२४

अथ चतुर्विंशतितमः पटलविसरः ।

अथ भगवां शाक्यमुनिः सर्वनक्षत्रग्रहतारकज्योतिषां
सर्वलोकधातुपर्यापन्नानां सर्वदिग्व्यवस्थितां सर्वमहर्द्धिकोत्कृष्टतरां
ग्रहणामन्त्रयते स्म । शृण्वन्तु भवन्तः मार्षाः !
सर्वग्रहनक्षत्रप्रभावस्ववाक्यं प्रभावं निर्देशयितुं भवन्तः
सर्वमन्त्रक्रियार्थां साधयन्तु भवन्तः । इह कल्पराजे मञ्जुघोषस्य शासने
सिद्धिं परतश्चान्यां कल्पराजांसि औत्सुक्यमाना भवन्तु भवन्त इति ॥

अथ भगवां शाक्यमुनिः
ग्रहाणां चरितं सर्वं सत्त्वार्थं वहेकार्थम् ।
सर्वजापिनां मन्त्रार्थं च प्रसाधितम् ॥

अश्विन्या भरण्या कृत्तिका ॥

नक्षत्रा त्रिविधा ह्येते अङ्गारग्रहचिह्निता ।
मेषराशिप्रकथ्येते तेषु सिद्धिर्न जायते ॥

उत्तमा मध्यमाश्चैव कन्यसा सिद्धि दृश्यते ।
न गच्छेत् सर्वपत्थानां क्रूरग्रहनिवारितः ॥

रोहिणी मृगशिरश्चैव आर्द्रं नक्षत्रमुच्यते ।
पुनर्वसुपुष्यनक्षत्रौ अश्लेषश्च प्रकीर्तितः ॥

मघाफल्गुन्यौ उभौ चापि हस्तचित्रौ तथैव च ।
स्वात्यविशाखमनुराधज्येष्ठमूलस्तथैव च ॥

आषाढौ तौ शुभप्रशस्तौ जापिनां हितौ ।
श्रवणधनिष्ठनक्षत्रौ क्रूरकर्मणि ॥

शतभिषभद्रपदौ उभौ नक्षत्रौ सिद्धिहेतवः ।
रेवत्या जायते श्रीमान् युद्धशौण्डो विशारदः ॥

शेषा नक्षत्रमुख्यास्तु न जायन्ते युगाधमे ।
अभिजित् सुचरितश्चैव सिद्धिपुण्या प्रकीर्तिता ॥

तिष्य उपपदश्चैव कनिष्ठो निष्ठ एव तु ।
भूतः सत्यस्तथां लोक आलोकश्च प्रकीर्त्यते ॥

१५, प्। २६५)

भोगदः शुभदश्चैव अनिरुद्धो रुद्ध एव तु ।
यशोदस्तेजराड् राजा लोकस्तथैव च ॥

नक्षत्रा बहुधा प्रोक्ता चतुःषष्टिसहस्रकाः ।
न एतेषां प्रभावोऽयमस्मिन् काले युगाधमे ॥

कथिता केवलं ज्ञाने कल्पराजे सुखोदये ।
स्वयम्भुप्रभावास्तु सत्त्वा वै तस्मिन् काले कृतौ युगे ॥

आकाशगामिनः सर्वे जरामृत्युविवर्जिता ।
अस्मिन् काले न नक्षत्रा नार्कचन्द्रा न तारका ॥

न देवता नासुरा लोके आदौ काले युगोत्तमे ।
न सञ्ज्ञा नापि गोत्रं वै न तिथिर्न च जातकम् ॥

नोपवासो न मन्त्रा वै न च कर्म शुभाशुभम् ।
स्वच्छन्दा विचरन्त्येते न भोज्यं नापि भोजनम् ॥

शुद्धा निरामया ह्येते सत्त्वा बहुधा समा ।
लोकभाजनसञ्ज्ञा वै ग्रस्यायां प्रवर्तते ॥

ततस्ते पूर्वेण कर्मेण आकृष्टा यान्ति भूतलम् ।
भूमौ विमानदिव्यसंस्थां ससुरासुरः ॥

सम्भवं ततो मध्यमे * * * * * * * * (?) ।
मध्यमे तु युगे प्रपते मानुष्यं तनुमाश्रिताः ॥

आहारपानलुब्धानां सा प्रभा प्रणाशिता ।
गात्रे खखटत्वं वै शुभाशुभविचेष्टितम् ॥

ततो दिवसमासा वै संवृता वै ग्रहज्योत्स्नया ।
ततः प्रभृति यत् किञ्चित् ज्योतिषां ज्ञानमेव वा ॥

मया हि तत् कृतं सर्वं सत्वानामनुग्रहक्षमा ।
ऋषिभिर्वेषः पुरा ह्यासीत् ब्रह्मवेषोऽथ धीमतः ॥

महेश्वरं तनुमाश्रित्य विष्णुवेषोऽथवा पुनः ।
गारुडीं तनुमाभुज्य यक्षराक्षसवारिणाम् ॥

१६, प्। २६६)

पैशाचीं तनु एवं स्याज्जातो जातो वदाम्यहम् ।
कुशला बोधिसत्त्वास्तु तासु तासु च जातिषु ॥

उपपत्तिवशान्नित्यं बोधिचर्यार्थकारणात् ।
बोधिसत्त्वः पुरासीदहमेव तदा युगे ॥

अज्ञानतमसा वृतो बलिशोऽहं पुरा ह्यसौ ।
यावन्ति केचिल्लोकेऽस्मिन् विज्ञाना शिल्पचेष्टिता ॥

शास्त्रे नीतिपुराणां च वेदव्याकरणं तथा ।
छन्दं च ज्योतिषश्चैव गणितं कल्पसम्मतम् ॥

मिथ्याज्ञानं तथा ज्ञानं मिथ्याचारं तथैव च ।
सर्वशास्त्रं तथा लोके पुरा गीतं मया चिरा ॥

न च ज्ञानं मया लब्धं यथा शान्तो मुनी ह्ययम् ।
बोधिकारणमुक्त्यर्थं मोक्षहेतोस्तथैव च ॥

