२८

अथ अष्टाविंशतितमः पटलविसरः पटलविसरः ।

अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं
कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः ! अपरमपि त्वदीयपटविधानं
साधनौपयिकं सर्वकर्मार्थसाधकम् । एतेनैव तु एकाक्षरेण हृदयमन्त्रेण
षडाक्षरेण वामकरान्तेन त्वदीयेन मूलमन्त्रेण वा षडक्षरहृदयेन
ओङ्काराद्येन एकाक्षरेण वा पटस्याग्रतः अस्यैव कल्पं भवति । पश्चिमे काले
पश्चिमे समये मयि तथागते परिनिर्वृते शून्ये बुद्धक्षेत्रे युगाधमे प्राप्ते
अत्राणे लोके अशरणे अपरायणे इदमेव कल्पराजा त्राणभूतं भविष्यति ।
शरणभूतं लयनभूतं परायणभूतम् । कतमं च तत् ॥

आदौ तावत् पूर्वमेवानाहते पटे केशापगते सप्तहस्तायते तृहस्तपृथुके सदशे
कुङ्कुमचन्दनरसपर्युषिते बुद्धं भगवन्तं शाक्यमुनिं लिखयेत् ।
पद्मासनोपविष्टं धर्मं देशयमानं मञ्जुश्रियं
कुमारभूतमवलोकयन्तम् । दक्षिणे पार्श्वे सुधनं सुभूमिम् आर्याक्षयमतिं
मञ्जुश्रियं च भगवतो नमस्कारं कुर्वन्तं कुमाररूपिणं
सर्वालङ्कारविभूषिताङ्गं वामपार्श्वे समन्तभद्रम् आर्यावलोकितेश्वरं
भद्रपालं सुशोभनं च लेखयेत् । भगवत्प्रतिमा ह्रस्वतरा च लेखयितव्या ।
आर्यावलोकितेश्वरसुधनौ चमरव्यग्रहस्तौ कार्यौ । वसुधा चाधस्तात् ।
रत्नकरण्डकव्यग्रहस्थाः पूर्वकायविनिर्गताः लेखयितव्या । उपरिष्टाच्च
विद्याधरकुमारौ मालाधारिणौ मेघाश्च वर्षमाणाः सविद्युता लेखयितव्याः
। सर्वे च बोधिसत्त्वा पुष्पमाणा यो भगवतो मुखं व्यवलोकयन्तः कर्तव्याः ।
सालङ्काराः प्रसन्नदृष्टयः पूर्वकाये निषीदवनतेन लेखयितव्याः ॥

तमीदृशं पटं सधातुके चैत्ये स्थाप्य पश्चान्मुखमक्षरलक्षं जपेत् । अस्य
मञ्जुश्रियः काष्ठमौनी त्रिःकालस्नायी तृचेलपरिवर्त्ती सततपोषधिकः
शाकयावकयथाभैक्षभैक्षाहारश्चतुर्भागमन्नं कृत्वा रत्नत्रयस्य
भागमेकम् अन्यः मञ्जुश्रियः अन्यत् सर्वसत्त्वानां शेषमात्मनोपयुञ्जीत ।
अक्षान्तकायो मनसि भगवन्तं कृत्वा सर्वसत्त्वानालम्बनेन मनसा
नात्मार्थमहं किञ्चित् करोमि करिष्याम्यन्यत्र सर्वसत्त्वानामर्थायेति ध्यात्वा
जापं कुर्यात् ।

६२, प्। ३१२)

स्नानं गन्धं पुष्पं धूपं बलिं प्रदीपांश्च दद्यात् । स्नापनं
पटच्छायायाः गन्धानधस्तात् पुष्पाणि च बलिं च सततं दद्यात् । तत्रैव
तेषां पूर्वं दद्यात् । रत्नत्रयस्य पश्चान्मैत्रेयस्य तदनन्तरमवलोकितेश्वरस्य
आर्यसमन्तभद्रस्य आर्याकाशगर्भस्य आर्याक्षयमतेः कुमारभूतस्य
चन्द्रप्रभस्य सर्वनीवरणविष्कम्भिणः आर्यवज्रधरस्य आर्यतारायाः
आर्यमहामायूर्या आर्यपराजितायाः भगवत्याः प्रज्ञापारमितायाश्च
गन्धं पुष्पं धूपं बलिं च सर्वमेतेषां पूर्वं दत्वा पश्चात् पटस्य
दद्यात् ॥

