२०

अथ विंशः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीस्त्वदीयकल्पविसरे
सर्वभयोत्पादनिमित्तनिर्घातगतानि आश्चर्यनिमित्तलिङ्गानि कथयन्ति शुभाशुभं
सुभिक्षदुर्भिक्षपरराष्ट्रगगनम् अनावृष्टिमतिवृष्टिं सत्त्वानां सूचयन्ति
महासाधनादिषु यो विघ्नं कारयन्ति ततो साधकेन च मन्तव्यं
साध्यासाध्यानि च तस्मिं देशे कर्तव्यमकर्तव्येति ज्ञातव्यम् । ततो यदि न
शोभनानि निमित्तानि भवन्ति तस्माद् देशादपक्रम्य अन्यत्र गत्वा साधयितव्यानि ॥

अथ चेच्छोभनानि निमित्तानि भवन्ति । तस्मिन्नेव देशे साधयितव्यानि । तत्रैव च
स्थातव्यम् । एवं ज्ञात्वा साधकेन मन्त्रचर्याभियुक्तेन कर्तव्यमकर्तव्यमिति
मन्त्रचर्यायां निमित्तानि ज्ञात्वा शुभाशुभं बोद्धव्यमिति ॥

अथ खलु मञ्जुश्रीः कुमारभूतो भगवतः पादयोर्निपत्य पुनरष्येवमाह - तत्
साधु भगवां देशयतु निमित्तज्ञानपरिवर्तविसरम् । तद् भविष्यति
सर्वसत्त्वानां हिताय सुखाय सर्वमन्त्रचर्याभिमुक्तानां बोधिसत्त्वानां
महासत्त्वानां शुभाशुभफलोदयनिमित्तलिङ्गानि । यस्ते सर्वसत्वा
मन्त्रचर्यानुप्रविष्टा साध्यासाध्यं कालनिमित्तं ज्ञात्वा स्थातव्यं
प्रक्रमितव्यमिति पश्यन्ते ॥

एवमुक्ते भगवां शाक्यमुनिः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । तेन
हि मञ्जुश्रीः ! शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्येऽहं ते ॥

आदौ तावद् भवेल्लिङ्गमुत्पातानां समोदयम् ।
महद् भयमनादिस्थममानुषाणां तु चेष्टितम् ॥

सर्वे * * * * * * * * * (?) ग्रहराक्षसाः ।
मातरा * * * * * * * * * (?) महर्द्धिकाः ॥

दर्शयन्ति तदा लिङ्गं ***(?)नां च सम्भवे ।
आदिमन्तं ततो मध्यम् अशुभं चैव ते सदा ॥

१९६, प्। १९६)

भूमिस्थितिर्नाशकं *(?) कथयन्ति विविधाश्रयात् ।
सर्वमानुषसत्त्वेषु भूतलेऽस्मिन्निबोधताम् ॥

कबन्धा विविधाश्चापि पक्षिणश्च समाकुलाः ।
दृश्यन्ते सर्वतो लोके तस्माद् देशादपक्रमेत् ॥

रात्रौ शक्रायुधं दृष्ट्वा धनुश्चापि विशेषतः ।
शरनाराचपाशाश्च विविधा प्रहरणोद्भवाः ॥

दृश्यन्ते गगनाद् रात्रौ तस्माद् देशादपक्रमेत् ।
चन्द्रबिम्बे यदाकाशे दृश्यन्ते विकृतरूपिणः ॥

कबन्धा पुत्तलाश्चैव नृत्यन्ता गगनालये ।
सुषिरं छिद्रमित्याहुर्दृश्यते शशिमण्डले ॥

पुरुषा उच्चनीचाश्च युध्यन्तां शशिमण्डले ।
दृश्येयुर्मानुषे लोके तस्माद् देशादपक्रमेत् ॥

विविधा प्राणहराश्चापि नानाभूतगणास्तथा ।
नृत्यमानाश्च युद्ध्येयुस्तस्माद् देशादपक्रमेत् ॥

मण्डलाकारसङ्काशं दृश्यस्थः शशिमण्डलम् ।
तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत् ॥

युद्ध्यन्तां सर्वसङ्ख्यांश्च दृश्यन्ते शशिमण्डले ।
एकस्तत्र पतेत् क्षिप्रं यस्य यो दिशिमाश्रितः ॥

तं देवदिशिमित्याहुः भूपतिर्मृयते ध्रुवम् ।
तादृशं दृष्ट्वा सत्त्वाख्यं विविधाकारसम्भवम् ॥

अचिरात् तत्र भयात् क्षिप्रं तस्माद् देशादपक्रमेत् ।
शरनाराचशक्तिश्च दृष्ट्वा तत्र निशाकरे ॥

तस्करोपद्रवं क्षिप्रं शस्त्रसम्पातजं भयम् ।
दृष्ट्वा विकृत **(?) **(?)सत्वसमाश्रयाम् ॥

रात्रौ ***(?) तस्माद् देशादपक्रमेत् ।
कृष्णव
(?) विहङ्गास्तु शुक्ला चैव सपीतकः ॥

१९७, प्। १९७)

रक्ताश्चैव तथा धूम्राः ***(?)विकृताश्रया ।
ते वै विवर्णवर्णास्तु दृश्यन्ते भूतले यदा ॥

तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् ।
शुक्ला पक्षा भवेत् कृष्णा कृष्णा पक्षा तथा सिता ॥

दृश्यन्ते विकृतरूपास्तु विहङ्गाश्चैव महीतले ।
तादृशं लक्षणन्न् दृष्ट्वा तस्माद् देशादपक्रमेत् ॥

मृगक्रोष्टुकगणाः सर्वे प्रविशेयुर्ग्राममालयम् ।
श्वापदा व्यालिनो धूर्ता म्लेच्छोपद्रवतस्कराः ॥

भवेयुर्भयकृतं तेषां दुर्भिक्षं वापि वर्णितम् ।
विविधा भूतगणाश्चापि दृश्यन्ते तु महीतले ॥

विकृताविकृतरूपिण्यः यक्षराक्षसकिन्नराः ।
दिवा रात्रौ तथा नित्यं नृत्यन्ते च महीतले ॥

तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् ।
नरनारीकुमारांश्च क्रन्देयुर्भृशं भूतले ॥

रात्रौ दिवा तथा नित्यं व्याधिस्तत्र मिहागमः ।
उरगा विकृतवीभत्सा दृश्यन्ते वसुधातले ॥

गृहे रथ्ये तथा भिन्ध्या मन्दिरे वृक्षसन्निधौ ।
सर्वतो व्याप्य तिष्ठन्ते भवेत् तत्र महाभयम् ॥

