३५

अथ पञ्चत्रिंशः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
तथागतमहामुद्राकोशसञ्चोदनी नाम समाधिं समापद्यते स्म ।
समनन्तरसमापन्नस्य भगवतः शाक्यमुने ऊर्णाकोशान्महारश्मिर्निश्चचार ।
अनेकरश्मिकोटीनयुतशतसहस्रसङ्ख्येयपरिवाराः सा रश्मिजाला अनेकां
बुद्धक्षेत्रानवभासयित्वा सर्वबुद्धां सञ्चोद्य पुनरपि भगवतः
शाक्यमुनेः ऊर्णाकोशेऽन्तर्हिता ॥

समनन्तरसञ्चोदिताश्च सर्वे बुद्धा भगवतः गगनस्वभावां समाधिं
समापद्य शुद्धावासोपरि गगनतले प्रत्यष्ठात् ॥

अथ भगवां शाक्यमुनिः सर्वबुद्धानभ्यर्च्य मञ्जुश्रियं
कुमारभूतमामन्त्रयते स्म । शृणु मञ्जुश्री ! मुद्राकोशपटलविधानं
भविष्यसर्वबुद्धैरधिष्ठितम् ॥

अथ मञ्जुश्रीः कुमारभूतो भगवतश्चरणयोर्निपत्य सर्वबुद्धां प्रणम्य
भगवन्तं शाक्यमुनिं तथागतमेतदवोचत् । तत् साधु भगवां निर्दिशतु
सर्वतथागतमुद्राकोशपटलं परमगुह्यतमं यस्येदानीं कालं मन्यसे तद्
भविष्यति । बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो
जनकायस्यार्त्थाय हिताय सुखाय देवानां च मनुष्याणां च सर्वसत्त्वानां
सुखोदयं भविष्यति सुखविपाकम् ॥

अथ भगवां शाक्यमुनिः अध्येषतो भगवता मञ्जुश्रिया कुमारभूतेन
सर्वबुद्धानवलोक्य सर्वसत्त्वां समन्वाहृत्य सर्वबोधिसत्त्वां सम्प्रहृष्य
सर्वप्रत्येकबुद्धार्यश्रावकां सम्प्रसान्त्य
सर्वमन्त्रमन्त्रार्त्थोद्युक्तमानसां समुद्युज्य सर्वदुष्टां निवार्य सर्वभीतां
समाश्वास्य सर्वव्यसनस्थां क्षेमे शिवे निर्वाणे प्रतिष्ठाय सर्वदुःखितानां
सुखार्त्थाय मुद्रापटलविधानं भाषते स्म ॥

शृणु कुमार ! मञ्जुश्री ! वक्ष्येऽहं पटलमुद्रिताम् ।
आदौ पञ्चशिखा भवति महामुद्रा तु सा मता ॥

त्रिशिखं द्वितीयं विन्द्या तृतीयम् एकचीरकम् ।
चतुर्थम् उत्पलमित्याहुः सम्बुद्धाः द्विपदोत्तमाः ॥

१०६, प्। ३५६)

पञ्चमः स्वस्तिको दृष्टः षष्ठो ध्वज उच्यते ।
सप्तमं पूर्णमित्याहुः मन्त्रज्ञानसुशोभनाः ॥

अष्टमं यष्टिनिर्दिष्टा लोकनाथैर्जितारिभिः ।
नवमं छत्रनिर्दिष्टं दशमं शक्तिरुच्यते ॥

एकादशं तु सम्बुद्धा सम्पुटं तु समादिशेत् ।
द्वादशं फरमित्युक्तो त्रयोदशं तु गदस्तथा ॥

चतुर्दशं खड्गनिर्दिष्टा घटा पञ्चादशस्तथा ।
षोडशः पाशमित्युक्तः अङ्कुशः सप्तदशः स्मृतः ॥

अष्टादशं भद्रपीठं तु ऊनविंशतिपीठकम् ।
विंशन्मयूरासनः प्रोक्तो एकविंशस्तु पट्टिशम् ॥

एकलिङ्ग द्विविंशं तु द्विलिङ्गो विंशसत्रिकम् ।
चतुर्विंशस्तथा माला पञ्चविंश धनुस्तथा ॥

विंशत्षष्ठाधिकं प्रोक्तं नाराचे तु प्रकल्पिता ।
सप्ताविंशतिमित्याहुः समलिङ्गे प्रवर्त्तिता ॥

अष्टाविंशस्तथा शूलः ऊनत्रिंशश्च मुद्गरः ।
तोमरं तिंशमित्याहुः एकत्रिंशं तु दक्षिणम् ॥

द्वात्रिंशत् तथा वक्तर्ः त्रयस्त्रिंशत् पटमुच्यते ।
चतुस्त्रिंशस्तथा कुम्भः पञ्चत्रिंशे तु खखरम् ॥

कलशं षट्रिंशतिः प्रोक्तो सप्तत्रिंशे तु मौशलम् ।
अष्टत्रिंशे तु पर्यङ्कः ऊनचत्वारिंशत् पटहम् ॥

चत्वारिंशतिमित्याहुः धर्मशङ्खमुदाहृतम् ।
चत्वारिंशं स एकं च शङ्कला परिकीर्तिता ॥

द्वितीया बहुमता प्रोक्ता तृतीया समनोरथा ।
चतुर्त्थी जननी दृष्टा प्रज्ञापारमिता मिता ॥

पञ्चमं पात्रमित्याहुः सम्बुद्धा द्विपदोत्तमाः ।
तोरणं षष्ठमित्युक्तः सप्तमं तु सुतोरणम् ॥

१०७, प्। ३५७)

अष्टमं घोषनिर्दिष्टः जपशब्दो नवमः पुनः ।
पञ्चाशद् भेरिमित्युक्ता धर्मभेरिं तु साधिका ॥

द्विपञ्चाशद् गजमित्याहुः वरहस्तत्रिकस्तथा ।
चतुःपञ्चाशमिति ज्ञेयं मुद्रा तद्गतचारिणी ॥

पञ्चमं केतुमित्याहुः षष्ठं चाशशरस्तथा ।
सप्तमं परशुनिर्दिष्टम् अष्टमं लोकपूजिता ॥

ऊनषष्टिस्तथा ज्ञेया भिण्डिपालं समासतः ।
षष्टिश्चैव भवेद्युक्ता लाङ्गलं तु समासतः ॥

एकपष्टिस्ततः पद्मह् द्विषष्टिः वज्रमुच्यते ।
त्रिषष्टिः कथितं लोके धर्मचक्रं प्रवर्त्तितम् ॥

चतुःषष्टिस्तथा ज्ञेयः पुण्डरीकं समास्तः ।
पञ्चषष्टिस्तथा विन्द्याद् वरदं मुद्रमुत्तमम् ॥

षट्षष्टि तथा वध्वा वज्रमुद्रा तु कीर्तिता ।
सप्तषष्टिस्तथा लोके कुन्तमाहुर्मनीषिणः ॥

अष्टषष्टिस्तथा कुर्याद् वज्रमण्डलमुदाहृतम् ।
ऊनसप्ततिमेवं स्यात् शतघ्नेति प्रकीर्तिता ॥

ततः सप्ततिकं विन्द्यान्नादामुद्रः समासतः ।
एकसप्ततिमित्याहुर्विमानं मुद्रवरं शुभम् ॥

द्विसप्तत्या समासेन स्यन्दनं च इहोच्यते ।
शयनं लोकनाथानां त्रिसप्तान्या समासतः ॥

पञ्चसप्ततिराख्यातश्चतुःसप्ततिकस्तथा ।
अर्धचन्द्रं च वीणा च उभौ मुद्रावुदाहृतौ ॥

षट्सप्ततिमं लोके मुद्रा पद्मालया भवेत् ।
सप्तसप्ततिमः श्रेष्ठः मुद्रा कुवलयोद्भवा ॥

अष्टसप्ततिमं मुद्रा नमस्कारेति उदाहृता ।
नवमं नवतिसङ्ख्या तु उभौ मुद्रौ शुभोत्तमौ ॥

१०८, प्। ३५८)

सम्पुटं यमलमुद्रा च सङ्ख्या नवतिमं भवेत् ।
एकनवतिमित्याहुः पुष्पमुद्रा उदाहृताः ॥

द्वितीया वलयमुद्रा तु तृतीया धूपयेत् सदा ।
चतुर्त्था गन्धमुद्रा तु पञ्चमी दीपना स्मृता ॥

षष्ठ्या साधनं विन्द्यात् सप्तम्या आसने स्मृता ।
अष्टममाह्वाननं प्रोक्तं नवमं तु विसर्जनम् ॥

