अथ चत्वारिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः शुद्धावासभवनमवलोक्य मञ्जुश्रियं
कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः ! त्वदीये महाकल्पराजे पटलविसरे
ध्यानजेऽनाश्रवे परमशिवशान्तीभूते अत्यन्तभूतकोटिधर्मधातुप्रविष्टे
सर्वतथागतधर्मनेत्रीमनुगते परमनिर्वाणमार्गां सानुप्रविष्टे
आर्यपथक्षेमशान्तीभूते महाधर्मनैरात्म्यशून्यतास्वभावमनुप्रविष्टे
सर्वलौकिकलोकोत्तरतत्त्वावतारध्यानानुगतमनुप्रविष्टे
सर्वमन्त्रचर्यासाधनविधिसमासक्रीडानाटकबालचर्याविस्फूर्यानानुगत-
सन्तोषणसत्त्वचर्यानुगतैः । कतमं च तत् ॥
शृणु त्वं मञ्जुरव ! श्रीमां सर्वसत्त्वानुवर्तनम् ।
ध्यानं सर्वज्ञतो ज्ञेयं सर्वमन्त्रार्थसाधनम् ॥
पूरणं सर्वमन्त्राणां शोधनं पापकर्मिणाम् ।
यं ध्यात्वा च जनाः सर्वे सिद्धिं प्राप्स्यन्त्यनांविलाम् ॥
सर्वाकारवरोपेतां ध्यानसौख्यमचिन्तिताम् ।
बोधित्वं त्रिविधं प्राप्य उत्तमाधममध्यमाः ॥
अतुलां मन्त्रसिद्धिं च अस्तुवन्ति जना भवेत् ।
सर्वार्थसाधनं लोके यशःकीर्त्तिसुखोदयम् ॥
दीर्घायुष्कतां लोकेऽस्मिं देवानां च महद्गतिम् ।
सर्वाशावाप्तितां क्षिप्रं प्राप्नुवन्ति न संशयः ॥
द्विप्रपञ्चानुत्तरां बोधिं लप्स्यते ध्यानचिन्तकाः ।
सर्वसत्त्वाहितह्यग्रं सर्वमन्त्रेषु कीर्त्यते ॥
स्मरणादेव मन्त्रेषु सर्वतन्त्रेषु च पुनः ।
सिद्धयः सिद्धिहेतूनां क्षिप्रमाशानिबन्धनम् ॥
आशास्यं भुवि तां मर्त्या पुनर्गच्छन्ति देवता ।
आजहार पुरं दिव्यं देवतामन्दिरेष्विह ॥
तिष्ठन्ते मन्त्रराट् सर्वे तन्मुखापिध्यायिने ।
आगत्य च पुनः सर्वं देवतामन्त्ररूपिणाम् ॥
१९२, प्। ४४२)
कथयन्ति यथातथ्यं शुभाशुभफलोद्भवम् ।
वाचां प्रबुद्धः स्वप्ने प्रत्यक्षं वाथ जापिने ॥
शुभोदयं फलं कर्म प्रत्यक्षं वापि देवताम् ।
पश्यन्ते स्वप्नगताः सर्वे मन्त्रिणा वापि तदन्तरे ॥
इतरां चापि न पश्यन्ते जापिनो मन्त्रलौकिका ।
ध्यानेन पापं क्षीयेत जपे चापि सुपुष्कले ॥
सिध्यन्ते मन्त्रराट् सर्वे अचिरात् तस्य मन्त्रिणः ।
प्रभावा ध्यानयोगस्य अचिन्त्याद्भुतचेष्टिता ॥
एवमुक्तस्तु धीरेण शाक्यसिंहेन तापिना ।
भून्मञ्जुरवस्तूष्णीं शुद्धावासपुरे तदा ॥
सर्वे देवगणा मुख्या त्रिधा धातुसमाश्रिता ।
अमुचद् वाक्यवरं शुद्धं सर्वमन्त्रेश्वरं गुरुम् ॥
साधु साधु महावीर ! साधु धर्मेश्वरो विभोः ।
यस्त्वं हि सर्वसत्त्वानां हितार्थं मन्त्रजापिनाम् ॥
ध्यानां च तत्त्वनिर्दिष्टं पूर्वनिर्दिष्टतामिति ।
इदानीं तु महावीर * * * * * * * * (?) ॥
एवमुक्ताः सुराः स * (?) अग्रा ह्यग्रतमे हिताः ।
तूष्णीम्भूतास्ततस्तस्मिन् शुद्धावासपुरे पुरे ॥
इत्युवाच महाधीरो मुनिस्तेजो * * * * (?) ।
शुभया वाचाया दिव्यां लोकतत्त्वार्थदर्शनम् ॥
कथयामास सम्बुद्धः मधुराक्षरघोषजम् ।
शृणोथ भूतगणाः सर्वे स्थिता त्रिविधालया ॥
ध्यानं च भवनिर्देशं कथयन्तः समाहिताः ।
अनेकार्थमनानात्वं नैरात्म्यं तत्त्वदर्शनम् ॥
सर्वमन्त्रार्थरिधिंसार्थं विविधार्थं तु लौकिके ।
सर्वधर्मेश्वरा लोके येनायान्ति सुचिन्तिता ॥
१९३, प्। ४४३)
क्षिप्रं च जापिनां सर्वे आशु मन्त्रार्थसिद्धये ।
आदौ ध्यायीत महावीरं रत्नकेतुं तथागतम् ॥
रत्नशैलनिषण्णं तु गुहायां रत्नजोद्यते ।
पद्मरागमयं दिव्यं महापद्मं महोन्नतम् ॥
भगवां तत्र निषण्णस्थं पर्यङ्के धर्मदेशितम् ।
ध्यायन्तं महावीरं पद्मसम्भवमेव तु ॥
