२२

अथ द्वाविंशः पटलविसरः ।

अथ भगवांश्छाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं
कुमारभूतगामन्त्रयते स्म । अस्ति मञ्जुश्रीः ! त्वदीये मूलकल्पपटलविसरे
सर्वभूतरुतनिमित्तज्ञानपरिवर्त्तनिर्देशं नाम । तं भाषिप्येऽहम् । यं
ज्ञात्वा सर्वमन्त्रचर्यानियोगयुक्ताः सर्वसत्त्वा सर्वमन्त्राणां कालाकालं
ज्ञास्यन्ते । तं शृणु । साधु च सुष्ठु च मनसि कुरु । भाषिष्येऽहम् ॥

अथ मञ्जुश्रीः कुमारभूतो उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा
दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवतः शाक्यमुनेः
सिंहासनं तेनाञ्जलिमुपनाम्य त्रिरपि प्रदक्षिणीकृत्य भगवतः पादौ शिरसा
वन्दित्वा भगवन्तमेतदवोचत् । तत् साधु भगवां निर्दिशतु । तं
भूतरुतज्ञाननिर्देशं सर्वसत्त्वानामर्थाय । तद् भविष्यति
सर्वमन्त्रचर्यानुप्रविष्टानां सर्वकालनियमोपकरणं सिद्धिनिमित्तये ।
यस्येदानीं भगवां कालं मन्यसे ॥

अथ खलु भगवां शाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात् ।
साधु साधु मञ्जुश्रीः ! यस्त्वं तथागतमेतमर्थं परिप्रश्नितव्यं मन्यसे ।
तेन हि मञ्जुश्रीः ! शृणुष्व निर्देक्ष्यामि ॥

एवमुक्ते मञ्जुश्रीर्भगवतश्चरणयोर्निपत्योत्थाय निषण्णोऽभूद्
धर्मश्रवणाय ॥

अथ भगवां सर्वावतीं पर्षदमवलोक्य सर्वभूतरुतप्रचोदनी नाम
समाधिं समापद्यते स्म । समनन्तरसमापन्नस्य भगवतः ये केचित्
सत्त्वानन्तापर्यन्तेषु लोकधातुषु स्थिता सर्वे ते बुद्धरश्म्यावभासिता
सर्वांश्च तां बुद्धां भगवतां शिरसा प्रणम्य
अनन्तापर्यन्तलोकधातुस्थिताम् अभ्यर्चयेन भगवतः शाक्यमुनेः
शुद्धावासभवनोपरिस्थितं सिंहासनं तेनोपजग्मुः । येन च सहा लोकधातुः
तेन च प्रत्यष्ठात् । तत्र च स्थिता सर्वभूतगणा बुद्धानुभावेन स्वकं स्वकं
रुतं विदर्शयन्तः भगवान पादमूलसमीपोपगता धर्मश्रवणाय ।
भगवन्तं प्रणम्य मभ्यर्च्य च मध्यस्थानेषु च सन्निषण्णा अभूवं
धर्मश्रवणाय ॥

२३०, प्। २३०)

अथ बह्गवांश्छाक्यमुनिः शाक्यसिंहो शाक्यराजाधितनयः तेषां
सर्वसत्त्वानां धार्म्या कथाया सन्दर्शयति समुत्तेजयति सम्प्रहर्षयति तेषां
सर्वभूतसुरेश्वराणां तथा तथा धर्मदेशना कृतवां यथा तैः सर्वैः
कैश्चिदनुत्तरायां सम्यक्सम्बोधौचित्यान्युत्पादितानि । कैश्चित् प्रत्येकायां वोको
कैश्चिच्छ्रावकत्वे कैश्चित्कैश्चित् सत्यानि दृष्टानि कैश्चिदर्हत्वं साक्षात्कृतं
कैश्चिद् दशकुशले कर्मपथे स्थित्वा प्रणिधानं कृतम् । अनन्तां बुद्धां
भगवतः अनन्तां कल्पकोटीष्वजोपस्थानग्लानप्रत्ययभैषज्यप्रदानं
चीवरपिण्डपातशयनासनपरिष्कारं प्रदद्याप इति नियता च भविष्यामो
बुद्धबोधेरिति ॥

अथ भगवां शाक्यमुनिः तेषां सत्त्वानामाशयं ज्ञात्वा मन्त्रं भाषते
स्म सर्वभूतरुताभिज्ञा नाम । यं साधयित्वा सर्वबोधिसत्त्वाः सर्वसत्त्वाश्च
रुतं विजानेयु। एकक्षणेन सर्वेषां सर्वसत्त्वानां यथागोचरमस्थितानाम् ।
कतमं च तत् ॥

नमः समन्तबुद्धानामप्रतिहतशासनानां समन्तापर्यन्तावस्थितानां
महाकारुणिकानाम् । ॐ नमः सर्वविदे स्वाहा ॥

कल्पमस्य भवति । आदौ तावन्महारण्यं गत्वा क्षीरयावकाहारः
मूलफलशाकाहारो वा अक्षरलक्षं जपेत् । त्रिःकालस्नायिना वल्कलवाससा
पूर्ववत् सर्वं विधिना कर्तव्यम् । यथा मन्त्रतन्त्रेषु तथागतकुलोद्भवेषु । ततः
पूर्वसेवां कृत्वा अक्षरलक्षस्यान्ते तत्रैव साधनमारभेत् । विनापि पटेन ।
अग्निकुण्डं कृत्वा द्विहस्तप्रमाणं चतुर्हस्तविस्तीर्णं समन्ताच्चतुरश्रं
सर्वपुष्पफलैरर्घ्यं दत्वा प्राङ्मुखः कुशविण्डकोपविष्टः
नवमग्निमुत्पाद्य क्षीरवृक्षकाष्ठैरग्निं प्रज्वाल्य श्रीफलफलानां
दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् । त्रिसन्ध्यं दिवसान्येकविंशति ॥

ततो पूर्वायां दिशि महाल्भासं कृत्वा बुद्धो भगवानागच्छति । ततो साधके
मूर्ध्नि परामृशति । अपरामृष्टे साधके तत्क्षणादेव भगवतो वाचा निश्चरते -
सिद्धस्त्वं गच्छ यथेष्टम् इति कृत्वान्तर्द्धीयते ॥

२३१, प्। २३१)

ततः प्रभृति साधकः पञ्चभिज्ञो भवति महाप्रभावदिव्यमूर्त्तिः
बोधिसत्त्वाचारः द्विरष्टवर्षाकृतिः यथेष्टगतिः सर्वभूतरुतज्ञः
एकक्षणमात्रेण सर्वभूतानां रुतं विजानीते प्रभवश्च भवति यथेष्टगामी ।
पञ्चवर्षसहस्राणि जीवते । अवैवर्त्तिको भवति बोधिसत्त्वः । विंशतिभिः
साधनप्रवेशैर्नियतं सिध्यतीति नात्र विचिकित्सा कार्या प्रसाधितस्यापि न मन्त्रं
जपता पूर्वमादितश्चैव मध्ये चैव निबोधताम् ॥

रुतज्ञानं प्रभावं च स्वभावं चैव कीर्त्यते ।
मध्ये आदितश्चैव अन्ते चैव दिवौकसाम् ॥

