अथ चतुस्त्रिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि तं शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु मञ्जुश्रीः !
त्वदीयमुद्रातन्त्रं सरहस्यं परमगुह्यतमम्
अप्रकाश्यमश्राद्धसत्त्वतथागतशासनेऽनभिप्रसन्नम्
असमयानुज्ञातत्रिरत्नवंशानुच्छेदनकरे अकल्याणमित्रपरिगृहीते पुण्यकामे
दुष्टजनसम्पर्कव्यतिमिश्रिते पापमित्रपरिगृहीते दूरीभूते बुद्धधर्माणां
निःफलीभूते कल्पेऽस्मिन्नाचार्यानुपदेशे अवभिषिक्त तव कुमार ! परमगुह्यतमे
मण्डले अदृष्टसमये तथागतकुले असमन्ते जने अप्रकाश्य सर्वभूतानां
त्वन्मन्त्रानुवर्त्तिनाम् अश्राद्धो बुद्धधर्माणां दूरीभूतो हि बोधये ॥
न तस्या दापयेन्मुद्रां तन्त्रं चैव न दर्शयेत् ।
प्रमादान्मोहसम्मूढः लोभाद्या यदि दापयेत् ॥
न सिद्ध्यन्ते तन्त्रमन्त्रा वै विपरीतस्य जापिनः ।
असान्निध्यं कल्पयेन्मुद्रां मन्त्राश्चैवमन्यथा ॥
सिद्धिं न लभते क्षिप्रंश्च शरीरेणापि ह्रीयते ।
सौम्यानां श्राद्धचित्तानां समये तत्त्वदर्शिनाम् ॥
तन्त्रमन्त्रप्रवृत्तानां मुद्रातन्त्रं प्रकाशयेत् ।
त्रिरत्नपूजका ये च प्रसन्ना जिनशासने ॥
विधिप्रयोगदृष्टानां तेषां मुद्रा प्रकाशयेत् ।
बोधिचित्तविधिज्ञानां बोधिचित्तविभूषिताम् ॥
नित्यं बोधिमार्गस्थां तेषां मुद्रां प्रकाशयेत् ।
तन्त्रमन्त्रप्रयुक्तानां समये दृष्टपरापराम् ॥
महाबोधो प्रतिच्छूनां तेषां मुद्रां प्रकाशयेत् ।
प्रसन्नानां जिनपुत्रेषु तेषु श्रावकखड्गिणाम् ॥
दृष्टधर्मफलं येषां तेषां मुद्रां प्रकाशयेत् ।
अविकल्पितधर्माणां श्राद्धानां गतिमत्सराम् ॥
१०१, प्। ३५१)
शास्तुर्वचनयुक्तिज्ञां तेषां मुद्रां प्रकाशयेत् ।
मुद्रा मुद्रिता ह्येते प्रमाणस्था साष्टशतं तथा ॥
न चातिरिक्ता न चोनाश्च साक्षाद् बुद्धैः प्रकाशिताः ।
मञ्जुश्रियस्य कल्पे वै मन्त्राश्चैव तत्समा ॥
साष्टं शतमित्युक्तं मन्त्राणां तत्समोदिताम् ।
मुद्राश्चैव शताष्टं तु कथिता मुनिवरैः पुरा ॥
एतत्प्रमाणं तु कल्पस्य मुद्रामन्त्रसमुद्भवे ।
कोशं सर्वबुद्धानां मन्त्रकोशमुदाहृतम् ॥
मुद्रा मन्त्रसमोपेताः संयुक्तः क्षिप्रकर्मिकः ।
न चक्रेण विना स्पन्दं युक्तिमुत्पद्यते रथे ॥
तथैव सर्वमन्त्राणां मुद्रावर्जं न कर्मकृत् ।
