि सत्त्वनिग्रहमादरात् ।
न योजयेन्मन्त्रवरं नित्यं सौम्यसत्त्वेषु नित्यश ॥
नापराध्येऽल्पदोषेण सत्त्वनाशयतोत्सृजेत् ।
न कुर्यादादरान्मोहादल्पदोषेषु जन्तुषु ॥
शासने दुष्टचित्तानाम् अप्रसन्नां प्रसदनाम् ।
विनयार्थं तु सत्त्वानां दमनार्थं पिशिताशिनाम् ॥
निग्रहार्थं तु दुष्टानां सौम्यसत्त्वप्रसादनाम् ।
उक्तो मन्त्रवरो ह्यग्रः न कुर्यात् प्राणान्तिकं कदा ॥
सर्वलौकिकमन्त्राणां वज्रिणे च महर्द्धिकाम् ।
अग्रो मन्त्रवरो ह्युक्तः सर्वलौकिकदेवताम् ॥
अपरो मन्त्रवरो ह्येष सर्वलौकिकदेवताम् ।
मन्त्राणां मूर्ध्नजो ज्ञेयः शिव एकाक्षरो ह्यतः ॥
ईश्वरः सर्वलोकानां मन्त्राणां तु लौकिकां प्रभुः ।
परमेश्वरमित्याहुः स्वकारो ता विदुर्बुधाः ॥
सर्वमन्त्रास्तु गीयन्ते यावन्त्यो लौकिकाः स्मृताः ।
सर्वे ते यत्र वै मन्त्रे निबद्धा सर्वत्र पूजिता ॥
विहिता मुनिवरै ह्येता मुद्रा सर्वत्र योजिता ।
मता शिवतमा श्रेष्ठा लौकिकाग्रा समाहिता ॥
ईश्वराद्यान्तर्भूता वै विपश्यग्रहमातराम् ।
कटपुतनयक्षाद्यां राक्षसां पिशिताशिनाम् ॥
२३८, प्। ४८८)
गरुडध्वजविष्णोश्च ब्रह्मणश्चापि कीर्तिता ।
मुद्रा ह्येताः समादिष्टा दुर्दान्तदमने हिता ॥
प्रशस्ता मङ्गला ह्येता मुद्रा ह्युक्ता मनीषिभिः ।
वश्यावेषणभूतानाम् आकृष्टा हेतवोहिताम् ॥
विविक्ते तु सदा देशे शुक्लपुष्पैः सुशोभिते ।
सुमृष्टे सिद्धगन्धैस्तु श्वेतचन्दनकुङ्कुमैः ॥
जातीकुसुममालाभिः अभ्यर्च्य सुगतं प्रभुम् ।
शाक्यसिंहं महापुण्यं सर्वमन्त्रेश्वरं विभुम् ॥
सर्वज्ञं सर्वदा भक्त्या प्रणिपत्य तथागतम् ।
मन्त्रनाथं च लोकेशं वज्रिणं चापि शक्तितः ॥
मञ्जुश्रियं महात्मानं धर्मधात्वेश्वरं गुरुम् ।
सर्वं बुद्धसुतां बुद्धाम् अनुपूर्व्या समाहितः ॥
कुशविण्डे पल्लवे चैव सक्षीरे सार्द्रे सुशोभने ।
उपविष्टः प्राङ्मुखः शुचिः * * * * * * * * * * (?) ॥
उदङ्मुखः शान्तिकर्मे तु पश्चादाह्वानने न मुखे ।
न कुर्युः सर्वकर्माणि यथादैवतमन्दिराम् ॥
प्रवृत्तः सर्वभूतेषु दयावां मुद्रकर्मणि ।
सर्वत्र योजिता मुद्रा कुर्यात् सर्वसाधनम् ॥
पूर्वाभिमुखे पौष्टिकं कर्म मन्त्राणामानयने ध्रुवम् ।
पश्चान्मुखे तु कुर्वीत वश्यार्थं सर्वभौतिकम् ॥
उदङ्मुखे शान्तिकं विन्द्यात् सर्वव्याधिप्रणाशने ।
दक्षिणे पापकर्मं तु न कुर्यात् प्राणान्तिकं सदा ॥
ऊर्ध्वं विघ्ननाशं तु उत्तिष्ठोत्तमसिद्धिदः ।
असुरपुरे कर्म पातालाधिपते तदा ॥
अधोमुखश्च कुर्वीत सर्वत्राप्रतिपूजिता ।
विदिक्षु च सर्वत्र यथा यथा च समासृता ॥