संसारचारके रुद्धो न च मुक्तोऽस्मि कर्मभिः ।
बुद्धत्वं विरजं शान्तं निर्वाणं यच्युतं पदम् ॥

सम्यक्ष लब्धो मे चिरकालाभिलाषितम् ।
प्राप्तोऽस्मि विधिना कर्मैः युक्तिमन्तोऽधुना स्वयम् ॥

प्राप्तः स्वायम्भुवं ज्ञानं जिनैः पूर्वदर्शितम् ।
न तं पश्यामि तं स्थानं बहिर्मार्गेण लभ्यते ॥

भ्रान्तः संसारकान्तारे बोधिकारणदुर्लभाम् ।
न च प्राप्तो मया ज्ञानं यादृशोऽयं स्वयम्भुवः ॥

अधुना प्राप्तोऽस्मि निर्वाणं कर्मयुक्ता शुभे रतः ।
केवलं तु मया ह्येतद् वक्ष्यते शास्त्रसङ्ग्रहः ॥

न च कर्मविनिर्मुक्तं लभ्यते सिद्धिहेतवः ।
दीर्घः संसारसूत्रोऽयं कर्मबद्धो निबन्धनः ॥

तस्यैतद् भूतिमाहात्म्यं पच्यते च शुभाशुभम् ।
केवलं सूच्यन्त्येते नक्षत्रग्रहज्योतिषाम् ॥

१७, प्। २६७)

नान्येषां दृश्यते चिह्नमधर्मिष्ठा मनुजां तथा ।
अत एव ग्रहाद्युक्ता सानुग्राह्या शुभाशुभे ॥

चत्वारो लोकपालास्तु आपो भूम्यनिलज्योतिषखद्योतिभूताः प्रकीर्त्तिताः ।
इत्येते च महाभूता भूतसङ्ग्रहकारणा ॥

प्रचोदितास्तु मन्त्रे वै सत्त्वसङ्ग्रहकारणात् ।
तेषां कालनियमाच्च मन्त्रसिद्धिरजायते ॥

तेषु जापिषु यत्ने वै रक्षणीया शुभाशुभैः ।
प्रकृष्टो लोकमुख्यैस्तु शक्राद्याश्च सुरेश्वराः ॥

तेऽपि तस्मिन् तदा काले युगान्ते परिकल्पिता ।
मन्त्रा सिद्धिं प्रयत्नेन सिद्ध्यन्ते च युगाधमे ॥

अत एव हि जिनेन्द्रैस्तु कुमारपरिकल्पितः ।
मञ्जुघोषो महाप्राज्ञः बालदारकरूपिणः ॥

भ्रमते सर्वलोकेऽस्मिन् सत्त्वानुग्रहतत्क्षमः ।
तस्मिन् काले तदा सिद्धिर्मञ्जुघोषस्य दृश्यते ॥

नक्षत्रं ज्योतिषज्ञानं तस्मिन् काले भविष्यति ।
सप्ताविंशतिनक्षत्रा मुहूर्ताश्च प्रकीर्तिता ॥

राशयो द्वादशश्चैव तस्मिन् काले युगाधमे ।
ते ग्रहा संविभाज्यं वै नक्षत्राणां राशिमाश्रिता ॥

पृथुभूतानि सर्वाणि संश्रयन्ति पृथक् पृथक् ।
जातकं चरितं चैव सत्त्वा राशे प्रतिष्ठिता ॥

मोहजा विपरीतास्तु शुभाशुभफलोदया ।
अत एव कर्मवादिन्यो राशयस्ते मुहुर्मुहुः ॥

सत्त्वानां सिद्दियात्रं तु कल्पयन्ति शुभाशुभम् ।
जातकेषु तु नक्षत्रो रोहिण्यां परिकल्पितः ॥

श्रीमां क्षान्तिसम्पन्नः बहुपुत्रः चिरायुषः ।
अर्थभागी तथा नित्यं सेनापत्यं करोति सः ॥

१८, प्। २६८)

वृषराशिर्भवेदेष वृषे च परिमर्दते ।
मृगशिरे चैव लोकज्ञः धार्मिकः प्रियदर्शनः ॥

कृत्तिकांशे तथा नित्यं राजा दृश्यति मेदिनीम् ।
त्रिसमुद्राधिपतिर्नित्यं व्यक्तजातकमाशृते ॥

प्रादेशिकेऽथ दुर्गे वा एकदेशे नृपो भवेत् ।
यदि जातकसम्पन्नः ग्रहे च गुरुचिह्निते ॥

समन्ताद् वसुधां कृत्स्नाम् अनुभोक्ता भविष्यति ।
दश वर्षाणि पञ्च वै तस्य तस्य राज्यं विधीयते ॥

अश्विन्या भरणी चैव कृत्तिकांशं विधीयते ।
एष राशिसमर्थो वै वणिज्यार्थार्थसम्मदा ॥

यदि जातकसम्पन्नः ऐश्वर्यभोगसम्पदम् ।
जातकम् अस्य नक्षत्रे रक्ते भास्करमण्डले ॥

अस्तं गते यथानित्यं विकृतिस्तस्य जायते ।
क्रूरः साहसिकश्चैवासत्यलापी च जायते ॥

तनुत्वचोऽथ रक्ताभो दृश्यतेऽसौ महीतले ।
अस्य जातिक्षणान्मेषनिमिषं च प्रकीर्त्तितम् ॥

अत्रान्तरे च यो जातस्तस्यैते गुणविस्तराः ।
अच्छटापदमात्रं तु जातिरेषां प्रकीर्त्तिता ॥

अतो जातितो भ्रष्टा ग्रहाणां दृष्टिवर्जिता ।
जायन्ते विविधा सत्त्वा व्यतिमिश्रे प्रजातके ॥

व्यतिमिश्रा गतिनिष्पत्तिर्व्यतिमिश्रा भोगसम्पदा ।
अत एव न जायन्ते जातिकेष्वेव वर्णितैः ॥

जातका कथिता त्रिंशत् शुभाशुभफलोदया ।
क्रूरजातिर्भवे ह्येषाम् अङ्गारग्रहचिह्निता ॥

