अथ त्रयोविंशतितमः पटलविसरः ।
अथ खलु बगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः ! त्वदीयकल्पविसरे
शब्दगणनानिर्देशं नाम विवर्त्तनम् । शृणु साधु च सुष्ठु च मनसि कुरु ।
भाषिष्येऽहम् ॥
एवमुक्ते भगवां मञ्जुश्रीः कुमारभूतो
उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां
प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य त्रिः प्रदक्षिणीकृत्य
भगवतश्चरणयोर्निपत्योत्थायैवमाह - तत् साधु भगवां निर्दिशतु ।
शब्दज्ञानगणनानिर्देशं नाम धर्मपर्यायं श्रुत्वा
सर्वमन्त्रचर्यानुप्रविष्टानां सत्त्वानां च सर्वशब्दगणनाज्ञानं तद्
भविष्यति सर्वसत्त्वानां सर्वमन्त्रचर्यानुप्रविष्टानां च हितोदयं सुखावहं
सर्वशब्दगणनासमतिक्रमज्ञानं तद् भगवाम् अर्थकामो हितैषीं
सर्वसत्त्वानामर्थे भाषयतु ॥
अथ भगवां शाक्यमुनिर्मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात् । साधु
साधु मञ्जुश्रीः ! यस्त्वं तथागतमेतमेतमर्थं सत्त्वसत्त्वार्थसम्पदं प्रति
प्रस्तितव्यं मन्यसे । तेन हि त्वा मञ्जुश्रीः ! शृणु निर्देक्ष्यामि ॥
अथ खलु मञ्जुश्रीर्भगवता कृताभ्यनुज्ञातस्ततोत्थाय स्वे आसने निषण्णोऽभूद्
धर्मश्रवणाय भगवन्तं व्यलोकयमानो ॥
अथ भगवां शाक्यमुनिः सर्वावन्तं शुद्धावासभवनं
बद्धचक्षुषामवलोक्य सर्वशब्दगणनासमतिक्रमास्पन्दना नाम समाधिं
समापद्यते स्म । समनन्तरसमापन्नस्य भगवतः
नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णादयो महारश्मिजालप्रभामण्डला
निश्चचेरुः । निश्चर्य च समन्तात् सर्वसत्त्वानां सर्वलोकधातुं
महतावभासेनावभास्य सर्वसत्त्वभवनानि
प्। २५४)
च सर्वनरकतिर्यक्प्रेतायामलौकिकाम् असुरभवनाम् अवभासयित्वा
महादुःखवेदनां प्रतिप्रश्रुत्य पुनरेव भगवतः शाक्यमुनेः
कायान्तर्द्धीयन्ते स्म ॥
सर्वसत्त्वां सम्प्रबोध्य भगवानेवमाह -
अथ शब्दविदं ज्ञानं बाध्यं धर्मार्थपूजितम् ।
गणनां चैव लोकज्ञो भाषिरे मधुरां गिराम् ॥
बाध्यात् पदतो ज्ञेयं पदं बाध्यसुभूषितम् ।
धातुस्तेनातिविस्तारं प्रत्ययान्तं क्रियोद्भवम् ॥
लिङ्गं शब्दत ज्ञेयं न लिङ्गं शब्दवर्जितम् ।
शब्दलिङ्गसमुद्भेदा नीत धर्मार्थयोः ॥
नाना नेयं शब्द च ज्ञानं न शब्दं ज्ञानयोजितः ।
ज्ञानशब्दाच्च यो भावः स शब्दो तत्त्वार्थयोजनः ॥
