१९

अथ एकोनविंशः पटलविसरः ।

अथ खलु भगवांश्छाक्यमुनिः पुनरपि शुद्धावासभवनमवलोषय
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म ॥

अस्ति मञ्जुश्रीः ! तृतीयमपि ज्योतिषज्ञाननियमपरिवर्तं भाषिष्ये पूर्वकैः
सम्यक् सम्बुद्धैर्भाषितं चाभ्यनुमोदितं च त्वदीयमन्त्रतन्त्रार्थकल्पितम् ।
शृणु साधु च सुष्ठु च मनसि कुरु ॥

एवमुक्ते भगवता शाक्यमुनिना मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः
उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां
प्रतिष्ठाप्य येन भगवां तेनाञ्जलिं प्रगृह्य भगवन्तमेतदवोचत् । तत् साधु
भगवां भाषतु ज्योतिषज्ञानपटलविसरम् । तद् भविष्यति सत्त्वानामर्थाय
हिताय सुखाय । देवमनुष्याणां सर्वमन्त्रचर्यानुप्रविष्टानां च
सत्त्वानामनुत्तरायां सम्यक् सम्बोधो अभिप्रस्थितानां च
उपायकौशल्यमन्त्रचर्या सुखेन साधयिष्यन्ति । सर्वसत्त्वानुकूलं
योगविधानकर्मानुकूलं कालनियमनिष्यन्दितकर्मस्वकतां
नक्षत्रवारग्रहयोनिक्षेत्रराशिसमोदयाम् । तद् भविष्यति सुखसाधनोपायं
मन्त्रानुवर्तनं सुखविपाकं तद् भविष्यति ते बोधिसत्त्वानां
विष्पन्दितविकुर्वण ऋद्ध्यधिष्ठानम् ॥

एवमुक्ते मञ्जुश्रिया कुमारभूतेन अथ भगवां मञ्जुश्रियं
कुमारभूतमेतदवोचत् । साधु साधु मञ्जुश्रीः ! यस्तथागतमेतमर्थं
परिपृच्छसे । तेन हि शृणु साधु च सुष्ठु च मनसि कुरु । भाषिष्ये
सर्वसत्त्वानामर्थाय ॥

एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवतश्चरणयोर्निपत्य निषण्णो
धम्रश्रवणाय ॥

अथ भगवां सर्वावन्त शुद्धावासभवनमाभया स्फुरित्वा
सर्वशुद्धावलोकनद्य**(?) नाम **(?) समापद्यते स्म । समनन्तरसमाप(?)य
भगवतः **************** (?)जष्ठस्फटिकवर्णादयो रश्मयो **(?)रन्ति स्म ।
निर्गत्य च सत्त्वानां बुद्धक्षेत्रां *******(?)र्वाणि च

१८२, प्। १८२)

ग्रहनक्षत्रयोनिं समाश्रयराशितारां भवनान्यवभास्य गगनतलगतां
नरकतिर्यक्प्रेतदेवभवनमनुप्यसर्वसत्त्वभवनानि भावभास्य सर्वदुःखानि
च प्रतिप्रश्रभ्य सर्वसत्त्वाना। पुनरेव भगवतः शाक्यमुनेः कायेऽन्तर्द्धीयते
स्म ॥