महोदरोऽथ स्निग्धाभो विशालाक्षः प्रियंवदः ।
जायते नित्यं धृतिमां बृहस्पतेग्रहमीक्षिते ॥

१९, प्। २६९)

युगमात्रे तथा भानौ उदितौ चन्द्रार्कदेवतौ ।
अहोरात्रे तथा नित्यं सम्यग् जातकमिष्यते ॥

विपरीतैर्जातकैरन्यैर्विपरीतास्तु प्रकल्पिता ।
ग्रहदर्शनसिद्ध्यन्तु मिथ्याजातिशुभाशुभे ॥

मिथ्याफलनिःष्पत्तिः सम्यग् ज्ञानशुभोदयः ।
गतियोनि समाशृत्य क्षेत्रे जातिप्रतिष्ठिताः ॥

अवदातो महासत्त्वो भार्गवैर्ग्रहचिह्निते ।
आर्द्रः पुनर्वसुश्चैव आश्लेषस्यांश उच्यते ॥

एष जातो महात्यागी शठः साहसिको नरः ।
स्त्रीषु सङ्गी सदा लुब्धो अर्थानर्थसविद्विषः ॥

परदाराभिगामी स्यात् कृष्णाभः श्याम एव वा ।
वर्णतो जायते धूम्रो उग्रो वै मैथुनप्रियः ॥

मैथुनं राशिमाश्रित्य जायतेऽसौ शनीश्वरी ।
शनिश्चरति तत्रस्था दिवा रात्रौ मुहुर्महुः ॥

एष जातकमध्याह्ने प्रभावोद्भवमानसः ।
तस्मिन् कालेति यो जातस्तत्प्रमाणमुदाहृतम् ॥

स भवे धननिष्पत्तिः ऐश्वर्य भुवि चिह्नितम् ।
पुष्ये तथैव नक्षत्रे आश्लेषे च विधीयते ॥

एतत् कटको राशिः गुरुयुक्तो महर्द्धिकः ।
पीतको वर्णतो ह्यग्रो जातकः सम्प्रकीर्तितः ॥

अर्द्धरात्रे तथा नित्यं जातकोऽयमुदाहृतः ।
तत्कालं तु प्रमाणेन यदि जातः सत्त्वमिष्यते ॥

सर्वार्थसाधको ह्येष विधिदृष्टेन हेतुना ।
राज्यधननिष्पत्तिः आबाल्याद्धि करोति सः ॥

पीताभासोऽथ श्यामो वा दृश्यते वर्णपुष्कलः ।
शौचाचाररतः श्रीमां जायतेऽसौ विशारदः ॥

२०, प्। २७०)

मघः फल्गुनीश्चैव सांशमुत्तरफल्गुनी ।
भास्करः स भवेत् क्षेत्रः सिंहो राशिर्विधीयते ॥

तत्र जाता महाशूरा मांसतत्परभोजना ।
गिरिदुर्ग समाश्रित्य राज्यैश्वर्यं करोति वै ॥

यदि जातकसम्पन्नः क्षेत्रस्था नियताश्रिता ।
उद्यन्ते तथा भानौ जातक एषु कीर्त्यते ॥

उत्तरा फल्गुनी संशा हस्तचित्रा तथैव च ।
नक्षत्रेषु च जातस्थो शूरश्चौरो भवेन्नरः ॥

असंयमी परदारेषु सेनापत्यं करोति सः ।
यदि जातकसम्पन्नः नियतं राज्यकारणम् ॥

कन्याराशिर्भवे ह्येषा यत्रैते तारका सृता ।
उभौ भवेदेषां स्वामी स्यादन्यो वात्र क्वचित् पुनः ॥

एतेषां तारका श्रेष्ठा ग्रहो रक्षति दारुणः ।
सौम्यो वा पुनर्भद्रश्च प्रमुद्रः सदा पति ॥

मध्याह्नापूरणाज्जातिः जातकम् एषु दृश्यते ।
चित्रांशं स्वातिनश्चैव विशाखास्यार्द्धसाधिकम् ॥

तुलाराशिः प्रकृष्टार्थसोमश्चरति देहिनाम् ।
एतदारुणं क्षेत्रं शनिर्भार्गवनालयम् ॥

जातकं ह्येषु जातस्थः प्रहरान्ते निशासु वै ।
एषु जाता भवेन्मर्त्या बहुपानरताः सदा ॥

अप्रगल्भा तथा ह्रीशा महासम्मतपूजिता ।
क्वचिद् राज्यं क्वचिद् भोगा। प्राप्नुवन्ति क्वचिद् ध्रुवम् ॥

अनियता जातके दृष्टा मात्रा बाल्यविवर्जिता ।
यदि जातकसम्पन्ना बह्वपत्या सुखोदयाः ॥

अनुराध दृष्टनक्षत्रे प्रकृष्टः कर्मसाधनम् ।
मैत्रात्मको बहुमित्रः शूरः साहसिकः सदा ॥

२१, प्। २७१)

ज्येष्ठा कथितं लोके जातः प्रचण्डो हि मानवः ।
बहुदुःखो सहिष्णुश्च क्रूरो जायति मानवः ॥

वृश्चिकां राशिमित्याहुः तीक्ष्णः साहसिकः सदा ।
एतेष्वेव सदा जाति जातकं च उदाहृतम् ॥

मध्यन्दिने तथादित्ये यदि जन्तुः प्रजायते ।
तीव्रो विजितसङ्ग्रामः राजासौ भवते ध्रुवम् ॥

बालदारकरूपास्तु ग्रहोमीक्षति तत्क्षणम् ।
योऽसावङ्गारकः प्रोक्तः पृथिवीदेवताशुभः ॥

अत एव पृथिवीं भुङ्क्ते स्वसुतश्चैव पालिता ।
ततोऽन्यो विपरीतास्तु जाति एव शुभाशुभा ॥

दीर्घायुषोऽथ तेजस्वी मनस्वी चैव जायते ।
जायतो ह्यनुराधायां महाप्राज्ञो मित्रवत्सलः ॥

