४३

अथ त्रिचत्वारिंशः पटलविसरः ।

अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं
कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः ! त्वदीये मण्डलविधाने
सर्वकर्मेषु सर्वतन्त्रमन्त्रेषु आह्वानन विसर्जन जप नियम होम साधन
रक्षाविधानादिषु सर्वकर्मेषु महामुद्रम् एक एव महावीरमसङ्ख्येयेषु
सबुद्धकोटिभाषितं चाभ्यनुमोदितं च कतमं च तत् ॥

शृणुस्व मञ्जुरव ! श्रीमां ! गम्भीरार्थसुतत्वधीः ! ।
यं बध्वा जापिनः सर्वे ॥

महामुद्रां महापुण्यां महामङ्गलसम्मतम् ।
महाब्रह्मसमं पुण्यं पवित्रं पापनाशनम् ॥

महाक्षेमङ्गमं श्रेष्ठं निर्वाणपदमच्युतम् ।
शिवं शान्तं तथा ज्येष्ठं शीतीभूतं परायणम् ॥

सर्वमुद्रेश्वरं ख्यातं सर्वमुद्रेषु मूर्धजम् ।
सर्वतन्त्रेश्वरं नातं ख्यातं त्रिभवालये ॥

ऊर्जितं च त्रिधा दिव्यं भौमदिव्या येष्वपि ।
साक्षाद् बुद्धमिव चिह्नं सर्वसत्त्वाश्रयं विभुम् ॥

प्रपुष्टत्रिभवे नित्यं सर्वमुद्रैस्तु मुद्रराट् ।
रक्षार्थं जापिनां नित्यं सर्वकर्मेषु मन्त्रिणाम् ॥

रक्षोघ्नमगदं ख्यातं मङ्गल्यमघनाशनम् ।
उत्कृष्टं सर्वकर्मेषु दुष्टसत्त्वनिवारणम् ॥

दुर्दान्तदमको लोके महामुद्रोऽयं प्रणीयते ।
सर्वमन्त्रेषु युक्तो वै त्रिजन्मगतमन्त्रिणाम् ॥

हन्युर्विघ्नान् स सर्वत्र सर्वकर्मेषु मन्त्रिणाम् ।
त्रिधा योनिगतां मन्त्रामावाहयति तत्क्षणात् ॥

पुनर्नयति तां लोकं पुनर्नाशयते हि ताम् ।
पातयत्येव सर्वत्र कृत्स्नां चैव महीतले ॥

२२६, प्। ४७६)

पुनः कीलयते मुद्रां बन्धनोरुन्धनादिभिः क्रियैः ।
पीडनोत्सादनो मुद्रः शोषणो विध्वंसनस्तथा ॥

पुनर्जीवादनः ख्यातो मन्त्रिणां त्रिभुवनालये ।
शान्तिकेषु च कर्मेषु महामुद्रोऽयं प्रयुज्यते ॥

शोभोऽथ सर्वमन्त्राणां शुद्धो निर्मलपापहा ।
सर्वार्थसाधनो लोके प्रसिद्धः सर्वमग्रतः ॥

लौकिकानां च मन्त्राणामग्र्या लोकोत्तरास्तथा ।
श्रेष्ठाः सर्वकर्मार्थे तथा शान्तिकपौष्टिके ॥

नित्यं क्षेमङ्गमो मुद्रः प्रयुक्तः सर्वमन्त्रिभिः ।
नित्योऽयमपराजितो ह्युक्तः ग्रः सर्वमन्त्रैस्तु योजितः ॥

परम्परास्थो भूतकोटिस्थः धर्मधात्वेश्वरो निजौ ।
अनक्षरोऽभिलाप्यश्च अक्षरो नित्यमक्षरो ॥

धर्मनैरात्मभूतस्थः अभूतो भूतमुद्भवः ।
विरजस्को नेञ्ज्यश्च निष्ठो शून्यः स्वभावतः ॥

अकनिष्टस्तथा ज्येष्ठः शुभो निर्वाणगामिनः ।
पन्थानोऽनुत्तरां बोधो प्रत्येकार्ह सम्भवो ॥

धर्ममेघस्तथा शान्तः निःसृता सैन्यवारिजः ।
तत्त्वार्थपरमार्थज्ञ उभयार्थार्थपूरकः ॥

महामुद्रो महौजस्कः सर्वबुद्धैः समुद्रितो ।
महार्थो महावीर्य एकवीरो महर्द्धिकः ॥

अनेकाकारवरोपेत अनेकाकारसम्भवम् ॥

सर्वज्ञपदविदं ज्ञेयमशेषो शेषनैष्ठिकम् ।
ज्ञानं ज्ञेयं महोच्छेयं विघुष्टं मुनिवराजितम् ॥

सर्वभूतसुराभ्यर्च्य प्रत्येकार्हथ पूजितम् ।
महामुद्रोत्तमं धर्मम् अच्युतं पदमुत्तमम् ॥

आदौ तावच्छुचौ देशे एकवृक्षे महानगे ।
महोदधितटे रम्ये मेध्यस्थण्डिल्यमाश्रिते ॥

२२७, प्। ४७७)

सरित् कूपे पुलिने वा देवमन्दिरशोभने ।
मारारेर्भवने चापि विहारावसथ मन्दिरे ॥

विजने सिक्तसंसृष्टे पुष्पप्रकरभूषिते ।
सुगन्धगन्धोदकासिक्ते सुधूपे धूपधूपिते ॥

प्राङ्मुखः उदङ्मुखो वापि शान्तिकपौष्टिकयोश्चापि ।
दक्षिणे रौद्रकर्मार्थे तं जिनैर्वर्जितं सदा ॥

श्रीसौभाग्यवश्यार्थमाजश्चाहेतुतः सदा ।
पश्चान्मुखं तु बध्नीयान्महामुद्रवरं परम् ॥

उच्चदृष्टि यदा बुद्धे उत्तिष्ठं देहसिद्धये ।
अधः पातालं गच्छेदसुरेश्वरतां व्रती ॥

शुचिदेहसमाचारः शुचिमन्त्रसमन्त्रवित् ।
तदा मुद्रवरं युञ्ज्य स्नातोपस्पृश्यत जप्तधीः ॥

उभौ च हस्तौ प्रक्षाल्यौ मृद्गोमयसुगन्धिनम् ।
शुचितोय सदा शुद्धे कृमिजन्तुविवर्जिते ॥

नवारिस्रुते शुचे शौचे उभे हस्तेऽथ पूजिते ।
सयोज्येथ मुष्टिस्थौ सम्पुटाकारचेष्टितौ ॥

ईषिच्छुषिरौ समन्तात् षडङ्गुलौ उच्छ्रितौ ।
उभयाङ्गुष्ठमध्यस्थौ कन्यष्ठाङ्गुलिनामितौ ॥

कृत्वाथ हृदयोद्देशे शुक्लवस्त्रावगुण्ठिते ।
दर्शयेत् सर्वकर्मेषु साधने * * * * * (?) ॥

सर्वभूते वै क्षिप्रं कृष्टमात्रेण ईप्सितम् ।
एष मञ्जुरवो मुद्रः सर्वकर्मार्थसाधक इति ॥

बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात्
एकचत्वारिंशत्तमः पटलविसरद् द्वितीयः सर्वकर्मोत्तमसाधनोपयिकः
महामुद्रपटलविसरः परिसमाप्त इति ॥

२२८, प्। ४७८)