अथ भगवांश्छाक्यमुनिस्तस्मात् समाधेर्व्युत्थाय सर्वां तां
नक्षत्रग्रहराशिदेवसङ्घानामन्त्रयते स्म । शृण्वन्तु भवन्तः
सर्वनक्षत्रदेवसङ्घाः ! यो ह्यस्मिन् धर्मविनये मन्त्रचर्यायां समनुप्रविष्ट
इह कल्पविसरे तत् साधयेत् सर्वमन्त्राणां सर्वद्रव्यकर्मविधानादिषु न
भवद्भिस्तत्र विघ्नं कर्तव्यं सर्वैरेव सन्निपतितैः रक्षाविधानसान्निध्यं
कथयितव्यम् । यो ह्येनं समयमतिक्रमेत् तस्य यमान्तकः क्रोधराजा
सर्वनक्षत्रग्रहाणां तत्क्षणादेवमपर्यन्तलोकधातुस्थितानां ससुतानां
सबान्धवां सपार्षदानानयति स्म दमयति स्म समनुशासयति स्म भगवतः
समीपमुपनामयति स्म सर्वेषां च मूर्धनि स्थित्वा पादेनाक्रम्य विविधानि
क्रूरकर्मऋद्धिप्रातिहार्याणि दर्शयति स्म बुद्धाधिष्ठानेन प्राणैर्वियोजयति
स्म समये च स्थापयति स्म विकृतरूपमात्मानं दर्शयति स्म अन्ते
सर्वभूतयक्षराक्षसनक्षत्रग्रहराशयो निसत्त्वगरुडमरुतमहोरगगणा
सर्वैर्भीतास्त्रस्ताः तह्रथरायमानाः महाविक्रोशं कुर्वाणः भगवतः
पादयोर्निपत्य प्रकम्प्यमाना एवमाहुः - परित्रायस्व भगवं परित्रायस्व ।
सुगत अनाथाः स्म अत्राणाः स्म महाक्रोधराज भयभीता जीवितं नो भगवां
समनुप्रयच्छास्माकम् इत्येवमुक्त्वा तूष्णीम्भूताः प्रवेपमानगात्राः ॥

अथ भगवांश्छाक्यमुनिः । तां नक्षत्रग्रहसङ्घातांश्च
यक्षराक्षसप्रेतपिशाचमातरगणानामन्त्रयते स्म । मा भैष्टथ मार्षाः !
मा भैष्टथ मार्षाः ! नास्ति तथागतानामन्तिक उपसङ्क्रान्तानां भयं वा
मरणं वा । सर्वदुःखा निवार्यो हि मार्षाः ! बुद्धं मरणं गच्छेत्
विपदानामग्र्यं धर्मं ******(?) (?)रागाणामग्र्यं (?)रणं ग(?)
गणानामग्र्यं न तस्य ******(?)हर्षम् । वाञ्छन्ति तत्त्वो **(?) पुनर्वादो
मृत्युभयं सर्वभयदुःखे ******(?) एव द्रष्टव्यः । सर्वसांसारिकं भयं
न कदाचिद् विद्यते ।

१८३, प्। १८३)

दुःखो नमं शान्तिं निज्वरं सन्नियतं बोधिपरायणं पामनाप्युयादिति ॥

अथ तत्क्षणादेव भगवता तेषां सर्वदुःखानि ऋद्ध्या प्रतिप्रमुन्धानीति
यमान्तकश्च क्रोधराजा भगवतश्चरणयोर्निपत्य मञ्जुश्रियस्य कुमारभूतस्य
समीपे सन्निषण्णो धर्मश्रवणाय ॥

सर्वे च ते ग्रहनक्षत्रगणाः सर्वदुःखानि च प्रतिप्रश्रभ्यन्ते स्म । सर्वश्च केतवो
प्रशान्ता निषण्णाश्च धर्मश्रवणाय स्वस्थीभूता एकाग्रमनसो भगवन्तं
व्यवलोकमाना विस्मयोत्फुल्लनयना *(?) द्विल्पमनसश्च संवृत्ता अभूवम् ॥

अथ भगवता लोकानुकम्पार्थं तथा तथा धर्मदेशना कृता
चतुर्यासत्त्वसम्प्रयुक्ता यथा यथा तैः सत्त्वैः कैश्चित् सत्यानि दृष्टानि
कैश्चिदर्हत्वं कृतम् कैश्चित् प्रत्येकबोधः कैश्चिदनुत्तरायां सम्यक्
सम्बोधोचितान्युत्पादितानि सर्वं च नियताव्याकृतानुत्तरायां सम्यक् सम्बोधो
सर्वैश्च पिथितान्यपापदुर्गतिविनिपातानि देवमनुष्योपपत्तौ द्वाराण्युत्पादितानि
स्वर्गार्गलमपावृतम् । सर्वे च समयमधितिष्ठन्ति ॥

अथ भगवांश्छाक्यमुनिस्तेषामनुशयं ज्ञात्वा
विनयकालसमयमनन्तरमेव तेषां विनीतां सत्त्वां ज्ञात्वा धर्मं भाषते
स्म ॥

