२१

अथ एकविंशः पटलविसरः ।

अथ खलु भगवांश्छाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः ! त्वदीये कल्पविसरे
सर्वसाधनोपयिके मन्त्रचर्याभियुक्तस्य साधनकाले सर्वमन्त्राणां
सर्वकल्पविस्तरेषु राहुरागमनसुराणामधिपतेः सर्वग्रहानायकस्य
ग्रहसञ्ज्ञा चन्द्रदिवाकरादिषु नक्षत्रयोगेन दृश्यन्ते । तं शृणु साधु च
सुष्ठु च मनसि कुरु ते भाषिष्ये ॥

एवमुक्ते भगवता शाक्यमुनिना सम्यक् सम्बुद्धेन मञ्जुश्रीः कुमारभूतः
उत्तरासङ्गं कृत्वा भगवतस्त्रिःप्रदक्षिणीकृत्य दक्षिणं जानुमण्डलं
पृथिव्यां प्रतिष्ठाप्य येन भगवां तेनाञ्जलि प्रगृह्य
भगवतश्चरणयोर्निपत्य पुनरेवोत्थाय भगवन्तमनिमिषं व्यवलोकयमानः
उत्फुल्लनयनो भूत्वा हृष्टतुष्टो भगवन्तमेवमाह - तत् साधु भगवां
निर्दिशतु राहोरागमनम् यत्र सत्त्वानां मन्त्रचर्याभियुक्तानां सिद्धिकालं
भवेयुरिति सर्वसत्त्वानां च सुखोदयं शुभाशुभनिमित्तं वा तं निर्दिशतु
भगवाम् । यस्येदानीं कालं मन्यसे ॥

अथ खलु भगवांश्छाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात्
। साधु मञ्जुश्रीः ! यस्त्वं तथागतमेतमर्थं परिप्रश्नसे सर्वसत्त्वानां च
हितायोद्युक्तः । तेन हि मञ्जुश्रीः ! शृणु भाषिष्ये । सर्वसत्त्वानां निर्दिशश्चेति ॥

आदौ ताव ग्रहैः क्रूरैः राहोश्चन्द्रमण्डले ।
आगमोदिते काले यथावन्तं निबोधिता ॥

महाप्रमाणः * * * * * * * * * * * (?) ।

२१९, प्। २१९)

ततः पाणिना परामृश्य सुमेरुं * * * * * * (?) ।
अप्सरां प्रेक्षते दैत्यः यदा काले नभस्तलम् ॥

तदा चन्द्रमसपूर्णः कर वामे स दैत्यराट् ।
नानामणयस्तस्य करे कङ्कनतां गता ॥

तदा भुवि लोकेऽस्मिं ग्रहभूतेति कथ्यते ।
यदा पद्मरागेऽस्मिम् अर्चिर्भवति रक्तका ॥

तदा तार्किका मानवा आहुः आग्नेयं मण्डलं विभोः ।
यदा तु नीलरक्तेऽस्मिं प्रभा नीलतां व्रजेत् ॥

तदा नीलमिति ज्ञेयं शशिने भास्करेऽपि वा ।
माहेन्द्रमिति कथ्यते तार्किका भुवि मानवा ॥

वायव्यमण्डलमित्याहुस्तार्किका एव ते तदा ।
विविधा रत्नमालेभ्यो विविधा रत्नसम्भवा ॥

विविधं तार्किके शास्त्रे विविधा गतियोनिजाः ।
विविधैव क्रिया तेषां विविधा फलसम्पदा ॥

सम्यग् ज्ञानविहीनानां वालिशानामियं क्रिया ।
तस्मात् तथागतं ज्ञानं सम्यक् तेन नियोजयेत् ॥

असुरस्य तदा दृष्टिः अज्ञानेष्वेव दिवौकसाम् ।
रथं सम्पूर्णयामास शशिनस्य महात्मने ॥

यदा काले भुवि मर्त्यानां राहोरागमनं भुवि ।
शशिमण्डलमाक्रम्य यदा तिष्ठति स ग्रहः ॥

तदा महद् भयं विन्द्यान्नक्षत्रेष्वेव निबोधताम् ।
अश्विन्येव यदा युक्तः शशिने भास्करमण्डलौ ॥

उभौ तौ युग्मतः ग्रासं दिवा रात्रौ च कथ्यते ।
अश्विन्यागमनं नित्यं दुर्भिक्षं तं विदुर्बुधाः ॥

