अथैकोनचत्वारिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य सर्वांश्च
लोकधातुं बुद्धचक्षुषा सर्वसत्त्वानामवलोक्य पुनरपि मञ्जुश्रियं
कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः !
त्वदीयमन्त्रतन्त्रमुद्रापटलविसरे सर्वलौकिकलोकोत्तरसमयमण्डलानुप्रविष्टे
सामान्याविधानचर्यानिर्हारे समनुप्रवेशसत्त्वामाश्रये अचिन्त्याचेष्टित
सर्वमन्त्राणां सर्वमुद्राणां सर्वमण्डलानां सर्वसत्त्वानां
सर्वमन्त्रानुप्रविष्टानां निधाननिर्देशचर्या समासतो व्याचक्षते ।
तच्छूयताम् ॥
अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्वः
भगवतश्चरणयोर्निपत्य अध्येषयति स्म । अध्येषयतु मे सुगतः
अस्माकमनुकम्पायै लोकस्यानुग्रहाय । तद् भविष्यति महतो जनकायस्यार्थाय
हिताय सुखाय लोकानुकम्पायै । तद् वदतु मे सुगत ! सर्वमन्त्राणां जपहोम-
आप्यायनपूजननियमस्र्वतन्त्रमुद्रेषु
समयप्रवेशानुनिगमसाधनोपयिकविधानं सर्वमण्डलेषु
सर्वलौकिकलोकोत्तरविधिविशेषणोपयिकपटलविसरम् ॥
एवमुक्ते भगवां मञ्जुभाणी तदन्तरमभूत् सर्वज्ञ वान्यं तूष्णीं तस्थौ
तदन्तरम् ॥
तुष्टः मञ्जुरवो धीरः सुगतज्ञ प्रतीच्छयम् ।
सर्वबुद्धाश्च सर्वत्र सर्वधातुसमागता ॥
बोधिसत्त्वास्तु सर्वे वै सर्वश्रावकखड्गिणः ।
सर्वसत्त्वा त्रिधा ये च अनादिभवचक्रके ॥
निबद्धा योनिजा ये च गतिपञ्चसुयोजिता ।
सर्वभूतगणाध्यक्षा राक्षसोरगमानुषा ॥
दैत्यदानवयक्षाश्च कूष्माण्डकटपूतना ।
देवमुख्या गणाध्यक्षा मातराश्च महर्द्धिकाः ॥
सर्वे ग्रहगणा लोके चन्द्रसूर्यौ परेस्तथा ।
ब्रह्मेन्द्रधनदा रुद्रा विष्णुस्कन्दविरूढका ॥
१८५, प्। ४३५)
धृतराष्ट्रकुबेराश्च सर्वे वै वसवस्तथा ।
सर्वभूताश्च सर्वत्र सत्त्वधातुसमाश्रिताः ॥
शुभाशुभफलैः कर्मैः निबद्धा गतिसूत्रके ।
मुक्तामुक्तश्च सर्वत्र आगता समये स्थिताः ॥
बुद्धाधिष्ठानबला ऋद्ध्या शृण्वन्तेह त्रिधा स्थिताः ।
शुभयोनिजसम्भूता अशुभैश्चैव स्वकर्मभिः ॥
शृण्वन्ते सर्वबुद्धा वै शुद्धावासपुरे तदा ।
तदा धर्मं सौगतं चार्यम् अग्रधर्मशुभोदयम् ॥
मन्त्रमुद्रत्रिधायुक्तं नियतं चापि कीर्तितम् ।
क्षेमं शिवतमं मार्गम् आर्याष्टाङ्गिकं तदा ॥
त्रिधा कर्मपथं श्रेष्ठं निर्वाणपुरगामिनम् ।
दानशील तदा ध्यानं तृधा मार्गोपदेशितम् ॥