भाषितं कथ्यते लोके मध्यदेशे च कीर्तिता ।
मागधा मङ्गदेशेषु काशिपुर्या नरोत्तमा ॥

वृजिकोसलमध्येषु नरेष्वेव यथावच ।
तथा ते देवराट् सर्वे मन्त्रां वव्रे स्वभावतः ॥

त्रिदशो मध्यदेशे च वत्स पश्य दशार्णवा ।
अमन्ते यथा वाचा तथा देशेषु जायते ॥

त्रिदशेष्वेव सर्वत्र तथा वाणीमुदाहृता ।
यामा देवमुख्याश्च निर्माणश्च सनिर्मिता ॥

तदा वाचकृतां वाचा मध्यदेशार्थचारिणी ।
तथारूपिण सर्वे वै अकनिष्ठाश्च महर्द्धिका ॥

सर्वे ते सुरः श्रेष्ठा रूपधातुसमाशृता ।
ध्यानाहारगता सौम्या कदाचिद्वाचामभाषिरे ॥

ब्राह्मीश्वरमतेला च कलविङ्करुतस्वना ।
मधुराक्षरनिर्घोषा मत्तकोकिलनिःस्वना ॥

यद्यदार्त्था भवेद् वाचा धीरगम्भीरसंयुता ।
तथा सर्वतो वक्त्रा दृष्ट्या चैव सुपूजिता ॥

भवन्ते ते सदा देवा मध्यदेशे सवाचका ।
मधुराक्षरसम्पन्नाः स्निग्धगम्भीरनादिनः ॥

२३२, प्। २३२)

मेघगर्जना तेषां वाचैषा तां तु लक्षयेत् ।
मध्यदेशा यथा मर्त्या अवन्त्येष्वेव पूजिता ॥

वाचा शब्दसम्पन्ना तथा ज्ञेयां सुरेश्वराम् ।
अरूपिणां कृतो वाचा असञ्ज्ञायतनसम्भवाम् ॥

अभावादाश्रयात् तेषां न वाचां जग्मिरे सुराः ।
अधः श्रेष्ठाः सुराः सर्वे मध्यदेशेषु वाचका ॥

मध्यदेशार्त्थचिह्नानां वाचैषा सम्प्रवर्तते ।
अथ देवामथ भूम्या वै यक्षाश्चैव महर्द्धिका ॥

देवयोनिसमाविष्टा बहुसत्त्वगणास्तथा ।
करोटपाणयो देवा सदा मत्ताश्च वीणकाः ॥

चत्वारोऽपि महाराजा चतुर्योनिसमाश्रिता ।
त्रिदशा देवमुख्यास्तु शक्रेण सह समाश्रिता ॥

सुयामामथ सर्वत्र ऊर्ध्वं जापि सुरूपिणः ।
सर्वदेवगणा श्रेष्ठा वाचा ह्येषा तु कीर्त्यते ॥

मध्यदेशे यथा मर्त्या हीनोत्कृष्टमध्यमाम् ।
तथा देववती वाचा हीनोत्कृष्टमध्यमाम् ॥

वाचा तृविधा ज्ञेया हीनोत्कृष्टमध्यमा ।
त्रिविधात् कर्मतो ज्ञेया हीनोत्कृष्टमध्यमा ॥

तथा देवालये वाणी मधुरं चापि सूक्तजिता ।
रुतं मतं तथा ज्ञेयं कर्मेष्वेव नियोजयेत् ॥

असुराणां भवेद् वाचा गौडपौण्ड्रोद्भवा सदा ।
यथा गौडजनश्रेष्ठं रुतं शब्दविभूषितम् ॥

तथा दैत्यगणा श्रेष्ठं रुतं चापि नियोजयेत् ।
तेषां पर्यटन्तानां समन्तानां च पुरोजवाम् ॥

यक्षराक्षसप्रे*(?)नां नागांश्चापि सपूतनाम् ।
सर्वेषामसुरपक्षाणा वङ्गसामतटाश्रयात् ॥

२३३, प्। २३३)

हरिकेले कलशमुख्ये च चर्मरङ्गे ह्यशेषतः ।
सर्वेषां जनपदां वा तथा तेषां तु कल्पयेत् ॥

त्रिप्रकारा यथोद्दिष्टा तेषां नैव वियोजयेत् ।
देवानां च तथा नित्यं पुरोगानां परिकीर्तयेत् ॥

प्रेतयक्षगणाध्यक्षा स्कन्दमातरकिन्नरा ।
नागांश्चैव सदा काले यथा वाचा निबोधताम् ॥

लाडोद्रेषु तथा सिन्धौ यथा मुत्तरतो तथा ।
जनेष्वेव हि सर्वत्र तां तु तेषां नियोजयेत् ॥

नागानां च यथा लाडी वाचा ह्युक्ता मनीषिणी ।
यक्षाणां तु तथा वाचा उत्तरां दिशि ये नराः ॥

गरुडानां यथा ह्येद्रे किन्नराणां तु कीर्त्यते ।
नेपाले सर्वतो वाचा यथा सा तां निबोधताम् ॥

पूतनानां तथा नार्या विन्ध्यकुक्षिनिवासिनाम् ।
विन्ध्यजाता मनुष्याणां म्लेच्छानां च या वाचा ॥

पूतनानां तु सा ज्ञेया वाचैषां परिकीर्तिता ।
राक्षसानां यथा वाचा तां वव्रे सुरोत्तमा ॥

ससृज्यदक्षिणा देशा अन्ध्रलाटेषु कीर्तिता ।
द्रविडानां तु सर्वेषां डकारबहुला सदा ॥

तां तु वाचा समालक्ष्ये राक्षसेष्वेव नियोजयेत् ।
त्रिःप्रकारा तथा ज्ञेया राक्षसानां कुलयोनयः ॥

त्रिःप्रकारैव वाचैषा त्रिधा चैव नियोजयेत् ।
सर्वतो त्रिविधा ज्ञेया देशभाषाश्च ते त्रिधा ॥

त्रिःप्रकारं तथा कर्म त्रिदेशं चैव योजयेत् ।
त्रिविधः सर्वतो ज्ञेयः त्रिविधं कर्म रुतं स्मृतम् ॥

समं सर्वैषु तत्रैव विधातान्यं नियोजयेत् ।
नानाभूतगणा प्रोक्ता नानाभूतलवासिनः ॥

२३४, प्। २३४)

नाना च बहुभाषज्ञा नानाशास्तर्विभूषिता ।
मानुषा मानुषां विन्द्या नानावाचविभाषिताम् ॥

नानाशास्त्रमता ज्ञेया नानामन्त्रार्थशालिनः ।
नानाकर्मसमोद्देशा नानासिद्धिस्तु मुच्यते ॥

आविष्टानां यदा मर्त्या पात्रस्थानसमागता ।
तेषां च विधियुक्तेन मन्त्रैश्चापि सुयोजिता ॥

आगता भूतले देवां वाचेनैव विभावयेत् ।
लिङ्गमर्थं तथा पात्रं देवं चैव नियोजयेत् ॥

श्रेयसा श्रेयसे चैव आवेशानां तु लक्षयेत् ।
नानादेशसमाचारा नानाभाषसमोदया ॥

नानाकर्मार्थसंयोगा नानालिङ्गैस्तु लक्षयेत् ।
मध्यदेशावहिर्येषां वाचा भवति चञ्चला ॥