भरण्यां तु यदा चन्द्रं ****(?)डलाश्रयेत् ।
विविधा * * * * * * * * (?) चापि निर्दिशेत् ॥

२२०, प्। २२०)

कृत्तिकासु यदा चन्द्रः राहुना ग्रस्यते ध्रुवम् ।
रात्रौ वा यदि प्रभाते वा यामान्ते निन्दितं हितम् ॥

तदा विन्द्या महद् दुःखम् व्याधिसम्भवगेव वा ।
मध्यदेशेषु नान्यत्र भवेन्नक्षत्रमादिभिः ॥

जनपदेष्वेव वक्तव्यो नृपैर्बोधिविधोद्भवैः ।
मृगशिरासु यदा चन्द्रः भास्करो वा नभस्तले ॥

राहुणा ग्रस्तपूर्वौ तौ अस्तं यातौ महर्द्धिकौ ।
पूर्वदेशे नरा यातु व्याधिभिर्हन्यते तदा ॥

नृपाध्यक्षा गतायुष्या तत्र देशे विनिर्दिशेत् ।
आर्द्रायां पुनर्वसुश्चैव ग्रस्तौ च शशिभास्करौ ॥

रुधिराक्ता महीं सर्वां म्लेच्छदेशेषु कीर्तयेत् ।
अन्योन्यहतविध्वस्ता हतप्राणा गतायुषा ॥

निर्दिष्टा तत्र देशेऽस्मिन् पूर्वमुत्तरयोस्तदा ।
निकृष्टा पापकर्माणः म्लेच्छतस्करतां गताः ॥

पुष्याश्लेषौ यदा चन्द्रे भास्करे वा नभस्तले ।
राहुणा ग्रस्तविम्बा तौ मध्याह्ने वार्द्धरात्रतः ॥

तदा विन्द्यान्महादोष पश्चादन्यां नृपेश्वराम् ।
मघासु यदि ग्रस्येतौ शशिभास्करमण्डलौ ॥

राहुणा सह मुद्यन्तो अस्तं यातौ ग्रहोत्तमौ ।
तदा प्रहाय तं विन्द्याज्जम्बूद्वीपेषु सर्वतः ॥

दुर्भिक्षराष्ट्रभङ्गं च महामारिं च निर्दिशेत् ।
उभौ फल्गुनिसंयुक्तौ राहुरागमनं भवेत् ॥

मध्याह्नेऽथवा रात्रे च मुच्यते च पुनः क्षणात् ।
सुभिक्षं ततो विन्द्याज्जम्बूद्वीपेषु दृश्यते ॥

हस्तचित्रे यदा राहुः प्रसते चन्द्रभास्करौ ।
ग्रस्तौ सह मुच्येतौ अस्तं यातौ च दुःखदा ॥

२२१, प्। २२१)

महामारिभयं तत्र तस्कराणां समन्ततः ।
नृपाश्च नृपवरा श्रेष्ठा हन्यन्ते व्याधिभिस्तदा ॥

दिशः सर्वे समन्ताद्वै दुर्भिक्षं चापि निर्दिशेत् ।
विशाखस्वातिनौ युक्तौ नक्षत्रवरपूजितौ ॥

राहोरागमनं विन्द्यात् पशूनां पीडसम्भवाम् ।
विविधा कुलमुख्यास्तु हन्यन्ते शस्त्रिभिस्तदा ॥

ज्येष्ठानुराधसंयुक्तौ नक्षत्रौ वरवर्णितौ ।
राहोरागमनं तत्र सुभिक्षं वा विनिर्दिशेत् ॥

मूलेन यदि चन्द्रस्थः राहुर्दृश्यति भूतले ।
उदयन्तं तदा ग्रस्तम् उदितं वापि सर्वतः ॥

अस्तं यातेन तेनैव शशिनो राहुणा सदा ।
प्राच्याध्यक्षो विनश्येयुः पूर्वदेशजनालया ॥

महान्तं शस्त्रसम्पातं दुर्भिक्षं चापि निर्दिशेत् ।
परचक्रभयाद् भिन्ना त्रस्ता गौडजना जना ॥

राजा वै नश्यते तत्र व्याधिना सह मूर्छितः ।
उभौ अषाढौ तदाकाले राहुर्दृश्यति मेदिनीम् ॥

तत्र दुःखं महाव्याधि तत्र दृश्यति भूतले ।
नृपमुख्यास्तदा सर्वे दुष्टचित्ता परस्परम् ॥