भगवानुवाच सर्वज्ञ मन्त्रमार्गाङ्गप्रवर्तनम् ।
ईषस्मितमुखो धीर मञ्जुघोषं निरीक्ष च ॥
वाक्यं च शुभया युक्तम् इदं ब्रह्मरवो तदा ।
शृण्वन्तो भूतगणाः सर्वे स्थिता सौम्या विशारदाः ॥
मा वो समयाद् भ्रंशो भविष्यति अनर्थकम् ।
अहितं दीर्घरात्रं वो बुद्धवाक्यमजानकाः ॥
पतिष्यथ तमस्यन्धे वत्स दूरीभविष्यथ ।
इदं वः श्रेयसे युक्ता मन्त्रमुद्रा समीरिताः ॥
करिष्यथा सदा लोका सदानुग्रहनिग्रहम् ।
मन्यथा मत्क्रियायुक्तं क्रोधो वै च यमान्तकः ॥
करिष्यति न सन्देहः सदा निग्रहतां युगे ।
आदौ पुष्पाभिकीर्णे वै विचिक्ते विजने सदा ॥
कर्तव्ये मण्डले बुद्ध्या ध्यानेनावर्ज्य सर्वतः ।
आदौ च सर्वबुद्धानां पद्मं ध्यायीत बुद्धिमाम् ॥
१८६, प्। ४३६)
द्वितीयं पद्ममुद्यन्तम् अर्कस्यैव महाद्युतिम् ।
तत्रस्थो मञ्जुवरः श्रीमां कुमाराकारचिह्नितः ॥
पञ्चचीरकमूर्धानो जानुकर्णककोर्परः ।
फलितः कृताञ्जलिपुटो बालो पृच्छन्तं सुगतं विदुम् ॥
वाचं च शुभया युक्तां वदन्तो सुगतालये ।
यो वै सर्वबुद्धानां महापद्मं स्फटिकोद्भवम् ॥
वैदूर्यमयं पद्मं किञ्जल्कं हेमजोद्भवम् ।
महामरकतीनालां कर्णिकां सह हेमजम् ॥
महाविटपसङ्घातं महारत्नविभूषितम् ।
पद्मरागमयैः कलिकैः अनेकाकारसुभूषितैः ॥
अश्मगर्भमयैर्दिव्यैः अङ्कुरैश्च विभूषितम् ।
पद्मं मुनिवरे ध्यात्वा महोच्चं गगनाश्रितम् ॥
तस्मान्न्यूनतरं पद्मं समचिह्नं सुशोभनम् ।
तन्मनः धामतो ध्यायेन्मन्त्री प्रत्येकार्हश्रावकाम् ॥
तस्मान्न्यूनतरं पद्मं तृतीयं चित्तेन यत्नधीः ।
चतुर्थं पद्ममावर्तं तस्माद्ध्रस्वतमं विदुः ॥
ध्यायीत पञ्चमं पद्मं ह्रस्वाह्रस्वतमं सदा ।
समाकारसमोद्योतं व्योमं संस्थितसर्वतम् ॥
कुर्यात् तस्य विदो पद्मं चित्तया सप्तगे स्थितम् ।
वज्रपाणेः तथा पद्मम् उदयन्तं रवेर्यथा ॥
दक्षिणेन विदोः पद्मे तथा मञ्जुरवः सदा ।
ततो ह्रस्वतरं पद्मं लोकीशस्य महात्मनः ॥
तृतीयं पद्ममित्येव समन्तद्योतिलाभिने ।
चतुर्थं पद्ममित्येव अक्षयप्रतिभानता ॥
ईषिद् विमलगते ह्रस्वं कमलं पञ्चमतत्त्विते ।
तस्मात् षष्ठतमो यो पद्मः आर्यं चाधर्मसञ्ज्ञितम् ॥
१८७, प्। ४३७)
अधश्चैव समन्ताद् वै उदधिं चापि चिन्तयेत् ।
महानागेऽर्धनिर्यान्तोऽनन्तः नन्दोपनन्दकौ ।
