३३

अथ त्रयस्त्रिंशः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः सर्वावन्तं शुद्धावासभवनमवंलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । त्वदीये मञ्जुश्रीकल्पराजे
निर्दिशसमाख्याते धर्मधातुकोशतथागतगर्भधर्मधातुनिष्पन्दानुचरिते
महासूत्रवररत्नपटलविसरे तथागतगुह्यवरमनुज्ञाते मन्त्रवधसाध्यमाने
निमित्तज्ञानचिह्नकालप्रमाणान्तरितसाधनौपयिकानि सर्वभूतरुतवितानि
असत्त्वसत्त्वसञ्ज्ञानिर्घोषाणि भवन्ति ॥

शाब्दिकं ज्ञानम् इत्युक्त अशाब्दिकं चैव कीर्त्यते ।
व्यतिमिश्रं तथा युक्तिमन्त्राणां त्रिविधा क्रिया ॥

दिव्यशब्दसमायुक्ता अनित्यार्त्थप्रयोजिता ।
अपशब्दापगता नित्यं संस्कारार्थार्थभूषिता ॥

अबहिः सर्वसिद्धान्ते आर्यामन्त्राः प्रकीर्त्तिता ।
नित्यं पदार्थहीनं तु तत् त्रिदा परिभिद्यते ॥

गुरुलघु तथा मध्यैः वर्णैश्चापि विभूषिता ।
सा भवेन्मन्त्रदेवी तु स्वरच्छन्दविभूषिता ॥

संस्कृतासंस्कृतं वाक्यम् अर्थानर्थ तथा परे ।
धात्वर्त्था तथा युक्तिः गतिमन्त्रार्थभूषिता ॥

विकल्पबहुला वाचा मन्त्राणां सर्वलौकिका ।
एकद्विकवर्णं तु च्छन्दैः साश्वरितालयः ॥

त्रिचतुःपञ्चषष्ठं वा सप्तमं वाष्टमं तथा ।
नवमं दशमं चैव वर्णानां सिद्धिरिष्यते ॥

दशाक्षरसमायुक्ता वर्णानां हेतुनाम् ।
यावद्दशगुणा ह्येते वर्णा दृश्यन्ति महीतले ॥

शताक्षरं विंशतिकं यावदेकाक्षरं भवेत् ।
एतत्प्रमाणैर्वर्णैस्तु ग्रथिता मन्त्रसम्पदा ॥

पदैश्चतुर्भिः संयुक्ता मन्त्रा सर्वार्थसाधकाः ।
ज्येष्ठाः प्रवरा ह्यार्या मन्त्रा ये जिनभाषिताः ॥

९०, प्। ३४०)

ते तु मध्यमा अधमा * * * * * * (?) तदा ।
तदात्मजैर्जिनपुत्रैस्तु भाषिता ते तु मध्यमा ॥

अधमा ये तु मन्त्रा वै भाषिता सर्वलौकिका ।
निकृष्टा कथिता मन्त्रा भाषिता नैरृतैस्तु ये ॥

दशाष्टसप्तविंशं वा यावदभ्यधिकं शतम् ।
एतत्प्रमाणं तु मन्त्राणाम् आर्याणां जिनभाषिताम् ॥

एकद्विकवर्णं तु सहस्रार्द्धं वर्णतो भवेत् ।
यावत्प्रमाणं तु मन्त्राणां बोधिसत्त्वैः प्रकाशिता ॥

तदक्षरे पदविन्यस्तं मन्त्रयुक्तिमुदाह्रिता ।
छन्दांसि स्वरयुक्तानां धात्वार्थार्थभूषिता ॥

वचनं सुप्रयुक्तं वै तन्त्रयुक्तिसमन्वितम् ।
भवेत् कदाचिकात् सिद्धिः शब्दस्वरवियोजिता ॥

मुद्रायुक्तं तु शब्दैस्तु मूर्ध्नादूष्मान्ततालुकैः ।
दन्तोष्ठकण्ठतः शब्दं विसृतं साधनं क्रिया ॥

अव्यक्तविनिवृत्तं तु सुप्रयुक्तमुदाहृतम् ।
सम्पूर्णं वाक्यतः शब्दं सम्प्रयुक्तः साधयिष्यति ॥

विधिभ्रष्टं क्रियाहीनं शब्दार्थैश्च वियोजितम् ।
मन्त्रं न सिद्ध्यते क्षिप्रं दीर्घकालमपेक्षते ॥