शतपूर्णस्तथा विन्द्यात् मुद्रां सर्वकर्मिकाम् ।
साधिकं शतमित्याहुर्महामुद्रा इति स्मृताः ॥

उष्णीषं लोकनाथानां चरवर्ति सदा गुरोः ।
तं मुद्रं प्रथमतः प्रोक्ता द्वितीया सितमुद्भवा ॥

तृतीया मूलमुद्रा तु मञ्जुघोषस्य दृश्यते ।
चतुर्त्थी धर्मकोशस्था धर्ममुद्रेति लक्ष्यते ॥

पञ्चमी सङ्घमित्याहुर्महामुद्रापि सा भवेत् ।
षष्ठी तु भूतशमनी प्रत्येकार्हमुद्भवा ॥

सप्तमी बोधिसत्त्वानां दशमी तु प्रवेशिनाम् ।
मुद्रा पद्ममालेति महामुद्रां तु तां विदुः ॥

वरदा सर्वमुद्राणां मन्त्राणां च सलौकिकाम् ।
महाप्रभावां माअश्रेष्ठां ज्येष्ठां त्रैलोक्यपूजिताम् ॥

अष्टमीं सम्प्रयुञ्जीत मुद्रा त्रिभुवनालयाम् ।
मुद्राणां कथिता सङ्ख्या अस्मिं तन्त्रे महोद्भवा ॥

शतमेक तथा चाष्टं सङ्ख्यामुद्रेषु कल्पिता ।
एतत्प्रमाणं तु सम्बुद्धैः पुरा गीतं महीतले ॥

निर्नष्टे शासने शास्तुः प्रचरिष्यति देहिनाम् ।
आदौ तावत् करे न्यस्तमुभयाग्रां करे स्थितौ ॥

अन्योन्याङ्गुलिमावेष्ट्य सन्मिश्रां च पुनस्ततः ।
उभौ करौ समायुक्तौ पञ्चचूलासुचिह्नितौ ॥

१०९, प्। ३५९)

विपर्यस्तस्ततस्तेषामङ्गुलीनां तु अग्रतः ।
मुद्रा पञ्चशिखा ज्ञेया पञ्चचीरकमेव तु ॥

महामुद्रेति विख्याता बोधिसत्त्वशिरस्तथा ।
महाप्रभावो मुद्रोऽयं प्रयुक्तः सर्वकर्मिकः ॥

मञ्जुश्रियस्य मन्त्रेण हृदयैर्वापि योजयेत् ।
केशिन्या चैव मन्त्रेण मूलमन्त्रेण वा सदा ॥

योजयेद् विधिदृष्टेन सर्वमन्त्रेषु वा पुनः ।
कुर्यात् सर्वाणि कर्माणि अवन्ध्येदं वचनं मुनेः ॥

तथैव हस्तौ विन्यस्तौ कुर्यात् तत्करसम्पुटम् ।
तत्रैव त्रिशिखं कुर्यादङ्गुलीभिर्विमिश्रितैः ॥

उभौ हस्तौ तु यदाङ्गुष्ठौ शून्याकारौ तु निश्रितौ ।
मध्यमानामिकं चैव विपरीताकारवेणिकौ ॥

एतत् तत् त्रिशिखं ज्ञेयं त्रिचीराकार इति पुनः ।
एषा मुद्रा महामुद्रा मञ्जुघोषस्य धीमतः ॥

कुर्यात् सर्वाणि कर्माणि विधिदृष्टानि यानि वै ।
मञ्जुश्रियस्य ये मन्त्रास्तेषु सर्वेषु योजयेत् ॥

क्षिप्रं साधयते ह्यर्थां जापिभिर्जन्मनीषितम् ।
तदेव हस्तौ विन्यस्तौ कुर्यादेकशिखं तथा ॥

मध्यमाङ्गुलिसंश्लिष्टौ भवेदेकशिखा ध्रुवम् ।
एषा मुद्रा महामुद्रा सम्बुद्धैस्तु प्रकाशिता ॥

मन्त्रा कुमारसन्यस्ता ये चान्येऽपि सलौकिका ।
सिद्ध्यन्तेऽनेन युक्तास्तु क्षिप्रकर्मप्रसाधिका ॥

अनेन साध्यास्तथा मन्त्रा उत्तमा जिनभाषिता ।
क्षिप्रं साधयते ह्यर्थां विधिदृष्टेन कर्मणा ॥

तदेव करसंयुक्तौ विन्यस्तम् अङ्गुलीचितम् ।
उभौ तर्जन्य सङ्कोच्य सूच्यादञ्जलिसादृशम् ॥

११०, प्। ३६०)

विन्यस्ताङ्गुष्ठयुगले मध्याङ्गुल्यौ प्रसारितौ ।
अनामिकां वेष्टयित्वा तु उत्पलेति उदाहृतम् ॥

एषा बोधिसत्त्वस्य मूलमन्त्रेति लक्ष्यते ।
तदेव सर्वं यत् कर्म निर्दिष्टं पञ्चचीरके ॥

सर्वं तत् कुर्यात् क्षिप्रम् उत्पलेन तु साधयेत् ।
एषा वरदा मुद्रा क्षिप्रभोगप्रसाधका ॥

संयुक्ता मूलमन्त्रेण क्षिप्रमर्थकरो भवेत् ।
उभौ करौ तथा युक्तौ कुर्यादुत्तानकौ सदा ॥

तदेव सम्पुटं कृत्वादङ्गुलीभिः समन्ततः ।
विन्यस्तं शोभनाकारं स्वस्तिकाकारसम्भवम् ॥

मध्यमाङ्गुलिमध्ये तु कन्यसी तु समा भवेत् ।
अङ्गुष्ठयुगलविन्यस्तं मुद्रा स्वस्तिकमुच्यते ॥

एषा सर्वार्थकरी मुद्रा शान्तिकर्मे प्रयुज्यते ।
हृदयैः षडक्षरैर्युक्ता सर्वकर्मां करोति वै ॥

तदेव हस्तौ सम्मिश्र अन्योन्याङ्गुलिमिश्रितम् ।
पूर्णमुद्रेति मित्याहुर्गतिज्ञानविशेषगाः ॥

आकोशादञ्जलिं कृत्वा विरलं च समन्ततः ।
पूर्णमुद्रेति सम्बुद्धाः कथयामास जापिनाम् ॥

एषा सर्वशमनी दुःखदारिद्रदुःखिताम् ।
धनाढ्यं कुरुते क्षिप्रं मूलमन्त्रसचोदिता ॥

अपरं मुद्रमित्याहुः लोकज्ञानसुचेष्टिताः ।
उभौ हस्तौ तथा कृत्वा वामतर्जनिमाश्रितम् ॥

दक्षिणं तु करं कृत्वा तस्य मङ्गुलितस्थितम् ।
तर्जन्या मध्यमा चैव विसृते ध्वजमुच्यते ॥

ध्वजमुद्रा इति ख्याता उच्छ्रिता शक्रधारणी ।
अनया मुद्रया कुर्याद् बलिहोमादिकं क्रमम् ॥

१११, प्। ३६१)

सर्वकर्मकरा ह्येषा मूलमन्त्रप्रचोदिता ।
तदेव हस्तौ विन्यस्तौ अङ्गुलीकारसम्पुटौ ॥

सम्पुटा सा भवेन्मुद्रा सर्वविघ्नप्रनाशनी ।
क्रमेण कुरुते कर्म मन्त्रज्ञानसमोदिता ॥

विधिदृष्टेन मन्त्रा वै क्षिप्रमर्थप्रसाधिका ।
मन्त्रैर्मञ्जुघोषस्य हृदयस्थानसमुद्भवैः ॥

संयुक्ता कुरुते कर्माम् अशेषां लोकचिह्निताम् ।
तदेव हस्तौ विन्यस्तौ वामहस्तौपरि स्थितम् ॥

दक्षिणं तर्जनीं गृह्य वामं तर्जनिमुच्छ्रिता ।
एषा यष्टिरिति ख्याता मुद्रा शक्रनिवारणी ॥

सर्वां समयते विघ्नां दारुणानतिभैरवाम् ।
सर्वदुष्टवधार्थाय निर्दिष्टा मन्त्रजापिनाम् ॥

मूलमन्त्रसमोपेता क्षिप्रमर्थकरा बह्वेत् ।
तदेव हस्तं विन्यस्तं यष्ट्याकारसमुच्छ्रितम् ॥

दक्षिणं तु करं कृत्वा विसृतं छत्रमुच्यते ।
अनेन मुद्रया कुर्यादात्मरक्षं तु मूर्द्धितः ॥

सर्वमन्त्रैस्तु कुर्वीत कर्म रक्षाभिधायकम् ।
शत्रूणां छादयेद् वक्त्रं स्तम्भयेद्वा मनीषितम् ॥

