३२

अथ द्वात्रिंशः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीयमन्त्राणां
सर्वतन्त्रेषु
समनुप्रवेशसर्वविद्यारहस्यमनेककालगुणशकलफलोदयमप्यनुबन्धनिमित्त।
म् प्रमाणतो वक्ष्ये सिद्धिकारणानि । तद्यथा -

जन्मान्तरिता सिद्धिः न सिद्धिः कालहेतुतः ।
तत्प्रमाणप्रयोगस्तु पूर्वसम्बद्धमुद्भवा ॥

अहितावहितो सिद्धिः भवेद् युक्तिविचारणम् ।
त्वत्कुमाराश्रययुक्तिः दृश्यते सर्वदेहिनाम् ॥

अत्र पूर्वकृतं कर्म युक्तिरित्यभिधीयते ।
तद्योगे युक्तितः धीरो प्राप्नुयात् सिद्धिमुत्तमाम् ॥

असिद्धं सिद्ध्यते कर्म न सिद्धिः कर्मणा विना ।
कर्मकर्तृसमायुक्तं संयुक्तः सिद्धि कल्प्यते ॥

लिलेभ परमं स्थानं विधियुक्तेन हेतुना ।
न वव्रे मन्त्रिणा मन्त्रम् अमन्त्रो मन्त्रिणो भवेत् ॥

मौनकर्मसमाचारे सिद्धिमाप्नोति पुष्कलाम् ।
जापी बीजसमाहार आजहार धियोत्तमम् ॥

वियतः श्रेष्ठतमं स्थानं प्रथमं गतिमाप्नुयात् ।
वियताभावतः स्वस्थो प्राप्नुया निर्जरसम्पदम् ॥

निमित्ता कालतो यस्य अकाले सिद्धिकाङ्क्षिणः ।
न सिद्धिस्तस्य मन्त्राणां शक्रस्यापि समासतः ॥

अहितो भूतजन्तूनाम् अकालाक्रमणः पुनः ।
न सिद्धिस्तस्य दृश्यते ब्रह्मणस्यापि महात्मनः ॥

तन्द्रीतृष्णासमायुक्तो मदामानसमन्वितः ।
शैथिल्योदीर्यमुद्वेक्षी नित्यं प्राव्यजने रतः ॥

८६, प्। ३३६)

आलस्या मिथुनसंयोगी अस्य सिद्धिः कुतो भवेत् ।
सुराणां गुरवो यद्य असुराणां च येस्तदा ॥

तेऽपि साधयितुं मन्त्रं न शक्तो विधिवर्जितम् ।
विधिहीनं तथा कर्म चित्तविभ्रमकारकम् ॥

तस्मात् तं जपेन्मन्त्रम् अयुक्तं विधिना विना ।
बालानां दृष्टिसम्मोहं जनयन्ति तथाविधा ॥

सम्मूढास्तु ततो बाला पतन्ते कष्टतमां गतिम् ।
ततस्ते मन्त्रधरास्तस्मादुज्जहार ततः पुनः ॥

अनुपूर्व्या ततह् सिद्धिं प्रयच्छन्ति शुभां गतिम् ।
ततो तं जपिनं मन्त्रा स्थापयन्ति शिवाचले ॥

एवममोघं मन्त्राणां जपमुक्तं तथागतैः ।
दृष्टिभ्रान्तेऽपि चित्तस्य अनुग्रहायैव युज्यते ॥

एते कल्याणमित्रा वै एते सत्त्ववत्सला ।
एतेषां सिद्धिनिर्दिष्टा त्रियानसमता शिवा ॥

तस्मात् सर्वप्रयत्नेन जपेन्मन्त्रं समाहितः ।
अविधिप्रयोगान्मन्त्रा हि प्रयुक्ता मन्त्रजापिभिः ॥

चिरकालं तु संसारात् कथञ्चिन्मुक्तिरिष्यते ।
सुचिरात् कालतरं गत्वा मन्त्राणां सिद्धि दृश्यते ॥

विधियुक्ता हि मन्त्रा वै क्षिप्रं सिद्धिमवाप्नुयात् ।
पश्यते फलनिष्पत्तिं नाफलं मन्त्रमुच्यते ॥

इहैव जन्मे सिद्ध्यन्ति मन्त्राः फलसमोदिता ।
न निष्पत्तिः फलकर्मणां नाफलं कर्ममिष्यते ॥