अरिदुःखसमाक्रान्तं दोषजं विनिधाश्रयम् ।
अभावो देवगणाः सर्वे पूज्यन्ते शासने इह ॥

आरभध्वं परं वीर्यं बोधिसोपानहेतुकम् ।
प्राप्नुयादेव सङ्घाताः शान्तनिज्वरमालयम् ॥

अशोकं विरजं क्षेमं निर्वाणं वापि नैष्ठिकम् ।
निर्मलं गगनतुल्याख्यम् अभावं तु स्वभाविकम् ॥

परं प्राप्स्यथानिन्दितं दिव्यं सुजुष्टमनावृतम् ।

भावयन्तं **(?) सर्वं प्रा(?) च नैष्ठिकमिति ।
मन्त्रतन्त्रां ****** (?) चर्या चैव सुखोदया ॥

कथिता जिनवरैः श्रेष्ठा मन्त्रसिद्धिरुदाहृता ।

१८४, प्। १८४)

कथिता मन्त्रसिद्धिस्तु फलकाले समोदये ।
विचित्रं कर्मणां जाति विचित्रेव योजिता ॥

विचित्रा कर्मतः सिद्धिर्विचित्रं कर्मयोनिजम् ।
विचित्रा चित्ररूपेण मन्त्रैरेभिर्नियोजिता ॥

विचित्रार्थाः कर्मविस्तरा विचित्रं कर्म उच्यते ।
कर्म चिन्त्या तथा चित्रम् अचिन्त्यं चापि चिन्तितम् ॥

तस्मात् प्रारम्भन्मन्त्री मन्त्रचित्तेषु पुष्कलाम् ।
राशयः कथिताश्चित्रा तेषु जाता नरा सदा ॥

सदेवासुरमुख्यास्तु विविधा प्राणिविहङ्गमा ।
तेषां च यानि चिह्नानि तानि सिद्धिषु योजयेत् ॥

मेषराशौ तथा जातः मनुजा वा दिवौकसा ।
बह्वपत्यो बहुभाष्यो सुरूपश्चापि जायते ॥

वणिक् शीली तथा शूरः मनुजः स्त्रीषु वर्णितः ।
वक्रो लुब्धचित्तश्च भूपतिर्गृहसेविनः ॥

तत्रस्थश्चन्द्रमा प्रोक्तः सर्वकर्मे प्रयोजयेत् ।
आदित्यो यदि दृश्येत मेषराशिसमाश्रितः ॥

तत्र कर्म सदा सिद्धि क्रूरकर्मसुयोजिताम् ।
यानं गमनं चैव आसनं शयनं सदा ॥

न भजेत् तन्त्रमन्त्रज्ञो विरुद्धा सर्वयोगिभिः ।
तत्र जातः सदा मर्त्यो मन्त्रं देयाभिचारुकम् ॥

वृषराशौ तदा जातो मनुजो भोगवान्सदा ।
स्त्रीषु कान्तः सदा लुब्धः धर्माधर्मविचारकः ॥

ग्राम्यसेवी सदाध्यक्षो देवराङ्गानि बोधता(?) ।

भवेत् तस्य चित्तं वै (?)श्रयता सदा ।
तस्य मन्त्रा सदा दे
*(?) जिनभाषितः ॥

१८५, प्। १८५)

तेन चन्द्रार्थयुक्तेनराश्रयोऽर्थनिबोधिताः ।
गमनागमनं कर्म स्मश्रुकर्म च युक्तिमाम् ॥

आचरेद् ग्रहकर्माणि न कुर्याद्याभिचारुकम् ।
सर्वकर्मसमुद्योगं मन्त्रसिद्धिसुखोदयम् ॥

आलिखेन्मण्डलादीनां बुद्धबिम्बांश्च कारयेत् ।
सिद्धद्रव्यसुराश्रेष्टा साध्यमाना दिवौकसा ॥

सिध्यन्ते मन्त्रिभिर्युक्ता नक्षत्रेष्वेव रिसिषु ।
मिथुनायां यदा जातो मानुषोऽथ दिवौकसः ॥

तेषां च गतिचिह्नानि सिद्धिकालं निबोधताम् ।
आढ्यो उद्युक्तचित्तश्च शठो मूर्खोऽथ जायते ॥