ते तु व्यक्तं नरा ज्ञेया म्लेच्छभाषारता हि ते ।
ये क्रूरा राक्षसा घोरा रौद्रकर्मान्तचारिणः ॥

डकारबहुला वाचा लकाराव्यक्त मार्षो ।
दक्षिणात्य यथा वाचा चञ्चला भवति निन्दिता ॥

तथा च राक्षसस्त्वेषु वाचैषा परिकीर्त्तिता ।
बहुधा रुतया ज्येष्ठा आविष्टानां तु त्रिजापराम् ॥

आकृष्टा मन्त्रिभिः क्षिप्रं स्वयं वा इह मागता ।
बहुधा गृह्णन्ति सत्त्वानां मातरा सग्रहा सुरा ॥

गरुडा यक्षगन्धर्वा किन्नरा * * * * * (?) ।
पिशाचा चोरगराक्षसानां यक्षपूतनाम् ॥

आविष्टानां तथा लिङ्गा कथ्यमाना निबोधताम् ।
म्लेच्छभाषिण क्रव्यादा पिशाचाव्यक्तलापिनाम् ॥

लकारबहुला वाचा डकारान्तास्तु पूतना ।
तेषां नेर्ध्वगता दृष्टि कर्मेष्वेतेषु योजिता ॥

२३५, प्। २३५)

मात्सर्या क्रूरसत्त्वानां मृषावादादसुचे रता ।
तेषा नोर्ध्वं गता दृष्टि अर्धो दृक् नोर्ध्वगता हि ते ॥

मातराणां तथा वाचा शुभार्थोपसंहिता ।
ग्रहाणां कुमारमुख्यानां वाचा भवति केवला ॥

शुभाङ्गसम्पदा वाचा वालभाव्यर्थयोजिता ।
प्रभावसर्वतः श्रेयां सर्वतश्च दिवौकसाम् ॥

गरुडानां तथा वाचा आविष्टानां तु लक्षयेत् ।
गकारसमता ज्ञेया म्लेच्छभाषेव लक्ष्यते ॥

अव्यक्तं स्फुटाभासं कीर्तियुक्तं शुभोदयम् ।
सुपर्णिने पायवदित्येषा विषदर्पनिवारणी ॥

नानागतयो ह्येषां नानाभूतसमागमाम् ।
नानावर्णतो ज्ञेयां नानालिङ्गैस्तु लक्षयेत् ॥

शुभाकरमभाकर मभासन्तं भक्षतो नागराट् पदे ।
वासुकीप्रभृतयो नागा धार्मिका वसुधातले ॥

क्षिप्रवाचा समायुक्ताश्च वसन्तो उरगाधिपा ।
स्वेन स्वेन तु कायेन यो लिङ्गेन तु लक्षयेत् ॥

तेन तेन तु लिङ्गेन तं तं सत्त्वं विनिर्दिशेत् ।
कश्मला कथिता सर्वे अधो दृष्टिगता हि ते ॥

नानालिङ्गिनां ज्ञेया नानासत्त्वनिकायताम् ।
नानाकायगतैः कर्मैः नानाकायं निबोधताम् ॥

एवम्प्रकाराह्यनेका बहुलिङ्गाभिभाषिणा ।
नानाबुद्धिकृतैः कर्मैः नानायोनिसमाश्रितैः ॥

आविष्टानां भुवि मर्त्यानां कथिता लिङ्गानि वै सदा ।
सुराणामसुराणां च यथा वाचार्थलिङ्गिनी ॥

तथैव तद् योजयेत् क्षिप्रं भूमिर्मानुषतां गताः ।
देवानां तदा विन्द्यात् सुप्रसन्नेन चेतसा ॥

२३६, प्। २३६)

निरीक्षन्ते तथा चोर्ध्वं दिशां चैव समन्ततः ।
अविक्लवा मनसौद्विल्या हृष्टा रूपसमन्विता ॥

शुद्धाक्षा अनिमिषाक्षाश्च स्निग्धा च स्निग्धवक्त्रयः ।
प्रसन्नग्लत्या तथा सर्वे सुरश्रेष्ठा नु लक्षयेत् ॥

पर्यङ्गोपहिता ज्ञेया निषण्णा भूतले शुचौ ।
केचिदम्बरं निःसृत्य निषण्णा खेचरा परे ॥

ब्रह्माद्या कथिता देवा ध्यानप्रीतिसमाहिताः ।
तदूर्ध्वं श्रेयसां स्थाने रूपिणा बहुरूपिणा ॥

आकृष्टा मन्त्रिभिर्मन्त्रैर्त्यैः मन्त्रजानां सनिश्रिता ।
तेषां रूपधरा कान्तिः आश्रया ते परिवर्तये ॥

ध्यानप्रीतिसमापन्नाः ईषिस्मितमुखा सदा ।
शुद्धाक्षा विशालाक्षा बहुरूपसमाश्रिता ॥

वमन्त्यो तदा कान्त्या श्रिया रूपसमन्विता ।
परज्ञानविदो देवा तेषां तं निबोधयेत् ॥

पर्यङ्कोपरिविष्टा वै ध्यायन्ता ऋषिवत् सदा ।
तदावेशं विदुर्बुद्ध्या इष्टमर्थप्रसाधकम् ॥

श्रेयसा सर्वमन्त्राणां हितायैवोषयोजयेत् ।
कथितं सर्वमेवं तु निबोधत सुरेश्वराः ॥

ऋषिण्णा कथिता ह्येते संयता ते ऋषवस्थिता ।
आविष्टानां तदा लिङ्गा ऋषीणां कथिता मया ॥

ऊर्ध्वदृष्टिगता देवा ऊर्ध्वपादाय कश्मला ।
विकृता रौद्ररूपाश्च ऊर्ध्वकेशास्तु राक्षसाः ॥

मातराणां तदेवं तु केषां चेव तु दृश्यते ।
क्रव्यादा नग्नका तिष्ठे सचेला निश्चेलतां गता ॥

ऊर्ध्वपाआ विकृताख्या ऊर्ध्वकेशा ग्रहा परे ।
विचेरुर्मेदिनीं कृत्स्नां समन्तात् सरितातटाम् ॥

२३७, प्। २३७)

एकवृक्षा श्मशानां च एकलिङ्गा पुलिनोद्भवाम् ।
देवावसथरथ्यासु विन्ध्यकुक्षिशिलोच्चयाम् ॥

हिमाद्रे सानुमांश्चैव म्लेच्छतस्करमन्दिराम् ।
तत्रस्था विकृतरूपास्तु मन्त्राकृष्टाश्च मागता ॥

गृह्णन्ति प्राणिनां क्षिप्रं शौचाचारपराङ्मुखाम् ।
सर्वमेदिनीं गच्छेद् भयादाहारमोहिताम् ॥

गृह्णन्ति बहुधा लोके बहुव्याधिसमाश्रिताम् ।
नानाविकृतरूपास्ते नानावेषधरा परा ॥

गृह्णन्ति प्राणिनां क्षिप्रं मृतकं मूत्रसुप्तकाम् ।
तेषां च कथितं लिङ्गं चरितं तु विभावितम् ॥