पद्मोत्तरं च सम्बुद्धं पद्माभं चैव बुद्धिमाम् ।
ध्यायीत मुनिवरां पञ्च रत्नाभं च तथागतम् ॥
समतः सुप्रतिष्ठिता ज्ञेया गुहेष्वेव पञ्चसु ।
सर्वां शैलमयां साद्रि पद्मरागमयं क्वचित् ॥
भिन्नेन्द्रनीलमाभासं क्वचित् स्फटिकसन्निभम् ।
उच्छ्रयं मरकताभासं प्रमाणं चापि शताष्टकम् ॥
योजनानां सहस्रं तु लक्षषोडशविस्तरम् ।
उपरिष्टात्तु सम्बुद्धा अपर्यन्ता नरोत्तमा ॥
इत्यूर्ध्वमधः सर्वदिग्विदिशश्चापि सर्वतो ।
प्राप्तं मुनिवरैः सर्वं सम्बुद्धैर्द्विपदोत्तमैः ॥
चन्द्राभासं च निर्भासैः श्वेतपुण्डरिकासनैः ।
हंसगोक्षीरनिर्भासैः शङ्खकुन्देन्दुहिमप्रभैः ॥
सम्बुद्धैः सर्वमिदं व्याप्तम् इत्यूर्ध्वमधस्सप्ततिर्यकम् ।
सद्व्योम्नि पुष्पवर्षाद्यैः सुरमुख्यैः समन्ततः ॥
अदृश्यकायसारूप्यैः उपरिष्टात् खसमागतैः ।
अधश्चात्मानं सदा चिन्तेत् पर्यङ्केनोपविष्टकम् ॥
पद्मपत्रे स्थितं मुख्यं शरीरं चापि निर्मलम् ।
अभिषिञ्चन्तं सदापश्यन्तं तोयधाराभि सर्वतः ॥
असङ्ख्येयैर्मुनिमुनिमुख्यैः सम्बुद्धैः द्विपदोत्तमैः ।
प्रसृतैर्दक्षिणाग्रकरैः समन्तादङ्गुलिभिः सदा ॥
१९४, प्। ४४४)
शुक्लतोया बहुभिः बहुधाराभिरूर्ध्वतः ।
समन्तात् सर्वतश्चैव मूर्त्ति चात्मान एव तु ॥
अष्टाङ्गसलिलधाराभिः सुगन्धैर्लयशीतलैः ।
अच्छैरनाविलैश्चैव सर्वव्याधिहरैस्तथा ॥
जरामृत्युविनाशिन्यैः भिन्नस्फटिकसन्निभैः ।
तादृशैस्तोयधाराभिः आत्मानं चापि चिन्तयेत् ॥
अभिषिञ्च्यात्मतो चिन्त्या तैश्चाप्यायितमानसः ।
समन्ताद् वारिधाराभिस्ततो ध्यायी सुखी भवेत् ॥
सन्तुष्टमानसो धीमां पश्येद् ज्ञानं तदासनम् ।
चित्ते समाधितां लिप्स्ये पञ्चाभिज्ञासु चिन्त्यधीः ॥
एवं युक्तः सदा योगी पश्येद् धर्मां तदा स्वयम् ।
दिव्यं श्रोत्रं तथा ज्ञानं पूर्वजातिमनुस्मरम् ॥
ऋद्धिविक्रीडितं ज्योतिर्दिव्यं चक्षुरनावृतम् ।
परचित्तगतिं चिन्तां सर्वसत्त्वाश्रयम् तम् ॥
सर्वं ज्ञास्यति योगीशो तदा युक्तेः समाहितः ।
अनिवर्त्त्यः सदा बोधो अनुत्तरायां न संशयः ॥
बुद्धभूमिगतां धर्मां प्रथमायामविकल्पतः ।
प्राप्स्यतेऽसौ सदा जापी अनिवर्त्योऽमृते पदे ॥
अनाभोगेनैव सम्यङ्मन्त्राः सिध्यन्ति सर्वतः ।
ये च लोकोत्तराः सर्वे अभिमुख्यैः प्रभाषिताः ॥
बोधिसत्त्वैस्तु सर्वत्र अब्जा वज्रोद्भवाश्च ये ।
लौकिका ये च मन्त्रा वै ब्रह्मरुद्रेन्द्रभाषिता ॥
यक्षमुख्यगणैः सर्वैः * * * * * * * * (?) ।
मातृभूतग्रहगणैः यक्षराक्षसकिन्नरैः ॥
देवैर्नागगरुडैश्च सिद्धविद्याधरैस्तदा ।
कूश्माण्डैर्व्यन्तरैश्चापि कश्मलैः पिशिताशनैः ॥
१९५, प्। ४४५)
परप्राणहरैश्चापि राक्षसैः प्रेतदुःस्वपैः ।
पिशाचैः भूतयक्षैश्च अनेकाकारजातितैः ॥
ये मन्त्रा भाषिता लोके * * * * * * * * (?) ।
ते तस्य योगिनो यान्ति ईषद् बोधाय बोधिता ॥
क्षिप्रं सिद्धितां यान्ति मन्त्रा सर्वार्थसाधकाः ।
वचनं तस्य वै मन्त्रः क्षिप्रं तत्त्वार्थदर्शिने ॥
ऋषयो ये च वै देवाः मानुषोद्भवाः ।
प्रसह्य वृत्ता मुख्याश्च स्त्रीपुंसाश्चापुंसकाः ॥
सर्वे महर्द्धिकाश्चापि उत्तमाधममध्यमाः ।
सर्वे लौकिका चापि ये मन्त्रा लोकपूजिता ॥
तैश्चाप्यथ मनैश्च मन्त्रैश्चापि मन्त्रजाः ।
भाषिता मुनिमुख्यैश्च सर्वे सिद्ध्यन्ति योगिने ॥
तन्त्रमन्त्रगताश्चापि ओषध्यो मणिभूषणाः ।
सर्वे मन्त्रवरा तस्य उत्तमाधममध्यमाः ॥
सर्वाशावाप्तये वाप् अक्षरे क्षरते यदा ।
