३८

अथाष्टात्रिंशः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्यं
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु मञ्जुश्रीः !

सङ्क्षेपतः मुद्राणां लक्षणं मन्त्राणां च सविस्तरम् ।
सङ्क्षेपतश्च मण्डलानां विधिः समयानुवर्तनम् ॥

सरहस्यं सर्वमन्त्राणां सर्वमन्त्रेषु मण्डलम् ॥

एतत् सर्वं पुरा प्रोक्तं सर्वबुद्धैर्महर्द्धिकैः ।
मन्त्राणां गतिमाहात्म्यं कथितं सर्वकुलेष्वपि ॥

आदिमद्भिः पुरा बुद्धैः सत्त्वानां हितकारणात् ।
प्रवर्त्य मन्त्रचक्रश्च धर्मचक्रमनुत्तरम् ॥

शान्तिचक्रानुगा याता भूतकोटिं समाशृताः ।
शान्तिं जगाम सर्वे ते बुद्धा लोकमहर्द्धिका ॥

एतत् सर्वं पुरा ख्यातमादिमद्भिस्तथागतैः ।
अहमप्यपश्चिमे लोके देशेयं त्वयि मञ्जुश्रधीः ॥

एतत् कृत्वा तदा वाच्यं बुद्धस्येदं महाद्युतेः ।
कुमारो मञ्जुघोषो वै प्राञ्जलिं कृतमग्रतः ॥

उवाच वदतां श्रेष्ठं सम्बुद्धं द्विपदोत्तमम् ।
वदस्व धर्मं महाप्राज्ञ ! लोकानां हितकारणम् ॥

सङ्क्षेपार्थमविस्तारं गुणमाहात्म्यफलोदयम् ।
एवमुक्तस्तु मञ्जुश्रीस्तूष्णीम्भूतस्तस्थुरे ॥

अथ ब्रह्मेश्वरः श्रीमां कलविङ्करुतस्वनः ।
कथयामास तत् सर्वं मुद्रामण्डलसंस्थितम् ॥

मन्त्रं तन्त्रं तदा काले शुद्धावासोपरि स्थितो ।
कथयामास सम्बुद्धः शाक्यसिंहो नरोत्तमः ॥

शृणु त्वं कुमार ! मञ्जुश्रीः ! मुद्राणां विधिसम्भवम् ।
मन्त्राणां तन्त्रयुक्तीनां गुणमाहात्म्यविस्तरम् ॥

१८०, प्। ४३०)

आदौ सर्वतथाचिह्नं सत्त्वासत्त्व यथा च तम् ।
आकारं चरितं चेष्टा सर्वमिङ्गितभाषितम् ॥

द्विहस्तपादयोर्मूर्ध्ना एकहस्ताङ्गुलयोजना ।
सर्वं तं मुद्रमिति प्रोक्तम् आदिबुद्धैः पुरातनैः ॥

कलशं छत्रं तथा पद्मं ध्वज पताकं तथैव च ।
मत्स्य वज्र तथा शङ्खः कुम्भश्चक्रस्तथैव च ॥

विविधा प्रहरणा लोके यावन्तस्ते परिकीर्तिता ।
उत्पलाकारमुद्रं च सर्वे ते मुद्रानुमण्डले ॥

अनुपूर्वमिह स्थिता तथैते विधियुक्तमुदाहृता ।
सदृशाकारस्वरूपेण सर्वासां चैव लिखेत् सदा ॥

मण्डले मुद्रमित्युक्त्वा सामान्येष्वेव सर्वतः ।
यथास्थानसुविन्यस्तं मुद्रास्ते परिकीर्तिताः ॥

मण्डलेष्वेव सर्वेषु स्वाकारं चैव योजयेत् ।
चक्रवर्ती तथा चक्रम् उष्णीषे सितमुद्भवे ॥

सितातपत्रं मुख्येन मण्डले तु समालिखेत् ।
बुद्धानां धर्मचक्रं वै पद्मं पद्मकुले तथा ॥

वज्रं वज्रकुले प्रोक्तं गजं गजकुलोद्भवे ।
तथा मणिकुले कुम्भं नियुज्यात् सर्वमण्डले ॥

दिव्यार्यौ च कुलौ मुख्यौ श्रीवत्सस्वस्तिकौ लिखेत् ।
आलिखेद् यक्षकुले श्रेष्ठे फलं फलजसम्भवम् ॥

महाब्रह्मे हंसमालिख्य शक्रस्यापि सवज्रकम् ।
महेश्वरस्य लिखेच्छूलं वृषं चापि समालिखेत् ॥

त्रिशूलं पट्टिशं चापि स्कन्दस्यापि सशक्तिकम् ।
विष्णोश्चक्रमालिख्य गदांश्चापि सदानवाम् ॥

नानाप्रहरणा देवा विविधासनसम्भवाम् ।
याना च विविधाश्चापि तेषां मध्यं लिखेत् सदा ॥

१८१, प्। ४३१)

सरूपसङ्क्रान्तिप्रतिबिम्बं यथास्थितम् ।
एषामन्यतरं ह्येकं लिखेत् सर्वत्र म। डले ॥

एकद्विकसमायुक्ता तृप्रभृत्यमसङ्ख्यका ।
मण्डला जिनवरैः प्रोक्ता वेदिकापङ्क्तितत्समा ॥

यदोद्दिश्य मण्डलं प्रोक्तं तं मध्ये तु निवेशयेत् ।
आलिखेज्जिनकुले गर्भे बुद्धं वापि सुमध्यमे ॥