एतदङ्गारकक्षेत्रं व्यतिमिश्रैः ग्रहैः सदा ।
मूलनक्षत्रसञ्जातः पूर्वाषाढास्तथैव च ॥

आषाढे उत्तरे अंशे धनूराशिः प्रकीर्तिता ।
एतद् बृहस्पतेः क्षेत्रं जातकं तस्य जायते ॥

अपराह्ने तथा सूर्ये शशिने वापि निशासु वै ।
तस्य जातकमित्याहुः यो जातो राज्यहेतवः ॥

स्वकुलं नाशयेन्मूले यत्ने शोभनमुच्यते ।
मध्यजन्मस्थितो भोगान् प्राप्नुयात् स न संशयः ॥

अतिक्रान्ते तु तारुण्ये यथा भास्करमण्डले ।
वार्द्धिक्ये भवते राजा महाभोगो महाधनः ॥

निम्नदेशे ससामर्थ्यो नान्यदेशेषु कीर्त्यते ।
ततोऽन्ये विपरीतास्तु दृश्यन्ते विविधा जिना ॥

उत्तराषाढमेवं स्या श्रवश्चैव प्रकीर्त्यते ।
धनिष्ठः श्रेष्ठनक्षत्रः राशिरेषा मकरो भवेत् ॥

२२, प्। २७२)

एतत् शानिश्चरक्षेत्रं तदन्यैर्वा ग्रहचिह्नितम् ।
जातकर्मेषु नित्यस्थो दृश्यते च महीतले ॥

निर्गते रजनीभागे प्रथमान्ते च मध्यमे ।
एषु जाता महाभोगा दृश्यते च समन्ततः ॥

नीचा नीचकुलावस्था महीपाला भवन्ति ते ।
प्रचण्डा कृष्णवर्णाभाः श्यामवर्णा भवन्ति ते ॥

रक्तान्तलोचना मृदवः शूराः साहसिकाः सदा ।
जलाकीर्णे तथा देशे नृपतित्वं करोति वै ॥

दीर्घायुषो ह्यनपत्या बहुदुःखा सहिष्णवः ।
ततोऽन्ये विपरीतास्तु दरिद्रव्याधितो जना ॥

धनिष्ठा शतभिषश्चैव पूर्वभद्रपदं तथा ।
अंशमेतद् भवेद् राशिः कुम्भसञ्ज्ञेति उच्यते ॥

एतद् ग्रहमुख्येन क्षेत्रमध्युषितं सदा ।
व्यतिमिश्रैस्तथा चन्द्रैः शुक्रेनैव तु धीमता ॥

एषु जातिर्भवेद्रात्रौ प्रत्यूषे च प्रदृश्यते ।
प्रकृष्टोऽयं जातको नित्यो लोके चेष्टितशुद्धितः ॥

क्रूरकर्मे भवेन्मृत्यो बुद्धिमन्त्यो उदाहृतः ।
विचित्रां भोगसम्पत्तिमनुभोक्ता महीतले ॥

तदन्ये विपरीतास्तु दरिद्रव्याधितो जना ।
भद्रपदश्चैव नक्षत्रः रेवती च प्रकीर्तिता ॥

पूर्वभद्रपदे अंशे मीनराशिप्रकल्पिता ।
जातकर्मेषु नित्यस्था दृश्यते च समन्ततः ॥

रात्र्या मध्यमे यामे दिवा वा सवितो स्थिते ।
अर्द्धयामगते भानौ मध्याह्णे ईषदुत्थितम् ॥

स्तोकमात्रविनिर्गतम् ।

हस्तमात्रावशेषे तु एककालं तु जातकम् ।
शुद्धः शुक्लतरश्चैव शुक्लतैव सुयोजितः ॥

२३, प्। २७३)

शुक्रक्षेत्रमिति देवा तं विदुर्ब्रह्मचारिणः ।
पीतकैः शुक्लनिर्भासैर्ग्रहैश्चापि रधिष्ठितः ॥

तत् क्षेत्रं श्रेयसो नित्यं धार्मिकं परमं शुभम् ।
एषु जाता भवेन्मर्त्या सर्वाङ्गाश्च सुशोभना ॥

राज्यकामा महावीर्या दृढसौहृदबान्धवा ।
दीर्घायुषो महाभोगा निम्नदेशे समाश्रिता ॥

प्राचिं दिश समाश्रित्य वृद्धिं यास्यन्ति ते सदा ।
न तेषां जङ्गले देशे वृद्धि जायति वा न वा ॥

न मत्स्या मूलचारिण्या दृश्यन्ते ह कथञ्चन ।
जलौघ चाभिवर्द्धन्ते ऋषीणामालयोऽम्भसि ॥

तेषु जाति प्रकीर्त्येते राशिरेव प्रकीर्तिता ।
तेषु जाता हि मर्त्या वै निम्नदेशेऽतिवर्द्धका ॥

महीपाला महाभोगा प्राच्यावस्थिता सदा ।
ग्रहाः श्रेष्ठाभिवीक्ष्यन्ते बृहस्पत्याद्याः शनैश्चराः ॥

प्राच्याधिपत्यं तु कुर्वन्ति एषु जातं न संशयः ।
राशयो बहुधा प्रोक्ता नक्षत्राश्च अनेकधा ॥

तृविधा ग्रहमुख्यास्तु चिरकाले तु नाधुना ।
मानुषाणामतो ज्ञानं तिथयः पञ्चदशस्तथा ॥

त्रिंशतिश्चैव दिवसानि अतो मासः प्रकीर्तितः ।
पक्षः पञ्चदशाहोरात्राः द्विपक्षो मास उच्यते ॥

ततो द्वादशमे मासे वर्षमेकं प्रकीर्तितम् ।
एतत् कालप्रप्राणं तु युगान्ते परिकल्पितम् ॥

प्राप्ते कलियुगे काले एषा सङ्ख्या प्रकीर्तिता ।
मानुषाणां तथायुष्यं शतवर्षाणि कीर्तिताः ॥

तेषां संवत्सरे प्रोक्तो ऋतवः सम्प्रकीर्तिताः ।
आदिमन्ते तथा मध्ये त्रिविधा ते परिकीर्तिताः ॥

