अथ पञ्चविंशतितमः पटलविसरः ।
अथ भगवांश्छाक्यमुनिः पुनरपि ग्रहनक्षत्रतारकज्योतिषगणानामन्त्रयते
स्म । * * * * (?) शृण्वन्तु भवन्तः सर्वे । अनतिक्रमणीयोऽयं कल्पराजा
मञ्जुश्रियः कुमारभूतस्य मन्त्रतन्त्राभिषेकमण्डलविधान निच
जपहोमनियमविद्यासाधनप्रवृत्तानामस्मिं कल्पवरे विद्याधराणां
तिथिनक्ष्त्रचरितगणितामभिज्ञानां नक्षत्र भवद्भिः विघ्नं कर्तव्यम् ।
प्रवृत्तानां शासनेऽस्मिन् सर्वैश्च देवसङ्घैः तत्र रक्षा कार्या । सर्वे च
दुष्टसत्त्वानि निषेद्धव्यानि रोद्धव्यानि शासयितव्यानि सर्वे सर्वं न
घातयितव्यानि व्यवस्थासु च स्थापयितव्यानि शासनेऽस्मिन् दशबलानाम् ॥
अथ भगवां शाक्यमुनिः सर्वतथागतोष्णीषाभ्युन्नतं नाम समाधिं
समापद्यते स्म सर्वदुष्टनिवारणार्त्थं सर्वसत्त्वानाम् ।
समनन्तरसमापन्नस्य भगवतः शाक्यमुनेः सर्वे च ते तथागताः
दशदिग्लोकधातुव्यवस्थिता भगवन्तं शाक्यमुनिं तथागतं
शुद्धावासभवनस्थं व्यलोक्योपसङ्क्रमन्ते । उपसङ्क्रम्य
अचिन्त्यबुद्धस्वकाधिष्ठानेन भगवन्तं शाक्यमुनिं तथागतमामन्त्रयते स्म
॥
भाष भाष भो महावीर ! लोकानां च हितोदयम् ।
प्रवृत्ते सर्वमत्राणां समन्त्रतन्त्र यथाविधि ॥
भाषितः सर्वबुद्धैस्तु विद्याराजा महर्द्धिकः ।
एकाक्षरः प्रवरो ह्यग्रो नष्टे काले कलौ युगे ॥
प्रवरः सर्वमन्त्राणां सर्वबुद्धैस्तु भाषितम् ।
उष्णीषराजा महावीर्यः सर्वभूतनिवारणम् ॥
निषेद्धा ग्रहनक्षत्रां मातरां दुष्टचेतसाम् ।
विघ्नाः सर्वे तथा लोके ये चान्ये दुष्टचेतसा ॥
अनुग्रहार्त्थं तु सत्त्वानां जापिनां च सुखोदयाम् ।
सकलेऽस्मिन् शासने ह्यग्रः चक्रवर्तिर्महर्द्धिकः ॥
३५, प्। २८५)
उष्णीषराजा महावीर्यः सर्वस्मिं परमेश्वरः ।
भाष त्वं कालमेतस्य यस्येदानीं तथागत ! ॥
एवमुक्तास्तु ते बुद्धास्तूष्णीम्भावा ह्यवस्थिता ।
अथ तेषां बुद्धानां सन्निपाता सर्वं त्रिसाहस्रमहासाहस्रो लोकधातवः
सर्वसत्त्वानां च लोकभाजनानि एकज्वालीभूतानि न च एकसत्त्वानां पीडा अभूत् ।
बुद्धाधिष्ठानेन महान्तश्चावभासाः सन्दृश्यन्ते स्म ॥
अथ भगवां शाक्यमुनिः सर्वं तं शुद्धावासभवनमवलोक्य तांश्च
बोधिसत्त्वान्महासत्त्वान् तत्रस्थितानि च देवपुत्रां
सर्वश्रावकप्रत्येकबुद्धांश्च भगवतः महापर्षत्सन्निपातानामन्त्रयते स्म
॥
समन्वाहरन्तु बुद्धा ! भगवन्तः ! सर्वप्रत्येकबुद्धार्यश्रावकाः
कल्पमेकाक्षरय विद्याचक्रवर्तिनः सर्वतथागतोष्णीषाणाम्
उपर्युपरिवर्तमानस्याप्रतिहतशासनस्यापरिमितबलपराक्रमस्य भगवतः
उष्णीषराजचक्रवर्तिनः पुनरपि कल्पं भाषेऽहम् अस्मिं काले कलौ युगे ॥