प्रत्यया हेतुता ज्ञेया प्रत्ययो हेतुमुद्भवः ।
प्रत्यये तु तदा हेतौ क्रियायोगविभाविनी ॥
धारणा वा तदो ह्युक्ता आश्रयो प्रत्ययो विदा ।
धातुप्रत्यययोगेन शब्दो धर्मार्थयोजकः ॥
न शब्दो अर्थतो ज्ञेयं न शब्दादर्थमिष्यते ।
अर्थप्रत्यययोगेन स शब्दो शब्दविधैर्विदाः ॥
बहुधा धातवो प्रोक्ता प्रत्ययाश्च तदाश्रया ।
यं प्रतीत्य तदा शब्दा विभेजुस्ते वराश्रया ॥
येन शब्दविदो विद्या मन्त्रा तत्त्वार्थभाषिता ।
न तां शब्दवदवगच्छेन्मन्त्राणां प्रत्ययैर्विना ॥
नोत्पद्यन्ते तथा मन्त्रा विना प्रत्ययमाश्रया ।
न तां दिदृक्षु सर्वत्र मन्त्रां प्रत्ययतो शिवाम् ॥
अर्थप्रत्ययतां शून्यां धातवैश्च विवर्जिताम् ।
न तां विद्धि संयोगं लिङ्गवाक्यार्थसम्मतम् ॥
५, प्। २५५)
न लिङ्गे गति निर्दिष्टा हेतुप्रत्ययधातुजा ।
तथाश्वयोजिता सिद्धिर्लिङ्गो धर्मार्थयोजिता ॥
गतिदेशक्रियानिष्ठं पदं वाक्यमतःपरम् ।
चित्रत्वमतिवा शब्दे यो वाचमवसृजेत् सदा ॥
न शब्दादर्थनिष्पत्तिर्लिङ्गेष्वेव तु योजिता ।
मूर्द्धजं कथितं शब्दं हुङ्कारार्थभूषितम् ॥
सर्वं प्रत्ययदाश्रित्य आश्रयं च विनाश्रये ।
ताल्वोष्ठपुटो वाक्य आश्रयोद्भावने परे ॥
शमिनादाश्रयते ज्ञेयं युक्तिरव्यभिचारिणी ।
मतिस्तत्त्व तथा धातो विस्तारामर्थभूषिता ॥
धातुः करोति संयोगं प्रत्ययार्थात्तु लिङ्गितः ।
दान्त्यं तालवश्चैव ओष्ठं शाब्दमतःपरम् ॥
ऋजिक्षु सर्वतो लोकां विसर्गां धातुचेष्टिताम् ।
गतिमन्त्रप्रभावेन आश्रयान्तां निबोधताम् ॥
गतिमेव सदा मन्त्रा धातुप्रत्ययजा मता ।
उभौ तां शब्दनिःपत्तिं प्रत्यमादाश्रयः स्मृतः ॥
विभज्य बहुधा मन्त्रां सद्भावागमनिश्रियाम् ।
विभक्तियोनिजा ह्येषा शब्दा मन्त्राश्च सर्वतः ॥
ज्ञेया विभजत्यर्थे पूजितास्तथा ।
एकद्विकसमायोगात् त्रिकसङ्ख्यार्थसप्तमम् ।
असङ्ख्यादष्टाधिका ज्ञेया मानुषाणां निबोधिता ॥
आधारं ज्ञेयमित्याहुर्मन्त्रतन्त्रार्थपूजने ।
सप्तमे विधिनिर्दिष्टा मन्त्रसिद्धिषु जापिनाम् ॥
सप्तमर्थार्थतो ज्ञेया सप्तमस्य क्रमो यथा ।
विविधं क्रमनिर्देशं सप्तम्यर्थेषु योजयेत् ॥
मन्त्राणां षष्ठयो ख्याता समूहावयवास्तथा ।
सम्बन्धाद्धि मन्त्राणां लिङ्गे द्वे नियोजिता ॥
६, प्। २५६)
विकारं बहुधास्तस्य षट्प्रकारं निगद्यते ।