धनिष्ठे श्रवणे चैव निर्दिष्टं लोकनिन्दितम् ।
नाना गणमुख्या वै विश्लिष्टान्योन्यतद्भुवा ॥

पूर्वभद्रपदे चैव नक्षत्रे शतभिषे तथा ।
राहुरागमनं दृश्येत सुभिक्षं चैव निर्दिशेत् ॥

उत्तरायां यदा युक्तः नक्षत्रे भद्रपदे तथा ।
राहुरागमनं श्रेष्ठं दिवा रात्रौ तु निन्दितम् ॥

रेवत्यां तु यदा चन्द्रः राहुणा ग्रस्त सर्वतः ।
उदयन्तं तथा भानोर्निशिर्वा चन्द्रमण्डले ॥

२२२, प्। २२२)

अस्त**(?) यदा राहुग्रहमुख्यैः सहोत्तमैः ।
मध्यदेशाच्च पीड्यन्ते मागधो नृपतेर्वधः ॥

एतद् गणितं ज्ञानं मानुषाणां महीतले ।
नक्षत्राणामेतत् प्रमाणं चैव कीर्तितम् ॥

अशक्यं मानुषैरन्यैः प्रमाणं ग्रहयोनितम् ।
नक्षत्रमाला विचित्रा वै भ्रमते वै नभस्तले ॥

एतन्मानुषां सङ्ख्यात्ततोऽन्यद् देवयोनिजाम् ।
यो यस्य ग्रहमुख्यो वा क्षेत्रराशिसमोदिता ॥

नक्षत्रं कथितं पूर्वं तस्य तं कुरुतेऽन्यथा ।
ईषत् प्रमाणं न दोषोऽस्ति बहुवाचास्ति निन्दितम् ॥

एतत् प्रमाणकाले वै ग्रहमुख्योऽर्थकृत् स्मृतः ।
काल। ,म् कथितं ज्ञेयं नियमं चैव कीर्त्यते ॥

नक्षत्रराशिसंयुक्तः कम्पो निर्घात उल्किनः ।
सग्रहौ यदि तत्रस्थौ रविचन्द्रौ तु दृश्यते ॥

उभयान्तं तदा तस्य नक्षत्रां जातिभूषिताम् ।
अन्यथा निष्फलं विन्द्यात् प्रभावं वापि निन्दिते ॥

तस्माज्जपे तदा काले मन्त्रसिद्धिसमोदिता ।
धूम्रवर्णं यदाकाशं दृश्यते सर्वतः सदा ॥

तदा महद् भयं विन्द्यात् परचक्रभयेत् तदा ।
शशिने भास्करे चापि धूम्रवर्णो यदा भवेत् ॥

पर्येषा द्वित्रयो वा वा तत्र विन्द्यान्महद् भयम् ।
धूमिकायां भवेद् वृष्टिः सर्वकाले भयानके ॥

कुत्सितं सर्वतो विन्द्याद् व्याधिसमागमम् ।
ग्रीष्मे शरदे चैव धूमिका यदि जायते ॥

समन्तात् सप्तरात्रं तु तत्र विन्द्यान्महद् भयम् ।
दिवा वा यदि वा रात्रौ धूमिका यदि जायते ॥

२२३, प्। २२३)

नक्षत्रैर्ग्रहचिह्नैस्तु तिथिवारान्तरेण वा ।
पूर्ववत् कथितं सर्वं यथा निर्घात उल्किनाम् ॥

तैरेव दिवसैः पूर्वं धूमिकाया नियोजयेत् ।
अर्धरात्रेऽथ मध्याह्ने धूमिका जायते सदा ॥

तत्र विन्द्यान्महोद्वेगं नृपतीनां पुरोत्तमाम् ।
शरदे यदि हेमन्ते ग्रीष्मे प्रावृषेऽपि वा ॥

धूमिका सर्वतो ज्ञेया नक्षत्रैश्चैव कीर्तितः ।
शुभाशुभं तथा ज्ञेयं दिवा वा यदि वा निशा ॥

निःफलं चापि विन्द्या वै सफलां चापि कीर्त्तिताम् ।
सर्वतः भूमिकम्पे वापि तथोल्कचैकतो राहुसमागमम् ॥

तत्र धूमो भवेद् यद्यत् समन्ताश्चैव नभस्तले ।
अचिरात् तत्र तद् राज्यं घात्यते शस्त्रिभिः सदा ॥