सिद्ध्यते तस्य वै युक्तस्य मन्त्रिणे एवं युक्तस्य मन्त्रिणे ॥
एवमुक्तस्य मन्त्रस्य धीमन्तस्य विशेषतः ।
प्रथमं चिह्नलिङ्गस्तु मन्त्राणां सिद्धिहेतवः ॥
शरीरं जायते श्रेष्ठं पद्माभासं सुखोदयम् ।
गात्रस्य शैत्यता चापि चन्दनेन्दीवरगन्धिता ॥
कर्पूरागरुसौगन्ध्यं पद्मकिञ्जल्कवर्णतः ।
वक्त्राद् रोमकूपेभ्यः गन्धो वान्ति सचाम्पकम् ॥
जातीयूथिकपुन्नागं नागकेसरवकुलम् ।
धानुष्कारी ससौगन्धी जातिमल्लिककोलजम् ॥
विविधां धूपमुख्या वा विविधा पुष्पजातयः ।
विविधा गन्धमुख्याश्च विविधा द्रव्यजातयः ॥
१९६, प्। ४४६)
विविधां सर्वगता गन्धाः शुभकर्मसमोचिताः ।
तेषां गन्धवरं हृद्यम् अभिभूयोभिप्रवर्तते ॥
दिव्यं मान्दारवं गन्धं सकिञ्जल्कं सकोकणम् ।
सकस्तूर्यकं लोके अभिभूय तां प्रवायते ॥
ततश्चिह्नमिमां ज्ञात्वा गात्रे वै चापि शैत्यताम् ।
चित्तैकाग्रतां चैव मुखं चैव विवेकजम् ॥
प्रथमं ध्यानजं चैव चित्तं ज्ञात्वा तु तीरितम् ।
सुखदुःखमुपेक्षाय निर्वृते चापि विरागताम् ॥
उपेक्षं स्मृतिपरिशुद्धिं द्वितीये प्रेरयते जापी ।
तृतीयं चित्ततो ध्यानं चतुर्थम् अश्रयतो व्रती ॥
यथा मुनिवरोद्दिष्टं ध्यानं सर्वतो शुभम् ।
तथा मन्त्रगतो जापी ध्यायेदेकाग्रमनोमयम् ॥
ये निर्दिष्टाद्याबुद्धैस्तु वर्तमानमनार्गतैः ।
सम्बुद्धैः श्रावकैश्चापि सूत्रान्ताश्चापि कीर्तिताः ॥
तेषु योगेषु मन्त्रज्ञाः अनुपूर्व्या ध्यानमाचरेत् ।
निवर्त्त्यं श्रावकी बोधि प्रत्येकजिनमुद्भवाम् ॥
महाकरुणानुभावीत महामैत्रीं चापि यत्नतः ।
यद् यद् गोत्रागतं चित्तं तथा चित्तं तु भावयेत् ॥
परहितचित्तान्मैत्री परदुःखकृपालुता करुणा ।
परतुष्टिमुदिता परदोषमुपेक्षणमुपेक्षा ॥
इत्युवाच महाभागा सम्बुद्धा द्विपदोत्तमा ।
अनित्यदुःखमनात्माशून्य तत्त्वं शिवं पदम् ॥
क्षेमं शिवं परं स्थानं निर्दिष्टं लोकनायकैः ।
क्षणिकः सर्वसंस्काराः त्रिविधास्तत्त्वेष्वचेष्टिता ॥
त एवासंस्कृता धर्मास्त्रिविधा बोधिसंस्थिता ।
त एव शिवतमा लोके कथिता बोधिपरायणैः ॥
१९७, प्। ४४७)
पुङ्गलाभावनैरात्म्यं तीक्ष्णपतनवर्णितम् ।
तं नास्ति शिवे मार्गे क्षेमे बुद्धोपदेशिते ॥
अत्यन्तनिष्ठे धर्मेऽस्मिं भूतकोटिसमाश्रिते ।
धर्मधातुसमानं ते अस्तिनास्तिविवर्जिते ॥
शुभे धर्मोदये बोधो त्रिप्रकारसमोदिते ।
अत्यन्तनिष्ठे मोक्षे च बहुधा भेदमाश्रिते ॥
सुप्रयुक्ते सुनिर्दिष्टे सर्वबुद्धैः सुदेशिते ।
मार्गे स्थितेऽथ मन्त्रज्ञः सर्वपापहरे शिवे ॥
ये धर्मा मुनिवरैः सर्वैः प्रतीत्योत्पन्ना शुभाशुभाः ।
सर्वे ते जातिभिर्योगे ध्यातव्या मुनिहेतुभिः ॥
श्रावकानां तु शिक्षा अधिशीलानुप्रवर्त्तते ।
अधिचित्तं च यद् ज्ञानं श्रावण्यफलहेतुकम् ॥
अनास्वरं सस्वरं ज्ञेयं जापिभिः सर्वदा स्वयम् ।
ज्ञातव्यं खड्गिणा शिक्षा प्रत्येकार्हसम्भवाम् ॥
सर्वसत्त्वाख्यसत्त्वैवं सुस्वरं त्रिदिवोदितम् ।
यथाजिनैश्च निर्दिष्टं मार्गतत्त्वानुगामिनम् ॥
साश्रवानाश्रवं ध्यानं संवरं च शोभोदयम् ।
यथावृत्ति यथालिङ्गं तथा शिक्षासु व्यवस्थितम् ॥
तद्धर्मासेवतो जापी मन्त्रसिद्दि समश्नुते ।
ध्येयं च ध्यानजं पुण्यं पुण्यं ब्रह्मशुभोदयम् ॥
तस्य सिद्धि सदा ज्ञेया ध्यानैः पुण्यैश्च बृंहितैः ।
उपोह्य सर्वतो मन्त्री जपहोमरतो व्रती ॥
ध्यातव्यः सर्वतो मुख्यः जिनपुत्रो महर्द्धिकः ।
मञ्जुघोषो महावीरः कुङ्कुमाकारसमत्त्विषः ॥