२४, प्। २७४)

अन्तरा उच्चनीचं स्यादायुषं मानुषेष्विह ।
तेषा मनुष्यलोकेऽस्मिम् उत्पाताश्च प्रकीर्तिताः ॥

मानुषाणां तथायुष्यं शतवर्षाणि कीर्तितम् ।
अमानुष्या जीवलोकेऽस्मिन् विद्रवन्ति इतस्ततः ॥

वित्रस्ता तेऽपि भीता वै विचरन्ति इतस्ततः ।
देवासुरमुख्यानां यदा युद्धं प्रवर्तते ॥

तदा ते मनुष्यलोकेऽस्मिं कुर्वन्ते व्याधिसम्भवम् ।
केतुकम्पास्तथोल्काश्च अशनिर्वज्र एव तु ॥

धूम्रा दिशः समन्ताद् वै धूमकेतु प्रदृश्यते ।
शशिमण्डल भानो वै कबन्धाकारकीलका ॥

छिद्रं च दृश्यते भानौ चन्द्रे चैव महर्द्धिके ।
एवं हि विविधाकारा दृश्यन्ते बहुधा पुनः ॥

दुर्भिक्षं च अनायुष्यं राष्ट्रभङ्गं तथैव च ।
नृपतेर्मरणं चैव यतीनां च महद् भयम् ॥

लोकानां चैव सर्वेषां तत्र देशे भयानकम् ।
मघासु चलिता भूमिरश्विन्यां च पुनर्वसू ॥

मध्यदेशाश्च पीड्यन्ते चौराः साहसिकास्तदा ।
महाराज्यं विलुम्पेते दक्षिणापथसंशृतैः ॥

भरणिः कृत्तिकाश्चैव रोहिण्या मृगशिरास्तथा ।
यदा कम्पो महाभयो लोको तत्र शङ्का प्रजायते ॥

पश्चिमां दिशिमाशृत्य राजानो म्रियते तदा ।
येऽपि प्रत्यन्तवासिन्यो म्लेच्छतस्करजीविनः ॥

विन्ध्यपृष्ठे तथा कुक्षौ अनुक्लीनो जनेश्वरः ।
तेऽपि तस्मिं तदा काले पीड्यन्ते व्याधिमूर्छिताः ॥

अरीणां सम्भवस्तेषामन्योन्यातिशया जनाः ।
आर्द्रः पुष्यनक्षत्रः आश्लेषाश्चैव फल्गुनी ॥

२५, प्। २७५)

एतेषु चलिता भूमिनक्षत्रेषु नराधिपाम् ॥

सर्वां च कुरुते व्यग्राम् अन्यो आतपसरुन्धना ।
वधबन्धप्रपीडाश्च दुर्भिक्षश्च प्रजायते ॥

हस्तचित्र तथा स्वात्या अनुराधा जेष्ठ एव तु ।
एषु कम्पो यदा जातः भूरि स्मिं लोकभाजने ॥

हिमवन्तगता म्लेच्छा तस्कराश्च समन्ततः ।
नेपालाधिपतेश्चैव खशद्रोणिसमाश्रिताः ॥

सर्वे नृपतयस्तत्र परस्परविरोधिनः ।
सङ्ग्रामशीलिनः सर्वे भवन्ते नात्र संशयः ॥

मूलनक्षत्रकम्पोऽयम् आषाढौ तौ पूर्वमुत्तरौ ।
नक्षत्रेष्वेव दृश्यन्ते चलनं वसुधातले ॥

पूर्वं देशा मनुष्याश्च पौण्ड्रोद्राः कामरूपिणः ।
वङ्गालाधिपती राजा मृयते नात्र संशयः ॥

गौडानामधिपतिः श्रीमान् रुध्यते परराष्ट्रकैः ।
ग्लानो वा भवते सद्यं मृत्युर्वा जायते क्वचित् ॥

समुद्रान्तो तथा लोका गङ्गातीरे समाश्रिता ।
प्लाव्यन्ते उदके सर्वं बहुव्याधिप्रपीडिता ॥

श्रवणे यदि धनिष्ठायां शतभिषा भद्रपदौ तथा ।
पूर्वमुत्तरमेव स्याद् रेवत्यां यदि जायते ॥

महाप्रकम्पो मध्याह्ने लोकभाजनसञ्चलम् ।
प्रकम्पते वसुमती सर्वा पर्वताश्च सकानना ॥

सर्वे ते व्यस्तविन्यस्ता दृश्यते गगने सदा ।
उत्तरापथदेशाश्च पश्चादेशसमाश्रिता ॥

दक्षिणापथे सर्वत्र सर्वां दिशि समाश्रिता ।
नृपवरा भूतिभूयिष्ठा अन्योन्यापरुन्धिना ॥

२६, प्। २७६)

महामार्यो च सत्त्वानां दुर्भिक्षराष्ट्रभेदने ।
प्रत्यूषे च शिवा शान्तिर्देहिनां च प्रकम्पने ॥

ततोत्कृष्टवेलायां रौद्रकम्पः प्रजायते ।
ततोत्कृष्टतरश्चापि मागधानां वधात्मकाः ॥

अङ्गदेशाश्च पीड्यन्ते मागधो नृपतिस्तथा ।
ततो ह्रासि मध्याह्ने अपराह्ने दिवाकरे ॥

यदि कम्पः प्रवृत्तोऽयं कृत्स्ने चैव महीतले ।
सर्वप्रव्रजिता नित्यं प्राप्नुयाद् व्याधिसम्भवम् ॥

ज्वरारोगशूलैस्तु व्याधिभिः स्फोटकैः सदा ।
क्लिश्यन्ते सप्तराज्यं तु श्रेयस्तेषां ततः परे ॥

तमो ह्रासिगते भानोः क्ष्माकम्पो यदि जायते ।
चतुर्वर्णतरोत्कृष्टा ब्राह्मणाः सोमपायिनः ॥

क्लिश्यन्ते नश्यते चापि मन्त्री राज्ञो न संशयः ।
पुरोहितो धर्मिष्ठो अमात्यो वा राजसेवकः ॥