प्रभवः सर्वतो देशे मृत्युश्चैव प्रकीर्त्यते ।
सप्ताहाद्विजयमुख्या भुवि वाता सत्त्वयोनयः ॥

घात्यन्ते सर्वतो नित्यं शस्त्रिभिर्मृत्युवशानुगा ।
अन्योन्यापरतो राज्यं कृपावर्जितचेतसः ॥

विभिन्ना शस्त्रिभिः क्षिप्रं वणिजा नृपयोनयः ।
ग्रीष्मे सितवर्णस्तु नभो यत्र प्रदृश्यते ॥

महाव्याधिभयं तत्र नीले चैव शिवोदयम् ।
पीतनिर्भासमुद्यन्तं सविता दृश्यते यदा ॥

ग्रीष्मे च कथिता मृत्युः शरत्काले च निन्दितम् ।
हेमन्ते च वसन्ते च ताम्रवर्णः प्रदृश्यते ॥

अन्यथा पीतनिर्भासौ निन्दितो लोकवर्जितः ।
शरदे ग्री**(?) ज्ञेयः पितिवर्णः प्रशस्यते ॥

प्रावृड्काले तथा शुभ्रे पीतो वा न च * * * (?) ।
महाप्रभाव***(?) **(?)नीलसमप्रभः ॥

२२४, प्। २२४)

नभो ज्ञेयं सदाकालं सर्वसौख्यफलप्रदम् ।
विपरीतं ततो विन्द्या देशमावासपीडनम् ॥

सस्योपघातमारिं च दुर्भिक्षं चापि मुच्यते ।
अतिकष्टं सुरा ह्येतं भयं वा रसदूषितम् ॥

महाप्रणादं घोरं च शुक्रे वै च नभस्तले ।
तत्क्षणादेव सर्वेषां नृपतीनां प्राणोपरोधिनम् ॥

ततोऽन्यच्छुभसंयुक्तं श्रेयसा चैव कल्पयेत् ।
सग्रहे भास्करे चन्द्रे यदा राहो महद्भये ॥

नश्यन्ते जनपदास्तत्र विविधा कर्मयोनिजा ।
ततोऽन्यच्छुभसंयुक्तं शब्दं लोकपूजितम् ॥

श्रेयसार्थे नियोक्तासौ सुरश्रेष्ठा ग्रहोत्तमा ।
विविधां मन्त्र सिद्ध्यन्ते विविधा मूलफलप्रदा ॥

विविधा वा न वा सर्वे विविधा प्राणसम्भवाः ।
अनेकाकारसम्पन्ना स्वरूपा विकृतास्तदा ॥

नानाप्रहरणाश्चैव नानाशस्त्रसमुद्भवा ।
सर्वमतयो ह्यग्रा मूलमन्त्रसुभूषणा ॥

सर्वे ते साध्यमाने वै सिद्धिं गच्छेयु सग्रहा ।
ग्रहे चन्द्रे यदा भानो राहुणार्थोऽपि सग्रहे ॥

तस्मिं काले तदा जापी मन्त्रमावर्तयेत् सदा ।
सर्वे ते वरदाश्चैव * * * * (?) भवन्ति ते ॥

सत्त्वोपकारं फलं ह्येतत् प्रतिष्ठा तत्र दृश्यते ।
सिध्यन्ते मन्त्रराट् क्षिप्रं ग्रहे जप्ता सराहुके ॥

सप्तभिर्दिवसैर्मासैः पक्षैश्चापि सुपूजिताः ।
मन्त्राणां सिद्धिनिर्दिष्टा सग्रहे चन्द्रभास्करौ ॥

२२५, प्। २२५)

ब्रह्मस्यापि महात्मानः किं पुनर्भुवि मानुषाम् ।
शक्रस्यापि न देवस्य रुद्रस्यापि त्रिशूलिने ॥

विष्णोश्चक्रगदाहस्ते तार्क्षस्यापि महात्मने ।
नेष्यते सिद्धिरेतेषां विधिहीनेन कर्मणाम् ॥

मन्त्रे सुजप्ते युक्ते च तन्त्रयुक्तेन हेतुना ।
सिध्यन्ते इतरस्यापि * * * * * * * * (?) ॥

विधिना मानुषैर्मुक्ता विद्यातत्त्वसुभूषिता ।
सिध्यन्ते सग्रहा क्षिप्ता जप्ता कालेषु योजिता ॥

