३०

अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीयमन्त्रतन्त्रे
विद्याराज्ञां चक्रवर्त्तिप्रभृतीनां सर्वतथागतोष्णीषप्रमुखानां
सर्वमन्त्राणां सिद्धिस्थानानि भवन्ति । तत्रोत्तरापथे सर्वत्र ताथागती
विद्याराज्ञः सिद्धिं गच्छन्ति सङ्क्षेपतः ॥

चीने चैव महाचीने मञ्जुघोषोऽस्य त्रस्यति ।
ये च तस्य मन्त्रा वै सिद्धिं यास्यन्ति तत्र वै ॥

उष्णीषराज्ञां सर्वत्र सिद्धिर्दृश्येयु तत्र वै ।
काविशे वखले चैव उदियाने समन्ततः ॥

कश्मीरे सिन्धुदेशे च हिमवत्पर्वतसन्धिषु ।
उत्तरां दिशि निःसृत्य मन्त्रा सिद्ध्यन्ति श्रेयसाः ॥

ये च गीता पुरा बुद्धैः अधुना च प्रवर्त्तिता ।
अनागता च सम्बुद्धैः उद्गीर्णा शान्तिहेतवः ॥

सर्वे वै तत्र सिद्ध्यन्ति हिमाद्रिकुक्षिसम्भवे ।
जनपदे श्रेयसे भद्रे शान्तिं कर्तु समारभे ॥

मध्यदेशे तथा मन्त्राः सिध्यन्त्येते पद्मसम्भवा ।
गजोमानिकुले चापि सिद्धिस्तत्र प्रदृश्यते ॥

पञ्चिकस्य च यक्षस्य हारीत्या यक्षयोनिजा ।
गान्धर्वा ये तु मन्त्रा वै सिद्धिस्तेषां समोदिता ॥

काशिपुर्यां ततो नित्यं मगधेषु समन्ततः ।
अङ्गदेशे तथा प्राच्यां कामरूपे समन्ततः ॥

लौहित्यां तु तटे रम्ये वङ्गदेशेषु सर्वतः ।
जम्भलस्य भवेत् सिद्धि तथा मणिकुलोदिते ॥

समुद्रतीरे द्वीपेषु सर्वतत्र जलाश्रये ।
सिंहलानां पुरी रम्या सिद्ध्यन्ते मन्त्रदेवता ॥

७६, प्। ३२६)

भृकुटी चैव महाश्रिया यशस्विनी ।
सिताख्याः सर्वमन्त्रास्तु चतुःकुमार्या महोदधौ ॥

सिध्यन्ते तत्र वै स्थाने पूर्वदेशे समन्ततः ।
विन्ध्यकुक्षिनिविष्टाश्च अग्रेन्द्रे च समन्ततः ॥

कार्तिकेयोऽथ मञ्जुश्रीः सिद्ध्यन्ते च समन्ततः ।
शृङ्गारगह्वरः कुक्षाद्रेः कन्दरे च सकानने ॥

सिद्धिर्विनायकां तत्र विघ्नकर्ता सजापिनाम् ।
हस्ताकारसमायुक्तानेकदन्तां महौजसाम् ॥

अश्वरूपा तथानेका कारशालिनाम् ।
ईशानस्य सुतां दिव्यां विविधां विघ्नकारकाम् ॥

तत्प्रोक्ता मन्त्रयुक्तांश्च सिद्धिक्षेत्रं प्रदृश्यते ।
मातरा विविधाकारां ग्रहांश्चैव सुदारुणाम् ॥

प्रेतायोनिसमादिष्टा मानुषाहारनैरृताम् ।
प्रेतराज्ञः समादिष्टं सिद्धिक्षेत्रं ततोदितम् ॥

तदाद्यात् सर्वभूतानां सिद्धिक्षेत्रं समादिशेत् ।
वज्रक्रौञ्चो महावीर्यः सिद्ध्यन्ते तत्र वै दिशे ॥

आसुरा मन्त्रमुख्यास्तु ये चान्ये लौकिकास्तथा ।
सिद्ध्यन्ते तत्र मन्त्रा वै दक्षिणां दिशिमाश्रिताः ॥

प्रेतराज्ञस्तथा नित्यं यमस्यैव विनिर्दिशेत् ।
सिद्ध्यन्ते जात्यमन्त्रांस्तु सशैवा च सवैष्णवा ॥

क्रूराश्चाक्रूरकर्मेषु क्षेत्रमादिष्वदक्षणम् ।
वज्रपाणिसमादिष्टा मन्त्राः क्रूरकर्मिणः ॥

दक्षिणापथमासृत्य सिध्यन्ते पापकर्मिणाम् ।
अशुभं फलनिष्फत्तिं दृश्यते तत्र वै दिशे ॥

आदित्यभाषिता ये मन्त्राः सौम्याश्चैव प्रकीर्तिताः ।
ऐन्द्रा मन्त्राः प्रसिध्यन्ते पश्चिमे दिशि शोभने ॥

७७, प्। ३२७)

स्वयं तत्र सिध्येत यक्षेन्द्रोऽत्र महर्द्धिकः ।
धनदः सर्वभूतानां बालिशानां तु मोहिनाम् ॥

चित्तं ददाति जन्तूनां विधिदृष्टेन हेतुना ।
सिद्ध्यन्ते पश्चिमे देशे भोगवानर्थसाधकः ॥