तत्रस्थो यदि विख्यातः नक्षत्रा निशि भूषणम् ।
ततः कान्तो कवेन्मर्त्यो बन्धूनां वल्लभः सदा ॥

धनाढ्यो युक्तिमन्तश्च महेशाख्योऽथ जायते ।
शेषै ग्रहैः क्रूरैस्तु विविधैश्चापि कुत्सितैः ॥

जायते धूर्त्तरागार्त्तः व्याधिभिश्च समाकुलः ।
नेदद्युस्तस्य मन्त्रा वै शान्तिकं पौष्टिकं परम् ॥

क्षुद्रां कश्मलांश्चैव क्रव्यादां पिशिताशिनाम् ।
क्रूरै ग्रहमुख्यैस्तु दर्शनाश्च भवेत् सदा ॥

एतेषां मन्त्रसिध्यर्थं क्रूरकर्मेषु योजये ।
निषिद्धं गमनं तत्र अग्रपञ्चविवर्जितम् ॥

गमनागमनयोस्तत्र न सिद्धिः सर्वकर्मसु ।
क्षुद्रकर्म तथा तेषां दद्यः सर्वतो जानाम् ॥

सिताख्यौ ग्रहमुख्यौ तौ पातकौ द्वे परेऽपरौ ।
चतुर्था ग्रहमुख्याना दर्शनं श्रेयसोद्भवम् ॥

उभौ रक्तौ उभौ कृ**(?) **(?) क्रूरकर्मिणाम् ।
सितौ शुक्लेन्दुमुख्यौ *(?) पीतकौ बुधबृहस्पतौ ॥

१८६, प्। १८६)

अर्काङ्गारकश्चैव रक्तौ तौ दिशि भूमिजौ ।
षण्डो राहो तथा कृष्णौ विचित्रा शेषका ग्रहाः ॥

नानाग्रहगृहा प्रोक्ता विचित्रा धातुसुभूषिताः ।
विचित्राकृतयः केचिद् विचित्रप्रहरणोद्यता ॥

नानाधातुगणाध्यक्षा नानाऋषिपुरातनै ।
शेष्यन्ते ग्रहाणां सर्वम् अप्सराभिश्च किन्नरैः ॥

गगनस्था वर्णतो याता गतियोनिविदिता ।
अन्तरीक्षचराः सर्वे नक्षत्रैः सहचारिणः ॥

व्योम्नि धानसमायाता विचित्रा गतिचेष्टिता ।
महर्द्धिका प्रभावतः गत्या रूपवेषसमाश्रयात् ॥

कथिता मुनिवरैः सर्वैः कर्मतत्त्वार्थयोजिताः ।
चतुर्थेऽहनि संयुक्ताश्चतुःसत्त्वनियोजिताः ॥

चत्वारो ग्रहवरा प्रोक्ता सितो पीतोऽर्थसाधकाः ।
शेषाः क्रूरकर्मसु रक्तौ कृष्णौ च योजितौ ॥

नाचरेत् सर्वकर्माणि शान्तिकानि विशेषतः ।
कृष्णरक्तौ ग्रहौ ह्येतौ तिथौ चापि चतुर्दशी ॥

नाचरेत् सर्वकार्याणि क्षुद्रकर्माणि साधयेत् ।
मानुषे साधयेदर्थां गणनामे शुभोदयाम् ॥

तैरेव कारयेत् क्षिप्रम् आसनं शयनं सदा ।
मन्दिरं च विशेद्धीमां सर्वदुर्गाणि कारयेत् ॥

कर्कटराशिजातस्थो दृश्यते मनुजाः शुभः ।
शास्ता च भवेत् क्षिप्रं राजानश्चक्रवर्तिनः ॥

भवन्ते जन्मिनो व्येधो पूर्वकर्मसमूहतैः ।
शुक्रेन्द्रग्र*******(?)र्शनं चैव जातनाम् ॥

शुभेऽह********(?)बोधिसत्त्व अज***(?) ।
पुष्पनक्षत्र********(?) मरुपूजिता ॥

१८७, प्। १८७)

बुद्धास्त्रैलोक्यगुरवोऽन्येऽपि महर्द्धिकाः ।
राज्यकर्मा निकृन्ता च बहुपाणिनराधिपाः ॥