ददाति फलसंयुक्तं विद्या सर्वत्र योजिता ।
हेतुकर्मफला विद्या * * * (?) हेतुदूषणी ॥

कर्म सहेतुकं विन्द्या विद्याद्धेतुफलोदया ।
विद्या कर्मफलं चैव हेतु चान्य नियोजयेत् ॥

चतुःप्रकारात्तथा विद्या चतुर्था कर्मसु योजिता ।
दद्यात् कर्मफलं क्षिप्रं सा विद्या हेतुयोजिता ॥

सा विद्या फलतो ज्ञेया बुद्धैश्चापि सुपूजिता ।
विद्या सर्वार्थसंयुक्ता प्रवरा सर्वकर्मिका ॥

प्रदद्युः कर्मतो सिद्धिं सा विद्या कर्मसु योजिता ।
श्रेयसा चैव योजयेत् न मन्त्राणां गतिगोचरम् ॥

प्रभावं मन्त्रसिद्धिं च लोकतत्त्वं निबोधताम् ।
निःफलं कर्मतो वा वा फलं कर्म च तत्र च ॥

दृश्यते फलहेतुर्वा मन्त्रा बुद्धैश्च वर्णिता ॥

न फलं कर्म क्रमं हन्ति नाफलं कर्म क्रिया परा ।
फलं कर्मसमारम्भात् सिद्धि मन्त्रेषु जायते ॥

गुणं द्रव्यक्रयायोगा क्रमं द्रव्यक्रियाक्रमा ।
मन्त्राड् सिद्ध्यते तत्र फला कर्मेषु योजिता ॥

२२६, प्। २२६)

विधिद्रव्यसमायुक्तः वृत्तस्थो कर्मयोजितः ।
न योनिः कर्मतो ज्ञेयं यो नियुक्तः सदा फले ॥

न बृहत्कर्मतां यान्ति सिद्धिमन्त्राक्षरं सदा ।
तदा मन्त्री जपेन्मन्त्रं विधियोनिसमाश्रया ॥

कालक्रमा गुणाश्चैव विधियोनिगतिसौगतः ।
सिद्ध्यन्ते मन्त्रराट् सर्वे विधिकालार्थसाधिका ॥

न गुणं द्रव्यतो ज्ञेयं नाद्रव्यं गुणमुच्यते ।
गुणद्रव्यसमायोगात् संयोगान्मन्त्रमर्चयेत् ॥

अर्चिता देवताः सर्वे आमुकेनैव योजयेत् ।
तत्प्रमाणं गुणं द्रव्यं क्षिप्रमन्त्रेषु साधयेत् ॥

क्रमः कालगुणोपेतं गुणकालक्रमक्रिया ।
चतुर्धा दृश्यते सिद्धिः मन्त्रेष्वेव सुयोजिता ॥

प्रभावं गुणविस्तारं सत्त्वनीतिसुखोदयम् ।
प्रदद्युः सर्वतो मन्त्रा गुणेष्वेव नियोजिताः ॥

प्रभवं सर्वतः कर्म गुणद्रव्यं च सिद्ध्यते ।
नापि द्रव्या गुणामेता द्रव्यकर्माच्च वर्जिता ॥

न सिद्धिं दद्यु तत्क्षिप्रं यथेष्टमनसोद्भवात् ।
मानसा मन्त्रनिर्दिष्टा न वाचा मनसा विना ॥

वान्यतो मन्त्रविज्ञेया न वान्या मनसे विना ।
नान्यकर्मा मनश्चैव संयोगात् सिद्धिरिष्यते ॥

न दृष्टिकर्मतो हीना नेष्टं कर्मविवर्जितम् ।
सम्यग् दृष्टि तथा कर्मं वाक् चित्तं च योजितम् ॥

सिद्ध्यन्ते देवताः क्षिप्रं मन्त्रतन्त्राक्षरोदितम् ।
सम्यग्दृष्टिसमायोगा **(?)कर्मान्तयोजयोः ॥

कर्मान्तवाक्सुमोपेतं सम्यग्दृष्टिसुयोजितम् ॥

२२७, प्। २२७)

सिद्ध्यन्ते सर्वतो मन्त्राः सम्यक् कर्मान्तयोजिताः ।
न चित्तेन विना मन्त्रं न स्मृत्या सह चित्तयोः ॥

सम्यक् स्मृत्या च चित्ते च दृश्यते मन्त्रसिद्धये ।
न स्मृत्या च विनिर्मुक्ता मन्त्र उक्तस्तथागतैः ॥