२३९, प्। ४८९)
तेषु तेषु च कुर्वीत सिध्यन्ते सर्वदेहिनाम् ।
कुर्यात् सर्वत्र मुद्राणां विधिहोमसमा जपी ॥
तत्रस्थां सिद्धिमायान्ति तन्मुखाश्चापि मुद्रिता ।
विधिः श्रेष्ठः कथ्यतां तां निबोधताम् ॥
शुचिर्वस्त्रशुचिर्भूत्वा सुखशौचसमाहितः ।
इमां मुद्रां प्रयुञ्जीत सर्वार्थां च सुसमाधिकाम् ॥
हस्तावुद्धृत्य गन्धैश्च श्वेतचन्दनकुङ्कुमैः ।
सुधूपैः प्राण्यङ्गरहितैः कर्पूरागरुचन्दनैः ॥
युक्तिकुङ्कुममुख्यैश्च कुर्याद्धूमवरं विदा ।
निवेद्य विविधा कर्माम् आचरेद् विधिवत् सदा ॥
आचरेत् पूर्वनिर्दिष्टं कर्मं सर्वत्र कल्पभाषितम् ।
प्राङ्मुखोऽथ ततो भूत्वा उभौ हस्तौ सुसम्पुटौ ॥
मिश्रीकृतां ततोऽन्योन्याम् अङ्गुल्या वेणितः स्थितौ ।
मध्यमौ कन्यसौ ज्यष्ठौ अनामिकाग्रौ च योजितौ ॥
अङ्गुष्ठौ निश्चलौ ज्ञेयौ समौ चापि प्रतिष्ठितौ ।
शिरस्थाने तदा कुर्या ललाटदेशे तु भक्तितः ॥
नमस्कारं तथा मन्त्रं षड्वर्णोथ योजिताम् ।
ॐ वाक्येद नमः । वाक्यं स्वाहाकारवर्जितम् ॥
हुङ्कारापगतं श्रेष्ठं फट्कारापगतं सदा ।
पवित्रं मङ्गलं ज्येष्ठं हृदयं तु सदा जपेत् ॥
एष मञ्जुवर ! श्रेष्ठ बालरूपिसुरूपिणे ।
पश्चान्मे विश्वरूपे तु हृदयोऽयं प्रकीर्त्यते ॥
षडेते षडक्षरा ज्ञेया मन्त्रा श्रेष्ठा हृदयोत्तमा ।
तेषामग्रतरा ह्येषा प्रवृत्तः सर्वकर्मसु ॥
इदं मुद्रोत्तमं मन्त्रं कुर्यात् सर्वकर्मसु ।
मूर्ध्नि स्थाने ततो दत्त्वा ललाटोद्देशे तु युक्तितः ॥
२४०, प्। ४९०)
मध्यमाङ्गुल्यं तु चालेद् वश्यार्थं सार्वभौतिकम् ।
अङ्गुष्ठाग्रवुभौ नाम्यौ आकृष्टार्थं च देवताम् ॥
तैरेव विसृतौ नित्यं विसर्ज्यं मन्त्रदेवताम् ।
मध्यज्येष्ठौ तथा श्रावकांश्च मुनिवरम् ॥
तर्जन्यौ कुञ्चितौ नित्यौ बोधिसत्त्वां कुलिशोद्भवाम् ।
दशभूम्येश्वरा ये च आह्वयन्ते न संशयम् ॥
कन्यसाङ्गुलिसंयुक्ता आकुञ्च्यात् सराह्वये ।
यक्षराक्षसप्रेतांश्च कूश्माण्डा कप्तपूतनाम् ॥
दैत्यदानवसङ्घांश्च यक्षिण्याश्च धनदप्रिया ।
मातृवत् कुरुते ह्येतां मुद्रेयं सम्प्रपूजिता ॥
अर्थानर्थां तथा नित्यमिष्टानिष्टां फलप्रदाम् ।
महामुद्रेति विख्याता गीयते तृभवालये ॥
एष मुद्रमहामुद्रा बद्धा मूर्धसु पण्डितः ।
अधृष्यः सर्वभूतानां भवते नात्र संशयः ॥
दूराद् दूरं नमस्यन्ति सर्वविघ्नविनायका ।
महाब्रह्मसमं पुण्यं नियतं बोधिमवाप्नुयादिति ॥
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूतात् आर्यमञ्जुश्रियमूलकल्पात्
द्विचत्वारिंशतिमः महामुद्रापटलविसरः परिसमाप्त इति ।
२४१, प्। ४९१)