ईषिस्मितमुखो देवो सव्यामाभोगमण्डलः ।
प्रसन्नमूर्त्तिः पद्मस्थः समन्तरश्म्यावभासितः ॥
१९८, प्। ४४८)
पूर्वनिर्दिष्टजे स्थाने स्वमूर्त्त्याभिषेकसेविते ।
उपरिष्टात् तोयताराणां मध्ये जिनवरालये ॥
तत्रस्थं तु सुखासीनं ध्यायीत मञ्जुरवं शुभम् ।
सर्वबुद्धोर्ध्वकं दृष्टिं सनमस्कारं शुभं प्रभुम् ॥
वामे करविन्यस्तं नीलोत्पलं शुभम् ।
दक्षिणेन करे ह्युक्त शुचिस्थाने सदाशुभे ॥
सनमस्कारं सदा बुद्धम् ईषच्छीलासबालिशम् ।
तं ध्यात्वा मुनिपुत्रे वै सदा मन्त्री पुनः पुनः ॥
तत्रस्थो ध्यानजो धीमाम् आतुरायां तु पश्यति ।
सर्वे ते व्याधिनिर्मुक्ता दृष्टमात्रेण मन्त्रिणा ॥
अधश्च पश्यत्पातालं सर्वे भूमिगता धना ।
वशिता सर्वमन्त्रज्ञः नित्योच्चाटनमन्त्रिणाम् ॥
यदूर्ध्वं समपश्येत् सिद्धां व्योम्नानुगामिनाम् ।
सर्वं वशयिता लोके सिद्धद्रव्याणि सर्वतः ॥
अथोत्तरां दिशां पश्येद् यक्षाध्यक्षांश्च सर्वदा ।
कूष्माण्डा वित्तदाश्चैव वित्तेशश्च महर्द्धिका ॥
ईशानो भूतपतिश्चैव * * * * * * * (?) ।
औषध्यो हेमजाः सर्वे रुद्रश्चैव सहोमया ॥
किन्नरा मरुगन्धर्वा ऋषयो गरुडस्तथा ।
सर्वसत्त्वाश्रया ये च तथोत्तरा विदिशे ॥
विदिक्षु चैव सर्वत्र तथा स्थावरजङ्गमाः ।
सर्वे स्युर्वशमायान्ति दृष्टमात्रेण जापिने ॥
एवं पश्चिमतो ज्ञेयं वरुण महर्द्धिकः ।
महानागैः सदा सर्वं दृष्ट्वा यान्ति सम्मूर्च्छिता ॥
एवं वैवस्वतां लोकां यमश्चैव महर्द्धिकः ।
सर्वे ये राक्षसा दुष्टा घोररूपा महर्द्धिका ॥
१९९, प्। ४४९)
ससुता भृत्यवर्गैश्च परप्राणहराः खगाः ।
पिशिताश्चनरूपाश्च भीमरूपानुगाः सदा ॥
व्यन्तरा कश्मलाश्चैव प्रेताप्रेतमहर्द्धिका ।
पिशाचा भूतक्रव्यादा व्यालश्चैव महर्द्धिकाः ॥
अनेकाकाररूपास्तु अनेकाकारयोनिजाः ।
रूपा मनोजवाश्चैव सत्त्वा हिण्डन्ति मेदिनीम् ॥
दारुणा रुधिरगन्धेन समन्ताद् योजनं शतम् ।
सहस्रं पुनरायान्ति सप्तसप्तेऽनुगे सदा ॥
मानुषाणां विहेठन्तां पर्यटन्ति महीतले ।
आहारार्त्थिनः केचित् केचित् क्रीडानुगामिनः ॥
सर्वे स्युर्वशमायान्ति दृष्टमात्रेण जापिने ।
एवं पूर्वयां तथा दिक्षु पूर्वाध्यक्षादिशानुगः ॥
सवितुः सर्वनक्षत्रा सज्योतिग्रहचन्द्रमा ।
महोत्पादोपग्रहां सत्त्वे विराजाश्चैव दिशां पतिः ॥
ससुतो सपरिवारो वै शस्त्री वा चापि सर्वतः ।
सर्वे ते वशमायान्ति ध्यानेनावर्जिते जिता ॥
विदिक्षुश्चैव सर्वत्र सर्वं सर्वासु दिक्षुषु ।
सुरश्रेष्ठा सुरश्चैव स्त्रीपुंसादये भुवि ॥
सर्वसत्त्वा तथा लोके मानुषा अमानुषोद्भवा ।
सर्वे ते वशमायान्ति ये सत्त्वा त्रिषु स्थावरा ॥
ये तु धातुजा मुख्या तथा मध्यमकन्यसाः ।
सर्वे ते वशमायान्ति अदृश्यो दृश्याश्च ध्यायिने ॥
त्रिविधं ध्यानजं कर्म ज्येष्ठमध्यमकन्यसम् ।
ज्येष्ठे उत्तमां बोधिं प्राप्य ध्यायी निवर्त्तते ॥
अनुत्तरं च पदं शान्तं प्रत्येकं मार्गखड्गिणाम् ।
कन्यसा श्रावकी बोधिः प्राप्यते परनिश्रिता ॥
२००, प्। ४५०)
प्रतीत्योत्पत्तिकधर्माणां हेतुसम्भूतलक्षणम् ।
तेषां निरोधधर्माणाम् एवं वादी नरोत्तमः ॥
साक्षात्क्रियेन मर्हत्त्वं चतुरो पटलसम्भवाम् ।
हेत्वाभासविदं ज्ञानं शून्यता दुःखसम्भवम् ॥
नैरात्म्यधर्मतो निष्ठम् अत्यन्तं भूतकोटिजम् ।
निरोधमार्गवद् ज्ञेयनर्हत्वं चापि कन्यसम् ॥
आलयोद्घातनो वत्त्मापर्छेदो वदनात्मताम् ।
पिपासा प्रतिपच्छोषावर्त्मोपछेदोऽथ देहिनाम् ॥