स्मृत्या समाधिभावेन सम्यक् तेन नियोजिताः ।
दृश्यन्ते ऊर्जितं मन्त्रैः सिध्यन्ते च समाधिना ॥

सम्यक्समाधिनो भावो मन्त्रा लोकसुपूजिताम् ।
तत्प्रयोगा इमा मन्त्राः समाध्या परिभाविता ॥

सिध्यन्ते मन्त्रराट् तत्र योगं चापि सुपुष्कलम् ।
सम्यक् समाधिभिर्ध्येयं मन्त्रं ध्यानादिकं परम् ॥

सिध्यन्ते योगिनो मन्त्रा नायोगात् सिद्धिमुच्यते ।
यो मया कथितं पूर्वं सम्यगुक्तसुयोजितम् ॥

नान्यथा सिद्धिमित्याहुर्मुनयः सत्ववत्सलाः ।
नासङ्कल्पाद् भवेन्मन्त्रः सम्यक् तत्त्वार्थयोजिताः ॥

सङ्कल्पा मन्त्र सिध्यन्ते सम्यक् ते विधियोजिता ।
न पूज्य मन्त्रराट् सर्वे सम्यक् सङ्कल्पवर्जिताः ॥

सिध्यन्ते सर्वतो मन्त्राः सम्यगाजीवयोज्जिता ।
सम्यक् सङ्कल्पतो ज्ञेयं मन्त्रेष्वेव सुखोदयम् ॥

आजीवे शुद्धितां याति मन्त्रा सम्यक् प्रयोजिता ।
सिध्यन्ते भुवि निर्दिष्टा मन्त्रमुख्या सुयोजिता ॥

आजीवं हि फलं युक्तो सम्यगेव सुयोजयेत् ।
सम्यक् सञ्जीवरतो मन्त्री शुद्धचित्तः सदा शुचौ ॥

शुचिनः शुचिकर्मस्य शुचिकर्मान्तचारिणः ।
सिध्यन्ते शुचिनो मन्त्रा कश्मलाकश्मले सदा ॥

क्रव्यादा येतरापन्त्रा चान्ये परिकीर्तिता ।
सिध्यन्ते मन्त्रिणां मन्त्राः क्रव्यादेष्वेव भाषिताः ॥

२२८, प्। २२८)

रुद्रविष्णुर्ग्रहा चोरै गरुडैश्चापि महर्द्धिकैः ।
यक्षराक्षसगीतास्तु सिध्यन्ते मन्त्रकश्मलाः ॥

विविधैर्भूतगणैश्चापि पिशाचैर्मन्त्रभाषिताः ।
स्वयं न सिध्यते विधिना हीना अशौचाचाररतेष्वपि ॥

विधिना योजिता क्षिप्रम् अशौचेष्वेव सिद्धिदा ।
तस्मान्मन्त्रं न कुर्वीत विधिहीनं तु कर्मयोः ॥

सिध्यन्ते साश्रवा मन्त्रा विधिकर्मसुयोजिताः ।
साध्यास्तु तथा मन्त्रा आर्य बुद्धैस्तु भाषिता ॥

तेषां सिद्धि विनिर्दिष्टा मार्गेष्वेव सुयोजिता ।
आर्याष्टाङ्गिकं मार्ग चतुःसत्यसुयोजितम् ॥

चतुर्ध्यान सदाचेयं चत्वारश्चरणाश्रिताः ।
भिद्यन्ते मन्त्रमुख्यास्तु प्रवरा बुद्धापदेशिता ॥

अनाख्येयस्वभावं वै गगनाभावस्वभावताम् ।
मन्त्राणां विधिनिर्दिष्टाम् आर्याणां च महौजसाम् ॥

भूम्यानां विधिनिर्दिष्टा सिद्धिमार्गविवर्जितम् ।
विद्यानां कथयिष्येऽहं तन्निबोध्य दिवौकसाः ॥

दशकर्मपथे मार्गे कुशले चैव सुभाषिते ।
सिध्यन्ते दिव्यमन्त्रास्तु विधिदृष्टेन कर्मणा ॥

इति ।

बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रीमूलकल्पा-
देकुनविंशतिपटलविसरात् पञ्चमः
ग्रहोत्पादनियमनिमित्तमन्त्रक्रियानिर्देशपरिवर्तपटलविसरः परिसमाप्त इति ॥

२२९, प्। २२९)