वाचमालक्षितं पूर्वं कथितं तु महीतले ।
आविष्टानां तथा चिह्नं मानुषेष्वेव लक्षितम् ॥

स्थिरप्रकाराः सर्वत्र सुरश्रेष्ठा निबोधता ।
आविष्टानां तथा लिङ्गा कथिता भूतले नृणाम् ॥

स्निग्धं प्रेक्षते नित्यम् अनिमिषश्चापि दृष्टितः ।
मानुषे सत्त्वसङ्क्लिष्टे सुरश्रेष्ठे तु महीतले ॥

वव्रे वसुधरां वाचां शब्दसङ्घार्थभूषिताम् ।
युक्ते श्रेयसे धर्मे मानुष्ये वाश्रथोगतो ॥

सुरश्रेष्ठो गतो मुख्यो ज्ञेयो सर्वार्थसाधको ।
चिन्तितं जापिने तेन गतबुद्धिदिवालये ॥

तत् सर्वं बोधयेत् क्षिप्रं मन्त्रिणे चिन्तितं तु यत् ।
एतत् सम्यगाख्यातमावेशं भुवि दैवतम् ॥

असञ्ज्ञिनोऽपि सदा मन्त्रैराकृष्यन्ते तु भूतले ।
नभाष मधुरं वाचं न यज्ञो सत्वरा सुराः ॥

निःश्रेष्ठा विवशा चैव स्थिता ते मौनमाश्रिताः ।
न वाचा किञ्चनस्तेषां न चित्ता नापि मानिता ॥

२३८, प्। २३८)

तस्मात् तं न चाकृष्ये तं जापी परिवर्तयेत् ।
असाध्यं नापि तत्तेषां मन्त्राणां जिनसौद्भवाम् ॥

नाकृष्यं विद्यते किञ्चिद् दुष्करं तेषां जप्तमन्त्रार्थतापिनाम् ।
आकृष्यन्ते तथा आर्या आर्यैर्मन्त्रैस्तु युक्तिताः ॥

आर्याणां यानि चिह्नानि खड्गिश्रावकसम्भवाम् ।
बोधिसत्त्वा महात्मानो दशभूमिसमाश्रिता ॥

आकृष्यन्ते तथा मन्त्रैः समयैश्चापि सुभूषिताः ।
महादूत्यैस्तथोष्णीषैर्मुनिर्वर्णसुयोजितैः ॥

बुद्धपुत्रैस्तु धीमद्भिरब्जकेतुकुलोदितैः ।
कुलिशाह्वैर्मन्त्रमुख्यैस्तु क्रोधराजमहर्द्धिकैः ॥

नान्ये मन्त्रराट् शक्ता लौकिका ये महर्द्धिका ।
नापि समयवित्तेषां न चोत्कृष्टो मन्त्रमीश्वरः ॥

वर्णितुं गणयितुं गन्तुं तं स्थानं यत्र ते सदा ।
समया सञ्चाल्यते तेषां हेतुः कर्मसमाहिताम् ॥

ननु चाकृष्यते तेषां हेतुः कर्मसमाहितम् ।
तन्त्रं चाकृष्यते तेषां समये बुद्धभाषितैः ॥

तस्मात् तं न चालये यत्ना न वृथामर्थेन योजयेत् ।
महर्द्धिका ते महात्मानो दशभूमिसमाश्रिताम् ॥

अशक्ता सर्वमन्त्रा वै गन्तुं यत्र ते तदा ।
तथागतानां तथा माज्ञा संस्मृत्यामरपूजिता ॥

आगच्छेयु तदा सर्वे मन्त्रजप्तार्थमन्त्रवित् ।
आकृष्टानां भवेल्लिङ्गा मानुष्योकायमानुषाम् ॥

धीरतः स्निग्धवर्णश्च गम्भीरार्थसुदेशकः ।
धीरो गम्भीरतां यातो अल्पवाष्पो भवेत् तदा ॥

२३९, प्। २३९)

परसत्त्वविदो ह्यग्रो धर्मतत्त्वार्थदेशकः ।
नीतिः प्रीतिसुखाविष्टो कृपाविष्टस्य चेतसा ॥

महोत्साहो दृढारम्भो बुद्धधर्मार्थदेशकः ।
मुहूर्त्तं क्षणमात्रं वा प्रविशेन्मानुषाश्रयम् ॥

बहुरूपो सुरूपश्च ऊर्ध्वं तिष्ठे नभस्तलम् ।
बुद्धधर्मगता दृष्टिः सङ्घे चैव सगौरवा ॥

क्षणमात्रं तदा तिष्ठेन्मानुषीं तनुमाशृता ।
सत्यसन्धो महात्मानो जितक्रोधो त्रिदोषहा ॥

प्रथमं तावतो विन्द्या पश्चाच्चैव नियोजिता ।
मानुषैस्तदा कृष्टा पुनर्मुक्ताश्च यथेष्टगाः ॥

स्तब्धो निश्चलाक्षश्च सितवर्णस्तथैव च ।
अङ्गकेतुस्तदाविष्टो धीरगम्भीरसुश्वरः ॥

सुप्रसन्नो महाकायो तिष्ठते च महीतले ।
पर्यङ्कमासनाविष्टो कृपाविष्टोऽथ चेतसा ॥

स मुद्रा पद्मरोपेतो महासत्त्वो समाविशे ।
अवलोकितो मुनिः श्रेष्ठो बोधिसत्त्वो महर्द्धिको ॥

स्वेच्छया आगतो लोकां सत्त्ववत्सलकारणो ।
अभयाग्रा कारणो * * * * * * * * * (?) ॥

अभयाग्रा करोपेतौ ऊर्ध्वदृष्टिसमस्थितौ ।
साधकं पश्यते दृष्ट्या करुणाविष्टचेतसा ॥

ईषिस्मितमुखा देवा केचिद् भ्रूलतभूषितो ।
महासत्त्वो महात्मानो सत्त्वानां हितकारकः ॥

प्रसन्ना सर्वत मूर्त्त्या तं विन्द्यादवलोकितुम् ।
क्रूरः वज्रधरो मुख्यो बोधिसत्त्वो महर्द्धिकः ॥

आविष्टो क्रूरिणो सर्वो रक्तान्तायतलोचना ।
इन्दीवरत्विषाकार ईषत् काये तु लक्षयेत् ॥

परामृश्यन्तं तदा वज्रं मुद्रां बध्नाति मात्मनाम् ।
तुष्टो वरदो मर्त्यां भोगां दापयते सदा ॥

२४०, प्। २४०)

महात्मा कृष्णवर्णो वै ईषि दृश्यति तत्क्षणात् ।
स्निग्धं गम्भीरमुक्तोऽसौ वाचां भाषते तदा ॥

नृणां किमर्थमेतं वो कर्मवरं दास्याम वो भुवे ।
अमोघं दर्शनमित्याहुर्वज्रिणेऽब्जिजिने जिने ॥

वरदा सप्रभा मन्त्रा फलं दद्युस्तदा तदा ।
जिनेरागमनं तत्र निर्माणो भुवि मानुषाम् ॥