अवन्ध्यं तस्य सिद्धिस्तु न वृथा कारयो जपी ।
अन्यजन्मेऽपि दृश्यन्ते मन्त्रसिद्धिवरप्रदा ॥

तस्य मन्त्रप्रभावेन चिरकालाच्च जापिनाम् ।
अवन्ध्यं कुरुते कर्म समन्त्रा मन्त्रविदो जनाम् ॥

निकृष्टा सर्वमन्त्राणा। लौकिका ये समानुषा ।
सर्वभूतैस्तु ये प्रोक्ता मन्त्रा ये च समत्सरा ॥

तेषां न्यक्षरा प्रोक्ता एकद्विकत्रिसङ्ख्यकम् ।
विविधैः म्लेच्छभाषैस्तु देवभाषप्रकीर्त्तितैः ॥

ग्रथिता पङ्क्तियुक्ताश्च व्यतिमिश्रा शब्दतः सदा ।
सहस्रं चाष्टशतम् अष्ट च यावदेकं तु वर्णतः ॥

९१, प्। ३४१)

चतुःपादं पादार्द्धं तु गद्यपद्यं निगदितम् ।
श्लोकं दण्डकमात्रैस्तु गाधस्कन्धकपञ्चितम् ॥

प्रतिपच्चार्थयुक्तिश्च सहस्रतार्थभूषितम् ।
अपभ्रंशसंस्कृतं शब्दम् अर्त्थहीनं विकल्पते ॥

अव्यक्तं व्यक्तहीनं तु मात्राहीनं तु युज्यते ।
गतिदेशविसंयोगान्मन्त्रसिद्धिस्तदुच्यते ॥

एतत् सर्वमन्त्राणाम् एष लक्षणः ।
शकारबहुला ये मन्त्रा ओङ्कारार्थभूषिता ॥

तकारलक्षणतन्त्रस्था सिद्धिस्तेषु ध्रुवं भवेत् ।
ओङ्कारा ये मन्त्रा मकारान्तविनिर्गताः ॥

शकारसहसंयुक्तादवन्ध्यं शोभनं तथा ।
तकारचतुरश्राकारा प्रत्याहारान्तवर्जिता ॥

तकारक्षी रेफसंयुक्ता समन्त्रं साधनक्रिया ।
द्विरेफबहुलम् आद्यं हुङ्कारगुणमुद्भवम् ॥

वकारचतुरश्रान्ते वर्णा साधनक्षमा ।
ककारं रेफसंयुक्तं मकारान्तं मात्रमिश्रितम् ॥

मकारं नकारमाद्यं तु स मन्त्रः श्रेष्ठ उच्यते ।
तकारबहुलं यत्र सर्वतन्त्रेषु दृश्यते ॥

स मन्त्रः सौम्यमित्युक्तो याम्यहुङ्कारभूषितम् ।
ऐन्द्रावायव्यमित्युक्तं भकारबहुलं तु यः ॥

वारुणः चकारमित्याहुः हितं लोके तु पौष्टिकम् ।
वकारबहुलो यो मन्त्रः माहेन्द्रं तत् प्रदृश्यते ॥

आद्यं त्रिरत्नगमनं यो मन्त्रः शरणं तथा ।
नमस्कारं प्रवर्तेत शान्तिहेतुं सुखावहम् ॥

तदन्यत् सर्वदेवानां नमस्कारार्थं प्रयुज्यते ।
स्वमन्त्रं मन्त्रनाथं च स मन्त्रः सर्वकर्मिकम् ॥

९२, प्। ३४२)

डकारबहुलो यो मन्त्रः फट्कारार्थहुङ्कृतः ।
एते मन्त्रा महाक्रूरा तेजवन्तो महौजसा ॥

प्राणोपरोधिना सद्यः क्रूरसत्त्वसुयोजिता ।
तस्मान्न कुर्यात् कर्माणि पापकानि विशेषतः ॥

तं जापी वर्जयेद् यस्मात् मुनिभिर्वर्जिता सदा ।
उभयार्थेऽपि सिद्ध्यन्ते मन्त्रा शान्तिकपौष्टिका ॥

क्षणेन कुरुते सर्वं कर्मां यावन्ति भाषिता ।
सुजप्ता मन्त्रा ह्येते तेजवन्ता महर्द्धिका ॥