अन्यो वा व्रतिनो मुख्यो मन्त्रमन्त्रार्थकोविदः ।
ब्राह्मणः क्षत्रियो वापि वैश्य शूद्रस्तथैव च ॥

निपुणः पण्डितश्चापि शास्त्रतत्वार्थनीतिमाम् ।
हन्यते नश्यते चापि व्याधिना वा प्रपीड्यते ॥

स्मृतिमान् श्रुतितत्त्वज्ञ इतिहासप्रचिन्तकः ।
हन्यते व्याधिना क्षिप्रं वज्रेणेव स पादपः ॥

ततोऽस्तं गते भानौ ततोत्कृष्टतराथ पृष्वते ।
अपराह्णे युगान्ते च यदि कम्पः प्रजायते ॥

व्यतिमिश्रास्तथा सत्त्वास्तिर्यग्योनिसमाश्रिता ।
मानुषा लोकमुख्यास्तु तस्मिं कम्पेऽधिरीश्वराः ॥

ततो रात्रेः प्रथमे यामे यदि कम्पः प्रजायते ।
महावृष्टिः प्रदृश्येत शिलापातनसम्भवा ॥

२७, प्। २७७)

ततो ह्रासि यामे वै चलिते वसुमती तदा ।
तस्य चिह्नं तदा दृष्ट्वा वातवर्षं महद् भवेत् ॥

ततो ह्रासि यामान्ते दृश्यते कर्म दारुणम् ।
परचक्रागमनं विन्द्या पाश्चात्यं तु नराधिपम् ॥

ततो द्वितीयो यदा कम्पः प्रजायते ।
मृत्युव्याधिपरचक्रकुक्षिरोगं च दारुणम् ॥

पित्तश्लेष्मगता व्याधिं स कोपयति जन्तुनाम् ।
संवेजयति भूतानि देशाद् देशागमं तथा ॥

ततो द्वितीयमध्ये तु यामे कम्पः प्रजायते ।
महावातं ततो विन्द्याद् वृक्षदेवकुलां भिदे ॥

अट्टप्राकारशृङ्गाश्च पर्वतानां न संशयः ।
विहारवसथान् रम्यान् मन्दिरांश्च सतोरणाम् ॥

पातयत्याशु भूतानाम् आवासां तिर्यग्गतां तथा ।
अर्द्धरात्रकाले तु यो कम्प प्रजायते ॥

हन्यन्ते नृपवरा मुख्याः प्राच्यानामधिपतिस्तदा ।
सुतो वा नश्यते तस्य दुर्भिक्षं वा समादिशेत् ॥

ततो ह्रासिमध्ये तु अन्ते यामे प्रजायते ।
कम्पो महीतले कृत्स्नः शान्तिमारोग्यं निर्दिशेत् ॥

ततोऽन्तेऽर्द्धरात्रे तु यदा कम्पः प्रजायते ।
अनूपा मध्यदेशाश्च नृपतो व्याधिपीडिताः ॥

म्रियन्ते दारुणैः दुःखैः परस्परविरोधिनः ।
तृतीये मास सम्प्राप्ते बालिशानां सुखोदयम् ॥

मशदंशपतङ्गाश्च सर्वे नश्यन्ति तस्कराः ।
आयुरारोग्यसौभिक्षं कुर्यात् प्रत्यूषकम्पने ॥

अग्निदाहं विजानीयान्नगराणां तु सर्वतः ।
उदयन्तं यदादित्ये भूमिकम्प प्रजायते ॥

२८, प्। २७८)

मध्यदेशेऽथ सर्वत्र तस्करैश्च उपद्रुतः ।
दृश्यते नृपतेर्मृत्युः सप्ताहात्परतस्तदा ॥

यस्मिं स्थाने यदा कम्पो दृश्यते प्रबलो कदा ।
तस्मिं स्थाने तदा दृष्टः शुभाशुभविचेष्टितम् ॥

उल्कनिर्घातभूकम्पम् एककाले समादिशेत् ।
ज्वलनं सितमुल्कायाः यद्वक्र नाशयेत्तु तम् ॥

सितवर्णास्तथा नित्यं प्रशस्तः शुभदस्तदा ।
रक्तवर्णो महाघोरः अग्निदाहोऽपदिश्यते ॥

धूम्रवर्णोऽथ कृष्णो वा राज्ञो मृत्यु समादिशेत् ।
पीतवर्णाथ कपिला वा व्यतिमिश्रा वाथ वर्णतः ॥

व्यतिमिश्रं तदा कम्पम् उत्पातं चैव निर्दिशेत् ।
निर्घातश्चैव कीर्त्यते यस्यां दिशि तस्यामादिशेत् ॥

यदि मध्यं तदा मध्ये देशेष्वेव प्रकीर्तितम् ।
सस्वरो मधुरश्चैव क्षेममारोग्यमादिशेत् ॥

क्रूरघोरतरो लोके शुभदो दुन्दुभिस्वनः ।
भीषणो ह्यतिभीमश्च दुर्भिक्षं तत्र निर्दिशेत् ॥

एवमाद्याः प्रयोगास्तु ग्रहाणां वै तदा सदा ।
सिद्धिकर्म तदा कुर्यान्नक्षत्रेष्वेषु शोभने ॥

अश्विनी भरणी चैव पुष्या भद्रपदा उभे ।
रेवत्या चानुराधश्च जापकाले प्रशस्यते ॥

सिद्ध्यन्ते एषु मन्त्रा वै सिद्धमर्त्थं ददन्ति ते ।
मण्डलं चैव आलेख्यमेतेष्वेव तारकैः ॥

वारग्रहमुख्यानां पीतशुक्लावभासिनाम् ।
तिथयः शोभने ह्येते पूर्णमी पञ्चदशी दथा ॥

प्रवासं नैव कुर्वीत मण्डलं तु समालिखेत् ।
प्रथमा तृतीयपञ्चम्या दशमी चैव सप्तमी ॥

२९, प्। २७९)

त्रयोदश्यां तथा यात्रा कल्पयन्तु नराधिपाः ।
शुभदः सर्वजन्तूनां यात्रायानं प्रशस्यते ॥