पश्चाद् बहिरेकस्मिं प्रदेशे सर्वोष्ट्रगर्दभश्वहस्तिरूपाणि विनायकानि
वल्मीकमृत्तिकया कृत्वा तेषां चाशेषं दद्यात् । अविस्मृत्य
पिण्याकपिष्टकतिलकृतकुलत्थमत्स्यमांसमूलकवार्ताकपद्मपत्रकांस-
भाजनानि च वर्जयेत् । कुशविण्डकोपविष्टः तत्रैव श्रान्तः सर्वबुद्धानुस्मृतिं
भावयेत् । मनसा जापं कुर्यात् । अन्यत्र विविक्ते कुशसंस्तरे शय्यां कल्पयेत् ।
अतिपानमतिभोजनम् अतिपर्यटनम् अतिदर्शनमतिशय्यां च वर्जयेत् । त्रिः कालं
बुद्धानुस्मृति भावयेत् । शुक्रबन्धं च कुर्यात् । शोभनानि च स्वप्नानि नान्यस्य
प्रकाशयेत् । भगवतो निवेदयेत् ॥

एवमनुपूर्वेण त्वरमाणः अक्षरलक्षं जपेत् । अन्ते च भगवतीं
प्रज्ञापारमितां वाचयेत् । जपकाले भगवतोऽथ मञ्जुश्रियः कुमारभूतस्य
मुखमवलोक्य जापं कुर्यात् । अनाकुलाक्षरपदः । अक्षसूत्रान्ते च नमस्कारं
कृत्वा निवेदयेत् ॥

अनेन विधिना पूर्वसेवां कृत्वा पटं क्वचित् स्वस्थे स्थाने स्थाप्य कर्म कुर्यात् ।
यत्र मनसः परितुष्टिरस्ति ॥

पटविधानं समाप्तम् ॥

पश्चाद् भगवन्तं मञ्जुश्रियं श्वेतचन्दनमयं पद्मासनस्थं भगवतीं
प्रज्ञापारमिताम् एकहस्ते दधानं दक्षिणेन फलं दधानं कारयेत् ।
तमेकस्मिं शुचौ प्रदेशे पश्चान्मुखं स्थापयित्वा तस्याग्रतोऽग्निकुण्डं
कुर्यात् । सर्वकर्म सचतुरश्रं द्विवितस्तिप्रमाणम् अधश्च गन्धां सर्वधान्यानि
च क्षिपेत् । तस्योपरि कुर्यात् ॥

६३, प्। ३१३)

अनेन विधिना नवमग्निमुत्पाद्य अश्वत्थसमिद्भिरग्निम् अथवाशोकस्य वा
घृततन्दुलोदनं क्षीरदधि मधु च सर्वमुपहृत्य ताम्रभाजने स्थापयित्वा
अष्टसहस्रं परिजप्य पूर्णाहुतिं दद्यात् । पश्चादन्यस्मिं दिने
शुक्लप्रतिपदमारभ्य कर्म कुर्यात् अश्वत्थसमिद्भिरग्निं प्रज्वाल्य विगतधूमं
दृष्ट्वा अग्निमावाहयेत् । आगच्छ हरिपिङ्गल ! दीप्तजिह्व ! लोहिताक्ष ! हरिपिङ्गल ! देहि
ददापय स्वाहा ॥

अनेन मन्त्रेणाहुतित्रयं दद्यात् । पश्चाद् भगवन्तमावाहयेत् । आगच्छगच्छ
कुमारभूत ! सर्वसत्त्वार्थमुद्यतोऽहं साहाय्यं मे कल्पय
गन्धपुष्पधूपं च प्रतिगृह्ण स्वाहा ॥

यद् ददाति तदनेन दातव्यम् । आगतस्य चार्घो देयः सुगन्धपुष्पपानीयेन
पश्चाद्धोमं कुर्यात् । सप्तवारानुदाहृत्य एकैवाहुतिं क्षिपेत् । एवं सप्तदिवसानि
घृततन्दुलानि तिलयावकेन चाप्यायनं कुर्यात् ॥

