४२

अथ द्विचत्वारिंशः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामान्त्रये स्म । अस्ति मञ्जुश्रीः !
त्वदीयसर्वसाधनोपयि कमण्डलविधाने सर्वमन्त्रतन्त्रेषु
मुद्रापटलसमयरहस्यम् यैः सर्वसन्त्रासमयं नातिक्रमन्ति
समयसञ्चोदितमनुप्रविष्टा भवन्ति सर्वलौकिकलोकोत्तरमण्डलेषु
सामान्यसाधनोपयिकसर्वमन्त्रतन्त्रेषु सर्वे सुदह्येते परमरहस्यतमा
परमसौभाग्यतमा परमाश्चर्याद्भुततमाः । यैर्विना न शक्यन्ते सर्वमन्त्रा
आराधयितुं साधयितुम् । पूर्वं सर्वतथागतैर्भाषितवन्तः । एतर्हि अहं च
भाषिष्ये सर्वसत्त्वानामर्थाय हिताय सुखाय लोकनुकम्पायै महतो
जनकायस्यार्थाय सर्वमन्त्रजापिनां महामन्त्रको
शनित्यौत्सुक्यधर्मधात्वचिन्त्यमहायाननैरात्म्यधर्ममेघमनुप्रवेशनता-
यैकतमं च तत् भाषिष्येऽहम् ॥

शृणु मञ्जुरव ! सर्वगुह्यमुद्रासमोदिताम् ।
यथा तथा स्वयं वाच्यं पुरा गीतमृषिसत्तमैः ॥

कृत्स्नमुद्रागणं ह्यग्रं गुह्यमन्त्रार्थिनां सदा ।
सर्वकालेषु योज्येदं सर्वकर्मेषु मण्डले ॥

अथ मञ्जुरवः श्रीमां विहसन् पङ्कजेक्षणः ।
निरीक्ष सुगतं श्रेष्ठं सर्वधर्मीश्वरं प्रभुम् ॥

कृताञ्जलिपुटो वीरः जिनपुत्रो महर्द्धिकः ।
उवाच मधुरां वाणीं दिव्यशब्दार्थभूषिताम् ॥

साधु साधु महाप्राज्ञ ! धर्मचक्रानुवर्तकम् ।
धर्मतत्त्वार्थमन्त्रत्वं यस्त्वं भाषयसे विभोः ॥

एवमुक्त्वा तु सुगतं शाक्यसिंहं नरोत्तमम् ।
अथ मञ्जुरवः श्रीमां तूष्णीं तस्थुस्तदन्तरे ॥

इत्याह भगवां बुद्धो धर्मधात्त्वेश्वरस्तदा ।
शृणोथ भूतगणाः ! सर्वे ! देवसङ्घा ! महर्द्धिका ! ॥

२२१, प्। ४७१)

मण्डले भुवि मर्त्यानां दरिद्रा वाथ दुःखिताम् ।
आलिखन्तानां भुवि मुद्राणां सान्निध्यं वो भविष्यथ ॥

ये च वै सर्वबुद्धानां प्रत्येकार्हथखड्गिणाम् ।
श्रावकानां तु ये मुद्राः कथिता मुनिवरैः ॥

सर्वलौकिकमुद्रास्तु जिनाब्जकुलवज्रिण ।
सर्वमुद्रास्तु सर्वत्र सर्वकर्मेषु योजिता ॥

तानहमभिसङ्क्षेपाद् वक्ष्येऽहं सर्वमन्त्रिणाम् ।
यत् पूर्वं कथितं मन्त्रं सर्वं मण्डले च कर्मसु ॥

स्थानं होमो जपः कर्म तं तथैव प्रयोजयेत् ।
मण्डले आदितो लेख्य मुद्रोऽयं बुद्धनिर्मितः ॥

सितं छत्रोऽथ बुद्धानां समन्तज्वालोऽथ भूषणम् ।
पञ्चरङ्गिकचूर्णैस्तु समन्तान्मणिराजितम् ॥

विचित्ररङ्गोज्ज्वलं श्रेष्ठम् इन्द्रायुधसमप्रभम् ।
एष मुद्रो महामुद्रो बुद्धानां मूर्द्धजो वरः ॥