स्त्रीषु सलिङ्गिनी षष्ठ्या अष्टमन्त्रेषु योजयेत् ॥
पञ्चप्रकारा ये मन्त्रा पञ्चमर्थार्थयत्नता ।
नपुंसकलिङ्गमन्त्रार्थो उक्तो धर्मार्थवर्जिता ॥
ये तत्र निसृता मन्त्रा अपादानार्थयोजिता ।
सर्वेप्राणहराः स्मृताः ।
मूर्ध्नशब्दसमायोगान्निःसृता ओष्ठदन्तयोः ॥
जिह्वा निष्पीडिता येऽत्र शब्दप्राणापरोधिका ।
समप्रत्ययशान्ता ते शमिधातुसयोजिता ॥
प्रपन्नासकरान्तानाम् अस्त्ययनेत्र योजयेत् ।
पुष्ट्यार्था धातवो ये तु शब्दाः प्रत्ययार्थसुशोभिता ॥
तां विदुः पुष्टिकर्मेषु अपादानेषु योजिताः ।
विभज्य यं स्थानं येऽन्ये परिकीर्त्तिताः ॥
शब्दाक्षरविपुष्टा ते धातु विकसते स्फुटा ।
पुंस्कलिङ्गा तथा मन्त्रा महाप्रभावर्थयोजिता ॥
चतुर्थसंविभक्तिभ्यामक्षरं मात्रभूषितम् ।
पवर्गे कथितं ह्यग्र प्रवरं सर्वकार्मकम् ॥
रेफप्रत्ययसमोद्भूतम् उकारावथ शोभनम् ।
मध्यचिह्नं विसर्गं च भकारं गतिभूषितम् ॥
विदुः प्रवरं शब्दं सर्वकर्मार्थसाधनम् ।
नियतं नैष्ठिके वर्त्म बोधिसत्त्वे नियोजिते ॥
अनुत्तरं शब्दमित्याहुः महाबोधिपथं पथम् ।
यं जपं मानुषो क्षिप्रं सर्वमन्त्रा प्रसाधयेत् ॥
पञ्चमार्थमतः प्रोक्तो अक्षरमेकचिह्नितम् ।
अन्तजं पवर्गेममकारान्तं विदुः सदा ॥
द्वितीयं लोकमुख्यं तु शब्दमित्याहु मानवा ।
न तु शब्दसमायोगा निःसर्गान्तविभूषितम् ॥
७, प्। २५७)
जज्ञे या प्रवरो मन्त्रो उत्कृष्टो शब्दयोनिजो ।
बुद्धो लोकगुरुः श्रेष्ठः छत्रोष्णीषेति लक्ष्यते ॥
अन्ते तकारवर्गे तु कथिता लोकगुरो त्रिकम् ।
मन्त्रा सर्वतः ह्यग्र्ये सशब्दो लोकपूजितो ॥
अकारान्तं विभक्तार्थं विसर्गन्तं विबोधितम् ।
मध्यलिं * (?) सशब्दान्तम् अन्तं शब्दविभूषितम् ॥
तं विदुः शब्दमुत्कृष्टं मन्त्रं देवपूजितम् ।
पञ्चमार्थे नियुक्ता ये सङ्ख्ये गणनोद्भवे ॥
विभक्तपञ्चमे ह्येते विभक्त्यार्थसुपञ्चमा ।
अनन्ता कथिता मन्त्रा अनन्ता जिनभाषिता ॥
मन्त्रा उष्णीषा जिनमूर्द्धजा ।
अनन्ता शब्दविदो ज्ञेया शब्दाः सर्वार्थसम्पदाः ।
चतुःषष्टिपरोपेतं मन्त्रं शब्दयोजितम् ॥
स शब्दा सर्वतः श्रेष्ठो पवर्गे यः चतुरं पदम् ।
चतुर्मकारसंयोगाः अन्ते निःप्रयोजिता ॥
सशब्दा मन्त्रमुख्यास्तु छत्रसञ्ज्ञार्थसाधका ।
चतुर्थगणना प्रोक्ता विभक्तिः शब्दयोनिजाः ॥