शान्तिकानि च कर्माणि कुर्यात्तां जिनभाषितैः ।
पौष्टिकानि तु सर्वाणि कुर्यात् कोकनदे कुले ॥

कर्मा पापका सर्वे आभिचारे प्रयुज्यते ।
आभिचारुकसर्वाणि कुर्याद् वज्रकुलेन तु ॥

निषिद्धा लोकनाथैस्तु यक्षेन्द्रेण प्रकाशिता ।
सत्त्वानां विनयार्थाय मन्त्रमाहात्म्यमुद्भवम् ॥

कथितं त्रिप्रकारं तु त्रिकुलेष्वेव सर्वतः ।
ये तु अष्ट समाख्याता कुलाग्र्या मुनिना स्वयम् ॥

तेषु सिद्धिस्त्रिधा याता त्रिप्रकाराः समोदिताः ।
उत्तमा मध्यमा नीचा तत् त्रिधा परिभिद्यते ॥

शान्तिकं पौष्टिकं चापि आभिचारुकमिष्यते ।
केवलं मन्त्रयुक्तिस्तु तन्त्रयुक्तिरुदाहृता ॥

मन्त्राणां गतिमाहात्म्यम् आभिचारुक युज्यते ।
एतत् कर्म निकृष्टं तु सर्वज्ञैस्तु गर्हितम् ॥

न कुर्यात् कृच्छ्रगतेनापि कर्म प्राणोपरोधिकम् ।
केवलं तु समासेन कर्ममाहात्म्यवर्णितः ॥

तन्त्रयुक्तविधिर्मन्त्रैः कर्मविस्तरविस्तरः ।
कर्मराजे इहोक्तं तु अन्यतन्त्रेषु दृश्यते ॥

९३, प्। ३४३)

न भेजे कर्महीनं तु सर्वमन्त्रेषु युक्तिमाम् ।
यावन्ति लौकिका मन्त्रा सकला निष्कलास्तथा ॥

सर्वे लोकोत्तराश्चैव तेषामेव गुणः सदा ।
असङ्ख्यं मन्त्रसिद्धिस्त्वसङ्ख्यं तत् परिकीर्त्यते ॥

एकसङ्ख्यप्रभृत्यादि विंशमुक्तं तथापि तु ।
ततः त्रिंशत् समासेन चत्वारिंशं तु चापरम् ॥

ततस्त्रिगुणषष्टिं तु सप्तभिः सदशं तथा ।
दशं चापरमित्याहु अशीतिसङ्ख्या तु चापरम् ॥

सदशं नवतिमित्याहुः शतं पूर्णं दशापरम् ।
शतसङ्ख्या तु सङ्ख्याता तद्दशं सहस्रापरम् ॥

दशसहस्रमयुतं तु दशमयुतानि लक्षितम् ।
दशलक्षाविलक्षं तु विलक्षं दश कोटिम् ॥

दशार्बुदा निर्बुदः उक्तः तद्दशं खड्गमिष्यते ॥

दशखड्गनिखड्गं तु दशनिखः खर्वमिष्यते ।
दश निखर्वां तथा पद्मः दशपद्मां महापद्मः ॥

दशपद्मानि वाहस्तु दशविवाहांस्तथापराम् ।
महाविवाहस्तथा दृष्टतद्दशं मायमुच्यते ॥

तद्दशमायां महामायः महामायां दशापराम् ।
समुद्रं गणितज्ञाने निर्दिष्टं लोकनायकैः ॥

महासमुद्रं ततः पश्चाद् विंशार्द्धं परिसाधिके ।
महासमुद्रस्तथा ह्युक्तः सदशं सागरं ततः ॥

महासागरमित्याहुर्विंशार्द्धेन प्रयुज्यते ।
महासागरा दश गुणीकृत्य प्रवरा ह्येवमुच्यते ॥

दशप्रघरात्युक्तः घरेति तं प्रकीर्तितम् ।
दशघरे नामतोऽप्युक्ता अशेषं तु तदुच्यते ॥

९४, प्। ३४४)

अशेषान्महाशेषं विंशार्द्धेन गुणीकृतम् ।
तदसङ्ख्यं प्रमाणं तु कथितं लोकनायकैः ॥

सङ्ख्यो दश सङ्ख्यामित्याहु तदसङ्ख्यं गुणीकृतमिति ।
ततः परेणापि तथा * * * * * * * * (?) ॥