यथाभिरुचितां दुष्टां कारयेद्वा समानुषाम् ।
नश्यन्ते सर्वविघ्ना वै दृष्ट्वा मुद्रां सच्छत्रकाम् ॥

तदेव हस्तौ कुर्वीत विन्यस्ताकारशोभनम् ।
अङ्गुष्ठाग्रयुक्तं तु मध्यमाङ्गुलिसारितम् ॥

अनामिकाकुञ्चिताग्रं तु मध्यपर्वे तु मध्यमम् ।
तदेव शक्तिनिर्दिष्टा सर्वदुष्टनिवारणी ॥

कथिता लोकनाथैस्तु रक्षा सग्रहनाशनी ।
विन्यस्ता क्रोधराजेन यमान्तेन तु रोषिणा ॥

११२, प्। ३६२)

कुर्यात् क्षिप्रतरं लोके दारुणं पापमुद्भवम् ।
प्राणोपरोधिनं कर्म सर्वबुद्धैस्तु वर्जितम् ॥

न कुर्यात् कर्ममेवं तु निषिद्धं लोकमुत्तमैः ।
अतः सर्वगतैर्मन्त्रैः योजयेच्छक्तिमुत्तमम् ॥

लौकिका ये च मन्त्रा वै तथैव जिनभाषिता ।
तां प्रयुञ्जीत मुद्रेऽस्मिं शक्तिना सुसमाहितः ॥

दृष्ट्वा मुद्रवरं घोरं नश्यन्ते सर्वनैरृता ।
पिशाचास्तारकप्रेता पूतना सह मातरा ॥

बालाग्रहविरूपाश्च बालकानां प्रपीडना ।
नश्यन्ते सर्वदुष्टा वै ये केचित् क्रूरकर्मिणाः ॥

तदेव हस्तं विन्यस्तं शक्तिकाकारसम्भवम् ।
विपरीतसम्पुटाकारम् अन्योन्याङ्गुलिमिश्रितम् ॥

तदेव सम्पुटमित्याहुः सम्बुद्धा विगतद्विषा ।
अनेन कारयेत् कर्म मन्त्रेणैकाक्षरेण तु ॥

पिथयेत् सर्वविदिशां कृत्स्नां दिशाबन्धं तदुच्यते ।
एष मुद्रा महारक्षा सम्पुटीकृत्य तिष्ठति ॥

नश्यन्ते सर्वदुष्टा वै ये चान्ये अहितानि वै ।
देहं रक्षयते सर्वं परिवारं चापि गोचरे ॥

अशेषं रक्षते चक्रं यत्र जापी वसेत् सदा ।
न तस्य पातकं किञ्चित् अहितं चापि सम्भवेत् ॥

क्षेमं सुभिक्षमारोग्यं परचक्रभयं कुतः ।
उभौ करौ समाश्लिष्य विपरीतं तु कारयेत् ॥

दक्षिणं तु अधः कृत्वा वाममुत्तानकः सहा ।
अन्योन्यमिश्रितौ ह्येतौ फरमित्याहुर्जिनोत्तमाः ॥

निवारयति दुष्टानामरीणां पापसम्भवम् ।
उपहृत्याक्षरैर्युक्ता रिद्धि * * * * * * (?) ॥

११३, प्। ३६३)

एकवर्णकैः स मन्त्रैर्युक्तः क्षिप्रमर्त्थकरो ह्ययम् ।
विचित्रार्त्थां कुरुते कर्माम् अरिसम्भवपापकाम् ॥

भोगिनां विषनाशं च मूलमन्त्रप्रयुक्तिका ।
अन्यां वा युक्तिकृतां दोषां निर्नाशयति देहिनाम् ॥

एष मुद्रवरः प्रोक्तः सम्बुद्धैर्द्विपदोत्तमैः ।
तदेव हस्तौ विन्यस्तौ संश्लिष्टावङ्गुलीभि तत् ॥

गदाकारं तदा कुर्यान्मूलेनापि वेष्टितम् ।
उभयोरङ्गुष्ठयोर्मध्ये कन्यसीभि सुवेष्टितम् ॥

षड्भिरङ्गुलिभिः कुर्यात् शून्याकारं सुशोभनम् ।
एतन्मुद्रा गदः प्रोक्ता सर्वदानवनाशनी ॥

दैत्या च दुष्टचित्ताश्च सौम्यचित्ता तु दर्शने ।
नश्यन्ते उद्यते मुद्रे गदे वापि सुपूजिते ॥

मूलमन्त्रप्रयुक्तास्तु क्षिप्रमर्त्थकरी शिवा ।
तथैव खड्गनिर्दिष्टा अनामिकाग्रैः सुकोचितैः ॥

तथैव हस्तौ कुर्वीत प्रसारिताग्रं तु कुञ्चितम् ।
शरावाकारसमौ कृत्वा अङ्गुलीभिः समन्ततः ॥

घण्टां तां विदुर्बुद्धाः प्रकाशयामास देहिनाम् ।
तदेव हस्तौ सम्मिश्रा उभौ बध्वा तु सम्पुटम् ॥

अन्योन्यं मिश्रयित्वा वै मध्यमाङ्गुलिभिस्तथा ।
कुर्यात्तन्मण्डलाकारं पाशाकारं तु त भवेत् ॥

तर्जनीति ततो न्यस्तं मध्यपर्वा सुमिश्रितैः ।
एष पाशमिति ख्यातः मुद्रोऽयं बुद्धनिर्मितः ॥

विनेयार्त्थं तु सत्त्वा बन्धमुक्तोऽतिदारुणम् ।
ये च दुष्टा ग्रहाः क्रूरा ये वै सर्वराक्षसाः ॥

ईषित् प्रचोदिता ह्येषा बध्नातीह समातराम् ।
बन्ध बन्धेत्यदा ह्युक्ता बध्नातीह सशक्रताम् ॥

११४, प्। ३६४)

किं पुनर्मानुषे लोके क्रव्यादां पिशिताशिनाम् ।
तदेव हस्तौ विन्यस्तौ उभौ कृत्वा तु तत्समौ ॥

वामपाणोपरि न्यस्तं दक्षिणं तु करं तथा ।
तदेव अङ्कुशाकारं मध्यमाङ्गुलितर्जनी ॥

मध्यमं पर्वमाश्लिष्य तर्जनी कारयेदङ्कुशम् ।
मूलमन्त्रप्रयुक्तोऽयमङ्कुशोऽयं प्रचोदितः ॥

क्षिप्रं कारयते कर्मां जापिभिर्जन्मनीषितम् ।
आनयेत् क्षिप्र देवेन्द्रां ब्रह्माद्यां सशक्रकाम् ॥

प्रयुक्तो मुद्रवरः श्रेष्ठः अङ्कुशाकर्षणं शुभः ।
तदेव हस्तौ सम्मिश्रविपरीताकारपिण्डिकम् ॥

मध्यमानामिकौ नाम्य अङ्गुल्यौ वामकरासृतौ ।
तर्जनी कन्यसां चापि उभौ तर्जन्यदक्षिणा ॥

दक्षिणा हस्तनिर्दिष्टा मध्यमानामिकनामितौ ।
विपर्यस्त ततो न्यस्तं श्लिष्टौ अङ्गुष्ठकारितौ ॥

तदेव भद्रपीठं तु कथिता मुद्रवरा शुभा ।
आसनं सर्वबुद्धानां क्रुद्धश्रकनिवारणम् ।

योजिता सर्वमन्त्रैस्तु जिनाग्राणां कुलसम्भवैः ।
स्थापिता सर्वबुद्धानां बोधिसत्त्वां महर्द्धिकाम् ॥

सदेवकं च लोकं वै सर्वा निश्चलकारिका ।
तदेव भद्रपीठं तु मध्यमाङ्गुलिमाश्रिताम् ॥

उपरिस्थानविन्यस्तौ मध्यानामिति शारितौ ।
तदेव पीठनिर्दिष्टा मुनिसिंहैर्जितारिभिः ॥

उभौ हस्तौ तथोन्मिश्र अङ्गुलीभिर्विवेष्टयेत् ।
ततो वेणिसमाधश्च कन्यसाङ्गुलिसूचिकाम् ॥

सङ्कोच्य मध्यमतः क्षिप्रं पद्मपत्रायतोद्भवाम् ।
उभयोरङ्गुष्ठयोन्मिश्रः स्थापयेत् स्थितकं सदा ॥

११५, प्। ३६५)

एतन्मयूरासनं प्रोक्तं सम्बुद्धैर्विगतद्विषैः ।
एतद् बोधिसत्त्वस्य मञ्जुघोषस्य धीमतः ॥