तस्य दक्षिणतः पात्रं समन्ताज्ज्योतिमालिनम् ।
तदनन्तरे खखवरकः दंष्ट्रा जीबरजो पर ॥

श्रीवत्सस्वस्तिकश्चक्रकरकं चापि वर्णितम् ।
पुस्तको ध्वजमित्थाहुः पताकं च तदन्तरे ॥

घण्टा पश्चिमजो मुद्रः कथितं लोकपुङ्गवैः ।
छत्रे वामतः पद्मं मणिमुद्रो तदन्तरे ॥

तदन्तरे वज्रमित्याहुस्त्रिसूच्याकारसम्भवम् ।
उत्पलं तु गतामुद्रः सलिलः सलिलाश्रितः ॥

तोयश्च तदन्त्ये वै तोयधाराभिनिःश्रितः ।
तदन्ते कुण्डलौ ज्ञेयौ भूषालौ शोभनौ तथा ॥

तदन्तेऽथ महाशैलः चतुरत्नोऽथ उज्ज्वलः ।
तदन्ते महोदधिर्लेख्यः विचित्रो रङ्गोज्ज्वलः ॥

२२२, प्। ४७२)

तदन्तेऽथ महावृक्षः सफलो दलभूषितः ।
एष वृक्षो महामुद्रो वामपार्श्व जान्तजाम् ॥

सितातपत्रोऽथ बुद्धानां मुद्रोह्युक्तो वरोग्रजः ।
मन्त्रेऽथ खड्गिनां ज्ञेयः प्रत्येकजिनयो वरः ॥

चीवरं मुद्रवरो ह्युक्तः सर्वश्रावकसम्भवः ।
आर्याणामर्हतां लोके दंष्ट्रा चैव प्रगीयते ॥

तत्फलोदधिगतां लोके श्रीवत्सो मुद्रमिष्यते ।
खखरकश्च महामुद्रः पत्येकजिनजोऽपरः ॥

धर्मचक्रोऽथ मुद्रो वै सर्वदृष्टिविदालकः ।
कथितं धर्ममुद्रं तु कारकाक्षेपजः स्मृतः ॥

प्रज्ञापारमितां लोके जिनधातुर्मुद्रोऽथ पुस्तकः ।
ध्वजपताका महामुद्रौ विघुष्टौ लोकपूजितौ ॥

सर्वाकृष्टौ महावीर्यौ सर्वमुष्णीषसम्भवौ ।
घण्टापश्चिमो मुद्रः प्रत्येकार्हमूर्धजः ॥

बुद्धमुद्रे तु वामे वै पद्मो लोकेशसम्भवः ।
मुनिमुद्रस्तथा ज्ञेयः समन्तज्योतिलाभिने ॥

वज्रं वज्रिणेमुद्रा बोधिसत्त्वस्य धीमतः ।
उत्पलं मञ्जुघोषस्य कुण्डलः क्षितिगर्भिण्ये ॥

महातोयतो मुद्रः कथितो गगनालये ।
महाशैलोऽथ मुद्रेयं सर्वदृष्टिविदालिने ॥

महोदधि तथा मुद्र सुगतात्मज ! सागरे ।
महावृक्षस्तथा मुद्र उद्घुष्टो लोकविश्रुतः ॥

सर्वांश्च जिनपुत्रांस्तु मुद्रोऽयं त्रिभवालये ।
घण्टासमीपजे स्थाने आलिखेज्जिनवर्णितम् ॥

मुद्रं सर्वमुद्राणां चतुरश्राकारसम्भवम् ।
विचित्रं रङ्गजोपेतं चारुवर्णं विराजकम् ॥

२२३, प्। ४७३)

ज्वालामालिनं दीप्तं पञ्चरङ्गोज्ज्वलं शुभम् ॥

पिण्डिकाकारमुद्यन्तम् इन्दुमर्कनिभं शुभम् ।

एष मुद्रो महावीर्यः सर्वमन्त्रालयः शुभः ।
त्रिविधानां तु मन्त्राणां ज्येष्ठमध्यमकन्यसाम् ॥