अत्रान्तरादवश्यमार्यमञ्जुश्रियं कुमाररूपिणं पश्यति ।
द्व्यङ्गुलप्रमाणानां चन्दनसमिधानामष्टसहस्रं जुहुयात् । दिनेदिने शतं
पृथिवीपतीनां वशमानयति । जातीकुसुमानां लक्षं जुहुयात् । राजा वश्यो
भवति । पद्मानां दधिमधुघृताक्तानां सहस्रं जुहुयात् । द्रव्यं लभते ।
शमीसमिद्भिरग्निं प्रज्वाल्य तिलां जुहुयात् । धनपतिर्भवति । सततमुदकमुदके
जुहुयात् । प्रातरुत्थितः सर्वजनप्रियो भवति । अर्कसमिधानां
दधिमधुघृताक्तानां लक्षं जुहुयात् । सहस्रपिण्डं ग्रामं लभते ।
बहुपुत्रिकां जुहुयात् । कन्यां यामिच्छति तां लभते । अपामार्गं जुहुयात्
व्याधिं प्रशमयति । क्षीरवृक्षकाष्ठैरग्निं प्रज्वाल्य तिलाहुतीनां लक्षं
जुहुयात् । यां चिन्तयित्वा करोति तां लभते । विषयार्थी पद्मानां लक्षं जुहुयात् ।
विषयं लभते । यवानां लक्षहोमेनाक्षयमन्नमुत्पद्यते । गुग्गुलुपृयङ्गं च
घृतेन सह होमयेत् । पुत्रं लभते । अकाकोलीने जातीकुसुमानां पानीये जुहुयात् ।
सप्ताहेन ग्रामं लभते । जातीकुसुमानां जले एकैकं पुष्पं गृहीत्वा जुहुयात् ।
अवशेषं खण्डं यस्य घ्राणाय दीयते स घ्राणमात्रेण वश्यो भवति ।
कुङ्कुमकस्तूरिकालवङ्गपुष्पं च मुखे प्रक्षिप्य जपेत् ।

६४, प्। ३१४)

येन सह मन्त्रयते स वश्यो भवति । मरीचमष्टसहस्राभिमन्त्रितं कृत्वा मुखे
प्रक्षिप्य क्रुद्धोऽपि वचनेन प्रियो भवति । शिखामनेनैव बध्नीयात् । अदृश्यो भवति
। शक्रं दृष्ट्वा मनसानुस्मरेद् विगतक्रोधो भवति । नित्यजापेन सर्वजनप्रियो
भवति । महति प्रयूषेऽभ्युत्थाय जातीकुसुमसहितं पानीयं शुचौ प्रदेशे
भूमौ जुहुयात् । मन्त्री भवति । अनतिक्रमणीयवचनः । भये समुत्पन्ने मनसि
कुर्यात् । भयं न भवति । परस्य क्रुद्धस्यापि मैत्रीं भावयित्त्वा अनुस्मृत्य
मुकं व्यवलोकयेत् । विगतक्रोधो भवति । सर्वसुगन्धपुष्पैः होमं कुर्याद्
यमुद्दिश्य करोति स वश्यो भवति । सप्ताभिमन्त्रितम् उदकं प्रत्युषसि पिबेत् ।
नियतवेदनीयं कर्म क्षपयति । सप्तजप्तेनोदकेन मुखं प्रक्षालयेत् सर्वजनप्रियो
भवति । पुष्पाण्यभिमन्त्र्य यस्य ददाति स वश्यो भवति । आचार्यत्वमेकेन
लक्षहोमेन तन्दुलानाम् । विषयपतित्वं तिलानाम् । पद्मानां सहस्रं जुहुयात् ।
दीनारसहस्रं लभते । वीरक्रयक्रीतां गुग्गुलुसर्जरसं गन्धरसं श्रीवासकं
चैकतः कृत्वा जुहुयात् । पञ्चम्यां पञ्चम्यां षण्मासम् । पूर्णे सहस्रगुणं
लभते । सर्वगन्धैः प्रतिकृतिं कृत्वा तीष्णशस्त्रेणैकधारेण च्छित्व । च्छित्वा
जुहुयात् । दक्षिणेन पादा पुरुषस्य वामपादं स्त्रियः यमिच्छति स वश्यो भवति ।
सप्ताहं त्रिसन्ध्यं धुत्तूरकपुष्पाणि जुहुयात् । गावो लभते ।
अर्ककाष्ठैर्धान्यं शिरीषपुष्पैरश्वाम् अशोकपुष्पैः सुवर्णं
व्याधिघातकपुष्पैर्वस्त्राणि लभते । यद् यदिच्छति तत् सर्वं जातीकुसुमहोमेन
करोति । यद्वर्णानि पुष्पाणि पानीये जुहोति सवितुरुदये । तद्वर्णानि वस्त्राणि लभते ।
सप्तजप्तं भाजनं कृत्वा भिक्षामटति भिक्षामक्षयां लभते ।
रात्र्यामुत्थाय परिजप्यात्मानं स्वयं शोभनानि स्वप्नानि पश्यति ॥