आसनं मुनिवरैर्ह्युक्तो बालक्रीडनकं सदा ।
महाप्रभावा इयं मुद्रा पुरा ह्युक्ता स्वयम्भुभिः ॥

करोति कर्मवैचित्र्यं मञ्जुमन्त्रप्रचोदिता ।
विनाशयति दुष्टानां क्रव्यादा पिशिताशिना ॥

परिपूर्णं तथा विंशन्मुद्राणां तु मतः परम् ।
कथिता लोकमुख्यैस्तु सम्बुद्धैर्द्विपदोत्तमैः ॥

अतः परं प्रवक्ष्यामि मुद्राणां विधिसम्भवम् ।
करैः शुभैस्तथा शुद्धैः निर्मलैर्जलशौचितैः ॥

श्वेतचन्दनकर्पूरैः कुङ्कुमैर्जलमिश्रितैः ।
बहुभिर्गन्धविशेषैस्तु उपस्पृश्यानिलशोषितैः ॥

शुचिभिः करैरभ्यङ्गैरङ्कुशैश्चापि अदहुलैः ।
तदेव मुद्रां बन्धीयाद् वन्द्याद्यां द्विपदोत्तमाम् ॥

शालं सङ्कुसुमं चैव अमिताभं रत्नकेतुनम् ।
अमितायुर्ज्ञानविनिश्चयेन्द्रं लोकनाथं दिवङ्करम् ॥

क्षेमं लोकनाथं च सुनेत्रं धर्मकेतुनम् ।
प्रभामालीति विख्यातं ज्येष्ठं श्रेष्ठमितोत्तमम् ॥

एतेषामन्यतरं बुद्धं वन्दित्वा द्विपदोत्तमम् ।
शुचिर्भूत्वा शुचिस्थाने बन्धेन्मुद्रां जपान्तिके ॥

आचार्यां तु यं दृष्ट्वा सन्देहार्थं विमुच्यते ।
तं तथाचारसम्पन्नो बन्धेन्मुद्रां यथासुखम् ॥

संशोध्य च विविक्तं वै कृत्वा स्थानाभिमन्त्रितम् ।
न क्रुद्धो न चोच्छिष्टो न चाक्रुष्टो परेण तु ॥

नाङ्गारे न भस्मनिर्मध्ये बन्धेन्मुद्रां कदाचन ।
न सक्तः परदारेषु परद्रव्येषु वै तदा ॥

११६, प्। ३६६)

न स्थितो न निपन्नश्च वन्धेन्मुद्रां सुखोदयाम् ।
न दक्षिणामुखमास्थाय नापि पश्चान्मुखोत्थितः ॥

न चोर्ध्वे नाप्यधश्चैव मुद्राबन्धं तु कारयेत् ।
उदङ्मुखः पूर्वतश्चापि विदिशेष्वेतेषु तेषु वै ॥

बन्धयेन्मुद्रमन्त्रज्ञः मन्त्रं स्मृत्वा तु चक्रिणम् ।
एषा विधिमतः श्रेष्ठा सर्वमुद्रेषु बन्धने ॥

अत ऊर्ध्वं प्रवक्ष्यामि मुद्रा साधिकविंशमम् ।
उभौ करौ समायुक्तौ कुर्यादङ्गुलिमिश्रितौ ॥

मध्यमं तु ततः शून्यम् अङ्गुलीभिः समादिशेत् ।
मध्यपर्वविधिन्यस्तं शून्याग्रं कन्यसीभितम् ॥

कारयेन्नित्यमन्त्रज्ञो अङ्गुष्ठौ कुञ्चिताश्रितौ ।
त्रिशूच्याकारसंयुक्तौ पट्टिशं विदुर्बुधाः ॥

एष मुद्रवरः क्षिप्रं परमन्त्रांसि च्छिन्दिरे ।
परमुद्रां तथा भिन्द्यात् दुष्टसत्त्वनियोजिता ॥

त्राशयेत् सर्वभूतानां ग्रहमातरपूतनाम् ।
करोति कर्मवैचित्र्यं क्षिप्रमानयते शिवम् ॥

रुद्रेण भाषिता ये मन्त्रा विष्णुना ब्रह्मणा स्वयम् ।
तां विच्छेद मन्त्रज्ञो विधिदृष्टेन कर्मणा ॥

मुद्रेणानेनैव युक्तेन पट्टिशेन महात्मना ।
मन्त्रेण चैव युक्तस्थो जिनवक्त्रसमुद्भवैः ॥

करोति कर्मवैचित्र्यं छेदभेदक्रियां तथा ।
परसत्त्वकृतां दुष्टा नाशयेत् तामशेषतः ॥

तदेव हस्तौ संवेष्ट्य मध्यानामिकमुच्छ्रितौ ।
उभौ करौ स्मायुक्तौ लिङ्गाकारसमुद्भवौ ॥

चतुरङ्गुलसंयुक्त लिङ्गमुद्रमिति मतम् ।
महेश्वरो देवपुत्रो वै आत्ममन्त्रं च मुद्रिणम् ॥

११७, प्। ३६७)

कथयामास तन्त्रे वै आकृष्टौ मुनिना पुरा ।
अन्येषां चात्मनो मन्त्रां मुद्रां चैव सविस्तराम् ॥

प्रकाशयामास आकृष्टः समयेऽस्मिं कल्पमुत्तमे ।
एतन्मुद्रवरं ह्यग्रं लौकिकेषु प्रकत्थ्यते ॥

यावन्ति केचिन्मन्त्रा वै रुद्रप्रोक्ता महीतले ।
तेषामधिपतिर्ह्यग्रो मुद्रोऽयमेकलिन्गितः ॥

बोधिसत्त्वप्रभावेन मञ्जुघोषस्य धीमतः ।
आनीतो मण्डले * * (?) नौम कर्मप्रसाधकः ॥

यावन्ति केचिद् दुष्टा वै पर्यटन्ते महीतले ।
ग्रहाः क्रव्यादपिशिताश्च मातराः कटपूतना ॥

तेषां निवारणार्थाय रुद्रविघ्नकृतेषु वै ।
पुनरेतन्मुद्रवरं ह्युक्तं बलिकर्मेषु वै निशा ॥

करोति सर्वकर्मां वा बुद्धाधिष्ठानऋध्यया ।
तथैव तद्विधं कृत्वा द्विलिङ्गसमुदाहृतः ॥

तथैव मालमङ्गुल्यै स माला परिकीर्तिता ।
तदेव मालां सङ्कोच्य सम्पुटाकारसम्भवम् ॥

तर्जन्यावुभौ श्लिष्य कुर्याद्धनुसन्निभम् ।
अङ्गुष्ठौ पीडयेन्मुष्टौ धनुर्मुद्रा स लक्ष्यते ॥

तदेवमङ्कुलिं कुर्याद् दक्षिणाकरनिसृता ।
वामं तर्जनीं मुष्टौ निष्पीड्यन्ते तु पर्वणि ॥

नाराचं मुद्रमित्युक्तः समलिङ्गं पुनर्वदे ।
उभौ हस्तौ ततः कृत्वा अन्योन्या सृतपिण्डितौ ॥

दक्षिणाकरमङ्गुष्ठम् उच्छ्रितां लिङ्गसम्भवम् ।
समलिङ्गं तं विदुः कल्पे शासनेऽस्मिं विशारदाः ॥

तदेव हस्तौ उभौ कृत्वा अन्योन्यासृतमङ्गुलम् ।
उभौ तर्जन्य संयोज्य शूलाकारं तु कारयेत् ॥

११८, प्। ३६८)

एतच्छूलमिति प्रोक्तं सत्त्वदुष्टानुशासनम् ।
तदेव हस्तौ निसृत्य मुष्टिं बध्वा उभौ पुनः ॥

अङ्गुष्ठौ स्थितकां कृत्वा मुद्गरं समुदाहृतम् ।
तदेव मुद्गरमीषच्चालयेत् करसम्पुटे ॥

तोमरं कथितं ह्यग्रं मुद्रं शक्रनाशनम् ।
उत्पलं तु ततो बध्वा अनामिकाङ्गुलिभिस्तदा ॥

अधस्तादङ्गुस्ठयोर्मध्ये विन्यस्तं चाप्रदर्शितम् ।
एत दंष्ट्रमिति प्रोक्तं विवृते वक्त्रमुच्यते ॥

समौ कृत्वा ततस्तेषामङ्गुलीनां समन्ततः ।
उरे दत्वावसव्यं वै क्षिपेत् त्वा पटमुच्यते ॥

उभौ सम्पुटौ कृत्वा हस्तौ विन्यस्तशोभनौ ।
अङ्गुलीमङ्गुलीभिश्च अन्योन्याग्रश्लेषितौ ॥