सर्वश्वेता महानागाः सर्वालङ्कारभूषिताः ।
अब्धोर्जाता स्मितमुखो गगनालम्बनदृष्टयः ॥
सप्तशीर्षमहाभोगो मणिकुण्डलभूषिता ।
पुरुषाकारदिव्यास्तु अर्धभोगोरगस्तथा ॥
सप्तस्फटा ससौम्यास्तु अर्धचक्षुर्गतोर्ध्वार्मा ।
वामतो मुनिवरा पद्मे पञ्चमुष्णीषसंस्थिताम् ॥
चक्रवर्ति तथाद्यन्तां शक्रायुधसुतेजिताम् ।
एकाक्षरश्चक्रवर्तिस्तेजोराशिः सितोन्नतः ॥
अभ्युन्नतो जयोष्णीषविद्याराजमहर्द्धिकः ।
वज्रपाणिश्च यक्षेशः अधश्चैव सुचिन्तयेत् ॥
एतेषु चित्तं धीमां रूपिभिः सर्वदा सदा ।
आत्मनश्च धियो युक्तो मन्त्रविन्मन्त्रराड् जमे ॥
तत्रस्थं नियमस्थं वै पद्मपत्रोपविष्ट वै ।
ध्यायीत अधश्चात्मानं पर्यङ्केनोपविष्ट वै ॥
सर्वपापांश्च देशी मुनिनामन्तिके सदा ।
तत्रस्थो नियमजो रूपी अध्येष्य मुनिवरां वराम् ॥
धर्मचक्रानुवर्तन्तां तिष्ठन्तां सुगतात्मजाम् ।
तेषा। पुण्यमतुलम् अनुमोद्येव जापधीः ॥
सुशुक्लमालतीकुसुमां पुन्नागं नागकेसराम् ।
चम्पकाशोकतिलकां तगर्यांश्चैव समल्लिकाम् ॥
क्षिपेत् पुष्पाञ्जलिं दिव्यां सव्यांश्चैव सुशोभनाम् ।
सभूतामप्यभूतं वा धिया युक्तां सुशोभनाम् ॥
विविधां पूजावरां कुर्युर्विद्या चैव मनोरमाम् ।
विविधां धूपवरांश्चैव तथा गन्धानुलेपनाम् ॥
१८८, प्। ४३८)
चित्तेनेव तु तत् कुर्यात् सभूता मध्यभावतः ।
निवेद्य बलिमन्त्रैर्वै प्रदीपांश्चैव तदा न्यसेत् ॥
विविधाकारसम्पन्ना विचित्रश्चित्रभोजनाम् ।
अनेकाकारसम्पन्नां दध्योदनमशालिकाम् ॥
यबगोधूममुद्गैश्च खाद्यभोज्यसुभूषितैः ।
निवेद्य सुगते भक्त्या दद्याच्चात्मानमेव तु ॥
तथ्येन नान्यथा चापि चित्त येनापि शिष्यते ।
एषा श्रद्धा मया पूजा सर्वपूजेषु शिष्यते ॥
मं ध्यात्वा जापिनः सर्वे नियतं बोधिमवाप्नुयात् ।
सफला मन्त्रसिद्धिश्च जायते च न संशयः ॥
इहैव जन्म निःसत्त्वा सिध्यन्ते मन्त्रदेवता ।
अन्यजन्मान्तरे वापि केचित् सिद्ध्यन्ति मानवाः ॥
विचित्रां भोगसम्पत्तिं विशेषांश्चापि पुष्कलाम् ।
विविधा कालमनोवाग् ध्यानं चापि त्रिधा पुरा ॥
बुद्धैर्बुद्धशतैश्चापि प्रत्येकार्हश्रावकैः ।
त्रिःप्रकारा तथा बोधिः प्राप्नुवन्तो यशस्विनः ॥
एतैस्त्रिप्रकारैस्तु मन्त्रसिद्धिरिहोदिता ।
त्रिप्रकारैस्तु सत्त्वाख्यै उत्तमाधममध्यमे ॥