महामार्योपसर्गं च विषविस्फोटमूर्च्छनम् ।
दुर्भिक्षं राष्ट्रभङ्गं च भवेत् तत्र जनागमे ॥

विकृताविकृतवीभत्सा पक्षिणश्वानक्रोष्टुका ।
ऊर्ध्वतुण्डा यदाकाशे रवन्ते विकृतानना ॥

अर्धरात्रौ तु मध्याह्ने उभे मर्त्ये च कुत्सिता ।
भवेन्महाभवं क्षिप्रं परच***(?)गमम् ॥

दुर्भिक्षमति***(?) भवेत् तत्र समासतः ।
मासमेकेन ******** (?) पीडिताः ॥

१९८, प्। १९८)

अन्योन्यं भूतले वासा मानुषा तत्कराग्निना ।
महाशस्त्रभयं तत्र तस्माद् देशादपकमेत् ॥

गगनस्था सर्वतो मेघा दृश्यन्ते च वक्त्रसम्भवा ।
स्फुटाकाराथ रौद्राश्च तीव्रगर्जननादिनः ॥

सप्तस्फुटा द्विश्चतुर्वा च दृश्यन्ते उरगाश्रयाः ।
सुघोरा घोरवक्त्राश्च दृश्यन्ते गगनाश्रया ॥

तादृशं लक्षणं दृष्ट्वा अचिरात् तत्र महाभयम् ।
महामार्योपद्रवं च ज्वरो व्याधिः रोगाश्चैव महाभयाः ॥

सद्यः प्राणहराः क्षिप्रं विषाः स्थावरजङ्गमाः ।
उत्सृजन्ति तदा मेघां तदा वृष्टिं च दारुणम् ॥

नश्यते भूतयस्तत्र अन्योन्या निरपेक्षिणः ।
तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् ॥

महाप्रपातदुर्भिक्षमुल्कापातां समन्ततः ।
धूमकेतोश्च निर्घातां दिशादाहां कथयिष्यामि ते ॥

शृणु प्रपातं दृश्यस्थम् उल्किनां चैव जायते ।
रात्रौ दिवा समन्ता वै उल्कापातो भवेद् यदि ॥

महाभयमनारोग्यं ज्ञात्वा मन्त्री व्रजेत् ततः ।
महोल्काज्वलमानाया दिशं गच्छेत वै सदा ॥

तादृशं नृपतीनां भङ्गः यतो वक्त्रं ततो भयम् ।
विदिशां पतते उल्कां समन्ताद्वै निशि सर्वदा ॥

तत्र देशे महाव्याधिः दुर्भिक्षनृपघातनम् ।
दिवारात्रौ यदा उल्का पतते वै समन्ततः ॥

तादृशं च भवेन्मृत्युर्नृपतीनां च मन्त्रिणाम् ।
तं बुद्ध्वा मन्त्रजापी स्याद् ****** (?) क्रमेत् ॥

उल्किनः (?)द् यतो पु** (?) ।
अन्या वा *** (?) ङ्गो नृपतीनां **** (?) ॥

१९९, प्। १९९)

महाक्षोभं तदा चक्रे महोक्का ग्रहचिह्निते ।
समन्तात् पतते क्षिप्रं तस्माद् देशादपक्रमेत् ॥

यादृशम् उल्कमावेश्य आश्रयात् पतते सदा ।
तां दिशं व्याधिदुर्भिक्षं राष्ट्रभङ्गं च जायते ॥

गमनागमनयोर्मृत्युस्तारकाणां तदाश्रयात् ।
योऽयं नक्षत्रजातस्थः तस्य मृत्युभयं भवेत् ॥

द्विरात्रान्नश्यते जन्तुर्नक्षत्रा पतते भुवि ।
नराधिपानां च सर्वेषामेव एव विधिर्भवेत् ॥

योऽयं पश्यते देवः इष्टं *(?) ष्वेदमाकुलम् ।
रातौ दर्शनेऽवश्यं प्रतिमायां दिवा तदा ॥

तस्य मृत्युभयं विन्द्यान्मासैः षट्भिस्तदा स्मृतः ।
प्रतिमा चलिता यस्य देवतेष्टस्य जन्तुनः ॥

हसते रुदते चैव तं देशं वर्जयेत् सदा ।
प्रतिमा पतते चैव विशीर्यते वा स्वकात्मना ॥

तस्य भङ्गं भवेत् क्षिप्रं गृहाश्चैव नराधिपे ।
कुर्वन्ति विविधाकारां लिङ्गां विविधरूपिणाम् ॥

प्रतिमा यदि दृश्यस्था देवायतनमन्दिरे ।
तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत् ॥

समन्तात् सर्वतो मन्त्री पश्येयुः प्रतिमां सदा ।
विकृतरूपवीभत्सां नानाविकृतमाश्रिताम् ॥

स्वयं वा पश्यते मन्त्री अन्यैर्वा दृश्यते भुवि ।
तादृशं लक्षणं दृष्ट्वा तस्माद् देवादपक्रमेत् ॥

अर्धरात्रे तथा यामे तृतीतेऽर्धे यदि दृश्यते ।

चतुर्त्थभागे तथा **** (?) क्षिप्रगामिनः ।

२००, प्। २००)

वसुधातलेन गच्छन्ति तस्मिं देशे ततो व्रजेत् ।
यत्र संशयते तुष्टि यत्र गच्छन्ति तारकाः ॥

तं देशं मा विशेत् क्षिप्रं यत्र वृष्टि महद् भयम् ।
तं देशं नश्यते क्षिप्रं परचक्रसमागमम् ॥

दुर्भिक्षं शस्त्रसम्पातं तं विन्द्याद् देशमाकुलम् ।
चोरोरगव्यालानां म्लेच्छधूर्तसमागमम् ॥

तं देशं नराधिपा नित्यं प्रवसेत् सर्वतो दिशम् ।
विलुप्तराज्यो विभ्रष्टपरचक्रसमाश्रितः ॥

वर्षा अष्ट एकं च तं देशं तत्र लेभिरे पुनः ।
प्राप्नुयात् तदा राज्यं देशदागमनं पुनः ॥

स्नात्वा दुपक्रमात् सर्वां विक्रियां क्रिययोजिताम् ।
क्रियाकालं समासेन तं जापी आरभेत् सदा ॥

उल्कापात महान्तो वै दृश्यते यदि मिश्रितम् ।
समन्तान्नित्यकालं च तस्माद् देशादपक्रमेत् ॥