सम्प्रदानार्थमन्त्राणां द्विलिङ्गादाश्रयतां गताः ।
कथिता अब्जिने मन्त्रा पुष्ट्यमर्थार्थसम्पदा ॥
चतुर्थ कथिता मन्त्रा चतुःप्रकारा नियोजिता ।
चतुरक्षरशब्दानां मूर्धमूष्माथ तालवम् ॥
कथितं शब्दनिर्देशे तृतीये सम्प्रयोजयेत् ।
विकासार्थं स्फुटधातूनां प्रत्यये लिङ्गेऽथ योजयेत् ॥
प्रथमे अन्ते च यः शब्दो स शब्दो लोकपूजितो ।
वरो मन्त्रो प्रधानाख्यो सन्नियोजितो ॥
स शब्दो पुष्टिनो ह्युक्तो अब्दकेतुसमुद्भवो ।
त्रान्तो त्रिकसमायोगो मध्यान्तोऽतिवर्णितो ॥
८, प्। २५८)
स शब्दो लोकमुख्योऽसौ प्रवरो अर्थतो सदा ।
धात्वोपेतं सदाकालं समार्थे तं प्रयोजयेत् ॥
उषसमे च तदा वव्रे धातुं तां निबोधताम् ।
मधुराक्षरसम्पन्नो उत्वं तां पुंसि योजिताम् ॥
स शब्दो लोकमग्रोऽसौ व्रवरो मन्त्रमुच्यते ।
चतुष्ट्यां तमक्षरं वर्ज्ये द्वितीयाया परिकीर्तिता ॥
स ज्ञेयो शान्तिकाम्यार्थं प्रवरो बुद्धभाषितो ।
तृतीयो ओष्ठपुटोष्माणं प्रत्ययार्थान्तवर्जितम् ॥
पुष्टिलिङ्गे सदा युक्तो भूधातो न्तयोजितो ।
ऊर्ध्वचिह्नं तथो भ्रान्तं स मन्त्रो बुद्धभाषितो ॥
तृतीये विभक्तिमासृत्य योऽर्थो भूतिसशब्दयोः ।
आद्या वर्णतो ग्राह्याग्रा शान्तिका पौष्टिकोदया ॥
द्वितीयं कर्मणि प्रोक्तं तृतीया करणे स्तथा ।
उभयो विभक्तयो ज्ञेयं सशब्दो मन्त्रराट् स्मृतः ॥
प्रथमं कर्ममित्याहुः कर्ता यः स्वतन्त्रयोः ।
जिनाब्जकुलिशे मन्त्रे मन्त्रनाथा हितास्तथा ॥
हिते विभक्त्यन्ता सर्वतो ज्ञेया प्रत्ययान्ताश्च धातुजा ॥
सलिङ्गमर्थतो ज्ञेयं वाक्यात् पदयोद्भवेत् ।
मन्त्राः कथितमुख्यास्तु विभोः जिनजा सुराः ॥
जिनाब्जकुलयोर्मन्त्रा वज्रिणे लौकिकास्तथा ।
मर्थवतः धातुं परिगृह्णाति सङ्क्रमाम् ॥
उदात्तानुदात्ताश्चैव सूचिता ज्ञेयार्थसाधना ।
मन्त्रा लिङ्गगतान्ता च मध्ये हुत्वा तथोद्यताः ॥
अनादिनिधनं छब्दं तन्मन्त्रांश्च योजयेत् ।
निवान्ता कलमन्ताश्च रेफयुक्ताश्च विस्तरा ।
बाध्यार्थपदयोर्मध्ये यो लिङ्गच्छविच्छ्रुतम् ॥
९, प्। २५९)
तं लिङ्गं स्वरितोपेतं क्षिप्रं मन्त्रेषु योजयेत् ।
पूर्वानुपदयो कालक्रियाशक्तिषु युज्यते ॥
पदयोर्मध्यनिःष्पत्तिः योऽर्थो स शब्दविश्रुतः ।
तस्मात् तं परिज्ञेयार्थं सुरूपं रूपर्णितम् ॥
फलार्थे निष्पदश्रेयं स मन्त्रो बुद्धभाषितः ।