त्रिधा कर्मसमुद्दिष्टम् * * * * * * * * (?) ।
प्रणीतं ध्यानतां प्रोक्तं मध्यमं शीलजं स्मृतम् ॥
कन्यसं दानजं मुख्यं तच्चैव तु पुनस्त्रिधा ।
प्रणीतं धर्मदानं तु मध्यमं तु गतं तथा ॥
वाक्यमामिषदानं तु कन्यसे व तु कीर्त्यते ।
शीलं चापि त्रिधा प्रोक्तमित्युवाच मुनिः पुरा ॥
बुद्धत्वपरिणामाख्यम् अग्र्यं शीलमिति स्मृतम् ।
प्रत्येकबोधो मध्यं तु कन्यसं श्रावकोद्भवम् ॥
१८९, प्। ४३९)
एतल्लोकोत्तरं शीलं लौकिकं तु प्रकथ्यते ।
तच्चापि त्रिविधा ज्ञेयं सास्रवोत्पत्तिकारणम् ॥
मुमुक्षुबुद्धिभिर्भक्त्याधिज्ञप्त्या अभिज्ञसम्भवा ।
श्रेष्ठा ज्येष्ठतभा लोके कथ्यन्ते ऋषिवरैः सदा ॥
एतदग्रमयं लोके शीलमाहुर्मनीषिणः ।
मध्यमं देवज ज्ञेयं कन्यसं तु नृपद्वराम् ॥
तच्चापि त्रिप्रकारैस्तु त्रिधा कर्मेषु योजितैः ।
त्रिधा च त्रिविधैश्चैव पुनर्मुक्तं त्रिद्विसप्तपञ्चशः ॥
त्रिसप्तं सप्ततिं तच्चापि त्रिधा भिन्नम् ।
प्रादुर्भूतोऽङ्कुरोऽङ्कुराः ध्यानजं चैवमत्यन्तो ॥
सुरेश्वरौ पुनः त्रीणि पुनरष्टाष्टभूषितम् ।
यथैव पूर्वनिर्दिष्टं ध्यानेष्वेव च कथ्यते ॥
एवं तरङ्गवद् भिन्नं पुनर्ज्वालेव गच्छति ।
बुद्बुदाकारवद् ज्ञेयं क्षणोत्पत्तिप्रभङ्गुरम् ॥
एवमेवाद्यप्रयोगेन शतधा भिद्यन्ते पुनः ।
सहस्रशश्च सदा ज्ञेयमसङ्ख्येयाद्यलक्षितम् ॥
साध्यते ध्यानजं कर्म अग्र्यं मानसोद्भवम् ।
तस्माद् ध्यानवतं मन्त्रं चित्तं बोधाय नामितम् ॥
अयनेनैव ते सिद्धिं लप्स्यन्ते मन्त्रदेवताम् ।
तस्मात् सर्वप्रयत्नेन जापिभिः सिद्धिलिप्सुभिः ॥
कर्तव्या मानसी पूजा बुद्धानां सर्वतः सदा ।
इहैव जन्मनि सिद्धिं नित्यं ध्यानरतस्य तु ॥
सर्वत्राप्रतिहतो ह्येष ध्यानजो शीलसंवरः ।
धानतो विभवो धर्मः शीलतो सुरवरोदयम् ॥
उत्पत्तिध्यानादाना श्रवे * * * * * * * (?) ।
एतत् सङ्क्षेपतो ह्युक्तं जापिनां मन्त्रसिद्धये ॥
१९०, प्। ४४०)
यं बुध्वा मन्त्रिणः सर्वे क्षिप्रमन्त्रेषु सिद्धये ।
क्षिप्रं चानुत्तरां बोधिं प्राप्नुवन्ति न संशयमिति ॥
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् आर्यमञ्जुश्रियमूलकल्पात्
सप्तत्रिंशतिमः महाकल्पराजपटलविसराद्
उत्तमसाधनोपयिकसर्वकर्मार्थसाधनतत्त्वेषु प्रथमः ध्यानपटलविसरः
परिसमाप्त इति ।
१९१, प्। ४४१)