उल्किनो बहुधाकारा दृश्यन्ते विविधाश्रया ।
विचित्रा चित्ररूपिण्यः यक्षिण्यश्च महर्द्धिकाः ॥

ज्वलन्तां वक्त्रदेशाभ्यां क्रव्यादांश्च पिशाचिकाः ।
तस्मात् परीक्षयेदुल्कां लिङ्गैरेभिः समोदिताम् ॥

अतिदीर्घ तथा ह्रस्वो मध्याश्चैव प्रकीर्तिता ।
चतुर्हस्ता द्विहस्ता वा हस्तमात्रप्रमाणतः ॥

दृश्यन्ते भूतले मर्त्यैराश्रयन्ते महोदया ।
महाप्राणा स्वरूपाश्च देवतैषा महर्द्धिका ॥

विचित्राकाररूपास्तु हूतास्वे च दिवौकसाम् ।

शक्र*** (?) क्षिप्रं गच्छन्त****** (?) ।
जम्बूद्वीपपतां मर्त्यां नराध्यक्ष्तां नराधिपाम् ॥

२०१, प्। २०१)

पत्यन्ते सर्वलोकांश्च ****(?)विचारकाम् ।

महामन्त्रधरा सर्वे जापिनो यद्यजाम्बुद्वीपगता नराः ।
तदा देवा महोत्सवापि जायन्ते तदा दैत्यां कुर्वन्वे च पराभवम् ॥

धर्मिष्ठा भूतले मर्त्या जाम्बूद्वीपनिवासिनः ।
महोत्साहं तदा काले तृदशाध्यक्षोऽथ वासवः ॥

तदा भग्नवतोत्साहा असुरा भिन्नमानसा ।
अभिमानं लभेतां येन पाताले तेन ताः ॥

प्रविशन्ते स्वपुरं तत्र भिन्नमाना कृतव्यथाः ।
महाप्रमोदं तदा देवा लेभिरे तृदशेश्वराः ॥

तदा जम्बूद्वीपेऽथ सर्वत्र सुभितमारोग्वते जनाः ।
स्वस्था च सर्वतो जग्मुः नरनारी गतव्यथा ॥

तस्मात् सर्वप्रकारेण बुद्धेः भक्तिः कृथे जनाः ।
धर्मसङ्घे च भूयिष्ठे गतद्वन्द्वे निरामये ॥

पूजां कुरुथ मर्त्यातो लालिलिप्सः सर्वसम्पदाम् ।
मन्त्रचर्यां तदा चक्रे वव्रे वाचां शुभोदया ॥

दशकर्म यथालोकां सम्प्रतिष्ठा निरोपगाम् ।
कुरुध्वं जनसम्पातां त्रिधा शुद्धेन मानसाः ॥

विरतिः प्राणिवधे नित्यम् अदत्तं वापि नाचरेत् ।
न भजेदङ्गनादन्याम् अगव्यापरिवर्जिताम् । जपेत् ॥

सन्तुष्टिः स्वेन धर्मेण स*(?)रुध्व जनसत्तमाः ।
मृपावादं न भाषेत ***** (?)दुःखदम् ॥

नाभावेत् कर्कशां ****** (?)र्यदुःखदान् ।

२०२, प्। २०२)

क्लिष्टचित्तस्य सर्वत्र निषिद्धं मुनि**(?)वैः ।
अभिध्यं नाचरेत् कर्म परसत्त्वोपकारिणः ॥

यो यस्य सदा सृतं न कुर्याद् द्वेषसमुत्थितम् ।
व्यापादं वर्जयेत् कर्म सत्त्वद्वेषमनास्पदम् ॥

उपघातं परसत्त्वस्य न कुर्यात् सर्वतो जनाः ।
मिथ्यादृष्टिं न कुर्यान्तां सर्वधर्मविनाशिनीम् ॥

नास्ति दत्तं हुतं चैव न चेष्टमन्त्रसाधने ।
न सिध्यन्ते तथा मन्त्राः सर्वतन्त्रार्थकल्पिताः ॥

न बुद्धानां सुखोत्पत्तिः न शान्तं निर्वाणमिष्यते ।
न चापि चर्या तथा बोधो प्रत्येकार्थसम्भवाम् ॥

न चार्हत्वं भुवि लोकेऽस्मिं नापि धर्मेषु जायते ।
स्वभावैषा विविधा लोके अर्थादर्थतथातथा ॥

एवमाद्याम् अनेकांश्च विविधाकारचिह्निता ।
न तां भजेत् सदा मन्त्री पापदृष्टिसमुद्भवाम् ॥

दशकर्म यथा प्रोक्ता विरत्या स्वर्गोपगा स्मृताः ।
भावना चैव फलं तेषां निर्वाणामर्थसम्भवाम् ॥

अनिष्टा तु भवे लोके तदा सुराणां पराजयम् ।
दैत्यानां वर्धते मानः अतिदर्पार्थसम्भवाम् ॥

जनालये तदा सर्वं जम्बूद्वीपनिवासिनः ।
वाध्यन्ते व्याधिभिः क्षिप्रम् अन्योन्यां तेऽपि मूर्छिता ॥

जनाध्यक्षास्तदा सर्वे * * * * * * * * (?) ।
क्षिप्रं नश्यन्ति ते * * * * * * * * * * (?) ॥

बुद्धं * * * * * * (?) न पूजेदशुभा नृपा ।
न मन्त्रां * * * * * * (?) नृपा तस्थुरं सदा ॥

२०३, प्। २०३)

विनश्यन्ते तदा लोका विविधायासमूर्छिताः ।
ततस्ते दैत्यवशः क्षिप्रं सुसंरब्धा रुरोह तम् ॥

सुमेरुपर्वतमूर्धानमाविशन्ते जनसत्तमाः ।
परिपण्डो तदा भेरो विभजेन्मन्दिरा शुभौ ॥

समन्ताद्वनविध्वस्तं दिवौकसां कारयन्ति ते ।
विविधा रथवरै रूढा नानाभरणभूषिता ॥

नानाप्रहरणा दद्युः पुरः श्रेष्ठां पराजयाम् ।
ततस्ते खरं भेजे अप्सराणां भज जग्रहे ॥

ईश्वराः प्रभवः सर्वे असुरास्ते वलदयिता ।
जग्राह सुरकन्यां वै सुधा चैव च भोजनम् ॥

ततस्ते सुरवराः श्रेष्ठाः प्रविष्टाः नगरोत्तमम् ।
मेरुमूर्ध्नि ततो गत्वा नगरं दर्शनाश्रयम् ॥

शक्तानुयाता सर्वे वै पिशिता द्वारपुरोत्तमे ।
न तु माया पुरी भीतिः उपजग्मु मुदाश्रयम् ॥