अभावस्वभावतो कालं स्वभावतश्च परिकीर्त्यते ॥
तयोर्निजरयं शान्तं पदधर्मार्थभूषितम् ।
वाक्यं परतो श्रेयं शान्तमर्थाक्षरं शुभम् ॥
यं ज्ञेयो मन्त्रिभिर्मन्त्रा प्रशस्ता बुद्धभाषिता ।
इतिमेकाक्षरं ब्रह्मं ॐ शब्दार्थभूषितम् ॥
ज्ञेया रूपिणः शुभ्रो प्रशस्तो मङ्गलावहो ।
कल्याणार्थकरो ह्युक्तो प्रशस्तो मङ्गलान्वितो ॥
उक्तो लोकनाथैस्तु स मन्त्रो मुख्यतो स्मृतो ।
विविधार्थाश्च शब्दमुख्याश्च मुख्यशब्दा परेस्तथा ॥
स शब्दो धर्मिणः श्रेयो क्रियाकालक्रमोदिता ।
आदित्यवंशात् ते मन्त्रा दीप्तिशब्दार्थभूषिताः ॥
ज्वलन्ते पावके मन्त्रा सौम्यासौम्याख्ययोजिताः ।
सुरूपा सौम्यचित्ताश्च नक्षत्राभिधार्मिणो सदा ॥
चन्द्रेऽस्मिम् उदिता मन्त्राः शब्दैश्चन्द्राक्षरोदितैः ।
शुचयो निर्मला प्रोक्ता अक्षरा एकजा परा ॥
अमात्रसहविख्याता चारुवर्णा महर्द्धिका ।
मन्त्रा अग्रवरा प्रोक्ता उष्णीषा जिनसूनुभिः ॥
विविधाकारयोगास्तु योगतुष्टिरिव स्थिता ।
प्रसन्ना शुचयो नित्यं प्रत्येकार्हथभाषिता ॥
प्रत्येकबुद्धयोर्मन्त्र प्रशस्तो शान्तिकर्मणे ।
स्वाहावसानयोर्मन्त्रा ओङ्कारार्थपुजितः ॥
१०, प्। २६०)
एकद्विकसञ्ज्ञा सो स मन्त्रो सर्वकर्मसु ।
श्रेयसैव सदा योज्या प्रत्येकजिनमुद्भवो ॥
नन्तः सहितो ज्ञेयः पूर्वदाश्चान्तमध्यमम् ।
बहुलिङ्गिनो मन्त्रा बहुमन्त्रार्थमक्षरा ॥
बहुधा धातवो ह्येते * * (?) षान्ता निबोधिता ।
मन्त्रां तां तु वै सिद्धिः तवर्गे मादिमक्षरम् ॥
रेफान्तम् आदितः ताडयेन्मन्त्राब्जसम्भवाः ।
तारय दुःखितां सत्त्वां करुणैषमावलोकिते ॥
सा वै तारमुख्या तु अनन्ता मन्त्रा हि वै तुरे ।
त्वर्याच्छब्दयोर्मध्ये पवर्ग मामकी स्मृता ॥
पवर्गे देवं विख्याता कुलमातार्थसाधनी ।
सितचिह्ना प्रसिद्धार्थे देवी षण्डरवासिनी ॥
तारा तु कथितं पूर्वं रक्षोऽर्थे तां प्रयोजयेत् ।
लकारबहुलो योधर्गच्छब्दान्तं ते त्रयोद्भवम् ॥
जिनाङ्गमसृजं शब्दं देवी लोचनमुच्यते ।
शब्दमर्थाक्षरं सिद्धिः सर्वमन्त्रेषु योजयेत् ॥
कुलमात्राप्रसिद्धेयं जिनवज्राब्जसर्वतः ।
सर्वमन्त्रेषु प्रयोक्तव्या पूर्वमादित शान्तये ॥
लोचना भुवि विख्याता मन्त्राग्रा तत्र साधनी ।
यतः सर्वमिति ज्ञेयम् आदिमन्त्रेषु योजयेत् ॥
