३१

अथैकत्रिंशह् पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु मञ्जुश्रीः कुमार
पूर्वनिर्दिष्टं पदं सत्त्वाविष्टानां चरितं शुभाशुभं निमित्तं च वक्ष्ये ॥

अथ खलु मञ्जुश्रीः कुमारभूतः उत्थायासनाद् बह्गवतश्चरणयोर्निपत्य
मूर्ध्निमञ्जलिं कृत्वा भगवन्तमेतदवोचत् । तत् साधु भगवां वदतु
सत्त्वानां परसत्त्वदेहसङ्क्रान्तानामार्यदिव्य
एतिसिद्धगन्धर्वयक्षराक्षसपिशाचमहोरगप्रभृतीनां
विचित्रकर्मकृतशरीराणां विचित्रगतिनिश्रितानां विविधाकारानेकचिह्नानां
मनुष्यामनुष्यभूतानां चित्तचरितानि समयो भगवां समयः सुगतः ।
यस्येदानी कालं मन्यसे । एवमुक्तो मञ्जुश्रियः कुमारभूतो तूष्णीम्भावेन
स्वके आसने तस्थुः अध्येष्य जिनवरं लोकनायकं जिनसत्तमं गौतममिति ॥

अथ बह्गवां छाक्यमुनिः सत्त्वानां चित्तचरितनिमित्तज्ञान चिह्नं कालं च
भाषते स्म ॥

परदेहगतः सत्त्वः आकृष्टो मन्त्रयुक्तिभिः ।
केचिदाहारलोभेन गृह्णन्ते मानुषं भुवि ॥

अपरे क्रुद्धचित्ता वै पूर्ववैरात्र चापरे ।
गृह्णन्ते मानुषां लोके भूतलेस्मिं सुदारुणाः ॥

वीतरागा तथा नित्यं कारुण्यात् समया पुनः ।
अवतारं मर्त्यलोकेऽस्मिं गृह्णते मानुषां शुभाम् ॥

प्रशस्तां शुभमव्यङ्गां नराणां वर्णसाधिकाम् ।
उदयन्तं तथा भानो तेषामावेशमुच्यते ॥

अवतारास्तेषु कालेऽस्मिं भानोरस्तमने निशा ।
रात्र्यां च प्रथमे यामे सितपक्षेषु दृश्यते ॥

प्रशस्ता शुभकर्माणां ये नरा धार्मिकाः सदा ।
शुचिदक्षसमायुक्ता अवतारस्तेषु दृश्यते ॥

आविष्टास्तु ततो मर्त्या वीतरागैर्महर्द्धिकैः ।

८०, प्। ३३०)

शुचिदेशे जने चवै शुभे नक्षत्रतारके ।
प्रशस्ते दिवसे वारे शुक्लपक्षे शुभेऽहनि ॥

शुक्लग्रहसंयुक्ते तिथौ पूर्णसमायुते ।
परिपूर्णे तथा चन्द्रे अवतारं तेषु दृश्यते ॥

अवतीर्णस्य भवे चिह्नं वीतरागस्य महर्द्धिके ।
आकाशे तालमात्रं तु पृथिव्यामुत्प्लुत्य तिष्ठते ॥

पर्यङ्कोपविष्टोऽसौ दृश्यते नियताश्रये ।
नानादिव्यमतुल्याद्या ब्राह्मार्कर्णसुखास्तथा ॥

वदतेऽसौ महासत्त्वो यत्रासौ पीदधियोस्थितः ।
उष्णीषमुद्रैराकृष्टः पततेऽसौ महीतले ॥

महीमस्पृश्यतस्तिष्ठेदर्घं दद्यात्तु तत्क्षणात् ।
जातीकुसुमसन्मिश्रं श्वेतचन्दनकुङ्कुमम् ॥

मिसृतम् उदकं दद्यादर्घं पाद्यं तु तत्क्षणम् ।
प्रणिपत्य महीं मन्त्री अध्येष्ये हितकाम्यया ॥

अध्येष्टो हि सः सत्त्वो वीतमत्सरचेतसः ।
वाचं प्रभाषते दिव्याम् अनेलां कर्णसुखांस्तथा ॥

यथेप्सं तु ततः पृच्छे मन्त्रज्ञे हि विशारदः ।
न भेतव्यं तत्र काले तु मञ्जुघोषं तु संस्मरेत् ॥