अमितात् सहस्रगुणितं तं लोकं परिकीर्त्यते ।
लोकात् परेण महालोकं महालोकाद् गुणीकृतम् ॥

ततत्संस्तमसमित्युक्तं तमसा ज्योतिरुच्यते ।
ज्योतिषो महाज्योत्स्ना गुणीकृत्य महाराशिस्तदुच्यते ॥

महाराश्या महाराशिरित्युक्ता राश्ये गम्भीरमुच्यते ।
गम्भीरा स्थिरमित्याहुः स्थिरात् स्थिरतरं व्रजेत् ॥

ततः परेण बहुमत्या बहुमतं स्थानमुच्यते ।
स्थानं स्थानतरं त्याहुः गणितज्ञानसूरताः ॥

महास्थानं ततो गच्छेन्महास्थानमितमिष्यते ।
मितान्मितसमं कृत्वा महार्थं तत् परिकीर्त्यते ॥

महार्था सुश्रुतस्थानं ततो गच्छेन्महार्णवम् ।
महार्णवात् प्रथममित्याहुः प्रथमात् प्रथमतरं हि तत् ॥

प्रथमे श्रेष्ठमित्याहुः श्रेष्ठाज्ज्येष्ठान्तमुच्यते ।
ज्येष्ठान्मन्दिरसो नाम तदचिन्त्यं परिकीर्त्यते ॥

अचिन्त्य अचिन्त्यार्थिन्यतमं घोरं घोरात् राष्ट्रतमिष्यते ।
राष्ट्रात् परेण निध्यस्तो निध्यस्तपरतः शुभम् ॥

शुभात् परेण महाचेतः महाचेता चेतयिष्यते ।
चेतो चित्तविक्षेप अभिलाप्य तदुच्यते ॥

अभिलाप्या अनभिलाप्यास्तु विश्वरं च मुदाहृतम् ।
विश्वात् परेण महाविश्वः अस्वरं तु तदुच्यते ॥

अस्वरान्महास्वरस्थानं खर्वतोऽधिगर्वितस्तथा ।
श्रेयसं शान्तिमित्युक्तं स्थानं गणितपारगैः ॥

९५, प्। ३४५)

महाधृष्टस्ततो धृष्टः ओदकं तदिहोच्यते ।
ओदका चित्तविभ्रान्तं स्थानं चापरमुत्तमम् ॥

उत्तमात् परतो बुद्धां विषयं नाधरभूमिकाम् ।
अशक्यं मानुषाणां तु गणना लोककल्पनम् ॥

ततः परेण बुद्धानां गोचरं नापरं मतम् ।
बुद्धक्षेत्रम् आसिकता गङ्गानद्यास्तु मुच्यते ॥

सम्भिद्य परमाणूनां कथयामास नायकाः ।
दृष्टान्तं क्रियते ह्येतत् तर्कज्ञानं तु गोचरम् ॥

हेतुना साध्यते द्रव्यं न शक्यं गणनापरैः ।
एतत्प्रमाणं सम्बुद्धा पर्युपास्ते मया पुरा ॥

तेषामाराधयित्वा मे कल्पेऽस्मिं तदचित्तके ।
एतावत्कालमपर्यन्तं बोधिसत्त्वोऽहं पुरा भवेत् ॥

सत्त्वानामर्थसम्बुद्धो बुद्धत्वं च समाविशेत् ।
तत्र तत्र मया तन्त्रा भाषिता कल्पविस्तरा ॥

एतत् कल्पवरं ज्येष्ठमेतत् बुद्धिअस्तु भाषितम् ।
एतद् प्रमाणं सम्बुद्धैः कथितोऽहं पुरातनम् ॥

अधुना कुमार ! मया प्रोक्त अन्ते काले तु जन्मिके ।
यावन्ति लौकिका मन्त्रा कल्पराजाश्च शोभना ॥

लोकोत्तरा तथा दिव्या मानुष्या ससुरासुरा ।
सर्वेषां तु मन्त्राणां तन्त्रयुक्तिरुदाहृता ॥

सम्मतोऽयं तु सर्वत्र कल्पराजो महर्द्धिकः ।
तेषां कल्पविधानेन सिद्धिमायाति मञ्जुमाम् ॥