धनदो नाम नामेन विश्रुतोऽत्र महीतले ।
वज्रपाणिः स्वयं यक्षः बोधिसत्त्वो महर्द्धिकः ॥

मन्त्रमुख्यो वरश्रेष्ठो दशभूमाधिपः स्वयम् ।
सिद्ध्यन्ते सर्वमन्त्रा वै वज्राब्जकुलसम्भवा ॥

तथाष्टकुलिका मन्त्रा अष्टभ्यो दिक्षु निश्रिता ।
उत्तरायां दिशि सिध्यन्ते मन्त्रा वै जिनसम्भवा ॥

पूर्वदेशे तथा सिद्धिः मन्त्रा वै पद्मसम्भवा ।
दक्षिणापथनिशृत्य सिध्यन्ते कुलिशालयाः ॥

पश्चिमेन गजः प्रोक्ता विदिशे मणिकुलस्तथा ।
पश्चिमे चोत्तरे सन्धौ सिद्धिस्तेषु प्रकल्पिता ॥

पश्चिमे दक्षिणे चापि सन्धौ यक्षकुलस्तथा ।
दक्षिणे पूर्वदिग्भागे श्रावकानां महौजसाम् ॥

कुलाख्यं तेषु दृष्टं वै तत्र स्थानेषु सिध्यति ।
पूर्वोत्तरे दिशाभागे प्रत्येकानां जिनसम्भवम् ॥

कुलाख्यं बहुमतं लोके सिद्धिस्तेषु तत्र वै ।
अधश्चैव दिशाभागे सिध्यन्ते सर्वलौकिका ॥

पातालप्रवेशिका मन्त्रा वै सिध्यन्तेऽष्टकुलेषु च ।
लोकोत्तरा तथा मन्त्रा उष्णीषाद्याः प्रकीर्तिताः ॥

सिद्धिमायान्ते ते ऊर्ध्वं चक्रवर्तिजिनोदिता ।
दिक्समन्तात् सर्वत्र वज्रिणस्य तु सिद्ध्यति ॥

तथान्ये मन्त्रराट् सर्वे अब्जयोनिसमुद्भवा ।
सिद्ध्यन्ते सर्वदा सर्वे सर्वमन्त्राश्च भोगदा ॥

सिद्ध्यन्ते सर्वकालेऽस्मिं वज्राब्जकुलयोरपि ।
एतत् क्षेत्रं तु निर्दिष्टं कालं तत् परिकीर्त्यते ॥

७८, प्। ३२८)

उत्पत्तेः सर्वबुद्धानां मन्त्रसिद्धि जिनोदिताम् ।
मध्यकाले तु बुद्धानाम् अब्जवज्रसमुद्भवाम् ॥

मन्त्राणामन्यकालेऽस्मिन् तदन्येषां मन्त्रशालिनाम् ।
सिद्धिश्च कालतः प्रोक्ता नान्यकाले प्रकीर्त्तिता ॥

तपसादुत्तमा सिद्धिस्त्रिभिर्जन्यैरवाप्नुयात् ।
सातत्यजापिनां मन्त्रं तद्भक्तां गतमानसाम् ॥

प्रसन्नानां जिनपुत्राणाम् इह जन्मेऽपि सिध्यति ।
रत्नत्रये च भक्तानां बोधिचित्तविभूषिताम् ॥

संवरस्थां महाप्राज्ञं तन्त्रमन्त्रविशारदाम् ।
मन्त्राः सिद्ध्यन्त्ययत्नेन बोधिसंवरतस्थिताम् ॥

सत्वानां कर्मसिद्धिस्तु आत्मसिद्धिमुदाहृता ।
सिद्धा एव सदा मन्त्रा असिद्धा सत्त्वमोहिता ॥

अत एव जिनेन्द्रैस्तु कल्पराज उदाहृतः ।
सविस्तरकृथा मन्त्रं बुद्धश्रेष्ठो हि सप्तमः ॥

स वव्रे मुनिमुख्यस्तु बुद्धचन्द्रो महर्द्धिकः ।
ज्येष्ठं च बुद्धपुत्रं तं मञ्जुघोषो महौजसम् ॥

शृणु त्वं कुमार ! मन्त्राणां प्रभावगतिनैष्ठिकम् ।
यस्मिं काले सदा बुद्धः ध्रियन्ते लोकनायकाः ॥

तस्मिं काले तदा सिद्धिः उष्णीषाद्यां प्रकीर्त्तिता ।
चक्रवर्त्तिस्तथा राजा तेजोराशिः प्रकीर्तितः ॥

सितातपत्रजपोष्णीष बहवः वर्णिता जिनैः ।
एवमाद्यास्तथोष्णीषाः सिद्ध्यन्ते तस्मिं काले ॥

चक्रवर्त्तिर्यदा काले जम्बूद्वीपे भविष्यति ।
धर्मराजा च सम्बुद्धः तिष्ठते द्विपदोत्तमः ॥

तस्मिं काले भवेत् सिद्धिः मन्त्राणां सर्वभाषितामिति ।

आर्यमञ्जुश्रियमूलकल्पाद्
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादष्टाविंशतिमः
क्षेत्रकालविधिनियमपटलविसरः परिसमाप्तमिति ॥

७९, प्। ३२९)