प्रसिद्ध्यर्थं च मन्त्राणाम् आत्मरक्षार्थकारणम् ।
सप्रसिद्धा सर्वतो ज्ञेया देवीं तं जिनलोचनाम् ॥
अनेकाकाररूपास्तु मन्त्रा स शब्दते सदा ।
आदिमध्येषु वर्णेषु चतुषष्ट्याक्षरेषु च ॥
सर्वत्र सर्ववर्णेषु मन्त्रां तन्त्रांश्च योजयेत् ।
आदिमेषु च सर्वत्र तवर्गा तच्च वर्णयोः ॥
११, प्। २६१)
सर्वे शान्तिनः प्रोक्तानां त्रिधा प्रयोजयेत् ।
तकारात् प्रकृतिवर्णेषु लकारान्ता सर्वयोनिजा ॥
ते मय पौष्टिका वर्णा तदन्ये चाभिचारुकाः ।
ते पुनः त्रिविधा ज्ञेया क्रूरशान्तिकपौष्टिकाः ॥
तथा ते त्रिःप्रकारास्तु तथा ह्युक्ता त्रिधा त्रिधा ।
योगसमायामा अनन्ता ते पुनस्त्रिधा ॥
सौम्याम् अक्षरां विद्धि शान्तये तं वियोजयेत् ।
वरदा ह्यक्षरा केचिन्मध्यमा पुष्टिहेतुका ॥
रौद्रां पापकरां ज्ञेयां हकारान्तामक्षरां पराम् ।
एवमेतत् प्रयोगेण शब्दैश्चापि सुभूषिताम् ॥
अनन्तां ह्यक्षरां विद्धि अनन्ता मन्त्रदेवताः ।
एवमेतेन योगेन अनन्तां मन्त्रांश्च योजयेत् ॥
तं विदुर्मन्त्रराजानं पुंस्कं सर्वार्थसाधकम् ।
एकारसहितो यो वर्णः स शब्दो मन्त्रभूषितः ॥
नपुंसकं तं विदुर्मन्त्रं मध्यकर्मेषु योजयेत् ।
इकारसहितो यो वर्णः स मन्त्रो विद्यते कीर्त्यते ॥
सा स्त्रीतरे मन्त्रेषु प्रसिद्धा क्षुद्रकर्मसु ।
ते त्रिधा पुनः सर्वेऽत्र नानाशब्दविभूषिताः ॥
त्रिधां तां त्रिविधां सर्वां सर्वकर्मेषु योजयेत् ।
पुल्लिङ्गसञ्ज्ञो यो वाक्यो पुरुषोऽर्थो सर्वतो मतः ॥
तं विदुः पुरुषमन्त्रं वै सर्वकर्मेषु योजयेत् ।
नपुंसकलिङ्गे यो मन्त्रः तां विद्धि नपुंसकम् ॥
कुर्यात् सर्वकर्मेषु सर्वसौख्यसुखोदयम् ।
स्त्रीलिङ्गसञ्ज्ञो यो मन्त्रः तां विद्धि सदा स्त्रियम् ॥
सर्वकर्मकरा तेऽपि नित्यं रक्षेषु योजयेत् ।
अनन्तकर्मकरा मन्त्रा अनन्तार्था शब्दयोनयः ॥
१२, प्। २६२)
विविधा शब्दमुख्यास्तु नानातन्त्रमन्त्रयुताम् ।
तथैवाचरे क्षिप्रं मन्त्रा सिद्ध्यन्त्ययत्नतः ॥
कथितं शब्दविज्ञानं सर्वमन्त्रार्थसाधनम् ।
जापिनां हितकाम्यार्थं तां तु विद्धि दिवौकसाः ।
एतद्विकसमायोगा * (?) यावच्छतमुच्यते ॥
दशगुणं पञ्चकां विंशत् सहस्रं तं निबोधताम् ।
दशसाहस्रिको सङ्ख्य अयुतेति परिकीर्त्यते ॥
दशायुतास्तथा नित्यं प्रयुतं लक्षमुच्यते ।
लक्षसाहस्रिको कोटिः स्थानार्बुदं स्मृतम् ॥