अनेनैव तु कल्पेन विविना मञ्जुभानिना ।
तेषां सिद्धिमित्युक्ता सर्वेषां प्रभविष्णुना ॥

किं पुनर्मानुषे लोके ये चान्ये मन्त्रदेवता ।
सर्वे लोकोत्तरा मन्त्राः लौकिका समहर्द्धिकाः ॥

९६, प्। ३४६)

अनेन विधियोगेन कल्पराजेन सिद्धिताम् ।
वसिता सर्वमन्त्राणां सर्वकल्पमुदाहृतम् ॥

सम्मतोऽयं तु मञ्जुश्रीः कल्पराजे इहोत्तमे ।
ये केचिच्छिल्पविज्ञाना लौकिका लोकसम्मता ॥

निमित्तज्ञानशकुनाः ज्योतिषज्ञानचिह्निताः ।
निमित्तज्ञानचरिता रुतावैव शुभाशुभा ॥

सर्वभूतरुतश्चैव चरितं चित्तचिह्नितम् ।
धातुरायतमं द्रव्यं * * * * * * * * (?) ॥

इङ्गितं शकुनमित्याहुः खन्यधातुक्रिया तथा ।
गणितं व्याकरणं शास्त्रां शस्त्रं चैव क्रमो विधिः ॥

अध्यात्मविद्या चैकित्स्यं सर्वसत्त्वहितं सुखम् ।
हेतुनीति तथा चान्ये शब्दशास्त्रं प्रवर्त्तितम् ॥

छन्दभेदोऽथ गान्धर्वः गन्धयुक्तिमुदाहृताः ।
ते मया बोधिसत्त्वेन सत्त्वानामर्थाय भाषिता ॥

पुराहं बोधिसत्त्वोऽस्मिं सत्त्वानां हितकारणा ।
भाषिता ते मया पूर्वं संसारार्णववासिनाम् ॥

संसारगहने कान्तारे चिरकालम् उषितो ह्यहम् ।
यथा वैनेयसत्त्वानां तथा तत्र करोम्यहम् ॥

यथा यथा च सत्त्वा वै हितं कर्म समादधेः ।
तथा तथा करोम्येषां हितार्थं कर्म शुभालयम् ॥

विचित्रकर्मनेवस्थाः सत्त्वानां हितयोनयः ।
विचित्रैव क्रियते तेषां विचित्रार्थयोनिदूषिता ॥

विचित्रकर्मसंयुक्ता विचित्रार्थां शास्त्रवर्णिताम् ।
तं तथैव करोम्येषां विचित्रां रूपसम्पदाम् ॥

अहं तथा वेषधारी स्या विचित्राङ्गं निजानिजाम् ।
हिताशयेन सत्त्वानां विचित्रं रूप निर्मिमे ॥

९७, प्। ३४७)

महेश्वरः शक्रब्रह्माद्यां विष्णुर्धनदनैरृताम् ।
विचित्रां ग्रहरूपांस्तु निर्मिमेऽहं तथा पुरा ॥

महाकरुणाविष्टमनसः सत्त्वानामाशयगोचरा ।
अनुपूर्व्या तु तेषां वै स्थापयामि शिवे पदे ॥

पर्यटामि संसारे दीर्घकालप्रवेक्षितम् ।
सत्त्वानामर्थनिष्पत्तिं मन्त्ररूपेण देशितम् ॥

अनुपूर्वं मतज्ञानं मन्त्रकल्पं प्रवर्तितम् ।
चिरा मे संसरता जन्मे बुद्धगोत्रे समासृत ॥

न च मे विद्यते कश्चित् कर्ता वा स्वामिनोऽपि वा ।
नियतं गोत्रमासृत्य बुद्धोऽहं बोधिमुत्तमाम् ॥

क्षेमोऽहं निर्जरं शान्तम् अशोकं विमलं शिवम् ।
प्राप्न्तोऽहं निर्वृतिं शान्तिं मुक्तोऽहं जन्मबन्धना ॥

अधुना प्रवर्तितश्चक्रः भूतकोटिसमाश्रित ।
दर्शयामेष कल्पं वै मन्त्रवादं सविस्तरम् ॥

न वृथा कारयेज्जापी कर्मकल्प सविस्तरम् ।
यावन्ति लौकिका मन्त्राः कल्पाश्चैवमुदाहृताः ॥