अथ राजानं वशीकर्तुकामं तस्य पादपांसुं गृहीत्वा सर्षपैस्तैलैश्च
मिश्रयित्वा जुहुयात् । सप्ताहं त्रिसन्ध्यं वश्यो भवति ॥

राज्ञीं वशीकर्तुकामः सौवर्चलां शतपुष्पां वाराहीं चैकतः कृत्वा
जुहुयात् । सप्तरात्रं त्रिसन्ध्यं वश्या भवति । राजमात्यं वशीकर्तुकामः
भल्लातकानां तिलां वचां च प्रतिकृतिं कृत्वा जुहुयात् । सप्ताहं सप्तरात्रं च
वश्यो भवति ॥

६५, प्। ३१५)

पुरोहितं वशीकर्तुकामः ब्रह्मदण्डीं शतपुष्पां चैकतः कृत्वा जुहुयात् ।
सप्तरात्रं त्रिसन्ध्यं वश्यो भवति ॥

ब्राह्मणानां वशीकर्तुकामः पायसं घृतसहितं जुहुयात् । सर्वे वश्या
भवन्ति ॥

अथ क्षत्रियं वशीकर्तुकामः शाल्योदनं घृतसहितं जुहुयात् ।

सप्ताहम् ॥

वैश्यानां वशीकरणे यावकां गुडसहितां जुहुयात् । वश्यो भवति ॥

पिण्याकं जुहुयात् । शूद्रा वश्या भवन्ति ॥

सर्वानेकतः कृत्वा जुहुयात् सर्वे वश्या भवन्ति ॥

चतुःपथे एकशून्ये गृहे वा बलिं निवेद्य योऽस्य ग्लानः स तस्माद् विनिर्मुक्तो भवति

मुखं स्पृशं जपे ज्वरमपगच्छति । अष्टशतजप्तेन शिखाबन्धेन
सर्वव्याध्भ्यः परिमुच्यते । सर्वरोगेभ्यः मूश्रकं बध्वा शिखाबन्धं
कृत्वा स्वप्तव्यम् । सर्वरोगा अपगच्छन्ति । व्याधिना ग्रस्तः जपमात्रेण मुच्यते ।
गलग्रहे वल्मीकमृत्तिकां जप्त्वा लेपः कार्यः । व्याधिरपगच्छति । अक्षिरोगे
नीलीकलिकानि जुहुयात् । व्युशाम्यति ॥

पटविधानस्यार्तरिकर्म्मः ॥

पूर्वोक्तेन विधानेन अनाहते पटे केशापगते आर्यमञ्जुश्रीः कुमारभूतः
आभिलेख्यः सर्वालङ्कारविभूषितः । रक्तवर्णः कुमाररूपी पद्मासनस्थः ।
दक्षिणपार्श्वे आर्यावलोकितेश्वरः वामपार्श्वे समन्तभद्रः ।
आर्यमञ्जुश्रियस्य किञ्चिदूनौ । तं पटं स्थापयित्वा कोटिं जपेत् । राजा भवति ॥

चन्दनसमिधानां कुङ्कमाभ्यक्तानां लक्षं जुहुयात् । राजा भवति ।
अगरुसमिधानां दधिमधुघृताक्तानां लक्षं जुहुयात् । राजा भवति ।
जातीकुसुमानां घृताक्तानां कोटिं जुहुयात् । राजा भवति ॥

६६, प्। ३१६)