न लिखेत् सर्वमन्त्राणां मण्डलं तन्त्रमन्त्रयोः ।
न सिद्ध्यन्ते एषु मन्त्रा वै विघ्नहेतुमुदाहृता ॥

यात्रां होमतः सिद्धिः तिथिः श्लिष्टैः ग्रहोत्तमैः ।
बृहस्पतिः शुक्रचन्द्रश्च बुधः श्रेष्ठः सर्वकर्मसु ॥

एत ग्रहा वरा नित्यं चत्वारस्तिथिमिश्रिता ।
सिद्धियात्रां तथा लोके कुर्वन्तेऽथ महीतले ॥

दुष्टारिष्टविनिर्मुक्ता छेदभङ्गायतत्त्वरम् ।
एतेष्वेव विनिर्मुक्ता दिवसांश्चैव प्रकल्पयेत् ॥

द्वादशैव मुहूर्तानि तस्मिं काले प्रयोजयेत् ।
श्वेतो मैत्र एवं स्यात् रक्ताक्षाः प्रकीर्तिताः ॥

रौद्रो महेन्द्रः शुद्धश्च अभिजिश्चैव सुशोभनः ।
भ्रमणो भ्रामणश्चैव कीर्त्यते च शुभप्रदः ॥

सौम्योऽथ वरदश्चैव कीर्त्यते च शुभप्रदः ।
सोमोऽपि वरदश्चैव इत्येते द्वादशा क्षणाः ॥

बहुधा लक्षणा प्रोक्ता मुहूर्तानां तृंशत्सञ्ज्ञका ।
दशम्या वृष्टिरेवं स्यात् चतुर्दश्या रात्रावेव च ॥

अष्टमी द्वादशी चैव * * * * * (?) वर्जिता ।
त्वराद्या गणिते युक्तो असिते पक्षे तु रात्रितः ॥

विघ्नकारणमेषां तु विनायकोह चतुर्थितः ।
एतद्गणनयोर्युक्तं कालमेतत् प्रकीर्तितम् ॥

एषोन्मेषनिमेषश्च अच्छटा त्वरिता गतिः ।
एतत्कालप्रमाणं तु विस्तरं वक्ष्यते पुनः ॥

अच्छटाशतसङ्घातं नाडिकाश्च प्रकीर्तिता ।
चतुर्नाडिकयो घटीत्युक्ता चतुर्घट्या प्रहरः स्मृतः ॥

३०, प्। २८०)

चतुःप्रहरो दिवसस्तु रात्र्यः एभिः प्रकीर्तिताः ।
एभिरष्टैस्तथायुक्तः अहोरात्रं प्रकल्पितम् ॥

दशोन्मेषनिमेषं तु क्षणमात्रं प्रकल्पितम् ।
दशतालप्रमाणं तु क्षणमात्रं तु वक्ष्यते ॥

दश क्षणा निमित्याहुर्मुहूर्त्तं पतिकल्पितम् ।
चतुर्मुहूर्त्तः प्रहरस्तु मन्त्रज्ञैः परिकल्पितः ॥

एतत्कालप्रमाणं तु त्रिसन्ध्ये परिकल्पयेत् ।
होमकाले तथा जापे सिद्धिकाले तु योजयेत् ॥

स्वप्नकाले तथा जाग्रं स्नानपानेऽहनिः सदा ।
अहोरात्रं तु दिवसं वै सञ्ज्ञा एषा कीर्त्तिता ॥

दिवसानि पञ्चदशश्चैव पक्षमेकं प्रकीर्त्तितम् ।
द्विपक्षं मासमित्याहुर्गणितज्ञा विशारदा ॥

षड्भिर्मासैस्तथा चन्द्रः राहुणा ग्रस्यते पुनः ।
ततो द्वादशमे मासे वर्षशब्दः प्रकीर्तितः ॥

ततो द्वादश वर्षाणि महावर्षं तदुच्यते ।
विपरीता ग्रहनक्षत्रा दानवेन्द्राश्च प्रकीर्त्तिता ॥

ततो द्वादशमे अब्दे कुर्वन्तीह शुभाशुभम् ।
एकपक्षे यदा राहुरसुरेन्द्रः प्रदृश्यते ॥

समस्तं व्यस्तविन्यस्तं शशिभास्करमण्डलौ ।
महान्तं शस्त्रसम्पातं दृश्यते वसुधातले ॥

एवमाद्यां सदा नित्यं कालेकाले प्रयोजयेत् ।
अनेक बहुधा चैव विघ्ना दृश्यन्ति दारुणाः ॥

प्राप्ते काले युगान्ते वै अधार्मिष्ठे लोकभाजने ।
समस्तं चन्द्रमसं ग्रस्तं मूलनक्षत्रमाश्रितम् ॥

रात्रौ सङ्ग्रहश्चैव अस्तमेति स चन्द्रमा ।
दिवा वा यदि * (?) भानोरस्तमेति स पीडितः ॥

३१, प्। २८१)

रविणे चन्द्रमसश्चैव अर्द्धरात्रे तु सग्रहे ।
अस्तमन्ति यदा भीता दानवेन्द्रस्य च्छायया ॥

हन्यते पूर्वदेशस्थो राजा दुष्टो न संशयः ।
स्वकं वा मृत्युभयं तस्य परैर्वा स विलुप्यते ॥

म्लेच्छानामधिपतिश्चैव पूर्वदेशं विलुम्पते ।
उद्रा जनपदा सर्वे उद्राणामधिपतिस्तथा ॥

अश्विन्या यदि दृश्येरं रोहिण्यां भरणीस्तथा ।
कृत्तिकासो यदा दृश्यौ ग्रहौ चन्द्रदिवाकरौ ॥

विविधाः श्लेष्मिका रोगा पैत्तिका वातमुद्भवा ।
व्यतिमिश्रास्तथा चान्ये जायन्ते सर्वदेहिनाम् ॥

विविधा रोगमुत्थाना दृश्यते सर्वबालिशाम् ।
मघासु यदि फल्गुन्यो उत्तरा पूर्वमेर्व तौ ॥