कामनद्यां सहतृष्णां शोकशल्योऽथ देहिनाम् ।
रुध्यन्ते सर्वतो ध्याने मार्गेऽस्मिं ध्यानजे हिते ॥
त्रिप्रकारं तथा कर्म अनेकाकारचिह्नितम् ।
त्रिधा चैव समुख्याणाम् त्रिविधा बोधिकीर्तिता ॥
कन्यसं श्रावके बोधिः प्रत्येकार्हखड्गिणाम् ।
मध्यमे च सदा लोके निर्दिष्टा जिनवरैः पुरा ॥
उत्तमं तु सदा बोधिं सम्यक् सम्बुद्धतां गतिम् ।
एवमाद्या प्रयोगेन त्रिधा कर्मक्रियाक्रमम् ॥
शतधा भिद्यते तत्र सहस्रोऽथ मसङ्ख्यकम् ।
व्रीह्यङ्कुरवद् ज्ञेयं पुनः क्षेत्राङ्कुरवत् सदा ॥
ततोऽङ्कुराङ्कुरवन्नित्यं सन्तत्या सम्प्रकीर्तिताम् ।
बीजोषधवत् कर्म शुक्लधर्मसमन्वितः ॥
सत्त्वविज्ञानसन्तत्या पुनस्तोयतरद् भवत् ।
प्रवर्तते ध्यानजा धर्मा पुनध्यीयीत बुद्धिमाम् ॥
यथा ध्यानगता योगी शुद्धिं पश्येत सर्वतः ।
त्रिविधं त्रिप्रकारं तु अनेकाकारसम्भवाम् ॥
सिद्धिं मन्त्रयुक्तिं च समाधिं चैव कीर्तितम् ।
धारण्या बोधिसत्त्वानां त्रिविधैव समोदिता ॥
२०१, प्। ४५१)
अनेकाकारवरोपेता मन्त्राश्चैव सुपूजिता ।
लौकिका लोकमुख्याश्च तथा लोकोत्तरा सदा ॥
सौगतीवर्त्ममास्थाय ध्यानं ध्यानपरम्परा ।
सिध्यन्ते सर्वमन्त्रा वै सर्वसत्त्वार्त्थदर्शनाम् ॥
प्राप्नुवस्तं जनाः सर्वे ध्यायतां सर्वतो हिताम् ।
यशः कीर्तियथायुष्यं सर्वव्याधिप्रणाशनम् ॥
मार्गतत्त्वार्थदं ज्ञानं जीवितं चापि सुपुष्कलम् ।
प्राप्नुवध्वं नराः श्रेष्ठाः नित्यं ध्याने समाहिताः ॥
एष योगः समासेन निर्दिष्टो मुनिवरैः पुरा ।
अधुना च मयोक्तेदं विधियोगं समाहितम् ॥
मयाप्यनुत्तरां बोधिं सम्प्राप्ते मेऽमृते पदम् ।
एभिरेव समायोगैः मन्त्रैश्चापि सुपूजिताः ॥
ध्यानकर्मगतैः दिव्यैः शुभैश्चापि समाधिभिः ।
प्राप्यमनुत्तरं ज्ञानं बुद्धत्वं भगवानाह ॥
अपरं तु प्रवक्ष्यामि तन्मे निगदतः शृणु ।
क्रीडार्थं सर्वमन्त्राणां क्रीडाशतकर्मजम् ॥
ध्यानजेनैव प्रयोगेण शृणु मञ्जुरवो जनाः ।
सदा हिताहितं ज्ञेयं मन्त्रिणां च विकुर्वणम् ॥
ध्यानजेनैव योगेन कुर्याद् वालिशबुद्धिनाम् ।
आदौ तावत् सदा ध्यायेन्महानागोच्छ्रयं जले ॥
महोदधिः समन्ताद् वै शैलराजविभूषितम् ।
रत्नशृङ्गं महोच्चं वै चतुरन्तमयं शुभम् ॥
तत्रासीनं महात्मानं बुद्धं त्रैलोक्यविश्रुतम् ।
सुनेत्रं धर्मभूयिष्ठम् अमिताभं च जिनोत्तमम् ॥
जिनपुत्रं सदा श्वेतं लोकेशं च यशस्विनम् ।
पद्मकेतुं महासत्त्वं महाकरुणजोद्भवम् ॥
२०२, प्। ४५२)
सुनेत्रे मुनिवरे स्थाने कुमारं बालरूपिणम् ।
सदा मञ्जुरवं विन्द्याद् विचित्रो भूतिलक्षणम् ॥
इन्दीवरकरं वामे दक्षिणे सुगतानभम् ।
जले योऽत्र महानागो अनन्तो नाम नामतः ॥
सर्वश्वेतस्तथा नित्यं सप्तशीर्षजैः स्फटैः ।
तं ध्यात्वा चिन्तयेज्जापी विचित्रालङ्कारभूषितम् ॥
सुगतात् सम्प्रतीच्छन्तं तन्मुखं चापि चिन्तयेत् ।
एवं नन्दोपनन्दौ च नागराजौ महर्द्धिकौ ॥
तत्प्रमाणोच्छ्रितौ वृद्ध्या द्विगुणं चापि सर्वतः ।
अनन्तकर्कोटकस्तुल्यैः पद्मश्चापि महर्द्धिकः ॥
कुलिकः शङ्खपालश्च कपिलश्चापि वर्णतः ।
महापद्मोऽथ नागेन्द्रः पद्माभश्च लते सदा ॥
वासुकिस्तक्षकश्चैव ईषित्किञ्जल्कवर्णतः ।
पद्माभौ सर्वतो ज्ञेयौ विचित्राकारभूषणौ ॥
शङ्खश्चैव महानागो शुक्लाभो वर्णतः शुभौ ।
शङ्खपालो मणिर्नागः श्वेताभो ईषि वर्णतः ।
सागरश्च महानागः मुचिलिन्दश्चैव विश्रुतः ॥
कृष्णनागोऽथ सर्वत्र कृष्णवर्णाः प्रकीर्तिताः ।
सर्वे तुल्यप्रमाणास्तु नन्दोपनन्दोऽथ सुर्च्छ्रितौ ॥