यत्प्रमाणानां पद्मानां राशिं जुहोति तत्प्रमाणानां दीनाराणा राशी
लभते । यावद् यावत् तावज्जप्यमानां न गृह्णाति तावद् विद्याधरचक्रवर्ती भवति
। भल्लातकानां लक्षं जुहुयात् दीनारसहस्रं ददाति । व्याधिघातकफलानां
लक्षं जुहुयात् महाधनपतिर्भवति । अष्टसहस्रहोमेन गुग्गुलुसमिधानां
धान्यं लभते । सतततिलहोमेनाव्यवच्चिन्नं धान्यं लभते । गोतण्डुलानां
लक्षं जुहुयात् । सह दध्ना गोसहस्रं लभते । बहुपुत्रिकाफलानि शमीफलानि
चैकतः कृत्वा जुहुयात् । यामिच्छन्ति कन्यां तां लभते । शमीपत्राणि जुहुयात् ।
सर्वकामदो भवति । अगस्तिपुष्पाणि क्षीराक्तानि जुहुयात् । ब्राह्मणवशीकरणा ।
करवीरपुष्पाणि शुक्लानि जुहुयात् । क्षत्रियवशीकरणे । कर्णिकारपुष्पाणि
जुहुयाद्राजा वशीकरणे । धुत्तूरकपुष्पाणि जुहुयात् । शूद्रवशीकरणे ।
अर्कपुष्पाणां दधिमधुघृताक्तानां लक्षं जुहुयात् । सर्वव्याधिभ्यः
परिमुच्यते ॥

अनेनैव विधिना पुष्पाणां सुगन्धानां लक्षं पादमूले निवेदयेत् । नित्यसुखी
भवति । अश्वत्थसमिद्भिरग्निं प्रज्वाल्य शमीपुष्पाणां सहस्रं जुहुयात् ।
नक्षत्रपीडा व्युपशाम्यति । गोरोचनया मन्त्रमभिलेख्य शिरसि बध्वा
सङ्ग्रामेऽवतरेत् । शस्त्रैर्न स्पृश्यते । हस्तिस्कन्धे मञ्जुश्रियमग्रतो बलस्य दत्त्वा
दर्शनमात्रेणैव परबलस्य भङ्गो भवति । ध्वजाग्रे कुमाररूपिणं
सौवर्णमयूरासनस्थं कृत्वा सङ्ग्राममवतरेत् । दर्शनादेव परबलस्य
भङ्गो भवति । जातीकुसुमानां पादमूले लक्षं निवेदयेत् । तत्रैव कुशसंस्तरे
शय्यां कुर्वीत । स्वप्ने यथाभिलषितं कथयति । प्रदीपानां सहस्रं दत्त्वा
एकप्रदीपं पद्मसूत्रवर्त्तिं कृत्वा मधुयष्टिं वेष्टयित्वा प्रज्वाल्य पश्येद्
यथाभूतं मञ्जुश्रियं कुमारभूतं पश्यति ॥

द्वितीयं पटविधानं समाप्तम् ।

सौवर्णं रजतं वा कुमारं कृत्वा वरदं दक्षिणेन पाणिना । वामेन
भगवतीं प्रज्ञापारमितां दधानं तमीदृशं सधातुककरण्डकं पुरतः
स्थाप्याक्षरलक्षं जपेत् । पूजां वासरिणां कुर्यात् ।
बालदारकदारिकाश्चास्याग्रतो भोजयितव्या ।

६७, प्। ३१७)

गीतं वादितं पुस्तकवाचनं चाकुर्यात् । जपपरिसमाप्तौ पुष्पत्रयेणार्घं
दत्वा प्रेषयेत् । पूर्वोक्तेन विधानेनावाहनविसर्जनं पद्ममुद्रां बध्वा
जापं कुर्यात् । ध्वजमुद्राया आवर्त्तनं स्वस्तिकमुद्रया आसनं
पूर्णमुद्रायार्घम् एकलिङ्गमुद्राया पुष्पाणि मनोरथमुद्राया प्रदीपं
यमलमुद्राया धूपं मयूरासनमुद्राया गन्धं यष्टिमुद्राया बलिम् अनेन
विधानेन रात्रौ दिनेदिने कुर्याद् यावज्जापपरिसमाप्तिरिति । पश्चात् कर्माणि कुर्यात् ॥