जायन्ते विविधा लोके शन्यर्काङ्गारचिह्निताः ।
केचिज्जनभूयिष्ठा मर्त्या कर्मपरायणा ॥

जायन्ते विविधाचारा पुष्ये जातापि ते सदा ।
तस्मात् कर्मफलं विद्धि गतिमात्मानचेष्टिता ॥

केवलं तु सदाचारा ग्रहकर्मनियोजिता ।
लोकधर्मानपेक्षेह निर्दिशन्ति तथा जिनाः ॥

कर्म लोकवैचित्र्यं लोकधातुसमाधिजम् ।
भाजनं सर्वलोकानामाश्रयोद्भवसम्भवम् ॥

विचित्रं कथितं लोके सुराः ! श्रेष्ठां निबोधताम् ।
कर्मजं हि पुरा प्यासी कथयामास वत्सलः ॥

सत्त्वसाधारणा धीमां बोधिसत्त्वो महर्द्धिकः ।
मञ्जुघोषस्तदा वव्रे सत्त्वानां हितकाम्यया ॥

कर्मजं कथितं सर्वं मन्त्रतन्त्रसविस्तरम् ।
एषो वः सुराः सर्वे धर्मो ह्येकेन यः सदा ॥

कर्कटो राशिजातस्य दद्यान्मन्त्रं तु पौष्टिकम् ।
ततः परेण सिंहस्य राशिर्दृश्यति मानवाम् ॥

सिंहजातो भवेन्मर्त्य अशून् लुब्ध एव तु ।
स्त्रीशठो मांसभोजी स्याद् गिरिकन्दरवासिनः ॥

सेनापत्य तथा नित्यं कारयेच्च वसुन्धराम् ।
महीपालो महाध्यक्षः क्रूरकर्मा सदा शुचिः ॥

कृतघ्नः कृसत***(?) **(?)पकर्मसदारतः ।
मित्रद्रोही ****** (?)श्चैवमजायत ॥

ग्रहैश्चापि सदा (?)पानैश्च धीमतैः ।
जायते धार्मि
**(?)पि शठः स्मृतः ॥

१८८, प्। १८८)

तत्र कर्म समुद्दिष्टं पौष्टिकं सिद्धिलिप्सिताम् ।
उत्तिष्ठं खेचरं चापि अतिमानसमोद्गतम् ॥

नान्यं कर्म समुद्वेतं समानं चापि वर्जयेत् ।
ततः परेण सिंहस्य कन्यराशिरिति स्मृतः ॥

तत्र जातो भवेद्धूर्तस्तस्करः कृपणः शठः ।
स्त्रीषु कान्तः सदा लुब्धः क्रूरः साहसिकः सदा ॥

मूर्खः परदारी च स्तब्धो मानोन्नतः सदा ।
शुभनक्षत्रवारेण शुभदृष्टिग्रहोदितैः ॥

पीतशुक्लैर्ग्रहैर्दृष्टा जायन्ते च महाधनाः ।
शुद्धमन्त्रः सदा धीमान् शुचिवृत्तिसमाश्रये ॥

सम्भूता मन्त्रतन्त्राश्च साधयेत महीतले ।
क्षिप्रमर्थकरा ये तु पुष्ट्यर्था ये तु कीर्तिता ॥

साधयेन्मन्त्रवित् सर्वां जिनाङ्गीकुलयोरपि ।
जिनेन्द्रमुख्या ये मन्त्रा बहुधा चापि कीर्तिता ॥

साधयेन्मन्त्रवित् सर्वां राश्यर्थेष्वेव जातिषु ।
ततः परेण भवेद् राशिः तुलानामनि कीर्तिता ॥

प्रसिद्धां कर्मभूयिष्ठां तन्नासेवेत् तदाश्रिताम् ।
तुलायां जायते धीमान्मन्त्रसिद्धिषु योजितः ॥

न कारयेत् साधकानां सर्वाम् उत्तिष्ठं भूनिबन्धनाम् ।
सर्वमन्त्रप्रसिद्ध्यर्थं गतियोनिषु आचरेत् ॥