मुद्रां पञ्चशिखां बद्ध्वा अन्यं वोष्णीषसम्भवम् ।
दिशाबन्धं ततः कृत्वा दित्यूर्ध्वमध एव तु ॥

ततोऽसौ सर्ववृत्तान्तमध्यान्तं च प्रवक्ष्यते ।
आदिमध्यं तथा कालं भूतं तथ्यमनागतम् ॥

वर्तमानं यथाभूतम् आचष्टेऽसौ महाद्युतिः ।
अनिमिषाक्षास्तथा स्तब्धः प्रेक्षतेऽसौ भीतविद्विषः ॥

यस्तेनोदिता वाचा सत्यं तं नान्यथा भवेत् ।
सिद्धिसाध्यं तथा द्रव्यं योनिं स निचयं गतिम् ॥

८१, प्। ३३१)

प्रत्येकबोधिमर्हत्वं महाबोधिं नियतं च तत् ।
बुद्धत्वगोत्रनियतं * * * * * * * * (?) ॥

अगोत्रं चैव कालं वै भव्यसत्त्वमहर्द्धिकम् ।
सर्वं सो कथये सत्यं समयेनाभिलक्षितः ॥

लक्षणमात्रं कथेद् योगी नान्यकालमुदीक्षयेत् ।
एतत्क्षणेन यत् किञ्चित् प्रार्थये सौमनसात्मना ॥

तत् सर्वं लभते क्षिप्रं मन्त्रसिद्धिश्च केवला ।
प्राप्नुयात् सर्वसम्पत्तिं यथेष्टां चाभिकाङ्क्षितम् ॥

विसर्ज्य मन्त्री तत् क्षिप्रमर्घं दत्वा तु सम्मताम् ।
पात्रसंरक्षणां कुर्याद् विधिदृष्टेन कर्मणा ॥

पतितं देहमत्वा वै शयानं चैव महीतले ।
उष्णीषमुद्रया युक्तं मन्त्रं चैव जिनोचितम् ॥

तेनैव रक्षां कुर्वीत मुद्रापञ्चशिखेन वा ।
स्वस्थदेहस्तदा सत्व उच्छिष्टेन महीतले ॥

सर्वमाविष्टसत्त्वानां रक्षा एषा प्रकल्पिता ।
अशक्ता दुष्टसत्त्वा वै हिंसितुं पात्रनिश्रिते ॥

रक्षा च महती ह्येषा जन्तूनां पात्रसम्भवाम् ।
वाचा तस्य मध्यस्था मध्यदेशे प्रकीर्तिता ॥

देवयोनिं समासृत्य अकनिष्ठाद्याश्च रूपिणाम् ।
एतेऽन्ये तानि चिह्नानि दृश्यन्ते रूपसम्भवाम् ॥

कामधात्वेश्वरा ये तु कामिनांश्चैव दिवौकसाम् ।
ततो हीना गतिश्चिह्ना वाचा चैव समाधुरा ॥

ततो भूनिष्पन्ना विमानस्था सदिवौकसाम् ।
वाचा काशिपुरीं तेषां यक्षाणां च समागधिम् ॥

अङ्गदेशां तथा वाचा महोरगाणां प्रकीर्त्तिता ।
पूर्वीं वाचा भवेत् तेषां गरुडानां महौजसाम् ॥

८२, प्। ३३२)

तथा वङ्गे समा जाता या वाचा तु प्रवर्त्तते ।
किन्नराणां तथा वाचा सा वाचा परिकल्पिता ॥

यौद्ध्री वाचा भवेन्नित्यं सिद्धविद्या सखड्गिणाम् ।
विद्याधराणां तु सा वाचा * * * * * * * (?) ॥

ऋषीणां तु कामरूपी तु वाचा विश्वरूपिणाम् ।
पञ्चभिज्ञं तु सा वाचा ऋषीणां परिकल्पिता ॥

या तु सामा तटी वाचा या च वाचा हरिकेलिका ।
अव्यक्तां स्फुटां चैव डकारपरिनिश्रिता ॥