समयात् कथिता ह्येते वर्णाश्चैव विबोधिता ।
तथागतादाश्रयाद्धि वा फलहेतुसमुद्भवा ॥

निर्माणा कथ्यते बिम्बं न बिम्बं निर्माणमाशृतम् ।
बिम्बनिर्माणयो यद्वत् प्रतिबिम्ब न विद्यते ॥

पद्मकिञ्जल्कवर्णोऽसौ हेमवर्ण महाद्युतिः ।
निर्भिन्नरोचनाभासो कुङ्कुमाराभिविद्विषः ॥

उद्यन्तमिवार्क वै कर्णिकारसमप्रभः ।
तादृशं विद्यते बिम्बे बुद्धबिम्बसमासृते ॥

ब्राह्मश्च रनिघोषो कलविङ्करुतध्वनिः ।
श्रेयसः सर्वभूतानां युक्तियोगान्नियुज्यते ॥

तादृशं लक्षणं दृष्ट्वा बुद्धमित्याहु जन्तवः ।
तद्गोत्रा च विधिस्तेषां वज्राब्जकुलयो तदा ॥

लौकिकानां तु मन्त्राणां मन्त्रनाथं तु योजयेत् ।
यत् पूर्वं कथितं सर्वं बहुप्रस्तावभूषितम् ॥

तं नियुञ्ज्य तदा मन्त्री मन्त्रेष्वेव च सर्वतः ।
ऋषीणामेकसंस्थानं गरुडानां च निबोधितम् ॥

स्वलिङ्गा वाचया चैव तं नियुञ्ज्यथ मन्त्रिणाम् ।
बहुलिङ्गा तदा चैषा स्वलिङ्गा चैव साधये ॥

स्वमुद्रामुद्रितां ह्येते इतरा व्यन्तरा स्मृताः ।
कथितं सर्वमावेशं स्वमुखं दुःखदं पराम् ॥

२४१, प्। २४१)

एष कालक्रमो योगे आवेशे चैव योजयेत् ।
महाप्रभावैर्मुद्रैस्तु मन्त्रैश्चापि निवारयेत् ॥

नियुञ्ज्यात् सर्वतो मन्त्री जप्तमात्रां च चेतराम् ।
अन्यथामाचेरद् यस्तु इतरैर्मन्त्रिभिः सदा ॥

परिरक्ष्य तदा पात्रं मन्त्रैश्चापि महर्द्धिकैः ।
दूतिदूतगणैश्चापि चेटचेटिगणैः सदा ॥

इतरां लौकिकां देवाम् आह्नये चैव महर्द्धिकाम् ।
यक्षराड् विविधा सर्वां यक्षिण्यश्च महर्द्धिकम् ॥

आह्नयेत् तत्क्षणान्मन्त्री मनसः यद्यपीप्सितम् ।
अन्यमन्त्रा न चाह्वेया नान्ये देवगणा सदा ॥

स्वयमेवागता ये तु समये तां नियोजयेत् ।
सर्वे सम्पदका ह्येते मन्त्रा सर्वार्थसाधकाः ॥

तं तस्मा नेतरां कर्मम् आवेशां चापि वर्जयेत् ।
आकृष्टा महर्द्धिका देवा दिव्या आर्या"ष्च भूमिजा ।
अल्पकार्येऽथ युञ्जाना समयभ्रंशोऽथ जायते ॥

तक्षकः प्रेक्षते स्तब्धं वासुकिश्चापि नृत्यते ।
कर्कोटकश्च महानागो मुचिलिन्दयशश्विनः ॥

शङ्खपालदुर्लक्षो नृत्यन्ते उरगाधिपा ।
शङ्खपालोऽथ शङ्खश्च मणिनागोऽथ कृष्णिलः ॥

सागरा भ्रमते क्षिप्रं पतते च मुहुर्मुहुः ।
सर्पवन्निःश्वसन्ते ते विषदर्पसमुच्छ्रिताः ॥

विविधा नागवरे ह्येते अन्तान्ता तेषु निबोधताम् ।
केचिद् भावयतो हृष्टो केचित् तिष्ठन्ति निश्चलम् ॥

केचित् पाते ** (?) क्षिप्रं स्वस्थाङ्गा ऊर्ध्वमूर्द्धजा ।
पतन्ति विविधाकारं प्लुतं चापि करोति वै ॥

अनन्ता भ्रमते क्षिप्रं पञ्चवच्चले जले ।
अनन्ता नागयोन्यास्तु सङ्ख्याता लिङ्गवेषयो ॥

२४२, प्। २४२)

पूर्ववत् कथिता वाचा दष्टाविष्टमहोदितम् ।
मोचयेत् कुलिशाह्वेन मन्त्रेण क्रोधराजेन युक्तिमांश्च ॥

मन्त्रेणैव कुर्यान्तं तेषां मन्त्रेण योजयेत् ।
मन्त्रास्तु पर्णिनां येऽत्र निर्दिष्टा विषनाशका ॥

ते तु मन्त्रा सदा योज्या दष्टाविष्टेषु सर्वतः ।
शेषा विघ्ना तथा कुर्या ग्रहमातरयोजिता ॥

तेनैव कारयेत् कर्मं ग्रहमातरपूतनाम् ।
असङ्ख्या लक्षणा ह्येते दष्टाविष्टेषु जन्तुषु ॥

तैरेव लौकिकैर्मन्त्रैस्तत्तत् कर्म नियोजयेत् ।
अशेषं कथितं ह्येतं दष्टाविष्टं च लक्षणम् ॥

अधुना बोधयिष्यामि तिर्यग्भाषां समानुषाम् ।
नारकानां तु भाषां वा कथ्यमानां निबोधताम् ॥

यदा पक्षिगणा सर्वे सन्निपत्य समन्ततः ।
ग्रामवासं तदा चक्रुः मध्याह्ने जनमालये ॥

तदा ते कथये वाचां रेफंयुक्तां सभैरवाम् ।
क्रकः ककारमित्याहुः काका ये क्रूरभाषिणो ॥

कथयन्ति भयं तत्र क्षुधा चैव का दर्शयेत् ।
मयूरा कोकिलाश्चैव सन्निपत्य प्रगे तदा ॥

क्रूरां दर्शयेद् वाचां भयं तत्र निवेदयेत् ।
बुभुक्षां कथयामास आहारं चैव योजयेत् ॥

सदाहं सर्वकायाता ग्रामस्थानेषु दृश्यते ।
तदा ते कथयन्त्येते तां वाचां भयभैरवाम् ॥

षण्मासां नश्यते देशे ग्राम्यक्तां भोजनोत्तमाम् ।
तेषां क्षीरसमं देयं तोयं चैव मुखोदयम् ॥

शारिकाशुकमुखांस्तु कपोता * * * * * (?) ।
चक्रवाका भास***(?) सर्वे आगत्य मीलये ॥

२४३, प्। २४३)

ग्राममध्यगता ह्येते यदा कुर्वन्ति मालयम् ।
तदा ते कथयन्त्येवं महादुर्भिक्षकारणम् ॥

अनावृष्टिं तथा व्याधिं बहुरोगसमागमम् ।
लूता विस्फोटकाश्चैव महातस्करताश्रयाम् ॥

अवगच्छन्तु भवन्तो वै षड्भिर्मासैर्भविष्यते ।
यदा सर्वपक्षिगणा क्रूरं चक्रतुर्भृशदारुणम् ॥

