१८

अष्टादशः पटलविसरः ।

अथ बह्ग*(?) शाक्यमुनिः पुनरपि शुद्धावासनवनमवलोक्य तं च
पर्षन्मण्डलं मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः !
त्वदीयमन्त्रचर्याभियुक्तस्य बोधिसत्त्वचर्यापरिपूरणार्थाभिप्रायस्य
बोधिसत्त्वस्य महासत्त्वस्य
क्रियाकालक्रमणयोगानुकूलयोगचर्यानुकूलनक्षत्रव्यवहारानुवर्तनक्रंअं
स्र्वमन्त्रचर्यार्थसाधनोपयिकपटलविसरम् । भाषिष्ये तं शृणु साधु च सुष्ठु
च मनसि कुरु ॥

एवमुक्ते भगवता मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् । आश्चर्यं
भगवं ! यावद् भाषितं परमेणानुग्रहेणानुगृहीता बोधिसत्त्वा महासत्त्वा
सर्वबोधिसत्त्वचर्यानुवर्तिनां सर्वमन्त्रचर्यार्थपरिपूरकाणां सत्त्वानाम् ।
तद्वदतु भगवानस्माकमनुकम्पार्थम् ॥

एवमुक्तो मञ्जुश्रीः कुमारभूतः कृताञ्जलिपुटो भगवन्तमवलोकयमानः ताः
तूष्णीमेवमवस्थितोऽभूत् ॥

अथ खलु भगवां शाक्यमुनिर्लोकानुग्रहकाम्यया ।
वज्रेन्द्रवचनं श्रेष्ठं हितार्थं सर्वदेहिनाम् ॥

इदं भोः ! भद्रमुखाः ! श्रेष्ठं नक्षत्रं हिताहितम् ।
सर्वमन्त्रार्थचर्यायां युक्तायुक्ताः समाहिताः ॥

सिद्धमर्थं तथापूर्णमनुकूलं चापि कथ्यते ।
सिद्धिहेतोस्तथा मन्त्री मन्त्रं तन्त्रोपलक्षयेत् ॥

शुचेऽहनि शुचौ देशे शौचाचाररते सदा ।
प्रशस्ते तिथिनक्षत्रे शुक्लपक्षे सदा शुचिः ॥

स्नातो ध्यायी व्रती मन्त्री मन्त्रतन्त्रार्थकोविदः ।
होम जाप तथा सिद्धिं कुर्यात् कर्म सविस्तरम् ॥

रेवती फल्गुनी **** (?) पुष्यार्थसाधिका ।

सिद्ध्यर्थ***** (?) धनिष्ठा चापि ***(?) ॥

१७४, प्। १७४)

सिद्धिहेतोरतत्रा **(?) रोहिण्या मृगशिरास्तथा ।
अश्विन्यौ पुनर्नसूयुक्ते नक्षत्रौ स्वातिरेवतौ ॥

प्रशस्ता गणिता ह्यते विद्यासाधनतत्पराः ।
एतेषामिन्दुवारं तु विधिरेवमुदाहृतम् ॥

शैत्यैः शान्तिकं शेषकाले ततो विद्यापुष्ट्यर्थं चापि तत्परम् ।
मध्याह्ने दिनकरे कर्म चन्द्रे चापि गर्हितम् ॥

अर्धरात्रे स्थिते चन्द्रे कुर्यात् कर्माभिचारुकम् ।
तृतीये याममनुप्राप्ते पुष्टिहेतोः समारभेत् ॥

पुष्ट्यर्थं साधयेन्मन्त्रं भोगहेतोस्तदा नृषु ।
उदयन्तं भास्करं विन्द्यात् सर्वकर्मेषु युक्तितः ॥

रक्ताभावे तथा भानोः कुर्यात् कर्माभिचारुकम् ।
शेषकाले ततो विन्द्यात् पूर्वाह्ने रविमण्डले ॥

युगमात्रोत्थिते तथा नित्यं कुर्याच्छान्तिककर्मणि ।
ततो द्विहस्तितो ज्ञेयं प्रमाणे चैव भगस्तिने ॥

कुर्याच्छान्तिककर्माणि शान्तिकेष्वपि योजिते ।
मन्त्रमुद्रैस्तथाश्रेष्ठैर्जिनाग्रकुलसम्भवैः ॥

मध्याह्ने सवितरि प्राप्ते कुर्यादाभिचारुकम् ।
अतःपरेण आकृष्येद् वश्यार्थं च योजितम् ॥

युगमात्रावनते भानौ अपराहोपगते तथा ।
कुर्यात् सर्वकर्माणि क्षुद्रार्थे च योजिताः ॥

ततः परेण काले ते सूर्यं धानमते तदा ।
वश्याकर्षणसर्वाणि कुर्यात् कर्माणि धीमतः ॥

अस्तं याते**(?) भानौ रक्ता****(?)भे ।
कुर्यात् *(?) (?)र्वाणि रक्ताभा(?) हिताम् ॥