जातीकुसुमानां समुद्रगामिन्यां नद्यां लक्षं प्लावयेत् । विषयं लभते ।
रात्रौ जातिकुसुमौघं कृत्वा भगवतः पुरतः स्वपेत् । भगवन्तं पश्यति धर्म
देशयमानं बोधिसत्त्वपरिवृतं यमुद्दिश्य करोति तदेव कम कुर्यात् । नान्यस्य
कुर्यात् । उपोषधिकेन शुक्लप्रतिपदमारभ्य श्रीवासकधूपं मधुमिश्रं
जुहुयात् राज्यं लभते । कोटि जपेत् मञ्जुश्रियं स्वयमेव पश्यति धर्मदेशनां च
करोति । यदि केनचित् सहोल्लापयति सम्मुखमवभाषते अवैवर्त्तिकश्च बोधिसत्त्वो
भवति ॥

तृतीयं विधानम् ।

रक्तचन्दनमयं कुमाररूपिणम् एकेन पार्श्वेन प्रियङ्करम् अन्येन वीरमती
साशोकवृक्षाश्रयां कारयेत् । तमेकपार्श्वे स्थापयित्वा
लवणसर्पपराजिकाव्यामिश्रेण रक्तचन्दनप्रतिकृतिं कृत्वा च्छित्वा च्छित्वा जुहुयाद्
यस्य नाम्ना स वश्यो भवति । उदुम्बरफलानि यस्य नाम्ना जुहुयात् स वश्यो भवति
। काकोदुम्बरिकाफलानि जुहुयाद् यस्य नाम्ना स वश्यो भवति । शृङ्गाटकं
जुहुयात् ब्राह्मणवशीकरणे पद्ममूलानि क्षत्रियवशीकरणे कशेरुकाणि जुहुयात् ।
वैश्यवशीकरणे शालूकानि जुहुयात् । शूद्रवशीकरणे
लवणशर्कराणामष्टसस्रं जुहुयात् । त्रिसन्ध्यं सप्ताहं यस्य नाम्ना जुहोति स
वश्यो भवति । निम्बपत्राणि कटुतैलाक्तानि जुहुयात् आहुत्याष्टसहस्रं त्रिसन्ध्यं
सप्ताहं यस्य नाम्ना स वश्यो भवति । सर्वेण होमेन वशीकरणम् ॥

बृहतीकुसुमानां लक्षं जुहुयात् सुवर्णं लभते ।
कालाञ्जनिकाकुसुमानामष्टसहस्रं जुहुयात् महान्तं ग्रामं लभते ।
पाटलपुष्पाणि जुहुयाद् धान्यमक्षयं लभते ।

६८, प्। ३१८)

श्रीपर्णीपुष्पाणि जुहुयात् सुवर्णं लभते । वचां दधिमधुघृताक्तां जुहुयात्
सर्ववादेषूत्तरवादी भवति । ब्राह्मीरसघृतसहितं ताम्रभाजने स्थापयित्वा
तावज्जपेद् यावद् दशसहस्राणि पश्चात् पिबेत् सर्ववादिनो विजयते । यस्य
क्रुद्धस्याष्टसहस्राभिमन्त्रितं कृत्वा लोष्टं क्षिपेत् पुरतः स क्रोधः मुञ्चति ॥

चतुर्थं विधानम् ।

अनाहते पटे केशापगते उपोषधिकेन चित्रकरेण अश्लेषकैर्वर्णकैः
आर्यमञ्जुश्रियश्चित्रापयितव्यः । पद्मासनोपविष्टं धर्म देशयमानं
दक्षिणपार्श्वे आर्यमहामेखला वामपार्श्वे चार्यप्रज्ञापारमिता जापवती
सर्वालङ्कारविभूषिता शुक्लवस्त्रनिवसना । तस्याधस्तात् पद्मसरः
बहुविधपुष्पसङ्कीर्णः नागराजानौ अकायविनिर्गतौ पद्मदण्डधृतहस्तौ
आर्यापराजिता चैकस्मिं विघ्नविनायकां नाशयन्ती अग्निज्वालामुखी
भृकुटीकृतलोचनाम् अन्यस्मिं पार्श्वे आर्यपर्णशबरी पाशपरशुव्यग्रहस्ता
कृष्णरक्तनेत्रा मयूरपृष्ठाभिरूढा साधकं परिरक्षन्ती । साधकश्च
पद्ममालाव्यग्रहस्थाः भगवतो मञ्जुश्रियमुखं व्यवलोकयमानः
उपरिष्टाच्चामरपुष्पमालादुन्दुभिधारिणौ देवपुत्रौ लेखयितव्यौ ॥