निवर्त्य तत्र वै सर्वे स्वालयं जग्मु ते सुरा ।
यदेका मन्त्रसिद्धिस्तु निवशेर्जन्युमाश्रयम् ॥

जप्तमन्त्रोऽपि वा मर्त्यः निवसं तत्र आलये ।
तत्र देशे च चार्तीनि न दुर्भिक्षं न शत्रवः ॥

न रोगा नापि भयं विन्द्याज्जप्तमन्त्रे स्थिते भुवि ।
न चास्या दस्यवः सर्वे शक्नुवन्तीह हिंसितुम् ॥

न चार्तिमृत्यवस्तत्र अमर्यादा प्रवर्तते ।
न रुजा व्याधिसम्मूर्छा ज्वररोगापहारिणः ॥

वेऽत्र मन्त्रवरा द्युक्ता ****(?) *(?)द्भवा ॥

अब्जाके तु तथा मन्त्रा मन्त्रिणं मन्त्रपूजिताः ।
तत्र मन्त्रवरां मन्त्री जह्नुजोपमहर्द्धिकाम् ॥

२०४, प्। २०४)

तदा ते सुरवरा * * * * (?) तु पराजयः ।
एवमुक्ता गुणा ***(?) दृश्यते *(?)ले कदा ॥

तार्किका विविधाकारा कथयन्तीह महीतले ।
ग्रहयेपो इति श्रुत्वा अवतारार्णविस्तरा ॥

गीतम् ऋषिवरैर्ज्ञानमुल्किनां ग्रहचिह्निताम् ।
निर्दिष्टं तन्न निर्देशः निघातस्य प्रवक्ष्यते ॥

उल्कापाते यदा लोका निर्घातो भुवि मण्डले ।
प्रद्युन्नगर्जना कस्माच्छूयते च महीतले ॥

भृशं चुचुक्षुत्र तद्देशं तिथिरेभि समायुतैः ।
अतुल्यशब्दनिर्घोष रौद्रां वापि तमाहयाम् ॥

श्रूयते गर्ज च क्षिप्रं महामेघवचः श्रूयते ।
षष्ठ्यचमथमष्टम्यां त्रयोदश्यामथ श्रूयते ॥

कृष्णपक्षे तथा नित्यं द्वादश्यां तु चतुर्दशी ।
नक्षत्रैरेभि संयुक्ता वारैश्चापि प्रहोत्तमैः ॥

अश्विन्यां कृत्तिकानां च भरण्यां यातं निबोधताम् ।
पूर्वभद्रपदे चैव आर्द्रामघाश्लेषसंयुक्ते ॥

शन्यर्काङ्गारकैः क्रूरैः भूम्या निपतते यदा ॥

अवर्पोदकर्मा क्रूरं शब्दो निघात उच्यते ।
महद् भयं तत्र देशे वै दुर्भिक्षं राष्ट्रमर्दनम् ॥

परचक्रभयं * * * * * * * * * * (?) ।
निर्घातं पतते चोर्व्यां नक्षत्रैरेभि कीर्तितैः ॥

विविधा व्याधयरतत्र अ****** (?) ॥

२०५, प्। २०५)

मृत्युस्तत्र भवेद् व्याधिर्दुर्भिक्षिश्चापि निन्दितैः ।
अनावृष्टि सदाकाले द्वादशाब्दानि निर्दिशेत् ॥

पश्चिमां दि**(?)श्रित्य प्रपते भूतले **(?)त् ।
निर्घातं मृत्युसङ्कीर्णं दृश्यते मृत्युतस्करैः ॥

मध्याह्ने तु तदा काले युवाप्यस्तमितेऽपि वा ।
उदयन्तं भास्करं रक्ते सुशब्दैः श्रावकैरेवम् ॥

त्रिःसन्ध्यात् कुत्सितः शब्दः शेषकाले तु तुष्टये ।
अर्धरात्रे यदा शब्दः निर्घातस्य महद् भयम् ॥

गुप्तां पुरवरां तत्र कारयन्तु नृपोत्तमा ।
नानाम्लेच्छगणा धूर्ता तस्कराधिष्ठितापि ते ॥

परद्रव्योपकारार्थं कुर्वन्तीह महीतले ।
शेषकाले भवेच्छब्दः निर्घातस्य सुपुष्कलम् ॥

मन्त्रिमुख्यो भवेत् तत्र बहुव्याधिसमाकुलम् ।
बहुव्याधितत्वं च नृपास्तस्य विधीयते ॥

पत्नी वा हन्यते तस्य मन्त्रिमुख्यस्य हन्यतः ।
सर्वे सौल्किकास्तत्र नानाजातिसमाश्रिताः ॥

हन्यन्ते मृत्युना तेऽपि तथा जीवकसेवका ।
प्रकृष्टा वणिजा मुख्या नियुक्ता सर्वतो नृपाः ॥

मध्याह्नपरिमित्याहुः ऋषिभूतो रवे तदा ।
निर्घातमतुले शब्दं यदा शुश्रावते जनाः ॥

व्याधिभिर्व्यस्तसर्वत्र भवतीह महीतले ।
अन्यथा तुमुलं शब्दो यदि शुश्राव मानवा ॥

अकस्मात् सर्वतो नित्यं जपस्तत्र न जीवते ।
दक्षिणां दिशमाशृत्य ***(?) पततेच्छुभः ॥

विद्युच्चोर्ध्वं तथा दृष्टिर***(?)तं विनिर्दिशेत् ।
पूर्वायां दिशिमाश्रित्य शुश्रुवः यदि नादिते ॥

२०६, प्। २०६)

निर्घातस्य भवेत् तत्र प्राच्याध्यक्षो विनश्यति ।
हि*(?)द्रिकुक्षुसन्निविष्टा जनास्तत्र निवासिनः ॥

शुश्राव शब्दं महाभैरवे ग्रहे चिह्निते ।
तस्मिं देशे जनाध्यक्षो विनश्यन्ते म्लेच्छतस्कराः ॥

वत्से वत्साश्च ये मुख्या नेपालोधिपतिस्तदा ।
हन्यन्ते शत्रुभिः क्षिप्रं नानाद्वीपनिवासिनः ॥

विदिक्षु भैरवं नादे ऊर्ध्वमुत्तरतो भवेत् ।
कामरूपेश्वरो हन्या गौडाध्यक्षेण सर्वदा ॥

लौहित्यात् परतो ये वै जराध्यक्षाथ जीविना ।
कलशाह्वा चर्मरङ्गाश्च समोतद्याश्च वङ्गकाः ॥