रोदमाने तदा सर्वे सत्त्वानां च निवेदिता ।
यथास्थिता यथाकालं तदैवत्तत्र योजयेत् ॥

दकारबहुलं वाचं मनुष्यभाषिणो यदा ।
आगत्य ग्रामवासेऽस्मिं कथयन्ति यथा हि तम् ॥

रात्रौ स्वस्त्ययनं कृत्वा तस्मात् देशादपक्रमेत् ।
मधुराक्षरसंयुक्तं यदा नेदु सपक्षिजा ॥

तस्मात् सुभिक्षमारोग्यमेवं चाहुर्निवेदयेत् ।
यदा दक्षिणतो गच्छे मृगा गच्छेथ मग्रतम् ॥

सिद्धिं च निर्दिशन्ते ताः मृगाश्चैव सुपुष्कलाम् ।
श्वानजम्बूकनित्यस्थाः ते मृत्युं दर्शयन्ति ते ॥

न गच्छेत् तत्र मेधावी जम्बूकैश्च निवारितः ।
प्रविशेत् स्वालयं क्षिप्रं कथयामास ते तदा ॥

अतिक्रूरा निनेदुस्ताः अग्रतश्चापि प्रधावयेत् ।
गच्छेत तत्क्षणान्मन्त्री यदिच्छेत् सिद्धिमात्मनः ॥

वामतो दक्षिणं गच्छेज्जम्बूको यदि गच्छतः ।
सिद्धियात्रं विजानीयाज्जम्बूकेन निवेदिताम् ॥

चाषा च पक्षिणा सर्वे मृगाश्चैव सजम्बुका ।
हरिणा शशकाश्चैव विविधा तिर्यजातयाः ॥

प्रदक्षिणं च यदा चक्रुर्महासिद्धिं सुपुष्कलाम् ।
कथयामास ते सर्वं गच्छ पूज्यो भविष्यसि ॥

२४४, प्। २४४)

सर्वमशोभना ह्येते उरगा श्वापदादयो ।
मार्गे यदि दृश्यते स्थानगच्छेत् कुत्र वा क्वचित् ॥

सर्वे ते कथयन्त्येवं नास्ति सिद्धिनिवर्तताम् ।
गच्छतां स्वकमावासं स्वस्थो तिष्ठति स्वे गृहे ॥

न गच्छेत् तत्र मन्त्रज्ञो उरगैस्तु निवेदितम् ।
यदि गच्छेत् तदा कालम् उद्वेगो मृत्यु वा भवेत् ॥

नानातिर्यगता प्राणा जलावासा स्थलेचरा ।
स्थावरा जङ्गमाश्चैव कथयन्ति शुभाशुभम् ॥

विपरीतैर्भयं विद्यात् स्वस्थैः स्वस्थतां गताः ।
केचित् तिर्यगता दिव्याः मानुषा भाषिणो तदा ॥

योऽयं निवेदये वाचां तं तथैव नियोजयेत् ।
स्वलिङ्गैः सदा स्वास्थ्यं क्रूरैश्चापि सुभैरवम् ॥

तत् तथैवावधारणार्त्थं बुद्धिं दद्याथ मन्त्रवित् ।
लिङ्गावनेकधां लक्ष्ये नानायोनिसमाश्रिताम् ॥

मानुषाणां तथा वाचा युक्ता मध्यार्त्थभाषिणौ ।
मध्यदेशे तु या वाचा शब्दपदार्त्थावभाषिता ॥

स मानुषी वाचमित्याहुः ततोऽन्यं म्लेच्छवाचिनी ।
वाणी सर्वततो ज्ञेया मध्यदेशे निबोधिता ॥

मधुराक्षरसंयुक्ता हृद्या कर्णसुखावहा ।
अनेला मानसोद्भूता अविक्षिप्तार्त्थभाषिणी ॥

स ज्ञेया मानुषी वाचा रुतं चैव स्वभावतः ।
ततोऽन्ये सर्वतोऽनर्त्था सा वाचा म्लेच्छवर्णिनी ॥

कथितं मानुषं वान्यं पशूनां तावदिहोच्यते ।
सिंहोऽपि देशमाक्रम्यः गच्छेत् पुरवरं सदा ॥

भृशं तत्र हरेत् क्षिप्रं तरुं तस्य सुदारुणम् ।
रुद्यते पशुराजा वै करुणं दीन निवेदयेत् ॥

२४५, प्। २४५)

महद् भयं तदा विद्यात् सर्वदेशोपसम्प्लवम् ।
महापुरे यदा रावं प"षुराज्ञेति श्रूयते ॥

पश्चिमे महद् भयं विन्द्याद् दक्षिणे शान्तिकामताम् ।
पूर्वेण तु भवेच्चक्र परराष्ट्रागमं विदुः ॥

उत्तरेण भवेद् घोरा अतिवृष्ट्याहु सम्प्लवम् ।
विदिक्षेष्वेव सर्वत्र भयं चैव निवेदयेत् ॥

रावैर्द्विस्त्रिभिर्ज्ञेयं त्रिभिर्दिक्षु महद् भयम् ।
क्षेमदक्षिणतो सर्व सिंहेनैव निवेदितम् ॥

चत्वारो मथ पञ्चा वा सप्त षष्ठ निबोधिता ।
अष्टात् परेणमित्याहुः निःफलं चैव नियोजयेत् ॥

दक्षिणावस्थिता श्रेया अध ऊर्ध्वार्त्थसम्पदा ।
क्षेमं * (?) कसामीप्ये देवायतनचत्वरे ॥

सदारावं तदा वर्ज्यं तस्माद् देशादपक्रमेत् ।
यथा सिंहे तथा सर्वं सर्वप्राणिषु योजयेत् ॥

शरभैः शार्दूलाख्यैर्वै यथा तत् सर्व निबोधताम् ।
अभावा मानुपावासं हिंसः शरभया सदा ॥

किन्तु प्रासादिकं ज्ञानं कत्थ्यते तां सुरोत्तमाम् ।
क्रोष्टुकेषु च सर्वत्र तां तथैव नियोजयेत् ॥

पूर्वपश्चिमतो भागे यदा हस्ती रुदेद् भृशम् ।
तस्मान्महद् भयं विन्द्यात् तत्र देशेषु जन्तुनाम् ॥

श्मशाना वायसाश्चैव उर्ध्वतुण्डा रुदन्ति वै ।
तत्र विन्द्यान्महोद्वेगं वायसैश्च निवेदितम् ॥

प्रस्थितो मन्त्रिणे कालं यद्यदेशाभिकाङ्क्षिणम् ।
गच्छतो वामतः काको भृ"षं रौति सुदारुणम् ॥

न गच्छेत् तत्र मेधावी वायसेन निवेदितम् ।
रौति दक्षिणतो श्रेयम् अग्रतस्तु निवारयेत् ॥

न गच्छेत् तत्र मन्त्रज्ञो गच्छत् मृत्युवशो भवेत् ।
गोमयं भक्षयेत् पक्षी यदा रौति सुखोदयम् ॥

२४६, प्। २४६)