मन्त्रा मुद्रसमोपेता संयुक्ता क्षिप्रकर्मिका ॥
सर्वमावर्त्तयं ह्येते त्रैलोक्यससुरासुरम् ।
किं पुनर्मानुषे लोके अन्यकर्मेषु संस्कृते ॥
दृष्टधर्मफलो ह्येतां मुद्रामन्त्रेषु दृश्यते ।
संयुक्तः उभयतः शुद्धां विधियुक्तेन दर्शिता ॥
आवर्तयन्ति भूतानां जिनाग्राणां तु ससूनुताम् ।
मन्त्रं मुद्रतपश्चैव त्रिधा कर्म करे स्थितम् ॥
यथेष्टा सम्पदां कृत्स्नां प्राप्नुयाज्जपिनस्तथा ।
मन्त्राणां मुद्रिता मुद्रा मन्त्रैश्चापि मुद्रिता ॥
न मन्त्रं मुद्रहीनं तु न मुद्रा मुद्रवर्जिता ।
मुद्रा मन्त्रसमोपेता संयुक्ता सर्वकर्मिका ॥
अन्योन्यफला ह्येते अन्योन्यफलमुद्भवा ।
साधके युक्तिमायुञ्जे न सार्धं कर्म न विद्यते ॥
सिध्यन्ते सर्वमन्त्रा वै मुद्रायुक्तास्तु रूपिनाम् ।
विधिदृष्टः प्रयुक्तस्तु मन्त्रं * * (?) समुद्रितम् ॥
१०२, प्। ३५२)
न सौ विद्यति तत् स्थानं यत्राकृष्टो न सिद्ध्यति ।
भवाग्र्या वीचिपर्यन्तं लोकधात्वगतिं तरम् ॥
यत्राविष्टो न चाकृष्टः असाध्यो यो न विद्यते ।
न सौ संविद्यते कश्चित् सत्त्वो यो निवर्तितुम् ॥
महर्द्धिका बोधिसत्त्वापि आकृष्यन्ते विधिवादिता ।
असमर्त्था बोधिसत्त्वापि दशभूमिसमाश्रिता ॥
रक्षाविधानभेतुं वा कर्मसिद्धि निवारितुम् ।
अधृष्यः सर्वभूतानां मन्त्रमुद्रसमासृताः ॥
सर्वभूतानां यो हि मन्त्रे समाश्रितः ।
मुद्रा प्रयोगयुक्ता वै एते रक्षासमुद्भवा ॥
उद्भूतिः सर्वमन्त्राणां सर्वमन्त्रेषु दृश्यते ।
मन्त्रातः सर्वमुद्राणाम् अन्योन्यसमासृताः ॥
रूपजापविधिर्मार्गे होमकर्मे प्रयुज्यते ।
अतो जात तथासिद्धिः मुद्रा मन्त्रेषु दृश्यते ॥
जापिनो नित्यमुद्युक्त सदा तेषु प्रतिष्ठितः ।
सिद्ध्यन्ते सर्वमन्त्रा वै अवन्ध्यं मुनिनां वचः ॥
वचनं सर्वबुद्धानाम् अन्यथाकारितं हितैः ।
कारितं यैर्विधिर्मुक्ता अशेषं मन्त्रमुद्रया ।
एतत् कुमार ! मञ्जुश्रीः ! कथयामि पुनः पुनः ॥
अशेषमन्त्रमुक्तिस्तु मुद्रा तत्र हितोदयम् ।
तां वन्दे कल्पराजेऽस्मिं नैस्तारिकं फलसम्बवम् ॥
हितं गुह्यतमं लोके मुद्रातन्त्रं समुद्धितम् ।
ततोऽसौ युक्तिमां श्रीमां सहिष्णुर्बालरूपिणः ॥
ईषस्मितमुखो भूत्वा कुमारो विश्वसम्भवः ।
बोधिसत्त्वो महावीर्यः दशभूमिसमा तः ॥
१०३, प्। ३५३)