नृपांश्च विविधां हन्या सशब्दे भैरवा ग्रहे ।
पूर्वदक्षिणतो भागे यदि शब्दो महद् भवम् ॥

कलिङ्गा कोसलाश्चैव सामुद्रा म्लेच्छवासिनः ।
हन्यन्ते शस्त्रिभिः क्रूरैः सदाध्यक्षाश्च नृपा चराः ॥

पूर्वपश्चिमतो भागे यदा शब्दो महान् भवेत् ।
मेघगर्जनवत् क्रूरो दिवारात्रौ महाम्बुदे ॥

तं निर्घातमिति वेद्मि देवसङ्घा निबोधताम् ।
शुभाशुभं तदा चक्रे मानुषाणां जनोत्तमाः ॥

यदा शुभे च नक्षत्रे लग्ने चापि शुभोत्तमे ।
तिथिश्रेष्ठे सिते चापि शब्दो शुश्राव मेदिनीम् ॥

शुभो सुभिक्षमारोग्यं सम्पत् क्रीडाय साधनम् ।
सिद्धमन्त्रस्तु जायेत वरदा जापिनां सदा ॥

तदा काले **(?) सिद्धिः सर्वकर्मसु योजिता ।

निर्वाता बहुधा प्रोक्ता क्ष्मातलेऽस्मिन् * * * (?) ॥

२०७, प्। २०७)

सर्वार्थसाधना केचिच्छन्दा गम्भीरवादिनः ॥

तं च शब्दं श्रुयात् क्षिप्रं देवसङ्घा निबोधताम् ।
धीरो गम्भीरयुक्तश्च स्तनितं चापि गर्जिते ॥

दीर्घदुन्दुभयो यद्वत् तच्छब्दसम्मुखावहम् ।
स शब्दो भैरवः क्रूरो यथानिर्दिष्टकारकः ॥

उल्कापातसमे काले भूमिकम्पान्न जायते ।
शब्दं क्रूरनिर्घोषं निर्दिशं चापि योजयेत् ॥

महद् भयं तदा विन्द्यात् सर्वनिर्देशभामिमाम् ।
सत्त्वाघातं ततो विन्द्याद् दुर्भिक्षं व्यधिसम्भवम् ॥

अमानुषं च तदा चक्रे मायोपद्रवादिकम् ।
भूपालां तदा मृत्युर्दिवसैस्त्रिंशविंशतिः ॥

यथोद्दिष्टकराः सर्वे शब्दा रौद्रनिनादिते ।
भूमिकम्पं तु निर्दिक्ष्ये कथ्यमानं निबोधत ॥

नक्षत्रेष्वेव कम्पा ये * * * * * * * * (?) ।
तिथिभिः सर्वत्र योज्यं स्यान्नक्षत्रं चापि युक्तवाम् ॥

निर्घाते यथा सर्वं कर्मेष्वेव योजयेत् ।
अश्विन्यां चलिता भूमिर्दुर्भिक्षं चापि निर्दिशेत् ॥

भरण्यां कृत्तिकां चैव उभौ कम्पौ सुखौदयौ ।
रोहिण्यां मृगशिरः कम्पो जायते अर्थसम्पदः ॥

आर्द्रः पुनर्वसुश्चैव नक्षत्रा परिचिह्नितौ ।
एषु कम्पेद् यथा पृथ्वी तत्र देशे महद्भयम् ॥

पुण्ये * * * * * * * * (?) भूतलवासिनीम् ॥

तत्र देशे * * * * * * (?)रोग्यं विनिर्दिशेत् ।

२०८, प्। २०८)

तत्र देशे समाकीर्णं ****(?)कररौद्रिभिः ।
मघासु चलिता भूमिः सर्वेष्वेव न सर्वतः ॥

अङ्गदेशे विनश्यन्ते मागधो नृपतिस्तथा ।
मागधा जनपदाः सर्वे पीड्यन्ते व्याधितस्करैः ॥

उभौ फल्गुननक्षत्रे क्ष्माकम्पो यदि जायते ।
हिमाद्रिकुक्षिसन्निविष्टा गङ्गामुत्तरतस्तदा ॥

हन्यन्ते व्याधिभिः क्षिप्रं वृजिमैथिलवासिना ।
वैशाल्यामधिपाः सर्वे हन्यन्ते अर्तिभिस्तदा ॥

विविधा म्लेच्छमुख्यास्तु हिमाद्रेः सानुसम्भवाः ।
निवस्ताः कुक्षिमध्ये वै नितम्वेष्वेव द्रोणयः ॥

म्लेच्छाध्यक्षवरा मुख्या हन्यन्तेऽस्त्रिभिः सदा ।
हस्तचित्रौ यदा भूमिश्चलते सन्ध्ययोर्यदा ॥

म्लेच्छतस्करनराध्यक्षा हन्यन्ते शस्त्रिभिः सदा ।
स्वात्या विशाखयुक्त्या वै नक्षत्रेष्वेव योजिता ॥

चलते मेदिनी कृत्स्ना दृश्यन्ते वणिजा परे ।
वणिजाध्यक्षवराः श्रेष्ठा मुख्याश्चैव शुक्लिनः ॥

व्याधिभिः शस्त्रसम्पातैर्विनश्यन्ते जलचारिणः ।
अनुराधे ज्येष्ठविख्याते नक्षत्रेष्वेव सर्वदा ॥

भ्रमते वसुमती कृत्स्ना नमते चापि दारुणम् ।
यदा उन्नतनिम्नस्था पर्वता निम्नगा वरा ॥

क्ष्मातलं कम्पते क्रूरम् उभौ सङ्ख्ये तदा परे ।
भवेत् तत्र भयं क्षिप्रं दुर्भिक्षं चापि निन्दितम् ॥

मरणं दिवसैः षड्भिर्महानृपस्य भवेत् तदा ।
नश्यन्ते पुरवरा क्षिप्रं मध्येदेशेषु ते जनाः ॥

ईषच्च चलिता भूमिरनुराधायां शुभोदया ।
सस्यनिष्पत्ति सर्वत्र मध्या यदि जायते ॥

२०९, प्। २०९)

मूलाषाढमिति ज्ञेयं नक्षत्रेष्वेव कम्पते ।
पूर्व उत्तराषाढे तृधा दुःखसमोदये ॥

व्याधिदुर्भिक्ष सर्वत्र तस्करादिभि पीड्यते ।
मेदिनी सर्वतो ज्ञेया यदि कम्पो भवेद् दिवा ॥