अभ्यन्तरस्थं तदा बिम्बं शास्तुनो चापि मालिखेत् ।
द्वितीयं पद्मकुले न्यस्तं तृतीयं वज्रकुलं लिखेत् ॥

एवं सर्व तदालिख्य अनुपूर्व्या सुरासुराम् ।
सर्वभूम्यां ततः पश्चाद् यक्षराक्षसमानुषाम् ॥

तीर्थिकानां ततो लिख्य अनुपूर्व्या यथास्थितम् ।
दिक्पालां च तथालिख्य सर्वांश्चैव विविधागताम् ॥

सङ्क्षेपादेकबिन्दुस्तु द्विप्रभृत्यमसङ्ख्यकाम् ।
आलिखेन्मण्डलं यावदुपर्यन्तं दिशमाशृतम् ॥

अप्रमेय तदा प्रोक्ता क्ष्मातलो मण्डलेऽस्य वै ।
एकबिन्दुप्रभृत्यादि अपर्यन्ते वसुधातले ॥

मण्डलस्य विधि। ह्प्रोक्तो निर्दिष्टं त्रिविधस्य तु ।
उत्तमं मध्यमं चैव कन्यसं चैव कीर्तितम् ॥

उत्तमे उत्तमा सिद्धिर्मध्यमे मध्य उदाहृतम् ।
कन्यसे क्षुद्रसिद्धिस्तु कथितं जिनवरैः पुरा ॥

त्रिधा सर्वे मनोभिश्च सिद्धिरुक्ता जिनोत्तमैः ।
महासत्त्वैर्महासिद्धिर्मध्यसत्त्वे तु मध्यमा ॥

तृतीया क्षुद्रजन्तूनां क्षुद्रकर्म उदाहृतम् ।
चित्तं प्रसादे बुद्धत्वम् उत्तमे सफलोदयम् ॥

नियतं प्राप्यते सत्त्वो मण्डलादर्शनेन वै ।
मध्यचित्तस्तदा काले प्रत्येकं बोधिमाप्नुयात् ॥

१८२, प्। ४३२)

इतरे नियतं प्रोक्तां श्रावकत्वमनादरात् ।
अवन्ध्यं फलमाहात्म्यं गतिशान्ति उदाहृतम् ॥

मण्डलादर्शनस्वर्गं नियतं तस्य भविष्यति ।
एव मुद्रवरां सर्वां मन्त्राश्चैव सविस्तराम् ॥

नियुक्तास्त्रिविधाश्चैव त्रिःप्रकारा सुखावहा ।
मुद्रा मण्डला प्रोक्ता मन्त्राणां कथ्यते हितम् ॥

एकाक्षरप्रभृत्यादि यावत्सङ्ख्यं प्रमाणतः ।
कथिता वचना मन्त्रे यावन्त्यस्ता प्रकीर्तिताः ॥

वाक्प्रलापां रुदितं हसितं क्रन्दितं तथा ।
सर्वजल्पप्रजल्पं वा सर्वमन्त्रहितं भवेत् ॥

त्रिविधा ते च मन्त्राश्च त्रिप्रकारा समोदिता ।
यथैव मण्डले ख्यातः मुद्रामन्त्रेषु वै तथा ॥

विधिरेषा समायुक्ता निर्दिष्टा लोकनायकैः ।
तथैव तत् त्रिधा याति अनेकधा चापि सहस्रधा ॥

त्रिविधं त्रिःप्रकारं तु त्रिधा चैवमसङ्ख्यकाः ।
चित्तायतं हि मन्त्रं वै न मन्त्रं चित्तवर्जितम् ॥

चित्तमन्त्रसमायुक्तः संयुक्तः साधयिष्यति ।
तथागतकुले ये मन्त्रा ये च पद्मकुले तथा ॥

ये च पद्मकुले गीता कुलेष्वेव च मापरैः ।
सलौकिका सर्वमन्त्रा वै सर्वे त इह निःसृताः ॥

जिने जिनसुतैर्यो मन्त्रो भाषितैः सत्त्वकारणात् ।
तां जपेद् योऽभियुक्तश्च नियतं बुद्धो हि सो भवेत् ॥

मध्यस्था ये तु मन्त्रा वै तं जपेद् योऽभिजापिनः ।
प्रत्येकबुद्ध आख्यातो नियतं तस्य गोत्रतः ॥

येऽन्यमन्त्रे प्रवृत्ता वै प्रत्येकार्हभाषितैः ।
सलौकिकैश्च सत्त्वे वै अभियुक्तो मन्त्रजापिनः ॥

१८३, प्। ४३३)

स भवेन्नियतं गोत्रस्थो श्रावकाणां महर्द्धिकाम् ।
तत्रापि कर्म प्रयोक्तव्यः उत्कृष्टेऽधममध्यमे ॥

शान्तिके बुद्धबोधिः स्यात् पौष्टिके वापि खड्गिनाम् ।
इतरैः क्षुद्रमन्त्रैस्तु श्रावको बोधिमुच्यते ॥

तत्रापि चित्तं द्रष्टव्यं तत् त्रिधा परिभिद्यते ।
पुनश्च भिद्यते बहुधा असङ्ख्यं चापि भेदत इति ॥

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात्
महायानवैपुल्यसूत्रात् षट्त्रिंशतिमः
मुद्रामण्डलतन्त्रसर्वकर्मविधिपटलविसरः परिसमाप्त इति ।
१८४, प्। ४३४)