प्रयच्छ मुनिनां श्रेष्ठं बुद्धमादित्यबान्धवम् ।
यदेतत्कथितं लोके भगवन्मन्त्रकारणम् ॥
पूर्वकैरपि सम्बुद्धैः कथितं तत्पुरा ममम् ।
अधुना शाक्यसिंहेन किमर्थं सम्प्रकाशितम् ॥
एतन्मे संशयो जातः आचक्ष्व मुनिसत्तम ! ।
कलविङ्करुतो धीमां ब्राह्मगर्जितसम्भवः ॥
अब्रवीद् बोधिसत्त्वं तु दशभूमिप्रतिष्ठितम् ।
पुराहं बहुकल्पानि संसारे सरता म य ॥
लब्धोऽयं कल्पराजेन्द्रः मुनेः सङ्कुसुमाह्वयात् ।
तत्र तत्र मया सत्त्वा उपकारकृतं बहु ॥
करुणावशमागत्य प्रणिधिं च कृतं तदा ।
यदाहं बुद्धमग्रो वै सम्भवामि युगाधमे ॥
शासनार्थं करित्वा वै धर्मचक्रानुवर्त्तिते ।
अपश्चिमे च काले वै निर्वास्येऽहं यदा भुवि ॥
एतत्तु कल्पराजेन्द्रं निर्दिशेऽहं तवान्तिके ।
मयापि निर्वृते लोके शून्ये जम्बुसमाह्वये ॥
दूरीभूते तथा शास्तुः धर्मकोशे कलौ युगे ।
नाशनार्थं तु सत्त्वानां करिष्यत्येष कल्पराट् ॥
तवैव सम्प्रदत्तोऽयं कल्पराजा सविस्तरः ।
सत्त्वानामर्थमुद्युक्तः तस्मिं काले भविष्यति ॥
अधर्मिष्ठास्तदा सत्त्वास्तस्मिं काले भयानके ।
अव्यवस्थस्थिता नित्यं राजानो दुष्टमानसाः ॥
मानुषामानुषाश्चापि सर्वे शासनविद्विषाः ।
नाशयिष्यन्ति मे सर्वं धर्मकोशं मयोदितम् ॥
तेष विनयार्थाय मन्त्रकोशमुदाहृतम् ।
तवैतत् कुमार ! प्रणिधानं पूर्वकल्पानचिन्तिताम् ॥
१०४, प्। ३५४)
यावन्ति केचिद् बुद्धा वै निर्वृता लोकबान्धवा ।
तेषां शासनार्थाय करिष्यामि युगे युगे ॥
बालदारकरूपोऽहं विचरिष्यामि सर्वत ।
मन्त्ररूपेण सत्त्वानां विनेष्यामि तदा तदा ॥
एतत् कुमार ! तुभ्यं वै प्रणिधानं पुरा कृतम् ।
तत् प्राप्तमधुना बाल ! निर्देक्ष्यामि तेनैवे ॥
शून्ये बुद्धक्षेत्रे अशरण्ये तदा जने ।
मन्त्ररूपेण सत्त्वानां बालिशस्त्वं स्मादिशेत् ॥
विनेष्यसि बहुं सत्त्वां सर्वसम्पत्तिदायकः ।
वरदस्त्वं सर्वसत्त्वानां तस्मिं काले युगाधमे ॥
निर्वृते हि मया लोके शून्यीभूते महीतले ।
त्वयैव बालरूपेण बुद्धकृत्यं करिष्यसि ॥
महारण्ये तदा रम्ये हिमवत्कुक्षिसम्भवे ।
नद्या हिरण्यवतीतीरे निर्वाणं मे भविष्यतीति ॥
आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात्
द्वात्रिंशतिमः मुद्रा चोदनविधिमञ्जुश्रीपरिपृच्छनिर्देशपरिवर्तः पटलविसरः
परिसमाप्तः ।
१०५। प्। ३५५)