श्रवणासु चलिता भूमिर्धनिष्ठेष्वेव सर्वतः ।
सुभिक्षमायुरारोग्यं दुर्भिक्षैश्चापि वर्जिता ॥

मेदिनी सस्यसम्पन्ना यदि कम्पो भवेन्निशम् ।
शतभिषे भद्रपदे चापि यदि कम्पेत मेदिनी ॥

दुर्भिक्षं राष्ट्रभङ्गं वै दृश्यते तत्र आस्पदे ।
हन्यते तस्करे मर्त्या दुर्भिक्षं चापि कुत्सितम् ॥

भवन्ति भूतले मर्त्या अर्धरात्रे निशि कम्पते ।
उत्तरासु च सर्वासु रेवत्यासु च कीर्त्तिता ॥

उभौ नक्षत्रौ सर्वत्र रेवती भद्रपदस्तथा ।
एतेष्वेव हि सर्वत्र यदा कम्प अजायत ॥

नक्षत्रेष्वेव पूर्वोक्तकम्पो दृष्टः सुखावहः ।
एते कम्पा समाख्याता निर्घाता वरचिह्निता ॥

उल्कापातसमे काले त्रिदोषा जन्तुपीडना ।
निर्याते च यदा पूर्विं निर्दिष्टं विस्तरान्वितम् ॥

गुहास्तत्रैव कर्तव्या सर्वं चैव दिशाह्वये ।
सरवः कम्पनिर्दिष्टः सालोकश्चापि सुखान्वितम् ॥

सिद्धिकाले तदा सर्वे दृश्यन्ते मन्त्रजापिनाम् ।
योगिनां च तथा सिद्धि अभिक्षां तु सम्भवे ॥

बोधिसत्त्वानां तथा जाते बुद्धबोधिं च प्राप्तये ।
प्रभावा ऋषिमुख्यानां बुद्ध्या वर्जितचेतसाम् ॥

सुरश्रेष्ठस्तदा काले आगमं चापि कीर्तयेत् ।
सालोका सरवा मूर्वी घोषनिःस्वनगर्जनम् ॥

२१०, प्। २१०)

कम्पमुत्पद्यते क्षिप्रम् एतेष्वेव च कारणैः ।
निःशब्दा च निरालोका यदा कम्पेत मेदिनी ॥

नारकाणां तु सत्त्वानां चलितानां तु निर्दिशेत् ।
दुःखं बहुविधैः खिन्ना मया कायाति भीषणा ॥

तेषां च कर्मजं दुःखं पश्यमावृत्ति दृश्यते ।
कथितां कर्मनिर्घोषां तं जनानृषिसत्तमा ॥

निबोध्यमखिलं सर्वं धारयध्व सुखेच्छया ।
केतुना दृश्यते सर्वं गगनस्थं तु कीर्तयेत् ॥

रात्रौ दिवा च कथ्येते दृश्यन्ते चोत्तरा नभे ।
मध्याह्नि सर्वत्र दृश्यते दीर्घतो ध्रुवा ॥

धूम्रवर्णा महारश्मा धूमायन्तं महद् भयम् ।
यदेव देशमाशृत्य धूमयेत् नभस्तलम् ॥

तदेव देशे नृपो ह्यग्रो हन्यते व्याधिभिर्ध्रुवम् ।
यदेव ग्रहमाशृत्य वारं नक्षत्रमुज्ज्वला ॥

दृश्यते धूम्ररेखायाः गगने चापि उज्ज्वलम् ।
तदेव राशिनक्षत्रं ग्रहं चैव सुलक्षयेत् ॥

तदेव हन्यते जन्तुः शस्त्रिभिर्व्याधिभिस्तदा ।
यस्मात् तु दृश्यते रेखा धूम्रवर्णा महद्भया ॥

तं देशं नाशयेत् क्षिप्रं ग्रहः क्रूरो न संशयः ।
स्निग्धा च नीलसङ्काशा धूम्ररेखामजायत ॥

तच्छिवं शान्तिकं विन्द्यादायुरारोग्यवर्धनम् ।
रूक्षवर्णा विवर्णा वा धूम्रवर्णा तु निन्दिता ॥

प्रशस्ता शुक्लसङ्काशा चतुरश्मिसमुद्भवा ।
सौम्या कीर्तिता नित्यं शुभवर्णफलप्रदा ॥

कीर्तिता पुष्पलक्ष्मीकं तं विन्द्याद् यत्र मा तिथाः ।
हिमपुञ्जनिभा शुभ्रा स्निग्धस्फटिकाविधा ॥

२११, प्। २११)

सोमसौम्य विज्ञेया रूक्षवर्णसमप्रभा ।
कल्याणं चार्थनिष्पत्तिं दुःखनिर्वाणते दृशम् ॥

नक्षत्रे वापि युक्तेऽग्रे तले तारकमण्डले ॥

निर्गते नभसि विख्याते दृश्यते यं महीतले ।
सर्वा समन्तादायुरारोग्यं जाता ये तारकाश्रयाः ॥

प्रभविष्णु भवेत् तत्र सुखी धर्मचरः प्रभुः ।
श्रेष्ठो जायते मर्त्यः तस्मै नक्षत्रमाश्रयेत् ॥

ग्रहे वा शुचिते प्रोक्ता सर्वदुःखनिवारणी ।
रेखा च दृश्यते यत्र तं विन्द्यात् सुखसमर्पितम् ॥

प्रहृष्टरूपसम्पन्नस्निग्धाकारभूषितम् ।
रेखा नभस्तले याता धूमायन्ती महद्भया ॥

ततोऽन्यश्रेयसि युक्ता प्रशस्ता वापि नभस्तले ।
शिवं सुभिक्षमारोग्यं तं देशं विदुर्बुधाः ॥

धार्मिकं तत्र भूयिष्ठं धूमकेतोरजायते ।
सिता स्फटिकसङ्काशा प्रभाः सञ्चेयु सर्वतः ॥

एकशः श्रीमतो ख्याताः तारकेऽस्मिं नभस्तले ।
ततः स्फटिकसङ्काशा रश्म्या चापि मूर्तिजः ॥

प्रभवह् श्रीमतः ख्यातः तस्मिन् नक्षत्रमाश्रयेत् ।
केतवो बहुधा ह्युक्ता सहस्रौ द्वौ त्रयोऽथ वा ॥

त्रिंशमेकं च बहुधा नानाकर्मफलोदया ।
केचिच्छ्रेष्ठा तथा मध्या केचिद्धर्मपरान्मुखाः ॥