तं पटं पश्चान्मुखं स्थाप्य सधातुके चैत्ये कोटिं जपेत् । जपान्ते च महतीं
पूजां कृत्वा भगवतीं प्रज्ञापारमितां वाचयित्वा दशसहस्राणि जपेत् ।
मञ्जुश्रियो मुखं व्यवलोकयमानः । पश्चात् पटं कम्पते । राज्यं लभते ।
चक्षुश्च लभते । विद्याधरो भवति । हसते चक्रवर्त्ती भवति । भाषणे बोधिसत्त्वः
प्रथमभूमिप्रतिलब्धो भवति । धर्मदेशनां चास्य शृणोति ॥

तस्यैव पटस्याग्रतः कपिलायाः समानवत्सायाः गोघृतं गृह्यताम्रभाजने
स्थाप्य तावज्जपेद् यावदूष्मायति । धूमायति । प्रज्वलति । ऊष्मायमानं पीत्वा
परममेधावी भवति । श्रुतिधरः धूमायमानेऽन्तर्द्धानम् ज्वलमाने
आकाशगमनम् । आमशरावसम्पुटे स्थाप्य

६९, प्। ३१९)

वचां जातीकुसुमैर्वेष्टयित्वा तावज्जपेद् यावदङ्कुरीभवति । तां भक्षयित्वा
श्रुतिधरो भवति । अन्यां कोटि जपेत् मञ्जुश्रियं साक्षात् पश्यति । धर्मदेशनां
च शृणोति । तां चाधिमुच्यते ॥

सौवर्णपद्मं शतपत्रं कारयित्वा दक्षिणं जानुमण्डलं पृथिव्यां
प्रतिष्ठाप्य तावज्जपेद् यावज्ज्वलतीति । तेन गृहीतमात्रेण विद्याधराणां चक्रवर्ती
भवति परैरधर्षणीयः । मनःशिलां हरितालमञ्जनं वा श्रीपर्णीसमुद्गके
प्रक्षिप्य तावज्जपेद् यावत् खुट्खुटाशब्दं करोति । गृहीतमात्रेण भूमिचराणां
राक्षसपिशाचानामधिपतिर्भवत्यधृष्यः । खड्गं गृह्य सल्लक्षणसङ्कीर्णम्
अव्रणं तावज्जपेद् यावदहिरिव फणं कृत्वा तिष्ठति । तं गृह्य
विद्याधरचक्रवर्ती कल्पायुरधृष्यः । मनःशिलां तृलोहपरिवेष्टितां कृत्वा
मुखे प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायतीति । अदृश्यो भवति । खड्गहर्ता अदृश्यः
सर्वाणि कुशलोपसंहितानि करोति । वर्जयित्वा कामोपसंहितम् ।
शमीवृक्षरूढस्याश्वत्थस्य सारं गृह्य तृलोहपरिवेष्टितं कृत्वा मुखे
प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायति । अधृष्यो भवति वर्षसहस्रं जीवति ॥

रजतं
चक्रं कृत्वा असुरविवरस्याग्रतः तावज्जपेद् यावच्चक्रम् असुरजन्त्राणि भित्त्वा
प्रविशति । तत्क्षणमेवासुरयुवतयो निर्गच्छन्ति । ताभिः सह प्रविश्य कल्पस्त्थायी
भवति । लोहमयं तृशूलं कृत्वा तस्मिं विवरद्वारे जापं करोति तत्र
सर्वयन्त्राणि स्फुटन्ति । यावद्भिः सहेच्छति तावद्भिः सह प्रविशति । कल्पस्थायी
भवति । मैत्रेयं च भगवन्तं पश्यति ॥