स्थानोऽयं मुद्रमुख्योक्तः सर्वकर्मार्थसाधकः ।
एतदभ्यन्तरं लेख्यो महामुद्रागर्भमण्डले ॥

यो यस्य मण्डले मन्त्रः संयोक्ता लोकविश्रुते ।
तदेव मध्ये आलेख्यं छत्रस्येव महीतले ॥

तन्मध्ये मण्डले चापि रूपकं मुद्रमेव वा ।
वरदा रूपका लेख्या मञ्जुघोषोदयस्तथा ॥

सर्वे वै मन्त्रनाथास्तु सर्वमन्त्रार्थवा सदा ।
न चेद् भुवि मुद्राणामालिखेद् विधिचेष्टिताम् ॥

तन्न्यस्तौ पूर्णकुम्भस्तु विजयेत्याहुर्मनीषिणः ।
बहिःस्था मण्डले चापि मुद्रामालिखेद् व्रती ॥

यथोक्तैः पूर्वनिर्दिष्टैर्द्वितीये मण्डले जपी ।
स्थानेष्वेव सर्वत्र दिग्विदिशश्चापि सर्वतः ॥

आलिखेत् सर्वदेवानामृषियक्षगरुत्मनाम् ।
मुद्रामालिखेद् धीमां पिशाचोरगराक्षसाम् ॥

परतीर्थ्येमतां सिद्धां किन्नरा कटपूतनाम् ।
क्रव्यादव्यन्तरांश्चैव सकूष्माण्डं दूषको नारकोत्सहाम् ॥

सर्वसत्त्वां भृवांश्चैव रूपारूप्यकामजाम् ।
द्वितीये मण्डले नित्यम् आरूप्यं सुरजोद्भवम् ॥

आलिखेन्मुद्रनित्याग्रं त्रिकोणाकारसम्भवम् ।
पूर्वायां दिशि मासृत्य रेखमाश्लिष्टमुज्ज्वल ॥

२२४, प्। ४७४)

एतत् सुरमुख्यानामारूप्यानां महर्द्धिकाम् ।
मुद्रा समाधिजेत्याहुरादिबुद्धैस्तु वर्णितम् ॥

ततोत्तरे तु तथा रेखे ब्रह्मणः पद्मजोद्भव ।
रूपावचरमित्याहुर्मन्त्रं त्रिभुवनालये ॥

तदेव दक्षिणा रेखा गर्भमण्डलतो बहिः ।
दक्षिणं दिशमाशृत्य मुद्रेः कामजो वरः ॥

निर्दिष्टो मुनिमुख्यैस्तु कामधात्वेश्वरे परे ।
मुद्रोऽयं निर्मितो लोके सर्वदेवसमन्दिरे ॥

रुद्रेन्द्रवसुमुख्यानां विष्णुतीर्थ्यां दिगम्बराम् ।
अर्कवासवमौषध्यां विवश्वयमचिह्निताम् ॥

लोकपालां बहिस्तां तां यथामन्दिरदिक्षु ताम् ।
तथाचालिखेत् सर्वांस्तथा मुद्रांस्तु योजयेत् ॥

यो यस्य वाहनः ख्यातः प्रहरणावेषधारिणम् ।
तं तथैव तथा मुद्रो निर्दिष्टो लोकपूजितैः ॥

एष मुद्रगणो ह्युक्तः सर्वलोकोत्तरः शुभः ।
लौकिकामथ सर्वत्र सर्वकर्मेषु साधकः ॥

निर्दिष्टा मुद्रमुख्याश्च सर्वमुद्रोऽथ मन्त्रिणाम् ।
आलेख्य तु भुवि मर्त्त्यैस्तु जापिभिः सिद्धिकामदैः ॥

बोधितत्त्वलिप्सुरिति ॥

बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् आर्यमञ्जुश्रियमूलकल्पात्
चत्वारिंशतिमः महाकल्पराजविसरात् सर्वकर्मसाधनोपयिकः परिसमाप्त इति ।
२२५, प्। ४७५)