फलं कर्मसमायोगात् सफलं कर्म उच्यते ।
तज्जापी जन्मजनिता वियत्याभावसम्भवः ॥

शिवं लोकनिर्दिष्टं शान्तभावा विमुच्यते ।
तद्गतं गतिमाहात्म्यं बुद्धवर्त्मानुसेविनः ॥

८७, प्। ३३७)

विपरीतकलौ काले सिद्धिस्तस्यापि दृश्यते ।
इहैव जन्मे भवेत् सिद्धिः जन्मान्ते च प्रवर्त्तते ॥

यावन्निष्ठा भवेच्छान्ति शिववर्त्ममसंस्कृतम् ।
यत्तु लोकविनिर्दिष्टं शिवं स्थानं सुनिर्मलम् ॥

बुद्धत्वं सप्रकाशं तु जनैः सर्वप्रकाशितम् ।
तदन्तं तस्य अन्तं वै मन्त्रसिद्धिरुदाहृता ॥

अप्रकाश्यमभावं तु जिनानां प्रत्यात्मसम्भवम् ।
मन्त्रा तु कथितं लोके मुनिचन्द्रैर्महर्द्धिकैः ॥

साक्षात् सिद्धि समादिष्टा इह जन्मेऽपि देहिनाम् ।
शून्ये तत्वविदे क्षेत्रे मन्त्रा बुद्धत्वमाविशेत् ॥

अन्ते कलियुगे काले शान्तिं तत्त्वविदे गते ।
मन्त्रा सिद्धिं न गच्छेयुः क्षिप्रमर्त्थाभिकाङ्क्षिणाम् ॥

तस्मिं काले प्रयोगेन विधिदृष्टेन कर्मणा ।
साधयेन्मन्त्रतन्त्रज्ञः शासनेऽस्मिं मुनिर्वचे ॥

ध्रियते तथागते सिद्धिः उत्तमा क्षिप्रमिष्यते ।
मध्यकाले तथा सिद्धि मध्यमा तु उदाहृता ॥

युगान्तं कालमासाद्य अधमा सिद्धिरुच्यते ।
युगे शोभने काले वियत्योत्पतनं तथा ॥

सिद्धिश्च सर्वमन्त्राणां निर्दिष्टा लोकनायकैः ।
तदा काले जिनेन्द्राणां कुलाग्र्यं तत् प्रसिध्यति ॥

मध्ये पद्मकुले सिद्धिः युगान्ते वज्रकुलस्य तु ।
प्रणिधानवशात् केचित् मन्त्रा सिद्ध्यन्ति सर्वदा ॥

अवलोकितेशो मञ्जुश्री तारा भृकुटी च यक्षराट् ।
सर्वे माणिचरा यक्षा सिद्ध्यन्ते सर्वकालतः ॥

रागिणो ये च मन्त्राद्या प्रयुक्ता सर्वदैवतैः ।
सिद्ध्यन्ते कलियुगे काले लौकिका ये सुचिह्निताः ॥

८८, प्। ३३८)

प्रोक्ता देवमनुजैः दानवेन्द्रैर्यक्षराक्षसैः ।
ऋषिभिर्गरुडैश्चापि पिशाचैर्भूतगणैर्ग्रहैः ॥

मानुषामानुषाश्चैव कामधातुसमासृतैः ।
महर्द्धिकैः पुण्यवद्भिश्च क्रूरकर्मैः सुदारुणैः ॥

शक्रब्रह्मतथारुद्रैः ईशानेन तथापरैः ।
विष्णुना सर्वभूतैस्तु मन्त्र प्रोक्ता महर्द्धिकाः ॥

तेऽपि तस्मिं युगान्ते वै सिद्धिं गच्छन्ति जापिनाम् ।
क्रूरकर्मे तथा सिद्धिः तस्मिं काले महद्भये ॥

वश्याकर्षणभूतानां क्रव्यादानां महीतले ।
दृश्यते निःफला सिद्धिः परलोकान्तगर्हिता ॥

अत एव जिनेन्द्रेण तस्मिं काले महद्भये ।
मञ्जुघोषसमादिष्टः सत्त्वानुग्रहतत्परः ॥

विनश्यन्ति तदा सत्त्वां मन्त्ररूपेण जापिनाम् ।
शासनेऽस्मिन् प्रसन्नानां त्रिरत्नेष्वेव पूजकामिति ॥

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात्
त्रिंशतिमः विधिनियमकालपटलविसरः परिसमाप्त इति ॥

८९, प्। ३३९)