एलपत्रोऽथ नागेन्द्रो भोगवां लोकविश्रुतः ।
सागरो ह्युरगाध्यक्षः अचिन्त्याद्भुतचेष्टितः ॥
करोति विविधां कर्मां शुक्लांश्चैव निबोधताम् ।
मृतकं विषसुप्तां वा सागरे नैव कारयेत् ॥
वस्त्रेनावृत कृत्वा वै ध्यानयोगेन धीमता ।
आकृत्य सागरे स्थाने शीघ्रमुत्तिष्ठते मृतः ॥
विषसुप्तस्य सदा *(?)गो पादेनाक्रम्य चालयेत् ।
२०३, प्। ४५३)
तं न्यसेत् सागरे स्थाने निर्विषो भवति तत्क्षणात् ।
एवं ज्वरपिशाचांश्च क्रव्यादां व्यन्तरां शुभाम् ॥
रक्षसां प्रेतकूष्माण्डां पिशाचोरगमातराम् ।
ग्रहश्चैव सदा लोके परप्राणहरां नराम् ॥
मानुषिं तनुमाश्रित्य तिष्ठन्ते भुवि मानुषाम् ॥
गृह्णन्ते बालिनां सत्त्वां तेषां ध्यानेनानेन चिन्तयेत् ।
सागरस्य तु नागेन्द्रा चिन्त्यादग्रतोत्थितम् ॥
ध्यायीत मातरं सत्त्वं क्षिप्रं मुञ्चति वालिसम् ।
एवं दष्टमदष्टानां कीटलूतोत्थितां नृणाम् ॥
दद्रुकिटिमकुष्ठानां पामाकण्डूविचर्चिकाम् ।
अन्यां चोत्थितां चैव नित्यं भगन्दररोहिताम् ॥
प्लीहमेदोदरां चैव तथा पद्मं सुपद्मकम् ।
यक्षाणां सपद्मकं चैव तथा पद्मोत्तरं कृशम् ॥
ज्वररोगगतां सर्वां वाध्यन्तां नृजबालिसाम् ।
सर्वां सागरे स्थाने सन्यसेत् पन्नगोत्तमे ॥
विविधायासदुःखानां सर्वव्याधिगदर्त्तिनाम् ।
सन्यसेत् सागरे स्थाने ध्यानचिन्त्याहितेन वै ॥
क्षिप्रं मोचयते नागः सुगताज्ञां प्रतीच्छकः ।
एवञ्चमुरगैः सर्वैः सर्वकर्मकरैः शिवैः ॥
उरगाध्यक्षैस्तदा सर्वं व्याप्तमम्भोदतिर्यगम् ।
समन्तात् सर्वतो श्रेष्ठा उरगाध्यक्षा महर्द्धिकाः ॥
समयज्ञा मञ्जुघोषस्य आज्ञे दीक्षणतत्पराः ।
दैवयक्षाश्रिता नित्यं मानुषाणां शुभोदयाः ॥
व्यतिमिश्रैस्तु कर्मज्ञैर्व्यतिमिश्रफलोदया ।
काले वर्षधरा नित्यं धार्मिकां वृत्तिमाश्रिताम् ॥
२०४, प्। ४५४)
समन्तात् तोयधाराभिः * * * * * * * * (?) ।
सस्यौषध्ये तथा व्रीह्यां निष्पन्ने फलति हैतुकम् ॥
मेघरूपेण माश्लिष्टा पर्यटन्ति महीतले ।
महर्द्धिका महेशाख्या कल्पस्था महोदया ॥
तेषां भोगवती नाम पुरी अम्भोदमाश्रिता ।
यदा धर्मपरा मर्त्त्या जम्बूद्वीपेषु सर्वतः ॥
ततो तिष्ठन्ते महानागाः परिवाराश्च तेषु वै ।
तदा देवासुरे युद्धे अनुभूय जयैषिणः ॥
जम्बूवृक्षगता तस्थुः जम्बूद्वीपं च मध्यतः ।
पुनः पुनर्नरां भेजे सर्वत्राप्रतिगोचराः ॥
सर्वशुक्लगतां कर्मां तेषु नागेषु योजयेत् ।
कुर्वन्ति समये भ्रष्टा ये नागा जलमाश्रिता ॥
कीटवोपद्रुतां सर्वां विषां स्थावरजङ्गमाम् ।
मुमुचुः सर्वतो नागा आसुरो पक्षमाश्रिताः ॥
प्रमाथी झलुझलुश्चैव कपर्दी चापि महोदधिः ।
भीमो भीषणश्चैव दुर्मुखो बहुमुखस्तथा ॥
एते चान्ये महानागा अतिदर्पाभिमानिनः ।
कृष्णकर्मे स्थिता नित्यं व्यतिमिश्रेण वा परे ॥
मेह्शाख्या भीमरूपाश्च विषोग्रथिजनाजने ।
अधर्मिष्ठा यदा मर्त्त्या जम्बूद्वीपनिवासिनः ॥
तदा महाभयं कुर्युर्विषमूर्च्छातिदारुणम् ।
छर्दिर्भ्रमिश्च जायेत महामार्योपद्रवां वहूम् ॥
दुष्टशरीसृपां लोके विसृजन्त्यहितोदया ।
एवं ते च महानागा बहुप्रकारोपद्रवाशुभा ॥
अनावृष्टि अनावृष्टिं विसृजन्त्यहिते रता ।
तेषां च दर्पनाशाय इदं ध्यानं समारभेत् ॥
मञ्जुघोषं महाधीरं बोधिसत्त्वं महर्द्धिकम् ।
२०५, प्। ४५५)
वामोत्पलकरं सव्यं दक्षिणेन वरप्रदम् ।
भिन्नगोरोचनाभासं हेमकुङ्कुमविद्विषम् ॥
गरुडं पक्षिराजानम् आरूढं सुगतात्मजम् ।