धूर्तः कृपणो लुब्धः मत्सरी चैव जायते ।
तुलायां राशिजातस्थो दृश्यते च सदा रतः ॥

तं कुर्यात् सदा मन्त्री तस्मिं राशौ क्षमासृतः ।
यं न चाचक्षते लोके भूमिं ****** (?) ॥

ग्रहमुख्ये तदा जातो पीतै ****** (?) ।
न भजेन्मन्त्रसिद्धिं च यत्नर***** (?) ॥

१८९, प्। १८९)

क्षणमात्रे तथा ****(?)यन्तं नियोजितैः ।
शुभैर्ग्रहैर्यदा दृष्टः पीतैः शुक्लैश्च सर्वतः ॥

महात्मा जायते शूरः धार्मिकोऽथ नराधिपः ।
क्रूरतरैर्ग्रहैर्दृष्टः शन्यर्काङ्गारसिंहजैः ॥

तुलाया जातराश्यर्थः मत्सरो भवते पुमाम् ।
बहुरोगो दरिद्रश्च व्याधिरोगार्तसमुद्भवम् ॥

प्रचण्डः सर्वकर्मेषु क्रूरः साहसिकः सदा ।
न भजेच्छान्तिकर्माणि जिनतत्त्वाङ्गभाषितम् ॥

रौद्रं कुरुते कर्मां वज्रिणे समुदयोदिताम् ।
आभिचारुककर्माणि नानायुद्धकृतानि तु ॥

तस्मिं राशौ सदा तत्र कुले तत्र समुद्भवे ।
कुत्सिता जिनवरैः कर्म सिद्धिमायाति तत्र तु ॥

प्रधानगुणविस्तारं प्रभावं चापि वर्जयेत् ।
प्रवासगमनं चैव नाचरेद्दिशि माशुजम् ॥

मन्दरं वाहनं चापि सत्त्वधातुकृताकृतम् ।
नाचरेत् सर्वकर्माणि तस्मिं राशौ दिवाकरे ॥

वृश्चिकात्तु समुत्पादे सत्त्वयोनि समाश्रयेत् ।
भवते लिङ्गवैचित्र्यं कथ्यमानं निबोधताम् ॥

तीव्रः साहसिकः क्रूरो दुर्धर्षो मानदर्पितः ।
वक्रो लुब्धस्तथा मर्त्यो जायते वसुधातले ॥

प्राज्ञो धार्मिको विद्वान् वक्रश्चैव दुरासदः ।
स्त्रीषु कान्तो भवेन्मर्त्यः कृतज्ञो दृढपराक्रमः ॥

तन्त्रमन्त्रसदोद्युक्तः सेवायां गुरुपूजकः ।

प्रशस्तं *********** (?) र्द्धनम् ।
तेषां दर्शनसिद्ध**(?) मन्त्रिणामूर्ध्वसाधने ॥

१९०, प्। १९०)

शन्यर्काङ्गारकौ राहुः पश्यति तं नरं यदा ।
क्रूरः साहसिको वक्रो जायते रौद्रकर्मकृत् ॥

तेषां च वज्रिणे मन्त्राः सिद्ध्यन्ते क्रूरकर्मिणाम् ।
नागच्छेत् सर्वतो मर्त्यो दिनेष्वेव सुकुत्सितैः ॥

ततः परेण धन्वाख्यं राशिमुक्तं तथागतैः ।
जायन्ते बहुधा मर्त्या गतिदेशसमाश्रयात् ॥

अन्ते च शोभनाः सर्वे वाल्या दुःखभागिनः ।
यथाविभागनिर्देशा आयुषः परिकीर्तिताः ॥

तथा धनार्थनिष्पत्तिं वाचिष्ये अर्थसम्पदाम् ।
स्वयोनिं नाशयेन्नित्यं परयोनिं विवर्द्धयेत् ॥

बद्धपत्यो बहुभाष्य बहुरागरतिप्रियः ।
असंयतो भवेन्मर्त्यः धनूराशिसमाश्रयात् ॥

प्रभुः श्रीमां सदा दक्षो धार्मिको वापि जायते ।
दर्शनं यदि मुख्यानां ग्रहाणां सितपीतकाम् ॥