पूज्या मान्याश्च सर्वे ते अवज्ञा तेषां तु वर्जिता ।
नावमन्ये ततो मन्त्री तेषां कल्पानि विस्तरम् ॥

निमित्तं ज्ञानयुक्तिं च ज्योतिषज्ञानरोदितम् ।
न वृथा कारयेदेतां मङ्गलार्थमुदाहृताः ॥

दृष्टधार्मिकमेवं तु सिद्धिद्रव्यादिमोषधम् ।
सामिषं लोभनं सिद्धिस्तस्मान्मङ्गलमुच्यते ॥

प्रशस्ता जिनगाथाभिः स्वस्तिगाथाभिभूषितम् ।
प्रशस्तैर्दिवसैर्मुख्यैः सितपक्षे सुचिह्नितैः ॥

शुक्लग्रहवरे युक्ते मन्त्रसाधनमारभेत् ।
एवमाद्याः शुभा युक्ता अशुभांश्चापि वर्जयेत् ॥

९८, प्। ३४८)

मयैव कथितं पूर्वं तस्माद् ग्राह्या तु जापिभिः ।
यावन्ति केचिल्लोकेऽस्मिं ज्योतिषज्ञानकौशलाः ॥

अन्ये वा तत्र कौशल्याः नीतिहेतुसहेतुकाः ।
न्यायशास्त्रसुसम्बद्धा सत्त्वानां हितकारया ॥

मयैव कथितं तत् सर्वं ग्राह्यते मन्त्रजापिभिः ।
सिद्धिहेतुरयं मार्गः दर्शितं तत्त्वदर्शिभिः ॥

सर्वं ह्यशेषसिद्धान्तं यद्योक्तं मोक्षकारणम् ।
तेनैव कुर्यान्मन्त्राणां मार्गं सिद्धिकारणाः ॥

न वृथा कारयेज्जापी मन्त्रयुक्तिं ह्यशेषतः ।
सर्वे लौकिका मन्त्रा उत्तमाश्च प्रकीर्तिताः ॥

लोकोत्तरास्तथा दिव्या सर्वेष्वेव प्रयोजयेत् ।
न मिथ्यं कारये चित्तं न दूष्ये तत्र मनं कदा ॥

सर्वे पूज्यास्तु मन्त्रा वै समयज्ञः प्रकीर्तिताः ।
शासनेऽस्मिं तथा सास्तुः बुद्धानां समताहिते ॥

निविष्टा जिनपुत्राणामाकृष्टाश्च प्रवेशिताः ।
मण्डले मुनिचन्द्राणां समयज्ञ इहोदिताः ॥

अवन्ध्यास्ते सदा मन्त्रैरानीता विशनाशया ।
न नमे परमन्त्राणां नापि सावज्ञमाचरेत् ॥

अनार्या ये तु मन्त्रा वै अवन्ध्यास्ते परिकीर्त्तिता ।
यावन्ति लौकिका मन्त्रा अधरा जापसम्भवा ॥

सक्लेशा दृष्टमार्गान्ता अवन्ध्यास्ते तु जापिभिः ।
न वृथा कारये चित्तं कोपने रोषसंयुतम् ॥

रोचनं न चैव भक्तिं न कुर्यात् कर्म वृथाफलम् ।
तदायत्तं हि चित्तस्य न दद्यात् सन्नतिं क्वचित् ॥

एकमन्त्रस्तु युक्तिस्थः जपं नित्यं समाहितः ।
लभते फलमशेषं तु यथोक्तं विधिना विधेः ॥

९९, प्। ३४९)

निश्चलं तु मनः कृत्वा एकमन्त्रं तु तं जपेत् ।
एकचित्तस्य सिद्ध्यन्ते मन्त्राः सर्वार्थसाधकाः ॥

व्यस्तचित्तो हि मूढात्मा सिद्धिस्तस्य न दृश्यते ।
अशेषं फलनिःपत्तिं प्राप्नुयाद् विपुलां गतिम् ॥

नित्यशुद्धं मनो यस्य स श्राद्धस्यैव शासने ।
रत्नत्रये च प्रसन्नस्य सिद्धिरिष्टा उदाहृता ॥

इति ।

आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्वपिटकावतंसकान्महायानवैपुल्यसूत्रात्
एकत्रिंशतिमः कर्मक्रियाविधिनिमित्तज्ञाननिर्देशपटलविसरः परिसमाप्तः ।

१००, प्। ३५०)