ध्यायीत मस्तके तेषां दंष्ट्रिणां सर्वविषोत्कटाम् ॥
ततस्ते भिन्नहृदयाः त्रस्तोद्विग्नमानसाः ।
पुनर्निवर्त्त्य गच्छन्ते प्रविशन्ते च रुपालयम् ॥
उत्पातां बहुविधां दृष्ट्वा अशुभांश्चैव सशब्दकाम् ।
एवं ध्यायीत मन्त्रज्ञ मञ्जुघोषं समाहितः ॥
बहुप्रकारा मन्त्रज्ञ नागदंष्ट्रां प्रकल्पयेत् ।
अनेकाकाररूपास्तु अण्डजांश्च प्रदंशिनाम् ॥
वक्ष्ये सम्यग्बुद्ध्या शास्त्रदृष्टेन कर्मणा ।
तद्गोत्रजश्च उरगा वै दशन्ते भुवि मानुषाम् ॥
तेषां विधिदृष्टेन शास्त्रेणैव गरुत्मना ।
कुर्यात् सर्वाणि कर्माणि पक्षिराजेन देहिनाम् ॥
कृष्णशुक्लादयो नागा ये नागा भुवि मण्डले ।
विचरन्ति महीं कृत्स्नां सूर्यरूपेण देहिनाम् ॥
साध्यासाध्ये ततो ज्ञात्वा विषं च चतुरो हिताम् ।
पित्तश्लेष्मगतं चैव वायुव्यतिविमिश्रिताम् ॥
श्लेष्मणा वारुणेत्याहुः शुक्लवर्णोऽथ मण्डलः ।
पित्तमज्ञेयजं नाम तृकोणाकारसम्भवाम् ॥
अग्निवर्णं सदा रक्तमीषद् बाहुभपिङ्गलम् ।
कुलस्थमिव बन्धान्तं चतुरश्रं व्यतिमिश्रितम् ॥
माहेन्द्रमिति तं ज्ञेयं कृष्णवर्णं महोन्नतम् ।
श्लेष्माणां च गजेत्याहुः पित्तजं द्वेषसम्भवम् ॥
मोहं वायुजं ज्ञेयं व्यतिमिश्रं कृष्णवर्णितम् ।
तदेव सात्त्विकं विन्द्याच्छेलष्मणं शुक्लवर्णितम् ॥
२०६, प्। ४५६)
राजतं पैत्तिकं ज्ञेयं पीतरक्तावभासितम् ।
तामसं वातिकं ज्ञेयं व्यतिमिश्रहितोत्वताम् ॥
व्यन्तरेष्वपि सर्वेषु कीटविस्फोटकादिषु ।
सरीसृपेषु च सर्वत्र व्यतिमिश्रं लिङमीक्षयेत् ॥
कृष्णाभं तत्रमुद्यन्तं मञ्जुघोषं सुचिन्तयेत् ।
गरुत्मस्थं सुखासीनं बालरूपं सुखोदयम् ॥
चिन्तयेद् व्यन्तरैर्दुष्टं मानुषेषादसन्धिषु ।
ततोऽर्द्धं चिन्तयेद् दिव्यं कुमारं बालरूपिणम् ॥
विश्वरूपं महात्मानं गरुत्मत्तोपरिस्थितम् ।
तदासीनं महाभागं शरत्काण्डाकारविद्विषम् ॥
ऊसभ्यां चिन्तयेद् धीमान् नाभिस्यादध्योमगम् ।
पीताभं चिन्तयेद् ध्यायी उरःस्थाने सुसुप्तिगम् ॥
मञ्जुघोसं महावीर्यं पक्षिराजाग्रवाहनम् ।
शिरःस्थाने तथाचिन्त्यः ध्यायीत गरुडध्वजम् ॥
शुक्लाभं वैनतेयस्थं बहिस्थं चाथ चिन्तयेत् ।
सात्त्विके विषमूर्च्छा तु श्लेष्मं वमन्ति सर्वतः ॥
लाला च स्रुवतेऽजस्रं निमज्जते च मुहुर्मुहुः ।
तं विद्यात् सात्त्विकं दष्टं शुक्लपक्षाहितो भवेत् ॥
भ्रमते कम्पते चैव स्तब्धे क्षोभे सर्वेश्वरः ।
विषे च पित्तजे मूर्च्छा दाघो जायति दारुणम् ॥
राजसे दंष्ट्रिणे दष्ट्रो एतद् भवति चेष्टितम् ।
तामसे तमसं मोहः मूर्च्छा निद्रा च जायते ॥
व्यतिमिश्रैर्व्यतिमिश्रं तु चेष्टा भवति दारुणम् ।
सत्त्वे भवति शुक्लाभः दंष्ट्रे भवति मानुषे ॥
राजसी पीतवज्ज्ञेयः छविवर्णाश्च किञ्चन ।
कृष्णवर्णाथ मोहात्मा छविवर्णाथ जायते ॥
२०७, प्। ४५७)
व्यतिमिश्रे धूम्रवर्णस्तु आपाण्डुश्चापि क्वचित्तथा ।
सात्त्विको राजसश्चैव शुक्लपक्षाहिजोद्भवा ॥
तामसो मिश्रिणश्चैव अहिजा कृष्णवर्णिनाम् ।
तत्कुलाकुलिनो ह्येते उरगाध्यक्षेश्वरो सु वे ॥
आसुरं पक्षमाश्लिष्टा विचरन्ति महीतले ।
दंशतेषां मानुषां लोके अधर्मिष्ठा नागजातयः ॥
क्रूराः क्रूरतरा लोके आहारार्थपरा सदा ।
केचिद् विहेठनार्थाय दंष्ट्रिणो प्राणहरा परे ॥
विषनिर्नाशनार्थाय सर्वदंष्ट्रोपजीविनाम् ।
इदं ध्यानवरं मुख्यं यथालिङ्गानुवर्निनम् ॥
सन्न्यसेत् प्राणिनां चिन्त्या क्षिप्रं मुञ्चति तद्विषम् ।
सर्वदा सर्वकालं तु सर्वव्याधिषु योजयेत् ॥