उत्थितानामिसङ्कोच्य कुम्भमुद्रमुदाहृतम् ।
तदेव मुष्टि संयोज्य तर्जन्यौ पुनरुच्छ्रितौ ॥

कुर्यात् खखराकारं वेणिकाकारमुद्भवम् ।
एतन्मुद्रं समाख्यातं खखरेत्यरिसूदना ॥

तदेव खखर ईषदवनाम्यं तु शोभनम् ।
कुर्यादङ्गुष्ठविन्यस्तं कलशं तदिहोच्यते ॥

उच्छ्रितं तु पुनः कृत्वा तर्जन्यानामिसम्भवम् ।
चतुर्भिरङ्गुलीभिः कुर्यान्मुशलाकारसम्भवम् ॥

मुद्रं मुशलमित्याहुः मन्त्रज्ञानसमन्विता ।
तदेव हस्तौ विन्यस्तौ मध्यमानामिकौ अधः ॥

उपरिष्टात् तेषु वै नित्यं न्यस्तं दक्षिणावायवेष्टितम् ।
संवेष्ट्य अङ्गुष्ठयोर्न्यस्तौ कन्यसा तर्जनी तु ताम् ॥

समन्तात् पर्यङ्कमाकारं मुद्रामाहुस्तथागता ।
एतत् पर्यङ्कमुद्रेति ख्यातं लोके समन्ततः ॥

११९, प्। ३६९)

अनया मुद्रया युक्तो मन्त्रयुक्तस्तथा पुनः ।
सर्वैर्जिनमुक्तैस्तु वज्राब्जकुलमुद्भवैः ॥

एतैर्मन्त्रैः प्रयुक्तोऽयं सर्वकर्मकरं शिवम् ।
ये च मुद्रास्तथा प्रोक्ता मुशलाद्याः शूलसम्भवाः ॥

सर्वे वै क्रोधराजस्य यमान्तस्येह शासने ।
उग्रा प्रहरणा ह्येते सत्त्ववैनेयनिर्मिता ॥

बोधिसत्त्वप्रभावेन ऋद्ध्या कुर्वन्ततस्तदा ।
सर्वं वैनेयदुष्टानां कुम्भाद्या मुद्रभाषिता ॥

तदेव हस्तं विन्यस्तं पटहाकारसम्भवम् ।
आबन्धेदङ्गुलिभिर्युक्तं सर्वाभिश्च सवेणिकाम् ॥

वेणिकां कृत्यमङ्गुष्ठैस्ततो न्यस्य करे पुनः ।
मध्ये प्रादेशिनी कृत्वा उच्च्रिताग्रं तु कारयेत् ॥

एतत् पटहनिर्दिष्टं मुद्रा दुष्टनिवारणी ।
तदेव हस्तौ विन्यस्तौ अञ्जली सुप्रयोजितौ ॥

उभौ तर्जन्य सङ्कोच्य कुण्डलाकारशोभनौ ।
अङ्गुष्ठं ते अधः कृत्वा अङ्गुष्ठौ नामितौ उभौ ॥

प्रविष्टौ मध्यपुटान्तस्थौ शङ्खं भवति शोभनम् ।
एतद्धर्मसङ्खं वै वरमुद्रं प्रकाशितम् ॥

मन्त्रैर्मुनिवरोक्तैस्तु संयुक्तः सर्वकार्मिकः ।
करोति कर्मवैचित्र्यं सर्वदंष्ट्राविषभोगिनाम् ॥

निर्नाशयति सर्वांस्तां मूलमन्त्रप्रयोजिता ।
शङ्खमापूरयेज्जप्तं विद्याराजैर्महर्द्धिकैः ॥

निर्विषोऽपि भवेत् क्षिप्रं यो जन्तुर्विषमूर्च्छितः ।
चत्वारिंशति समाख्याता मुद्रा श्रेष्ठा महर्द्धिका ॥

अतः ऊर्ध्वं प्रवक्ष्यामि मुद्रालक्षणसम्भवम् ।
तद्देव हस्तौ विन्यस्तौ अङ्गुल्याग्रसवेणिकौ ॥

१२०, प्। ३७०)

भूयो दामोटयेद् यत्नादवसव्यं तु कारयेत् ।
अधस्तात् सर्वतः कृत्वा शङ्कलेति उदाहृता ॥

एषा मुद्रवरश्रेष्ठाः सर्वदुष्टार्त्थबन्धनी ।
मन्त्रैस्तैरेभिसंयुक्ता मुनिमुख्यार्त्थभाषितैः ॥

सर्वां बन्धयते भूतां ग्रहमातरकश्मलाम् ।
तदेव हस्तौ सङ्कोच्य मुक्त्वा वेणि समुच्छ्रयेत् ॥

तदेव विधिना बध्वा अन्येनाङ्गुष्ठमध्ययोः ।
मध्यपर्वे समाश्लिष्य उभयाग्र्यं करं पुनः ॥

दत्वाभिमुखं ह्यग्नेर्वह्निमन्त्रसुयोजितः ।
आवाहयेच्छिखिनं होमे अग्निकर्मेषु सर्वदा ॥

क्षिप्रमाह्वयते वह्निः मुद्रेणानेन योजिता ।
विसर्जयेदनेनैव मन्त्रेण तर्जन्याग्रविमिश्रितैः ॥

अङ्गुष्ठे नित्यमाश्लिष्टे विशर्ज्यं वह्निदैवतम् ।
मुद्रा बहुमता ह्येषा अग्निकर्मप्रसाधिका ॥

आह्वानयति देवानां यदृच्छं मन्त्रजापिनो ।
एषा बहुमता मुद्रा बध्वाधिष्ठानवर्णिनी ॥

करोति कर्मवैचित्र्यं संयुक्ता मन्त्रमुत्तमैः ।
तदेव हस्तौ एकस्थौ सम्पूर्णामङ्गुलिमाश्रितौ ॥

कुर्यादाकोशमञ्जल्या श्लथं वर्तुलसम्भवम् ।
परिपूर्णं ततः कृत्वा कुङ्मलं पद्मसम्भवम् ॥

मनोरथं तु तं विन्द्या मुद्रां सर्वार्त्थसाधिकाम् ।
एषा मुद्रा वरा श्रेष्ठा पुरा गीता तथागतैः ॥

सत्त्वानां हितकाम्यार्त्थं मञ्जुघोषे नियोजिता
मनसा काङ्क्षते सत्त्वो यो हितार्त्थं मनोरथम् ॥

तूर्णं तत् साधयते क्षिप्रं मन्त्रैर्युक्ता महर्द्धिकैः ।
एषा मुद्रा वरा श्रेष्ठा मनोरथेति स उच्यते ॥

१२१, प्। ३७१)

एषा मुद्रवरा श्रेष्ठा सर्वकर्मप्रसाधिका ।
क्षिप्रं साधयते मन्त्रां द्रव्यां चैव सविस्तराम् ॥

एषा मुनिचन्द्रेण चन्द्राभा सुप्रवर्त्तिता ।
चन्द्रा पद्मकुले मन्त्रा तेनायं सुप्रयोजिता ॥

करोति कर्मवैचित्र्यं सितवर्णामृतशम्भवा ।
तदेव हस्तौ संशुद्धौ उभौ अङ्गुलिमाश्रितौ ॥

षड्भिरङ्गुलिमाश्लिष्टौ पुस्तकाकारसम्भवौ ।
उच्छ्रितौ वर्त्तुलौ कृत्वा कन्यसाङ्गुष्ठकौचितौ ॥

एषा मुद्रा वरा प्रोक्ता प्रज्ञापारमितामिता ।
जननी सर्वबुद्धानां मोक्षार्त्थं तु नियोजिता ॥

साधयेत् सर्वकर्मं वै शान्तिपुष्ट्यर्त्थयोजिता ।
तदेव हस्तौ विन्यस्तौ दक्षिणं वामतोपरि ॥

कृत्वा नाभिदेशे वै कोलस्थं निम्नमुद्भवम् ।
उभौ हस्तौ तदाश्लिष्य स मुद्रा पात्रमुच्यते ॥

पात्रं जननी मुद्रौ जिनमन्त्रैः सुयोजितौ ।
करोति कर्मवैचित्रं यथेष्टं मन्त्रविचक्षणैः ॥

तदेव हस्तावुद्धृत्य कुर्यात् तर्जनिमुच्छ्रितौ ।
मध्यमाङ्गुलिमग्रं तु नामितं मीषितोरणम् ॥

तदेव उच्छ्रितौ कृत्वा कथयामास सुतोरणम् ।
तदेव बध्वा तदन्योन्यं घोषनिर्दिष्टमष्टमम् ॥