उदयन्तं तदा केचिन्महद्भयसुदारुणा ।
स्निग्धकारसमा ज्ञेया स्फटिकाकारसमप्रभा ॥

स्निग्धा शोभना ज्ञेया स्फटिकाकारसमप्रभा ।
स्निग्धा शोभना ज्ञेया चारुवर्णाल्पभोगता ॥

२१२, प्। २१२)

केचित् तिर्यगः क्रूरा उत्तरा दक्षिणा परा ।
श्रेयसा चैव भूतानाम् उदयन्ते शशिसमप्रभा ॥

महाप्राणा विकृतास्तु अतिदीर्घा नृपनाशना ।
मध्ये उदिता ह्येते प्राच्यावस्थितरश्मिजाः ॥

पूर्वपश्चिमतो याता पूर्वदेशाधिपतिं हनेत् ।
पूर्वपश्चिमतो याता पश्चाद् देशा नृपतिं हनेत् ॥

समन्ताद् रश्मिजातायाः समन्ताद् दुर्भिक्षमादिशेत् ।
विदिक्षा ह्युदिता ह्येते म्लेच्छप्रत्यन्तगणाधिका ॥

निहनेत् सर्वतो याता तस्मिं स्थाने समादिशेत् ।
धूम्रवर्णा विवर्णास्तु रूक्षवर्णा महाभयाः ॥

प्रभवः सर्वतो याता सर्वप्राणिषु आदिशेत् ।
दिवा सर्वतो नित्यं मध्याह्ने यदि दृश्यते यदा ॥

महद् दुःखं महोत्पातं नृपतीनां तदा विंशेत् ।
यत्र तिर्यग्गता रेखा यत्र स्थिते समोदिता ॥

तत्रस्था नृपतिं हन्ति यस्मिं देशे समागता ।
दिवा विदिक्षु निर्दिष्टा महाव्याधिसमागमम् ॥

तस्करोपद्रवां मृत्युं तस्मिं स्थाने समादिशेत् ।
नीलवर्णं यदाकाशे दिवा पश्येत केतवम् ॥

विविधायासदुःखैस्तु विविधोपद्रवभूमिषा ।
समन्तात् कथिता ह्येते महादुःखभयानकाः ॥

यातिरौद्रा दिवाह्युक्ता रात्रौ केचित् शुभोदया ।
रक्तवर्णं यदा पश्येत् केतुश्चन्द्रसमाश्रितम् ॥

रुधिराक्तां महीं क्षिप्रं शस्त्रसम्पातितं तदा ।
पृथिव्यां क्षिप्रमसृक्र ** (?) रात्र्यवसुन्धराम् ॥

बहुसत्त्वोपघाताय बहुदुःखनिराश्रयम् ।
जायन्ते जनपदास्तत्र तस्मिं स्थाने समादिशेत् ॥

२१३, प्। २१३)

पीता च पीतनिर्भासा दृश्यते व्योम्नि मूर्तिना ।
हरिद्राकारसङ्काशा हरितालसमप्रभा ॥

हेमवर्णा यदाकाशे केतवो उदयन्ति वै ।
तत्र विद्यान्महद् दुःखं सर्वसत्त्वेषु लक्षणम् ॥

महामारिगताध्यक्षो जनास्वेव निबोधिता ।
द्वादशाब्दं तथा हन्ति अनावृष्ट्योपद्रवादिषु ॥

अतिकृष्णा रौद्रमित्याहुरतिधूम्रास्तु वर्जिता ।
अतसीपुष्पसङ्काशा पावकोच्छिष्टवर्जिता ॥

महामेघसमाकारा नीलकज्जलवर्णिता ।
वराहाकार तथा केचित् परपुष्टसमप्रभा ॥

दृश्यन्ते गगना घोरा तस्माद् देशादपक्रमेत् ।
महाक्रूरा तथा रौद्रा दृश्यन्ते क्रूरकर्मिणः ॥

महादुःखं महाघोरं मार्योपसृष्टिरेव वा ।
महादुर्भिक्षमित्याहुस्तस्मिं देशे भयानकम् ॥

ओडूपुष्पसमाकारं रक्तभास्करविद्विषम् ।
असृग्वर्णं यदा पश्येदुदितं केतुनभस्तलम् ॥

सर्वत्र व्याधितद्वेगं बहुसत्त्वोपरोधिनम् ।
नृपतीनां तदा मृत्युस्तत्क्षणादेवमादिशेत् ॥

अकस्मात् पश्यते यो हि नरो वा यदि वा स्त्रियः ।
तस्य मृत्यु समादिष्टं सप्ताहाभ्यन्तरेण तु ॥

द्विरात्रैस्त्रिभिर्वापि दिवसैः शस्त्रिभिर्हन्यते ।
तदा दिवा वा यदि वा पश्येदकस्मान्निशिरेव वा ॥

तस्य मृत्यु समादिष्टा तत्क्षणादेव भूतले ।
विषेण हन्यते जन्तुः शस्त्रिभिर्वा न संशयः ॥

शुक्ला स्निग्धवर्णाश्च निशि*(?) सुखोदया ।
अन्यथा दर्शनं नेष्टं विविधाकाररूपिणाम् ॥

२१४, प्। २१४)

स्वकायपरकाये वा यदि केतुसमाश्रिता ।
रात्रौ चापि दिवा चापि सद्यः प्राणहराः स्मृता ॥

शुक्लवर्णां यदा पश्ये शशिगोक्षीरसमप्रभाम् ।
हिमकुन्दसमाकारां नानारत्नसमप्रभाम् ॥

तस्य राज्यं समाख्यातं सिद्धिर्वा मन्त्रजापिने ।
एते केतवो इष्टा शरीरे मन्दिरेऽपि वा ॥

स्वसैन्यपरसैन्ये वा यत्रस्थं तत्र फलप्रदम् ।
तमाहुः कीर्तितां श्रेष्ठां नानाचित्रसमप्रभाम् ॥

दृश्यन्ते सर्वतो मर्त्यैः वह्वार्थावहाः स्मृताः ।
सर्वतः कथिता मर्त्यैर्विग्रहे मन्दिरेऽपि वा ॥

केतवः सिद्धकायानां सर्वेष्टाः सफलाः स्मृताः ।
अन्यथा कुत्सिताः सर्वे बहुदुःखभयप्रदाः ॥

सर्वे वै कथिता ह्येते केतवो ग्रहचिह्निताः ।
पूर्ववत् कथितं सर्वं तिथिनक्षत्रराशिजाः ॥

विविधैर्वारयोगैस्तु ग्रहैश्चापि महर्द्धिकाः ।
पूर्ववत् सर्वमित्येषां कथिताः सर्वतः लोके ॥