पञ्चमं पटविधानम् ।

श्वेतार्कमयम् अङ्गुष्ठमात्रं भगवन्तं मञ्जुश्रियं कारयित्वा
अर्कपुष्पाणां लक्षं निवेदयेत् । सामन्तराज्यं प्रतिलभते ।
श्वेतकरवीरमूलमयं कृत्वा अङ्गुष्ठमात्रमेव तत्पुष्पाणामेकां कोटिं
निवेदयेत् मन्त्री भवति । करहाटवृक्षमयं वितस्तिप्रमाणमात्रं कारयित्वा
तत्पुष्पाणां लक्षं निवेदयेत् । सेनापत्यं लभते । श्वेतचन्दनमयं
वितस्तिप्रमाणमात्रं भगवन्तं मञ्जुश्रियं कृत्वा जातीकुसुमानां लक्षं
निवेदयेत् । पुरोहित्यं लभते । अश्वत्थवृक्षमयम् अङ्गुलमात्रप्रमाणं
भगवन्तं मञ्जुश्रियं कारयित्वा

७०, प्। ३२०)

अकाकोलीने पानीयकुम्भं निवेदयेत् । बहुजनसम्मतो भवति । सर्वगन्धमयं
कृत्वा सर्वगन्धपुष्पैर्निवेदितैः यमिच्छति तमाप्नोति ।
सतत्तसमितमगरुसमिधानां जुहुयात् मन्त्री बहुजनस्य सम्मतो भवति ।
सततजापेन पञ्चानन्तर्याणि विक्षिपयति । मरणकाले मञ्जुश्रियं पश्यति ।
धर्मदेशनां चास्य करोति । उत्थायोत्थाय अष्टशतं जपेत् सर्वसत्त्वानामधृष्यो
भवति । अक्षिणी परिजप्य स्वामिनं पश्येत् । प्रसादवां भवति । यमुद्दिश्य
कर्मकरो तत्रस्थं सप्तभिर्दिवसैः ग्रामान्तरस्थम् एकविंशतिभिर्दिवसैः
विषयान्तरस्थं चतुर्भिः मासैः नद्यन्तरितं षड्भिर्मासैः
स्वकुलविधानेनान्यमन्त्रविधानेन चाशेषं कर्मं करोति । वर्जयित्वा
कामोपसंहितम् । आभिचारुकं चेति ॥

षष्ठो विधानः ।

इत्युक्तं युगान्तेहितं * * * * * * (?) तथा ।
सत्त्वानामल्पपुण्यानां हितार्थं मुनिना पुरा ॥

शासनान्तर्हिते शातु शाक्यसिंहस्य तापिने ।
सिद्धिं यास्यते तस्मिं काले रौद्रेऽतिभीरवे ॥

सप्तमं वक्ष्यते ह्यत्र कल्पराजे सुखावहे ।
ममैतत् कथितं कल्पं तस्मिं काले सुदारुणे ॥

सत्त्वानामल्पपुण्यानां मार्गो ह्येष प्रवर्तितः ।
बोधिसम्भारहेतुत्वं त्रियानपथनिम्नगम् ॥

उपायकौशल्यसत्त्वानां दर्शयामि तदा युगे ।
तृष्णामूढा हि वै सत्त्वा रागद्वेषसमाकुला ॥

तेषां दर्शयाम्येतं मार्गं तृष्णावशानुगम् ।
तृष्णाबन्धनबद्धास्तु कुशलं वा कर्महेतुतः ॥

सिद्धिसाध्यं तथा द्रव्यं मन्त्रतन्त्रं समोदितम् ।
विनयार्थं तु सत्त्वानां कथितं लोकनायकैः ॥

एतत् कर्मस्य माहात्म्यं साधकानां तु जापिनाम् ।
इत्युक्त्वा मुनिवरो ह्यग्र शाक्यसिंहो नरोत्तमः ॥

७१, प्। ३२१)

कथित्वा मन्त्रतन्त्राणां बलं वीर्यं सविस्तरम् ।
अमोघं दर्शयेत् सिद्धिं तस्मिं काले युगाधमे ॥

शुद्धावासं तदा वव्रे देवसङ्घा जिनोत्तमो ।
यमेतन्मार्षा प्रोक्तं कल्पराजं सविस्तरम् ॥

सर्वलोकहितार्थाय मञ्जुघोषस्य शासनमिति ॥

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात्
महायानवैपुल्यसूत्रात् षड्विंशतिमः
कर्मविधानार्यमञ्जुश्रीयपरिवर्त्तपटलविसरः परिसमाप्त इति ।
७२, प्। ३२२)