उच्छ्रितोत्तममङ्गुष्ठौ जपशब्दं विदुर्बुधाः ।
तदेव उच्छ्रितौ हस्तौ अङ्गुल्याग्रौ सुकुञ्चितौ ॥

सर्वैरङ्गुलिभिर्मुक्ता विरला केशसम्भवा ।
भेरी तं विदुर्बुद्धा धर्मभेरीति उच्छतौ ॥

तदेव हस्ततलम् ऊर्ध्वं दक्षिणं वामतोच्छतम् ।
अधस्तात् कारयित्वा तु गजाकारं सुयोजितम् ॥

१२२, प्। ३७२)

दक्षिणं मध्यमाङ्गुल्यां कराकारं तु कारयेत् ।
एतद् गजमुद्रं तु निर्दिष्टं संसारपारगैः ॥

एषा मुद्रा महामुद्रा सम्बुद्धैस्तु प्रकाशिता ।
लरोति कर्मां सर्वांस्तांस्तामशेषां लोकपूजिता ॥

दक्षिणं हस्तमुद्यम्य अभयदत्तं परिकल्पयेत् ।
गृहीत्वा मणिबन्धे तु वामहस्तेन मुद्यतम् ॥

मध्यमां तर्जनी स्पृष्ट्वा अङ्गुष्ठं मध्यतो स्थितम् ।
मध्यपर्वाश्रितं युक्तं वरहस्तं तदुच्यते ॥

एतन्मुद्रवरं श्रेष्ठम् आदिबुद्धैस्तदोदितम् ।
अभयं सर्वसत्त्वानां मुद्रां बध्वा ददौ जपी ॥

मन्त्रैर्मुनिमतैर्युक्तः क्षिप्रमर्थप्रसाधकः ।
तदेव हस्तौ संयुक्तौ सम्पुटाकारशोभनौ ॥

उच्छतौ मध्यमाङ्गुल्यौ मुद्रा तद्गतचारिणी ।
तदेवमङ्गुलिभिर्वेष्ट्य अङ्गुष्ठौ उपरि स्थितौ ॥

न्यस्य पर्वतले न्यस्तं केतुमित्याहु मुद्रिणम् ।
तदेव मूर्च्छिताग्रे कं शुभो निर्दिष्टमुद्रिणम् ॥

उभौ तर्जन्यसमायुक्तौ अन्योन्याग्रविमिश्रितौ ।
सङ्कोच्य पर्वतोऽङ्गुष्ठाः कन्यसीति समुच्छ्रितौ ॥

तदेव परशुनिर्दिष्टा मुद्रा सर्वार्थसाधिका ।
सङ्कोच्य पुनः सर्वा वै सा मुद्रा लोकपूजिता ॥

तदेवमुच्छ्रतं कुर्यात् तर्जन्याग्रसूचिकम् ।
भिण्डिपालस्ततो मुद्रा लाङ्गलं चक्रतो गतम् ॥

तर्जन्यौ वक्रतः कृत्वा लाङ्गलो मुद्रमुत्तमम् ।
एतत् षष्टिमुद्राणां कथितं विधिना पुनः ॥

सर्वे ते प्रहरणा मुद्रा संयुक्ता मन्त्रमीरिता ।
सर्वां विघ्नकृतां दोषां ग्रहकूष्माण्डमातराम् ॥

१२३, प्। ३७३)

सर्वराक्षसमुख्यानां बालसर्वानुत्रासिनाम् ।
निर्नाशयति सर्वांस्तां मुद्रां प्रहरणोद्भवाम् ॥

षष्टिमेतं तु मुद्राणां लक्षणं समुदाहृतम् ।
अतः परं प्रवक्ष्यामि मुद्राणां विधिसम्भवम् ॥

तदेव हस्तौ विन्यस्तौ पद्माकारसमुच्छ्रितौ ।
प्रसारिताङ्गुलिभिः सर्वं मुद्रां पद्म इति स्मृतम् ॥

एषा मुद्रवरा ख्याता सन्यस्ताब्जकुलोद्भवाम् ।
यावन्त्यब्जकुले मन्त्रा संयुक्ता तैः शुभोदया ॥

क्षिप्रकर्मकरा ख्याता बुद्धाधिष्ठानमुद्भवा ।
सर्वां साधयते मन्त्रां यावन्त्यब्जकुलोदया ॥

मुद्राणां पद्ममुद्रेयं मध्यमे समुदाहृता ।
उभौ हस्तौ समायुक्तौ तर्जनीभिः समुच्छृतौ ॥

मध्यमाङ्गुलिभिर्युक्तं विन्यस्ताकारसम्भवम् ।
अङ्गुष्ठौ न्यस्य वै तत्र मध्यमाङ्गुलिपर्वयोः ॥

तदेव कथितं वज्रं कन्यसं मुद्रमुत्तमम् ।
यावन्ति वज्रकुले मन्त्रा ते साध्यानेन मुद्रिता ॥

सिद्ध्यन्ते क्षिप्रतो युक्ता विधिना सम्प्रकीर्त्तिता ।
संयुक्तैः साधकं कर्म यः साध्यं साधयेत् सदा ॥

तस्य सिद्धिर्भवेन्नित्यम् उत्तमाधममध्यमा ।
सर्वे च लौकिका मन्त्राः सिद्ध्यन्ते ह्यविकल्पतः ॥

उभौ हस्तौ समायुक्तौ मध्यमाङ्गुलिमुच्छ्रितौ ।
सङ्कोच्यानामिकाङ्गुष्ठौ कन्यसौ सूचिमाश्रितौ ॥

उभौ तर्जनिसंश्लिष्टौ मध्यपर्वाग्रकुञ्चितौ ।
मध्यमो सूचिसमौ न्यस्तौ चक्राकारसमुद्भवौ ॥

एतत्तु धर्मचक्रं वै मुद्रराजमिहोदितः ।
धर्मराजैस्तथा ह्युक्तो धर्मचक्रश्च वर्तितुम् ॥

१२४, प्। ३७४)

शान्तिचक्रं तदा वव्रे मुनिचन्द्रोऽथ सप्तमः ।
त्रिमलां विच्छेदजापेन मुद्रराजेन योजिता ॥

चक्रिण्यो ये च उष्णीषा लोचनाविद्यमुत्तमा ।
भ्रुकुटीपद्मकुले तारा मामकी चापि वज्रिणे ॥

सिध्यन्ते धर्मचक्रेण मुद्राराजेन योजिता ।
समस्ता लौकिका मन्त्रा विष्णुरीशानभाषिता ॥

तां विच्छेददृष्ट्वा वै जापिनां मुद्रसंयुताम् ।
एतन्मुद्रवरं श्रेष्ठं धर्मधातुविनिःसृतम् ॥

करोति सर्वकर्मं वै सत्त्वानां च यथेप्सितम् ।
धर्मराजेन शान्त्यर्थं मुद्रेयं सम्प्रभाषितम् ॥

अस्मिं कल्पवरे श्रेष्ठे सर्वकर्मप्रसाधिका ।
मुद्रेयं धर्मचक्रेति मञ्जुघोषस्य शासने ॥

अग्रिमं सर्वमुद्राणां शान्तिकर्मसु योजयेत् ।
मन्त्रिभिर्लक्षते नित्यं शिवचक्रा तु सम्भवम् ॥

तदेव विन्यस्तौ हस्तौ सम्पुटाकारमुद्भवौ ।
श्लथकोशायताङ्गुल्यः उभौ सङ्कुचितौ शुभौ ॥

पुण्डरीकमिति ज्ञेयं मुद्रा सर्वार्थसाधका ।
तदेव हस्तं निक्षिप्य त्यज्य मुष्ट्यायताङ्गुलिम् ॥

प्रसारिता कराकारं वरदं मुद्रमुच्यते ।
उभौ हस्तौ पुनः कृत्वा अङ्गुलीभिः समन्ततः ॥

बध्वा च वेणिकाकारं मुद्रैषा रज्जुमुच्यते ।
पुनः प्रसारयस्तदेकं तु दक्षिणं करमुत्तमम् ॥

कुर्यात् सूचिकाकारं मध्यतर्जनिमङ्गुलौ ।
ईषत् सङ्कुचिताग्रं तु अङ्गुलीनां नतोत्तमम् ॥

स्थितिकां कारयेत् तत्र सुन्यस्तं तर्जनी तु तम् ।
कुर्यात् संश्लेषिते तत्र अनामिकापर्वनिश्रिता ॥

१२५, प्। ३७५)

मुद्रेयं कुन्तनिर्दिष्टा बहुधा लोकनायकैः ।
तदेव हस्तौ विन्यस्तौ उभौ तर्जन्यसूचितौ ॥

उभौ मुष्टिसमं कृत्वा अङ्गुलीभिः समं पुनः ।
तदेव मुद्रसमाख्याता वज्रदण्डं मनीषिभिः ॥