तदा सर्वे ते सञ्ज्ञिनो केचिच्चारुसमप्रभा ।
चित्रा क्वचित्ततः शुभ्रः स्निग्धो वर्णतः शुभः ॥

सुनेत्रो नेत्रनामः शशिकुन्दसमप्रभः ।
सुभ्रू सुनयनश्चैव रुग्मवर्णः सहेमजः ॥

सर्वे सिता विचित्राश्च नानानामसमोदिताः ।
षड्वर्णानामपि तेषां केतूनां निबोधिता ॥

नानावर्णरूपाणां तत्सञ्ज्ञाश्च प्रयोजयेत् ।
नानाविकृतिनो येऽपि येऽपि घोराः सुदारुणाः ॥

ये मया कथिता **(?) तत्सञ्ज्ञाश्च सर्वतः ।

२१५, प्। २१५)

मानुषाणां तदा चक्रे सुभाशुभफलोदयाः ।
विग्रहा ग्रहमुख्यानां दृश्यते च समन्ततः ॥

देवासुरे च युद्धे वै दर्शयन्ति तदात्मनाम् ।
महाप्रभावा महेशाख्या दिव्या दिव्ययोनयः ॥

सिताः शुभोदयाः सर्वे देवपर्षत्समाश्रिताः ।
विकृताविकृतरूपास्तु कुत्सिता विकृतवर्णिनः ॥

सर्वे वै असुरपक्षे तु क्रूरकर्मान्तचारिणा ।
यदा देवासुरे युद्धे वर्तमाने महद्भये ॥

असुराः पराजिता देवैः केतवः सूचयन्ति ते ।
दर्शने भूतले मर्त्यं प्रदद्युः सर्वतो नभः ॥

सिताः शुभफला नित्यमिष्टाश्चैव सुरप्रिया ।
दर्शयन्ति तदात्मानं देवपक्षसमाश्रिताः ॥

मर्त्यानां तदा क्षिप्रं सुभिक्षमारोग्यविनिर्दिशेत् ।
असुरैर्निर्जिता देवा यदा काले भवन्ति वै ॥

तदा विकृवर्णास्तु क्रूरकर्मनियोजिता ।
असुराणां तदा पक्षे केतव उदयन्ति वै ॥

तदा सर्वतः क्रूरा वाता वायन्ति जन्तुनाम् ।
महावृष्टिमनावृष्टिनागाश्चैव क्रूरिणः ॥

मुमोच विषजां तोयं बहुव्याधिसमाकुलम् ।
मानुषाणां तदा चक्रे विषविस्फोटमूर्च्छनम् ॥

विविधा राक्षसा चैव दैत्ययक्षसमाश्रिता ।
कुर्वन्ति मानुषां हिंसामतिदारुणविघ्नकाम् ॥

प्राणापरोधिनं दुःखं कुर्वन्तीह महीतले ।
अश्मवृष्टिं तदाकाशे प्रपतेद् भूतले तदा ॥

महावाताः प्रवायन्ति तस्मिं काले तु भीषणाः ।
प्रचण्डा वायवो वान्ति बहुसत्त्वापकारिणः ॥

२१६, प्। २१६)

नानातिर्यगता प्राणा सप्त्वनाशं प्रचक्रिरे ।
बहुभूतगणाः क्रूरा कुर्वन्तीह च भूतले ॥

मानुषाणां तदा विघ्नं चक्रिरे प्राणोपरोधिनाम् ।
एवम्प्रकारा ह्येकाश्च बहुविघ्नसमाश्रया ॥

नानातिर्यग्गताश्चैव चण्डाः श्वापदमौरगाः ।
विविधा नागयोनिस्था सत्त्वानामपकारका ॥

प्राणोपरोधिनं कुर्वन्ति विविधा म्लेच्छतस्करा ।
कपिला भासतो वर्णा वाता क्रूराश्च अग्निजाः ॥

वायन्ति विविधा लोके यदा देवपराजयेत् ।
अधर्मिष्ठा तदा मर्त्या जाम्बूद्वीपगता सदा ॥

तदा ते देवपक्षास्तु हीयन्ते दैत्ययोनिभिः ।
यदा धर्मवतः सत्त्वा भूतलेऽस्मिं समागता ॥

बुद्धधर्मरताः श्रेष्ठा सङ्घे चैव सदा वरा ।
मातृपितृभक्ताश्च सत्यसत्त्वा जपे रता ॥

तदा ते सर्वतो देवा निर्जिजे दैत्ययोनिजम् ।
तदा सस्यफलसम्पन्ना बहुपूर्णा वसुन्धरा ॥

दीर्घकालायुषो मर्त्या बहुसङ्क्यपरायणा ।
धार्मिका नृपतयः सर्वे सुखदाः सौख्यपरायणाः ॥

तदा तासु सुखा सैत्या ह्लादिनो व्याधिनाशकाः ।
भवेयुः सर्वे ते लोके सुखकारणशीतलाः ॥

गतिशीता न चोष्णा वै ऋतवः सुखदा सदा ।
नानापक्षिगणाश्चैव कू*(?)येन्मधुरं सदा ॥

बहुपुष्पफलाढ्या तु तरवः सर्वतो शुभा ।
सर्वे व्याधिविनिर्मुक्ता जन्तयो ***(?)सिनः ॥

न चोद्वेगं तदा चक्रे नृपतिर्धार्मिको भवेत् ।
बहुधान्***(?)श्चैव नानारत्नथमन्दिराम् ॥

२१७, प्। २१७)

पश्यते सर्वयोन्यांस्तु जम्बूद्वीपगता नराः ।
फलाढ्या तरवो नित्यं बहुक्षीराश्च धेनवः ॥

धर्मायतनशत्राश्च कूपवाप्य समन्ततः ।
कुर्वन्ते च जनाः सर्वे जम्बूद्वीपगता नराः ॥

बहुधा बहुविधाश्चैव प्राणिधर्मरतः स्थिताः ।
समन्तात् सर्वतो तेषां यस्य पूर्णा वसुन्धरा ॥

विपरीता तदन्यथा तेषां भ्रष्टमर्यादचेष्टिताम् ।
कर्मे युगाधमे काले अन्यथा फलमादिशेत् ॥

निःफलं सफलं चैव * * * * * * * * (?) ।
विकृतं हेतुजं कर्म अशुभा चैव कामयेत् ॥

इति ।

बोधिसत्त्वपिटकावतसङ्कान्महायानवैपुल्यसूत्राद्
आर्यमञ्जुश्रियमूलकल्पाच्चतुर्थो निमित्तज्ञानमहोत्पादपटलपरिवर्तः
परिसमाप्त इति ।
२१८, प्। २१८)