तेषामाचरेन्मन्त्रा नानाप्रहरणोद्भवाम् ।
नानाशस्त्रफला वापि वस्त्रभूषणवाहना ॥

नानाधातुकृतांश्चैव नानाधातुफलोद्भवाम् ।
सिद्ध्यन्ते तस्य मन्त्रं वै मुनिजुष्टाङ्गसम्भवा ॥

ततः परेण कर्माणि सर्वद्रव्यैस्तु कारयेत् ।
प्रसवेत् सर्वतो मन्त्री गतिदेशनिरत्ययाम् ॥

स्वालयं वाहनं चापि स्वसुतां च निवेशनम् ।
भेषजं सर्वमिष्टं तु महार्थं चोर्ध्वगामिनम् ॥

सिद्धये तस्य मुक्तात्मा क्षिप्रमेव करे स्थिता ।
ततः परेण राश्यायां मक**(?) दृश्यते सम ॥

तेषु जातः सदा मर्त्यः **** (?) लक्षयेत् ।
मातृभक्तो पितृभक्तश्च ख्या*(?) बहुमतः प्रभुः ॥

१९१, प्। १९१)

दुःसहः सर्वदुःखानामाढ्योऽपि धनसञ्चकः ।
कृपणो लुब्धचित्तश्च शठश्चैवमजायत ॥

शुक्रेन्द्रग्रहदृष्टानां सर्वसम्पत्ति जायते ।
कृष्णरक्तग्रहा ये तु क्रूरकर्मा तु पूर्ववत् ॥

नागच्छेत् तत्र मन्त्रज्ञः विदिशां चैव सर्वतः ।
दुष्टां साधयेत् कर्माम् अनिष्टं चैव वर्जयेत् ॥

वमनगमनं चैव उत्तरां दिशिमाश्रयेत् ।
महासमुद्रार्थगतां द्रव्यां नौयानमाविशेत् ॥

प्राप्नुयात् सम्पदां तत्र निम्नमाध्यक्षदेशजम् ।
ततः परेण कुम्भेति मकरात् समुदितात् परः ॥

कुम्भराशिसमाख्येया सत्त्वजाताश्रया सदा ।
बहुधा बहुलिङ्गास्तु कथिता ते नरोत्तमैः ॥

विचित्रा चित्ररूपास्तु वर्णजातिसमाश्रयात् ।
श्यामवर्णो विशालाक्षो जायन्ते बहुमता नराः ॥

मैथुनाशक्तवस्ते तु ग्राम्यधर्मार्थचिन्तकाः ।
कृतज्ञा धार्मिका प्रोक्ता मन्त्रजाः कुम्भराशयः ॥

शुक्लपीता ग्रहा दृष्टा लोकेऽस्मिन् सम्प्रपूजिताः ।
कृष्णरक्ता ग्रहा ये तु दृष्टजातिसमोदया ॥

व्यङ्गा कृपणयो मूर्खा चपलाः तस्करावहा ।
बहुरोगा दरिद्राश्च जायन्ते मानवा सदा ॥

तेषां न कारयेत् कर्म उत्तमं मुनिपूजितम् ।
अङ्गार्थसम्भवा येन दद्युः सर्वकर्मसु ॥

न गच्छेत् प्राप्य ती**(?) अतो नैवापि वर्णितम् ।
कुर्यात् वज्रकुल ****(?) सिद्धिलिलिप्सया ॥

क्रूरं क्रूरकर्मान्तं स्फठुङ्कारभूषितम् ।
मन्त्रं साधयेच्चात्र क्रोधराजसुयोजितम् ॥

१९२, प्। १९२)

सिद्ध्यन्ते पापकर्मास्तु रौद्रकर्मासु योजिता ।
ततः परेण मीनेति राशिरुक्ता तथागतैः ॥

तत्रस्था मानवाः सर्वे दृश्यन्ते बहुलिङ्गिनः ।
मीनराशिसमाजाता रूपाण्येतानि समुद्भवैः ॥

प्रभुर्मानधीः श्रीमां भोगसम्पच्छतान्वितः ।
प्रभवः सर्वलोकानां जायतेऽसौ महीतले ॥

क्षिप्रमर्थकरो धीमां नराधिपोऽथ अजायत ।
शुक्रेन्दुदर्शनाज्जातः भवेल्लोके नरोत्तमः ॥