लकारबहुला या वाचा पैशाचीवाचमुच्यते ।
कर्मरङ्गाख्यद्वीपेषु नाडिकेसरमुद्भवे ॥

द्वीपवारुषके चैव नग्नवालिसमुद्बह्वे ।
यवद्वीपिवा सत्त्वेषु तदन्यद्वीपसमुद्भवा ॥

वाचा रकारबहुला तु वाचा अस्फुटतां गता ।
अव्यक्ता निष्ठुरा चैव सक्रोधां प्रेतयोनिषु ॥

दक्षिणापथिका वाचा अन्ध्रकर्णाटद्राविडा ।
कोसलाडविसत्त्वेषु सैहले द्वीपमुद्भवा ॥

डकारे रेफसंयुक्ता सा वाचा राक्षसी स्मृता ।
तदन्यद्वीपवास्तव्यैः मानुष्यैश्चापि भाषितम् ॥

स एष वचनमित्युक्त्वा मातराणां महौजसाम् ।
पाश्चमी वाच निर्दिष्टा वैदिशीश्चापि मालवी ॥

वत्समत्सार्णवी वाचा शूरसेनी विकल्पिता ।
दशार्णवी चापि पार्वत्या श्रीकण्ठी चापि गौर्जरी ॥

वाचा निर्दिष्टा आदित्याद्यां ग्रहोत्तमाम् ।
तदन्यां ग्रहमुख्यां तु पारियात्री विकल्पिता ॥

अर्बुदे सह्यदेशे च मलये पर्वतवासिनाम् ।
खषद्रोण्यां तु सम्भूते जने वाचा तु यादृशी ॥

८३, प्। ३३३)

तादृशी वाच निर्दिष्टा कूष्माण्डाधियोनिजम् ।
शरषस सम्भूता यरलावकमुद्भवा ॥

घकारप्रथिता या वाचा दानवानां विनिर्दिशेत् ।
कश्मीरे देशसमुद्भूता काविशे च जनालये ॥

सर्वे कुलोद्भूता वज्रपाणिकुलोद्भिता ।
तेषां मन्त्रमुख्यानां सर्वेषां वाचमिष्यते ॥

तथाब्जमध्यदेशस्था कुलयोनिसमासृता ।
वाचा गतिचिह्नाश्च दृश्यन्ते अब्जसम्भवा ॥

पूर्वनिर्दिष्टमेवं स्यात् जिनमन्त्रा विकल्पिता ।
वीतरागां तु ये चिह्ना ते चिह्ना जिनसम्भवा ॥

यत्र देशे भवेद् वाचा तत्रस्था गतिचेष्टिता ।
तदेव निर्दिशेत् सत्त्वं तच्चिह्नं तु सर्वतः ॥

हिमाद्रेः कुक्षिसंविष्टा गङ्गातीरे तु चोत्तरे ।
यक्षगन्धर्वऋषयो जने वाचा प्रदृश्यते ॥

विन्ध्यकुक्ष्यद्रिसम्भूता गङ्गातीरे तु दक्षिणे ।
श्रीपर्वते तथा शैले सम्भूता ये च जन्तवः ॥

राक्षसोस्तारकप्रेता विकृता मातरास्तथा ।
घोररूपा महाविघ्ना ग्रहाश्चैव् सुदारुणाम् ॥

परप्राणहरा लुब्धा तज्जनोद्वाचसम्भवा ।
तत्र देशे तु ये चिह्ना तद्देशे गतिचेष्टिता ॥

तद्वाचवाचिनो दुष्टा आविष्टानां विचेष्टितम् ।
एते चान्ये च बहवो तच्चेष्टागतिचेष्टिनः ॥

विचित्राकाररूपाश्च विविधाकारचिह्निता ।
विविधसत्त्वमुख्यानां विविधायोनिमिष्यते ॥

एतदाविष्टचिह्नं तु लक्षणं गतिचिह्नितम् ।
सर्वेषां तु प्रकुर्वीत मानुषाणां सुखावहम् ॥

८४, प्। ३३४)

रक्षार्थं प्रयोक्तव्या कुमारो विश्वसम्भवः ।
षडक्षरेणैव कुर्वीत मन्त्रेणैव जापिनः ॥

महामुद्रासमायुक्तं * * * * * * * * (?) ।
पञ्चचीरासु विन्यस्तः महारक्षो कृता भविष्यति ॥

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात्
एकूनत्रिंशतिमः आविष्टचेष्टविधिपरिवर्तपटविसरः परिसमाप्तः इति ॥

८५, प्। ३३५)