दशार्बुदो निर्बुदो ज्ञेयः समुद्रं च ततः परे ।
दशोऽन्यत् सागरो ज्ञेयस्ता दशार्थे समुद्यतः ॥
अक्षोभ्यं परे विन्द्यान्निःक्षोभ्यं च ततः परे ।
देवराट् सर्वे विवाहं कीर्त्यते बुधैः ॥
अधिका दश तरे तस्य खड्गमित्याहु वाणिजाः ।
निखड्गं तद् विदुर्मन्त्री निखड्गं चापि खड्गिनम् ॥
ततः परेण शङ्खं वै सङ्ख्या तस्य परेण तु ।
सा मया गणिते ज्ञेया महामायनिपश्चिमा ॥
असङ्ख्या या विदुर्मर्त्या ततोऽन्ये देवयोनिजाम् ।
दशार्धगुणिता सर्वे सार्धा च दशयोजिताः ॥
ततः परेण शक्यं वै अशक्यं चापि दुर्जयम् ।
अर्चितोपचितः स्थाने दृष्टिस्थानं विदुर्बुधाः ॥
ततो कृष्टिनिकृष्टिश्च अनन्तानन्तयोनिजा ।
ततः परेण बुद्धानां ज्ञानं श्रावकखड्गिनाम् ॥
बुद्धपुत्र महात्मानो येऽपि तत्त्वविदो सुराः ।
अनन्ता गतयो ह्येषां गणनं स्थानमुत्तमम् ॥
१३, प्। २६३)
अनन्तज्ञानिनां स्थानं नात्र भूतलवासिनाम् ।
कथितं गणिते स्थानं गणितज्ञैस्तु मन्त्रिभिः ॥
मन्त्रसिद्ध्यर्थयुक्तानां जपकाले नियोजनाम् ।
प्रमाणं गणिते ज्ञेयं मन्त्रजापार्थकारणा ॥
सङ्ख्याग्रहणप्रमाणं वा विधियुक्तोऽर्थजापिनाम् ।
असिद्धा प्रविशे विन्ध्यं सिद्धमन्त्रो व्रजे हितम् ॥
तथा हैमवतं शैलं सिद्धमन्त्रो व्रजेत् सदा ।
यथेष्टं गमनं तस्य सिद्धमन्त्रस्य देहिनः ॥
असिद्धो हिमालयं गच्छेद् यदि मन्त्री जापकारणात् ।
न सेहुः दुःसहं सैन्यं सर्वद्वन्द्वां च शीतलाम् ॥
स्वल्पप्राणा स्वल्पप्रयोगाच्च मूल्यसिद्धिः समोदिता ।
बहुपुष्पफलोपेतं विन्ध्यकुक्षिनितम्बयोः ॥
भेजे मन्त्रसुजप्तर्थं तस्मात् विन्ध्यं तु भूधरम् ।
पूर्वसेवेत्सदा विन्ध्यो निर्दिष्टो जपकारणात् ॥
तस्मात् सिद्धिं विजानीयाद् विन्ध्याद्रेर्गिरिगह्वरे ।
गङ्गादक्षिणतो भागे सर्वं विन्ध्ये प्रयोजयेत् ॥
उत्तरतो भागे हिमवन्तं विनिर्दिशेत् ।
तस्मात् साधयेन्मन्त्रां यथेष्टशुचयोदिताम् ॥
सिद्धो हिमवां गच्छे सिद्धो विन्ध्यनितम्बयोः ।
गिरिगह्वरकूलेषु गुहावसथमन्दिरे ॥
तटे सरित्पतेर्नित्यं सति कूलेषु वा ।
सर्वत्र साधयेन्मन्त्रां यथा तुष्टिकरं हितमिति ॥
महायानवैपुल्यसूत्राद् बोधिसत्त्वपिटकावतंसकादार्यमञ्जुश्रियमूलकल्पात्
एकविंशतितमः शब्दज्ञानगणनानामनिर्देशपरिवर्तपटलविसरः परिसमाप्त
इति ।
१४, प्। २६४)