मृष्टान्नभोजनं विन्द्या गोलाभं चैव निर्दिशेत् ।
मन्दिरारूढनित्यस्थो यदा रौति स वायसः ॥

अर्धरात्रे तथा काले गृहभेदं समादिशेत् ।
धान्यपुञ्जधरारूढो यदा रौति स वायसः ॥

सुशुभं कूजते क्षिप्रं मधुरं चापि भाषितम् ।
अचिरात् तं फलं विन्द्या बहुधान्यधनागमम् ॥

गृहद्वारं यदा पश्यं वायसो रवतो भृशम् ।
तत्र रात्रौ भवेत् तस्य शस्त्रसम्पात चौरिभिः ॥

क्षीरवृक्षे यदा श्रेष्ठो कण्टके कलहप्रियः ।
हस्तिस्कन्धसमारूढम् अश्वपृष्ठे च शोभनम् ॥

भोगिनां मस्तके राज्यं पद्मपुष्पेषु सम्पदा ।
नानाविविधसम्पत्यो मधुराक्षरकूजिताम् ॥

सर्वतोलिङ्गमर्त्थानां तत् पूर्वं कथितं हितम् ।

शिवाय सर्वतो ज्ञेया दक्षिणेन फलप्रदा ।
तत् सर्वं सिंहतो ज्ञेयं शिवान्नु सर्वदा ॥

क्रूरा अशोभनारावा दीना मृत्युपरायणा ।
सर्वतो मुखनिष्पत्तिं फलं सस्यसमुद्भवम् ॥

सर्वे शिवगणा प्रोक्तो शायम्प्राते च शोभना ।
एकारवेति यद्येता दक्षिणां दिशमाश्रिता ॥

शिवा शिवतमा प्रोक्ता द्वितीया रावे तु कीर्त्यते ।
तृतीये रावे तथा ज्ञेया राज्ञे अर्त्थावहा भवेत् ॥

चतुर्त्थे तु महालाभं पञ्चमे पुत्रदा स्मृता ।
षष्ठे च धननिष्पत्तिः सप्तमे न भवे शुभा ॥

अष्टमं निःफलं विन्द्या तदूर्ध्वं भयपीडिता ।
एवं करोति शिवा तत्र असङ्ख्येया तेऽप्यनिष्टदा ॥

पश्चिमेन शिवा ज्ञेया परचक्रभयं तदा ।
द्वितीये दुर्भिक्षकान्तारे क्रूररावा यदा भवेत् ॥

२४७, प्। २४७)

तृतीये अर्थनाशं तु चतुर्थे प्राणरोधिनम् ।
पञ्चमे कथिते रावे अमात्यानां व्याधिपीडकाः ॥

षष्ठे चोरागमं विन्द्या सर्वतस्तु शिवा तु सा ।
सप्तमेन महाव्याधिम् अष्टमे चापि निन्दिता ॥

तदूर्ध्वं भयभीतार्त्ता क्षुधिता वा प्रभाषते ।
उतरेण तु यो यावो शिवायाः श्रूयते सदा ॥

महाघोरतमं व्याधिं तत्र स्थाने विनिर्दिशेत् ।
द्वितीये क्रूररावे तु दुःखदा सा भवेत् तदा ॥

तृतीये अर्थनाशं तु चतुर्त्थे अग्निसम्भवम् ।
पञ्चमेन महावृष्टिं षष्ठे राजापरुद्ध्यते ॥

सप्तमेन महायुद्धं शस्त्रसम्पातमादिशेत् ।
अष्टमे निःफलं विन्द्या तदूर्ध्वं यः किञ्चि रोदिति ॥

पूर्वेण च यदा रौति शिवा यामे तु मन्तिमे ।
तदा राजागमं विन्द्या द्वितीयारावे तु प्रेषिणाम् ॥

तृतीयं राजतो मृत्युः वद्धो वा यदि श्रूयते ।
चतुर्थे चोरतो दुःखं पञ्चमे प्राणरोधिकम् ॥

षष्ठे च भवते व्याधिः सप्तमे अग्नितो भयम् ।
अष्टमे निःफलं विन्द्या शेषं पूर्ववत् सदा ॥

यदा दक्षिणपूर्वेण विदिशे व्याहरे शिवा ।
प्रथमेन भवेत् सौख्यं द्वितीये सर्वतो जनाम् ॥

तृतीये धननिःपत्तिश्चतुर्थे सस्यसम्पदा ।
पञ्चमे सुभिक्षनिर्दिष्टं षष्ठे क्षेमं समादिशे ॥

सप्तमे सर्वतो ज्ञेयमष्टमे निःफलं सदा ।
यदा दक्षिणभागेन प"ष्चिमामध्यतो सदा ॥

निर्दिशे च ध्रुवा ऐथा शिवा क्रूरतमा स्मृता ।
प्रथमेन भवेन्मृत्युः हन्यते ब्राह्मणा द्विके ॥

२४८, प्। २४८)

तृतीये क्षत्रियं हन्या चतुर्थे वैश्यमित्याहुः ।
पञ्चमे शूद्रयोनयः ॥

षष्ठे म्लेच्छिनां हन्ति सप्तमे तस्करा तदा ।
अष्टमे निःफलं विन्द्या अतिदुःखं क्रूरराविणाम् ॥

असङ्ख्येयानां तु दृश्यते ।
उत्तरापश्चिमाभागे यदा तीव्रं विरौति सा ॥

अतिक्षिप्रं महाव्याधिः राज्ञे वा व्याधिमादिशेत् ।
द्वितीयेन हन्यते हस्ती राज्ञो मुख्यो गजोत्तमम् ॥

तृतीयेन भवेन्मृत्युः मादिष्टः तत्र वै ।
चतुर्थेन भवेन्मृर्त्युः मुख्यानां च धनेश्वराम् ॥

पञ्चमे धननाशं तु षष्ठे व्याधि सम्भवेत् ।
सप्तमेन भवे दुःखं सर्वतो च भयावहम् ॥

अष्टमे निःफलं विन्द्या पूर्वं वै सर्वतो तदा ।
उत्तरे पूर्वयोर्मध्ये विदिक्षु चैव लक्षयेत् ॥

अतिक्रूरा यदा क्षिप्रं शिवा व्याहरते तदा ।
उत्तरे पूर्वतो मध्ये विदिक्षुश्चैव लक्षयेत् ॥

अतिक्रूरा यदा क्षिप्रं शिवा व्याहरते तदा ।
मृत्युना हन्यते जन्तुः पौरमुख्यो धनेश्वरः ॥

द्वितीयेन हनेन्मन्त्री तृतीये गजमादिशे ।
चतुर्थे विविधयोन्यास्तु म्लेच्छतस्करजीविनः ॥

चतुर्थेन भवेद् व्याधिः सर्वेषां च तदा जने ।
पञ्चमे हन्यते पुत्रो अमात्यो वा नृपतेर्ध्रुवम् ॥

षष्ठे मृत्युमादिष्टा महादेव्या तु नराधिपे ।
सगमेन हनेद् ** (?) रक्तं वापि विनिर्दिशेत् ॥

अष्टमे निःफलं ** (?) पूर्ववत् कथिता सदा ।
अतः ऊर्ध्वं तथा ** (?) शिवानां च भवे यदा ॥

२४९, प्। २४९)