हस्तचित्ते तथा स्वात्यां विशाखासु तथैव च ।
एषु चन्द्रो यदा गृह्ये भास्करो वा न संशयः ॥

राहुणा ग्रस्यते पूर्वं शशिभास्करमेव तौ ।
प्राच्यो * * * * * * (?) देशाधिपतिस्तथा ॥

वङ्गाङ्गमागधो राजा अक्षिशूलेन गृह्यते ।
पुत्रो वा मृयते तेषां मृत्युर्वा पत्नितो भयम् ॥

अरीणां दुष्टचित्तानां सङ्घातो वा भवेत् तदा ।
मृगशिरार्द्रपुनर्वस्वा पुष्याश्लेषौ तथैव च ॥

एषु दृश्यति राहुर्वै सूर्यशशिने तथा ।
मागधो नृपतिः पीड्यते मागधा जनपदा तदा ॥

अमात्या व्याधिभयं विन्द्याद् बन्धक्लेशां सपौरजाम् ।
अनुराधाज्येष्ठयोः सर्वं दृश्येरं दानवेश्वरः ॥

सर्वान् जनपदान् व्याधिं जनयेत् सर्वगतं तदा ।
वधबन्धपरिक्लेशाम् आयासां विविधांस्तथा ॥

३२, प्। २८२)

बन्धरुन्ध ततस्तेषु जनमुख्यैस्तु वर्द्धते ।
पूर्वाषाढे श्रवणे च उत्तराषाढे तथैव च ॥

भानोर्मण्डलं व्यस्तोऽसौ शशिने रक्तभावता ।
ग्रहस्यागमं नित्यं दुर्भिक्षं चोपजाय्ते ॥

श्रवणधनिष्ठनक्षत्रपूर्वभद्रपदम् ।
शतभिषेषु यदा चन्द्र भानो वा यदि गृह्यते ॥

कृष्णभावं समाश्रित्य ग्रहस्यागमनं विदुः ।
महान्तशोकमायासं दुर्भिक्षं च समन्ततः ॥

सर्वां जनपदां विन्द्या राजचौरमहद् भयम् ।
रेवत्यामथ नक्षत्रे उत्तराभद्रपदा यदा ॥

राहुणा ग्रस्यते पूर्वं शशिनौ भास्करमण्डलौ ।
पश्चाद् भानोऽथ विन्यस्तः पक्षेनेकेन दृश्यते ॥

राज्याद् भ्रश्यते सर्वः मागधो नृपतिः पतिः ।
एते च कथिता चिह्ना राहोरागमनं यदा ॥

दिशासु यासु गृह्णाति शशिनो भास्करमण्डलम् ।
तेषु तेषु तदा देशे उत्पद्यन्ते शुभाशुभम् ॥

य एव भूतले कम्पा कथिता लोकचिह्निता ।
ग्रहोपरागे तं विन्द्यात् तत्र तत्र शुभाशुभम् ॥

धूमिका वृष्टिहेतुः स्याद् दिवसात्येऽथ पञ्च वै ।
ततोऽर्द्धं लोकतः चिन्ता तीरभुक्तिसमाशृता ॥

नश्यन्ते जनपदाः सर्वा व्याधिसम्भवमालया ।
नृपतिश्चापि नश्येत गङ्गातीर उत्तरे ॥

हिमवन्तस्तथा कुक्षौ दुर्भगज्वरमाशृता ।
भूपाला चापि विन्यस्ता कोहु पालाः समन्ततः ॥

गङ्गाया उत्तरे तीरे तीरभुक्तिपतिस्तदा ।
विविधैः शोकसन्तापैः मृयतेऽसौ नराधिपः ॥

३३, प्। २८३)

सपुत्रभार्यया सार्द्धं नश्यतेऽसौ नराधिपः ।
नक्षत्रेषु येषु कम्पो वै तेषु धूमं समादिशेत् ॥

दिशः सर्वासु धूमाश्च घोरा वर्दलवर्जिता ।
पञ्चाहा समतिक्रान्ता बहुदेवसिके सदा ॥

नश्येत् परस्परा मर्त्या गोचरा मानुषोद्भवा ।
न दृष्टिस्तत्र प्रवर्तन्ते मानुषाणां परस्परम् ॥

विन्द्यान्महद् भयं तत्र सराष्ट्रं नृपतिं हनेत् ।
येषु एवं भवेत् कम्पः उल्कापात समन्ततः ॥

पर्येषां चापि विन्यस्तं द्वित्रिश्चैव दारुणः ।
रात्रौ इन्द्रधनुश्चैव श्वेतपक्षं यदि वायसम् ॥

शुक्लवर्णोऽथ कृष्णो वै कृष्णो शुक्लोऽथ दृश्यते ।
विपरीता पक्षिणो वर्णा विपरीता ऋतुनिस्वना ॥

विपरीताः पक्षिणः सन्ति यत्र तत्र महद् भयम् ।
द्विपदाश्चतुष्पदाश्चैव सर्वे बहुपदापदा ॥

पक्षिणः तिर्यक् प्राणा विपरीतास्तु महाभयम् ।
ऊर्ध्वतुण्डा तथा श्वाना रवन्ते च मुहुर्मुहुः ॥

दिवा वा यदि वा रात्रौ यत्र तत्र महाभयम् ।
एवम्प्रकारा अनेकाश्च बहुधा यत्र प्रकल्पिता ॥

अनावृष्टिर्भवेत् तत्र राज्ञाश्चक्रं विनश्यति ।
यथा हि जातकर्माख्यातं प्राणिनां च शुभाशुभम् ॥

तथोत्पाता ततो जाता कुर्वन्तीह शुभाशुभम् ।
नान्यथा दृश्यते किञ्चिन्निमित्तं पूर्वहेतुना ॥

नाहेतुकं प्रवर्तन्ते विघ्ना उत्पातसम्भवा इति ॥

आर्यमञ्जुश्रियमूलकल्पाद्
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद्द्वाविंशतितमः
निमित्तज्ञानज्योतिषपटलविसरः परिसमाप्त इति ॥

३४, प्। २८४)