सर्वोपद्रवां हन्ति ध्यानेष्वेव प्रतिष्ठिता ।
यथा नागा तथा सत्त्वा राक्षसा ग्रहमातरा ॥
परप्राणहराश्चैव दुष्टचित्ताथ मानुषाः ।
सर्वव्याधिमता लोके लिङ्गेष्वेव तु योजयेत् ॥
ध्यानं ध्येयं तथा मुक्तिं कर्मं चापि सदा न्यसेत् ।
कुमाररूपं माङ्गल्यं पवित्रमघनाशनम् ॥
मञ्जुघोसं महावीरं जिनपुत्रं महर्द्धिकम् ।
सगरुत्मन्ते सुखासीनम् उदयन्ते रविमण्डले ॥
ध्यायीत सर्वतो मुख्यं मन्त्रनाथेश्वरं विभुम् ।
सर्वत्र चिन्तितो ध्यानसर्वव्याधिप्रनाशनः ॥
सर्वकर्माणि कुर्वीत सर्वसत्त्वेषु सर्वदा ।
सर्वं स्तम्भयते ह्येष सर्वं शोभयते शुभम् ॥
सर्वमन्त्राश्च लोकानाम् अस्मिन् ध्याने निबोधिता ।
सिद्धिं गच्छन्ति ते क्षिप्रं परकल्पेऽपीहोदिता ॥
२०८, प्। ४५८)
ये च ताथागता मन्त्रा वज्राब्जकुलयोरपि ।
आदित्यवसवेन्द्राणां नक्षत्रग्रहज्योतिषाम् ।
गरुडोरगयक्षाणाम् ऋषिमुख्या सपूतनाम् ॥
सर्वमन्त्राश्च सिद्ध्यन्ते अस्मिं कल्पे तु ध्यायिने ।
परतन्त्रविधानेऽपि स्वतन्त्रेणाभ्यन्तरेण वा ॥
कुर्यात् कर्मसिद्धिं च क्षिप्रं ध्यानगतेन वै ।
आदित्यमण्डले ध्यात्वा उदयन्ते विश्वरूपिणम् ॥
कुमारं बालिशाकारं शिशुभूषणभूषितम् ।
आरूढमण्डले दीप्तं गरुत्मन्तेऽथ वैनते ॥
मीदृशाकारमव्यक्तं मूर्जे चापि सुचिन्तिते ।
दृष्ट्वा परबलस्तम्भं जायते च मनीषितम् ॥
सर्वे च दष्टाः स्तभ्यन्ते नृत्यन्ते च परस्परम् ।
हसन्ते आतुराः सर्वे ग्रहाविष्टाश्च देहिनाम् ॥
ज्वरार्ता मूर्च्छिता ये च उत्तिष्ठन्ते द्रुतं ततः ।
क्रन्दन्ते विविधा आर्ता भीमनादं करोति वै ॥
ग्रहमातरकूष्माण्डैः गृहीतानां भुवि मानुषाम् ।
एभिर्लिङ्गैस्तदा मन्त्री लक्षयेदेतां समाहितः ॥
इच्छया मोचयेत् क्षिप्रं विषसङ्क्रमणं तु वै ।
क्रीडापयति भूतानां तदा योगी रिरिंसया ॥
आदित्यमण्डले नाडी प्रयोक्तव्या विषमूर्च्छिते ।
रविनाडीप्रयोगेण सर्वप्राणि च चालयेत् ॥
निर्विषो भवते सुप्तः विषस्थावरजङ्गमः ।
ततोत्तिष्ठते क्षिप्रं विषसुप्तो न संशयः ॥
अन्यश्च वर्द्धते क्षिप्रं विषार्त्तो भुवि भूतले ।
पुनरन्यो पुनश्चापि अन्यादन्यतरोऽपि वा ॥
२०९, प्। ४५९)
एवम्प्रकारैः सर्वत्र शतशोऽथ सहस्रः ।
यावन्नाडीप्रयोगेण तावद् भूतानि पाचयेत् ॥
वस्त्रकुद्यस्तथा कुम्भे अस्मतोयहुताशने ।
क्षणेन चालयेन्नाडीं तत्रस्थं विषमाविषे ॥
सर्वे ह्यातुराः स्वस्थास्तत्क्षणादेव भूतले ।
एवमाद्यप्रयोगेण कुर्यात् कर्म शताष्टकम् ॥
असङ्ख्यं च विधिं कुर्यात् परमन्त्रासृतेन वा ।
एष प्रयोगः समासेन ध्यानो ह्युक्तोऽथ जापिनाम् ॥
प्रयोक्तव्यः कल्पनिखिलः परतन्त्रो गरुत्मनः ।
मतं सङ्कल्पजं प्रोक्तं शैवं चापि विशेषतः ॥
सर्वे च लौकिका मन्त्रा प्रयोक्तव्या ध्यानविस्तरे ।
इह मञ्जुरवे कल्पे ध्यानेनैव विशेषतः ॥
सर्वतन्त्रप्रयोगैश्च मन्त्रैश्चापि सुपूजिते ।
मतयो येऽपि कल्पार्थाः प्रयोक्तव्या इह ते सदा ॥
योगेऽस्मिन् ध्यानये दिव्ये कल्पराजोदिते हह ।
ध्यानेन सर्वे नियोक्तव्या युक्तिहेतुनिरञ्जने ॥
सूक्ष्मश्चित्तविषये मन्त्रसिद्धिनिबन्धने ।
मुनिपुत्रोदिते शुद्धे सर्वबुद्धार्थमोदिते ॥
जापिनो ध्यायते नित्यं सर्वसिद्धिसुपुष्कला ॥
इति बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यञ्ञ्जुश्रियमूलकल्पाद्
अष्टत्रिंशतिमः महाकल्पराजपटलविसराद् द्वितीय
सर्वलोकतत्त्वार्थतारक्रीडाविधिसाधनोपयिकसर्वकर्मध्यानपटलनिदेशः
परिवर्तः समाप्तः ।
२१०, प्। ४६०)