दर्शनाद् बुधजीवानां धनाढ्योऽथमजायत ।
प्रांशुमूर्त्तिर्विशालाक्षः स्त्रीषु कान्तो भवेत् सदा ॥

वह्वमित्रो नराध्यक्षः कुटिलश्चैवमजायत ।
बहुमित्रोऽथ शुक्रश्च जायते मित्रवत्सलः ॥

ततः परेण क्रूरो वै ग्रहमुख्यो दिवाकरः ।
पश्यते यद्यसौ मर्त्यां शनिराहुसु भूमिजा ॥

तदा कष्टमिति ध्वजः क्रूरश्चैव जायते ।
पूर्ववत् कथिता ह्येते ग्रहाः कृष्णान्तशुक्लयोः ॥

कुर्यात् सर्वकर्माणि मीनराशिसमाश्रयाः ।
तत्रस्थश्चन्द्रमां पश्येत् सर्वांश्चैव साधयेत् ॥

अतः परेण राशीनां गजमानुषमानुषाम् ।
गन्धर्वा राक्षसा गरुडाश्चापि पन्नगाः ॥

तेषां स्वरूपतो जातिगतिदेशमचिह्नितः ।
मना उद्भवस्तेषां लिङ्गैरेवैस्तु लक्षयेत् ॥

यथा **(?)प्रकृतिश्च तथा लिङ्गं विभाष्यते ।

१९३, प्। १९३)

सङ्क्षेपात् कथिता ह्येते कथ्यमानातिविस्तरा ।
मानुषाणां तदा चक्रे नक्षत्रे ग्रहमण्डलैः ॥

अत ऊर्ध्वं तु देवानाम् ऋषीणां च महर्द्धिकम् ।
ज्ञानं प्रवर्त्तते तत्र एतन्मानुषचेष्टितम् ॥

अचिन्त्या बुद्धधर्माणां ज्ञानदृष्टि नरोत्तमाम् ।
साधयेत् सर्वमन्त्रज्ञः राशिजातौ समुद्भवा ॥

सिद्धिस्तेषु सदा प्रोक्ता कृष्णे कृष्णकर्मिणाम् ॥

ग्रहैः सितैः पीतैः दिनैश्चैव समाचरेत् ।
शुक्लपूर्णगता चन्द्रे पौर्णमास्येषु योजयेत् ॥

प्रतिपच्छुक्लपक्षे तु तृतीये चैव रोचयेत् ।
पञ्चमी सप्तमी चैव दशम्येकादशोद्भवाम् ॥

त्रयोदश्यां तथा शुक्ले सर्वकर्माणि आचरेत् ।
पुष्ट्यर्थं शान्तियोगं च गमनागमनं शुभाशुभम् ॥

आलेख्या मन्त्रतन्त्रस्थं नृत्यगीतरतिः सदा ।
भूषणं यानमावासं क्षुरकर्मं च धीमता ॥

प्रयोक्ताः सर्वतो विद्वां मर्त्यैश्चापि श्रीमतैः ।
भोगसम्पत्सदासिद्धिरिष्टसत्वसमागमम् ॥

निर्दिष्टं मुनिमुख्यस्तु अन्य अन्यकर्माणि अन्यतः ।
धनार्थिभिः श्रीमतैः क्षिप्रं कुर्यान्मन्त्रार्थसाधनम् ॥

वारैर्ग्रहवरैर्दिव्यैः सुपूजितैः शुचिमङ्गलैः ॥

तिथियुक्तैः समा*****(?)श्चापि भावयेत् ।
घोरैर्घोररूपैस्तु ग्रहै****(?)भिः सदा ॥

१९४, प्। १९४)

आचरेद् रौद्रकर्माणि कृष्णे कृष्णकर्मिणाम् ।
गतिदेशसमासं च *(?)लिमन्त्रार्थसाधने ॥

ग्रहा राश्यर्थनक्षत्रा तिथयश्च समोदिता ।
कर्मसिद्धिप्रभावं च नियमं सर्वकर्मसु ॥

इति ।

बोधिसत्त्वपिटकावतसङ्कान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात्
सप्तदशमः पटलविसरात् तृतीयो ज्योतिषज्ञानपटलविसरः परिसमाप्त इति ।
१९५, प्। १९५)