अथ भगवतो दुरतिक्रमशासनस्य त्रैलोक्यगुरोः
सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगसत्कृतस्य
सर्वकर्मार्थसाधकस्य मन्त्रे वक्ष्ये पुनरपि कलौ युगे काले
शासनान्तर्द्धानकाले समये शासनारक्षको भगवाम् उष्णीषचक्रवर्ती
भविष्यति । सिद्धिं च यास्यते । सर्वकालं सर्वबुद्धानां च
शासनान्तर्द्धानकालसमये बुद्धोऽयं भगवां सत्त्वार्थं करिष्यति ।
आरक्षकोऽयं भगवां सर्वतथागतधर्मकोशसंसृष्टः । शृण्वन्तु भवन्तो
देवगणाः ! सर्वसत्त्वाश्च । भ्रूम् ॥
एष भगवां सर्वज्ञः बुद्धैर्मन्त्ररूपेण व्यवस्थितः ।
महाकारुणिकः शास्ता विचेरुः सर्वदेहिनाम् ॥
मन्त्राणामधिपतिः श्रीमां ख्याता उष्णीषसम्मतः ।
करुणाध समागम्य स्थितोऽयमेषमक्षरः ॥
३६, प्। २८६)
स धर्मधातुं निःसृत्य स्थितोऽयं विश्वरूपिणः ।
यथा हि बुद्धानां शरीरा प्रवृत्ता धातवो जने ॥
सामिषा लोकपूज्यास्ते निरामिषाः षु विशेषतः ।
सद्धर्मधातवः प्रोक्ता निरामिषा लोकहेतवः ॥
सामिषा कलेबरे प्रोक्ता जिनेन्द्राणां महर्द्धिका ।
विविधा धातवः प्रोक्ताः मुनिचन्द्रा निराश्रवाः ॥
सामिषा निरामिषाश्चैव प्रसृता लोकहेतवः ।
धर्मधातुं सन्मिश्रं सत्त्वानां करुणावशात् ॥
तिष्ठते मन्त्ररूपेण लोकनाथं प्रभङ्कर ।
स विश्वरूपी सर्वज्ञः दृश्यते ह महीतले ॥
सर्वार्थसाधको मन्त्रः सर्वबुद्धैस्तु भाषितः ।
एष सङ्क्षेपतो मन्त्रः जप्तोऽयं विधिना स्वयम् ॥
करोति सर्वकर्मं वै ईप्सितां सफलां सदा ।
अस्य कल्पं समासेन पुनः काले प्रचक्ष्यते ॥
युगान्ते मुनिवरे लोके अस्तं याते तथागते ।
कल्पसिद्धिस्तदा काले मन्त्रसिद्धिरुदाहृता ॥
अथ भगवतश्चक्रवर्तिनस्तथागतोष्णीषस्य
परकर्मप्रयोगविध्वंसनकरस्याजितञ्जयस्य सर्वमन्त्राधिपतेः
सर्वबुद्धबोधिसत्त्वानुनीतस्योष्णीषचक्रवर्तिनः सङ्क्षेपतः कल्पमेकाक्षरस्य
प्रवर्तितपूर्वं विस्तरतः ॥
आदौ तावत् यस्मिं स्थानेऽयं जप्यते तस्मिं स्थाने पथे योजनाभ्यन्तरेण
सर्वदुष्टग्रहाः प्रपलायन्ति सर्वमन्त्राः सिद्धा अपि न प्रभवन्ति सर्वदेवाः
सान्निध्यं त्यजन्ति अन्यत्र साधकस्येच्छयान्येषां लौकिकलोकोत्तराणां
साधकानां सिद्धिमपहरति परप्रयोगमन्त्रां छिन्नभिन्न-उत्कीलनतां मोचयति
॥
स्वयं विद्याच्छेदं कर्त्तुकामः कुशानां हरितानां मुष्टिं गृहीत्वा
अष्टशताभिमन्त्रितं कृत्वा शस्त्रेणच्छिन्द्यात् तां विद्यामुद्दिश्य सा छिन्ना
भवति । अनेन प्रतिकृतिं कृत्वा हृदये कीलकेन ताडयेत् । कीलिता भवते । सप्तजप्तेन
सूत्रेण कुसुम्भरक्तेन ग्रन्थिं कुर्यात् । बद्धा भवति । शरावेणाष्टशतजप्तेन
पिथयेद् रुद्धा भवति ।
३७, प्। २८७)