अमानुषं तं विदुर्**(?) महोपद्रवकारकम् ।
अपक्रम्य ततो गच्छे मन्त्रैर्वा रक्षमादिशेत् ॥

महाप्रभावैर्विख्यातैर्जिनाब्जकुलयोद्भवैः ।
होमकर्माणि कुर्वीत शान्तिं तत्र समादिशेत् ॥

एवम्प्रकारा ह्यनेकानि बहुभाष्या पशुयोनयः ।
नानापक्षिगणांश्चापि रुतं चैव निबोधये ॥

बहुधा तिर्यगता केचिच्चापसुमूर्त्तिजा ।
केचिद् विकृतरूपास्तु रौद्रा सत्त्वविहेठका ॥

केचित् प्राणापरोधिकां सत्त्वां हिण्ड्यन्तेऽथ महीतले ।
असृक्पानरता केचिद् अन्वाहिण्डन्ति मेदिनी ॥

केचिद् रुधिरगन्धेन भ्रमन्ते मेदिनीतलम् ।
विविधा मातरा ह्येते ग्रहमुख्यास्तु वालिशा ॥

कुमारकुमारिकारूपाः ग्रहाः प्रोक्ताः विविधा परा ।
भ्रमन्ते मेदिनीं कृत्स्नां क्षणमात्रेण सर्वतः ॥

सहस्रं योजनं केचिद् वायुवद् भ्रमतापराः ।
पशुवेषकृता केचिद् दृष्ट्या नष्टा च जन्तुषु ॥

विविधं करोति सर्वे ते सर्वत्र वसुधातले ।
मृतपूतकसत्त्वेषु सुप्त उपहते तथा ॥

गृह्णते मानुषां केचिद् बलिमाल्यार्थकारणात् ।
सर्वेषां मानुषां लोके क्रमन्ते केचिन्नभस्तलात् ॥

सर्वाकारविदो ज्ञेया बहुरूपा विकारिणः ।
शुभा अशुभरावाश्च ज्ञेया लिङ्गसितु सर्वतः ॥

शुभाशुभफलं सर्वं विकृतं सुकृतं तथा ।
आगमैर्व****(?) लोकतत्त्वार्थचिह्नितैः ॥

ऋषिभि*****(?)खड्गिभिर्जिनवरैः सदा ।
श्रावकैर्म******(?) नानायोनिसमाश्रितम् ॥

२५०, प्। २५०)

ग्रहैर्ग्रहवरैः ख्यातैः प्रकृष्टैर्लोकचिह्नितैः ।
ज्ञेयं शास्त्रतो तत्त्वम् आगमाधिगमापि वा ॥

नानालिङ्गविधानेन गतियोनिविभावतः ।
ज्ञेयं शुभाशुभं सर्वं क्रूरैः सौम्यैश्च लिङ्गिभिः ॥

छत्रं शितं पताकं च मत्सं मांसं च सार्द्रयोः ।
उत्क्षिप्ता च मेदिनी पद्मयन्त्र गोमयं तदा ॥

दधि पुष्पं फलं चैव स्त्रियं वाम्बरभूषिताम् ।
शुक्लवस्त्रं तथा ज्ञेयं द्विजं श्रयार्थभाषिणम् ॥

वृषं गजं तथा ज्ञेयम् अश्वं चामरभूषितम् ।
प्रदीपं भाजने न्यस्तं पूर्णधान्यफलोदयम् ॥

देवद्विजप्रतिमां वा पूज्यमाना सदा नृपैः ।
अभिषेकार्त्थयुक्तं वा नृपबिम्बाथ मन्त्रिणाम् ॥

शङ्खस्वनं भेरींश्च पटहं चापि सुदुन्दुभिम् ।
घण्टाशब्दं प्रहृष्टं च जयशब्दं प्रघोषितम् ॥

मानुष्योदीरितां वाचां जयसिद्धिफलप्रदम् ।
एता निमित्ता मावेद्य इष्टां चैव निवेदिताम् ॥

सर्वसम्पत्करं क्षेमम् इष्टं चैव सुपूजितम् ।
सर्वां प्राप्नुयादर्त्थां सफलां मनसोद्भवाम् ॥

मन्त्रजापं ततो गच्छेत् सिद्ध्यर्त्थी सिद्धिमादिशेत् ।
सर्वेषां सर्वसत्त्वानां प्रस्थितानां तु निर्दिशेत् ॥

योऽयं देवताध्यक्ष इष्टो गोत्रजो परो ।
आध्येष्ट्यो भवेन्नित्यं तं लिङ्गी पश्यतो फलम् ॥

विविधाकारचिह्नास्तु देवाः प्रोक्तास्तु सर्वदा ।
तल्लिङ्गिना तहा भोक्ता विविधा ***(?)ह्नयः ॥

यो यमिष्टतरं पश्येत् सो तस्यैव * * * * (?) ।

२५१, प्। २५१)

कथयन्ति शुभां वाचाम् अन्योन्यालापमासृताः ।
परेषां च यदा वव्रे विश्वस्ताश्च समन्ततः ॥

एवं च वाचिरे मूचुः शुभं श्रेयं जपं सदा ।
क्षेममारोग्यसर्वं वै स्वस्तिशान्तिसुखोदयः ॥

धनिनः देवतो मुख्य सुरो धर्मराजास्तथा ।
सर्वतो भास्करश्चैव छत्रध्वजपताकयोः ॥

बुद्धधर्मतदा सङ्घं मन्त्रं तारमितिः सदा ।
कुमारं काञ्चनं शुभ्रम् अग्निस्कन्धं महोत्सवम् ॥

जिनं पद्म तथा वज्रं लोकेशं बोधिमुत्तमम् ।
बोधिसत्त्वा तथा लोकां ब्रह्मश्चैव सुरोत्तमाम् ॥

बहुप्रकारा ह्यनेकानि प्रशस्तां साधुवर्णिताम् ।
शुश्राव शब्दां यथा गन्ता सर्वासां प्राप्नुया हि सौ ॥

ततोऽन्ये लोकविद्विष्टं स शब्दं चापि निन्दितम् ।
प्रशस्ता शकुनयो ह्येता प्रस्थितानां जपे रताम् ॥

सर्वेषां च मयं योगो उद्योगार्त्थससम्पदाम् ।
ततोऽय निन्दितं सर्व न लेभे कायिकं फलम् ॥

प्रशस्तैव सर्वतो गच्छे अप्रशस्तैश्च न व्रजेत् ।
प्रणम्य सर्वतो बुद्धांस्त्रयं कृत्वा प्रदक्षिणम् ॥

स्वमन्त्रं मन्त्रनाथं च मातापित्रौ थ दुःकराम् ।
प्रणम्य सर्वतो गच्छे शिवं तत्र विनिर्दिशेत् ॥

आचार्यगुरुमुख्यानामुपाध्यायं चैव यत्नतः ।
प्रशस्तधार्मकथि*****(?)व व्रते रतम् ॥

रक्तोऽथ विश्वस्तः प्रयूषे वा जितेन्द्रियः ॥

शैः****(?)रतो मन्त्री गच्छेत् सर्वतो दिशाम् ।
यथाशा*****(?) प्राप्नुयात् सर्वतो शु*(?) ॥