तदेव हस्तौ संयोज्य सम्पुटाकारकारितम् ।
विन्यस्तामङ्गुलिमञ्जल्यमन्योन्याश्लेषमाश्रितम् ॥

उभौ अङ्गुष्ठमाश्रित्य शतघ्नामुद्रमुच्यते ।
ततः कृत्वा दुभौ हस्तौ समन्तान्निम्नसम्भवौ ॥

अञ्जलिं तु ततो कृत्वा नाधायानससम्भवम् ।
मुद्रेयं भेरीति ख्याता त्रिषु लोके हितायिभिः ॥

सन्तारयति भूतानां महासंसारसागरात् ।
तदेवाञ्जलिमुत्सृज्य चित्रहस्ततलावुभौ ॥

विमानमुद्रमित्याहुः ऊर्ध्वसत्त्वनयानुगाः ।
तदेव हस्तौ सङ्कोच्य स्यन्दनं तदिहोच्यते ॥

त्रियानगमनं श्रेष्ठं रतो ह्युक्तो नुतायिभिः ।
नयते सर्वभूतानां जापिनां मन्त्रसम्पदाम् ॥

उत्तमायानमाशृत्य ययुबुर्द्धगतं तु तम् ।
तदेव हस्तौ उत्सृज्य उभौ कृत्वा पुनस्ततः ॥

कुर्याच्चित्रतलं शुद्धं वेदिकाकारसम्भवम् ।
एतन्मुद्रवरं श्रेष्ठं लोकनाथैः सुपूजितम् ॥

शयनं सर्वबुद्धानां जिनपुत्रैः समुदाहृतम् ।
यत्रातीतास्तु सम्बुद्धा शान्तिं जग्मुस्तदाश्रिता ॥

निर्वाणधातुसन्न्यस्ता यत्रारूढाशयानुगा ।
स एषा मुद्रमिति ख्याता शयनं लोकनायकम् ॥

तदेव हस्तौ विन्यस्तौ संश्लिष्ट्याङ्गुलिभिः समम् ।
सम्पुटाकोशविन्यस्तं तर्जन्येकं तु दक्षिणम् ॥

१२६, प्। ३७६)

कुर्याद् वक्रतो ह्यग्रे अर्धचन्द्र। स उचय्ते ।
उभौ हस्तौ पुनः कृत्वा दक्षिणाङ्गुष्ठमुष्टितः ॥

वामहस्तासृतैः सर्वैः अङ्गुलीभिः समोचितैः ।
बध्वा मुष्टि कराग्रे तु दक्षिणाङ्गुष्ठमिश्रितः ॥

तं दक्षिणैरेव समायुक्तैरङ्गुलीभिः पुटीकृतैः ।
कन्यसां विसृतां कृत्वा वीणमुद्रा उदाहृता ॥

उभौ हस्तौ पुनः कृत्वा आकाशौ विरलाङ्कुलौ ।
उभावङ्गुष्ठयोर्मध्या उभौ तर्जनिमाश्रितौ ॥

एषा षद्मालया मुद्रा सम्बुद्धैः कथिता जगे ।
उद्धृताङ्गुष्ठकौ नित्यं पुनः कुवलयोद्भव ॥

मुद्रा च कथिता लोके सम्बुद्धैर्द्विपदोत्तमैः ।
तदेवमञ्जलिं कृत्वा प्रणामाकारजगद्गुरुम् ॥

सा नमस्कारमुद्रेयं सर्वलोकेषु विश्रुता ।
तदेव मुद्रा विष्टभ्य हस्तौ यमलसम्भवौ ॥

एषा यमलमुद्रेयं त्रिषु लोकेषु विश्रुता ।
ईषन्मूलतो हस्तौ अङ्गुष्ठौ च सुपीडितौ ॥

सा भवेत् सम्पुटा मुद्रा शोकायासीवनाशनी ।
एता मुद्रास्तु कथिता ये सर्वे प्रहरणोद्भवाः ॥

पुष्पाख्या शयनयाश्च वाद्याद्या ग्रहनामका ।
सर्वे सर्वकरा युक्ता मन्त्रैः सर्वैस्तु भाषितम् ॥

न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।
संयुक्ता मुद्रमन्त्राश्च क्षिप्रं कर्माणि साधयेत् ॥

जापिनस्तपसा युक्तो जप्तमात्रो विचक्षणः ।
मुद्रा मन्त्रप्रयुक्ता च असाध्यं किञ्चि न विद्यते ॥

उभौ हस्तौ पुनः कृत्वा अञ्जल्यान्योन्यसक्तकम् ।
कन्यसानामिकाङ्गुष्ठौ पार्श्वतो न्यस्तौ धूपमुद्रा उदाहृता ॥

१२७, प्। ३७७)

आधाराञ्जलियोगेन तर्जन्यावीषत् कोचयेत् ।
सामान्या वलिमुद्रा तु उद्भूता लोकतायिभिः ॥

मध्येषु पुष्पविन्यस्तं यथासम्भवतो विविधैः ।
दत्तं भवति मन्त्राणां बलिकर्मेषु सर्वसु ॥

दक्षिणेनाभयं हस्तं कृत्वा च वामकरेण वै ।
मणिबन्धनयोगेन ग्राह्यं करदक्षिणम् ॥

एषा ते सर्वमन्त्राणां गन्धमुद्रा उदाहृता ।
दक्षिणाकरमुष्टौ तौ अङ्गुष्ठौ मध्यमौ सदा ॥

सूच्याकारं ततः कृत्वा दीपमुद्रा उदाहृता ।
अनामिकाङ्गुष्ठयोरेव अक्षसूत्रात् संस्थितम् ॥

कन्यसां प्रसार्यतो नित्यं मध्यमां तस्य पृष्ठतः ।
तर्जनीं कुञ्चितां न्यस्य अक्षमुद्रेति उच्यते ॥

गर्भाञ्जल्यास्ततो न्यस्य अक्षसूत्रं स मन्त्रवित् ।
जपेद् यथेष्टतो मन्त्रं क्षिप्रं सिद्धिवरप्रदम् ॥

शोभनं सर्वमुद्राणामेष दृष्टविधिः सदा ।
अग्नेर्दक्षिणहस्तेन अभयाग्रं तु कारयेत् ॥

अभिमुखं ज्वलने स्थाप्य तर्जनीं कुञ्चयेत् सदा ।
अङ्गुष्ठं च करे न्यस्य मध्ये कुञ्चितसंस्थितम् ॥

एतदावाहनं मुद्रं निर्दिष्टं जातवेदसे ।
कुञ्चितं तर्जन्याग्रम् अङ्गुष्ठौ चैकयोजितम् ॥

विसर्जनं सर्वकर्मेषु ज्वलने सम्प्रदृश्यते ।
कुर्यात् सर्वमन्त्राणां होमकर्मविचक्षणः ॥

मुद्रैरेतैर्भिसंयुक्तः मन्त्रमग्नौ सुयोजितः ।
प्रणामाञ्जलिरन्तरिता अङ्गुलीभिः समन्ततः ॥

कुर्यात् तं विपरीतं तु अङ्गुष्ठौ च समिश्रितौ ।
बहिः सङ्कोच्य तर्जन्यौ मध्यमीभिः समाश्रितौ ॥

१२८, प्। ३७८)

एषा मुद्रवरा ह्युक्ता पूजाकर्मसु योजिता ।
प्रणामं सर्वमन्त्राणां मन्त्रनाथं जिनोरसाम् ॥

शोधनं सर्वमन्त्राणामासनं च प्रदापयेत् ।
असम्भवेऽपि पुष्पाणां मुद्रं बध्वा तु योजयेत् ॥

पूजिता विधिना ह्येते मन्त्रा सर्वार्थसाधिका ।
मुद्राबन्धेन पूजार्थं कृतं भवति शोभनम् ॥

द्वितीया चित्तपूजा तु यादृशी पुष्पसम्भवा ।
एष पूजाविधिः प्रोक्ता सम्बुद्धैः द्विपदोत्तमैः ॥

अभावेन तु पुष्पाणां द्विविधा पूज उच्यते ।
सर्वमन्त्रप्रसिध्यर्थं सर्वकर्मेषु योजयेत् ॥

सर्वकर्मकरा मुद्रा सर्वबुद्धैस्तु भाषिता ।
आसने शयने स्नाने पानानुभोजने ॥

शोभने दीपने मन्त्रे स्थाने मण्डलकारणे ।
समयः सर्वमन्त्राणामधिष्ठानार्थं तु मन्त्रिणाम् ॥

कथिता लोकनाथैस्तु मुद्रेयं सर्वकर्मिका ।
परिपूर्णं शतं प्रोक्तं मुद्राणां नियमादयम् ॥