शस्त्रेण हृदयं द्विधा कुर्याद् भिन्ना भवति । राजिकाभिर्विषरुधिररक्ताभिः
रञ्जयेच्छिष्टिता भवति । करवीरलतया आहनेत् पीडिता भवति ।
सर्वविद्याभिचारुकमिच्छया करोति । सर्वत्र पूर्तिकं कर्म मुक्ताक्षीरेण
स्नापयित्वा होमं कुर्याच्छान्तिः । घृतहोमेन सर्वेषां शान्तिराप्यायनं कृतं
भवति । मुष्टिबन्धेन सर्वमन्त्रां स्तम्भयति मनसा मोक्षयति मन्त्र
साधयितुकामस्तमनेनैवोपरुद्ध्य साधयेदन्यकल्पं साधयितुमिच्छति
तमनेनैव साधयेत् । सिद्ध्यति । अनेनैव मन्त्रेणावाहनं भवति । पुनरनेनैव
विसर्जनं भवति । अनेनैव यस्य रक्षा क्रियते सोऽप्यदृश्यो भवति । यो मन्त्रो न
सिद्ध्यति प्रत्यादेशं वा न ददाति अनेनैव सह जपेत् । शीघ्रं सिद्ध्यति
प्रत्यादेशं वा ददाति । यदि न सिद्ध्यति प्रत्यादेशं प्रयच्छति । सो मृयते ॥
दधिमधुघृताक्तानां तिलानामष्तशतं जुहुयात् त्रिसन्ध्यं सप्ताहं यं
मन्त्रमुद्दिश्य सोऽस्य वशो भवति । यदुच्यते तत् कर्मं करोति । प्रत्यादेशं वा
प्रयच्छामि देवा वशीकर्त्तुकामः देवदारुसमिधानामष्टसहस्रं जुहुयात्
सप्तरात्रेण वश्यो भवति । नागां वशीकर्त्तुकामः त्रिमधुरं जुहुयात् । वश्या
भवन्ति । यक्षां वशीकर्क्षुकामो दधिभक्तं जुहुयात् । सर्वगन्धैर्गन्धर्वं
वशीकरोति । अशोकप्रियङ्गुसमिद्भिः कुसुमैर्वा यक्षिणीनागिनागग्रहाणां
राजिकाभिः राजानसिद्धार्थकैः ब्रह्माणं पुष्पहोमेन वेश्यं
दधिक्षीरघृतेन शूद्रं तुषपांसुभिः स्त्रियां लवणहोमेन रण्डां
माषजम्बूलिकाहोमेन कन्यां लाजाहोमेन सर्वान् घृततैलहोमेन वश्यां करोति
सर्वत्र त्रिसन्ध्यं सप्तरात्रम् । इत्युक्त्वा तूष्णीम्भूतो जिनोत्तमः ।
देवसङ्घां तदा मन्त्रे सप्तमो मुनिपुङ्गवः ।
प्रहस्य लोकधर्मज्ञः मुक्तोऽसौ गतधीस्तदा ॥
मुनिः श्रेष्ठस्तदा ज्येष्ठं बुद्धपुत्रं तदालपेत् ।
मञ्जुघोषं तदा वव्रे बोधिसत्त्वं महर्द्धिकम् ॥
३८, प्। २८८)
एष कल्पो मया प्रोक्तः एकदेशो हि चक्रिणे ।
विस्तीर्ण यस्य नाथस्य देवदेवस्य धीमतः ॥
कल्पैर्यस्य प्रमाणं तु न शक्यं भाषितुं जिनैः ।
सङ्क्षेपेण प्रवक्ष्ये ते मानुषाणां हितोदया ॥
एवमुक्ते तदा श्रीमां मञ्जुघोषो महर्द्धिकः ।
अद्ध्येषयति तं बुद्धं शुद्धावासोपरि स्थितम् ॥
भाष भाष महावीर ! सम्बुद्ध ! द्विपदोत्तम ! ।
नष्टे काले युगान्ते वै मानुषाणां सुखोदयम् ॥
कथमस्य महातेजा महावीरस्य मन्त्रराट् ।
पटसिद्धिः प्रदृश्येते क्षिप्रं पटविधिः कथमिति ॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतसक्रान्महायानवैपुल्यसूत्रात्
त्र्यविंशतितमः एकाक्षरचक्रवर्त्त्युद्भवपटलविसरः परिसमाप्त इति ॥
३९, प्। २८९)