अतःपरं प्रवक्ष्यामि मुद्रामष्टमतां गताम् ।
तदेव हस्तौ विन्यस्तौ उभौ कृत्वा पुनस्ततः ॥

तयैव प्रदेशिनीं कृत्वा मध्यग्रा सूचिमिश्रिता ।
नखस्याधस्तात् तृतीये वै भागे संसक्तकारितौ ॥

आकोशामुद्भवावेष्ट्य शूच्याकारं तु कारयेत् ।
एतन्मन्त्राधिपतेर्मुद्रा शक्रिणस्य महात्मनः ॥

एता एव प्रदेशिन्या सञ्चार्या सममध्यमा ।
शूच्या नखस्य विन्यस्ता संसक्ता च अनामिका ॥

एष उष्णीषमुद्रा वै जिनेन्द्रैः सम्प्रकाशिता ।
तदेव हस्तौ विन्यस्तौ मध्यमाङ्गुलिवेष्टितौ ॥

१२९, प्। ३७९)

कन्यसाङ्गुलिसंयुक्तौ मुद्रेयं मितमुद्भवा ।
मध्यसूच्या समं कृत्वा संसक्तौ च करोरुहौ ॥

निर्मुक्तः कुण्डलाकारा महामुद्रा स उच्यते ।
तामेव प्रदेशिन्याग्राधिभून्तरेल्पसतृकम् ॥

मध्यसूच्यां ततो न्यस्य अधस्तात् संसक्तपाणिना ।
पर्वतृतीययोर्न्यस्तौ अङ्गुष्ठौ नखपीडितौ ॥

एषा मुद्रा वरा प्रोक्ता मञ्जुघोषस्य धीमतः ।
तदेव हस्तौ विन्यस्तौ अञ्जलीकारसंस्थितौ ॥

मध्यमाङ्गुलिविन्यस्तौ सूच्यग्रानामितः स्थितौ ।
अङ्गुष्ठौ मध्यमां स्पृश्य अङ्गुलीपर्वसत्रिकम् ॥

कन्यसाङ्गुलीभिः सूचीं कृत्वानामितमुच्छ्रितौ ।
एषा मुद्रा वरा श्रेष्ठा धर्मकोशस्थतां गताः ॥

तदेव हस्तौ विन्यस्तौ विधिदृष्टसमासतौ ।
तदेवमङ्गुलिभिः सर्वैः आपूर्णैः कोशसंस्थितम् ॥

उभौ हस्तौ विवृण्णीयात् अष्टानाङ्गुलिनावृताः ।
अष्टां पुरुषतत्त्वज्ञां चत्वारो युगतां गताम् ॥

तदेव सङ्घमित्याहुः सम्बुद्धा द्विपदोत्तमाः ।
स एव मुद्रा सङ्घेति कत्थ्यते ह भवालये ॥

एषा मुद्रवरा श्रेष्ठा सर्वकर्मप्रसाधिका ।
उभौ हस्तौ पुटीकृत्वा अञ्जल्पाकारसंस्थितौ ॥

प्रसार्य तर्जनीमेकां दक्षिणां करनिःसृताम् ।
सा एष भूतशमनी निर्दिष्टा तत्त्वदर्शिभिः ॥

एषा मुद्रा वरा ख्याता सर्वकर्मार्थसाधिका ।
तदेव हस्तौ विन्यस्तौ वेणिकाग्रावचिह्नितौ ॥

पिण्डस्थौ सम्पुटाकारौ उच्छ्रिताङ्गुष्ठनामितौः ।
एषा सा पद्ममालेति आदिबुद्धैः प्रचोदिता ॥

१३०, प्। ३८०)

तदेव हस्तावुत्तानौ अङ्गुलीभिः समन्ततः ।
प्रफुल्लनिर्मिताकारौ अङ्गुष्ठाङ्गुलिसतृकौ ॥

द्वितीये पर्वतो न्यस्तौ अङ्गुष्ठौ तर्जनि चोभयौ ।
स एषा मुद्रवरा ख्याता सम्बुद्धैस्त्रिदशालया ॥

एते मुद्रा महामुद्रा अष्टा ते ते समकर्मिकौ ।
तुल्यप्रभा महावीर्या सम्बुद्धैः सम्प्रकाशिता ॥

षष्टिविम्बरकोट्यस्तु अशीतिः सहमुद्भवैः ।
अतीतैर्मुनिवरासङ्ख्यैर्मुद्रा ह्येते प्रकाशिता ॥

शतमष्टाधिकं प्रोक्तं मुद्राणां विधिसम्भवम् ।
एतैः सर्वैस्तु सर्वाणि मन्त्रकर्मांश्च साधयेत् ॥

सर्वमन्त्रां तथा कर्मा सर्वान्येव प्रसाधयेत् ।
एतन्मुद्रामतं प्रोक्तं सर्वबुद्धैः महर्द्धिकैः ॥

विधिना योजिता ह्येते क्षिप्रमर्त्थप्रसाधिका ।
इत्युक्त्वा मुनिनां मुख्यः शाक्यसिंहो नरोत्तमः ॥

मञ्जुघोषं तदा वज्रे बोधिसत्त्वं महर्द्धिकः ।
एष मञ्जुश्रियाकल्पे मुद्रासम्भसम्भवः ॥

त्वयैव सम्प्रदत्तोऽयं रक्षार्त्थं शासने भुवि ।
युगान्ते वर्त्तमाने वै मयैव परिनिर्वृते ॥

रक्षार्त्थे शासने मह्यं सर्वेदं कथितं मया ।
मुद्राणां लक्षणा ह्युक्तं मन्त्राणां च सविस्तरम् ॥

रहस्यं सर्वलोकानां गुह्यं चापि उदीरितम् ।
एतत्कल्पाधिपे सूत्रे गुणविस्तारविस्तृतम् ॥

अनेकधा च मन्त्राणां गुणवर्णसमोदयम् ।
बहुधा मन्त्रयुक्तिश्च तन्त्रयुक्ति उदाहृता ॥

प्रभावगुणसिद्धान्तं जापिनां हेतुसम्भवम् ।
फलोदयशुभो ह्युक्तः सत्त्वानां गतियोनयः ॥

कुमार ! त्वदीयमन्त्राणां सिद्धिहेतुनियोजिता ।
एवमुक्तस्तु मञ्जुश्रीः कुमारो गगनासृतः ॥

१३१, प्। ३८१)

प्रणम्य शिरसा सम्बुद्धं लोकनाथं प्रभाकरम् ।
दीर्घं निश्वस्य करुणार्द्रो रोरुरोद ततः पुनः ॥

तस्थुरे समीप बुद्धस्य आपृच्छय वरदां वरम् ।
निर्नष्टे भगवां लोके मन्त्रकोशे महीतले ॥

सत्त्वानां गतिमाहात्म्यं कथं तस्मै भविष्यति ।
एवमुक्तस्तु सम्बुद्धो मञ्जुघोषं तदालपेत् ॥

शृणोहि वत्स ! मञ्जुश्रीः ! कुमार ! त्वं यदि पृच्छसि ।
मया हि निर्वृते लोके शून्यीभूते महीतले ॥

निर्नष्ठे धर्मकोशे च श्रावकैश्चिरनिर्वृतैः ।
शास्तु बिम्बस्तथा रूपं कृत्वा वै द्विपदोत्तमः ॥

पूजां सत्कारतः कृत्वा धूपगन्धविलेपनैः ।
विविधैर्बस्त्रवरैश्चान्यैर्मणिकुण्डलभूषणैः ॥

विविधैर्भोज्यभक्षैश्च सन्नियोज्य निवेदनम् ।
विविधाकारसम्पन्नं यथेष्टाकारकारिणे ॥

तथै * (?) मन्त्रमावर्त्त्य सत्त्वयोनिगतिः शुभम् ।
आजहार पुरं श्रेष्ठम् उत्तमां गतियोनये ॥

अन्ते बोधिनिम्नस्थः शान्तिं जग्मुः सपश्चिमे ।
एवमुक्तस्तु मञ्जुश्रीस्तुष्टो सम्बुद्धचोदितः ॥

सम्प्रतुष्य ततो धीमां बोधिसत्त्वो महर्द्धिकः ।
एतत् सर्वं पुरा गीतं शुद्धावासोपरि स्थितम् ॥

बुद्धानां सन्निधौ बुद्धधर्मचक्रप्रवर्त्तकः ।
मन्त्रचक्रं तदा वव्रे चिरकालानुवर्त्तितम् ॥

इति ॥

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्रात्
त्रयः त्रिंशतिमः मुद्राविधिपटलविसरः परिसमाप्तमिति ।
१३२, प्। ३८२)