कान्तकामाः **(?)र्यात् कर्मैश्चापि **(?)भिः ।

१७५, प्। १७५)

अतः परेण सर्वत्र सर्वकर्माणि कारयेत् ।
अर्धरात्रे तदा चन्द्रा ग्रहः पश्येद् वसुन्धराम् ॥

प्रविशेत् पश्चिमां दिशां तस्मिन् काले समोदिताम् ।
ततः परेण ग्रहः पश्ये सूर्यो सनराधिपाम् ॥

प्रसवे दक्षिणां देशां सिद्ध्यर्थी मन्त्रयोजितः ।
मर्त्येऽपि लभते क्षिप्रं कार्यसिद्धिं तु पुष्कलाम् ॥

अजापी जापिनश्चापि *** (?) लभते फलम् ।
यथेष्टां कुरुते सिद्धिं जापिनस्यापि धीमते ॥

तृतीये यामे सदा गच्छेद् दिशं चापि यत्नतः ।
दक्षिणपश्चिमान्मध्ये व्रजेत् तत्र फलोद्भवी ॥

उदयन्ते तथा भानौ प्रभवोदुत्तरां दिशम् ।
ततः परेण कालान्ते युगमात्रोत्थिते रवौ ॥

गच्छद् विदिशं तन्त्रज्ञः सिद्धिकामफलोद्भवाम् ।
पश्चिमोत्तरयोर्मध्यं स देशः परिकीर्तितः ॥

अजापी जापिनस्यापि युक्तिरुक्ता तथागतैः ।
निर्दिष्टां कार्यनिष्पत्तौ सिद्धमन्त्रस्य वा तदा ॥

मध्याह्ने पूर्वतो गच्छेद् दिशांश्चैव सर्वतः ।
ततः परेण कर्माणि * * * * * (?) कारयेत् ॥

अर्धरात्रे तदा चन्द्रो ग्रहः पश्येद् वसुन्धराम् ।
कालान्ते विदिशान्ते मुनि * * * * (?) बोधिना ॥

पूर्व***(?)र्मध्ये सदृशः (?) लिप्सताम् ।
तत
*(?) दिशः प्रोक्ता ***(?)क्षिणयोः सदा ॥

कथि***(?)दश्च दिशश्चैव विदिक्षु वा ।

१७६, प्। १७६)

सुरङ्गेषु न सर्वेषु सत्त्वेषु कूपवासिषु ।
सर्वथा श्रीमुखेष्वेव सर्व*****(?)भवधारिनाम् ॥

ततः परेण यामान्ते रक्ताङ्गे ग्रहमण्डले ।
प्रविशेद् यक्षयोनीनां निलयांश्चैव सुकश्मलाम् ॥

व्रजेत् परिगृहां क्षिप्रकालेष्वेव नियोजितम् ।
उत्तिष्ठन्तं साधयेन्मन्त्रं प्रसादाश्रयसम्भवाम् ॥

आरुरुक्ष पुराग्रं वै असिद्धिः सिद्धिरेव वा ।
आरुरोह स्वकावासं प्रासादाग्रं तु मानवी ॥

सिद्धन्ते चिन्तिता तस्य कालेष्वेव सुयोजिताः ।
मन्त्रसिद्धिः सदा तस्य मन्त्रतन्त्रविशारदैः ॥

दिशे गमनेनैव सिद्धिमात्रां समुच्यते ।
अमन्त्री मानवः क्षिप्रं लभते फलसम्भवाम् ॥

ईप्सितां साधयेदर्थां ग्राम्यांश्चैव च मानुषाम् ।
काला निगमतः प्रोक्तं दिशांश्चैव समन्ततः ॥

प्रसवेत् सर्वतो मन्त्री कालेष्वेह देशेषु च ।
अश्विनी भरणिसंयुक्ता कृत्तिका मृगशिरास्तथा ॥

एतेष्वेव हि सर्वत्र नक्षत्रेष्वेव योजिता ।
शान्तिकं कर्म निर्दिष्टं फलहेतुसमोदयम् ॥

रोहिण्यां साधयेदर्थां पुष्टिकामः सदा जापी ।
आर्द्रायां कारयेत् कर्म वश्याकर्षणहेतुभिः ॥

पुनर्वरतो तथा पुष्ये साधयेद्धनसम्पदाम् ।
विचित्राभरणवस्त्रांश्च अञ्जनं समनःशिलाम् ॥

रोचनां गै * * * * * * * * * * * * (?) ।

आश्लेषायां * * * * * * * * * * * * (?) ।
मघासु कुर्यात् तथा कर्म राज्य* * * * * (?) ॥

१७७, प्। १७७)

फल्गुन्यावुभौ श्रेष्ठौ आरुरोह स्ववाहनम् ।
विचित्राणि कर्माणि हस्तेनैव विधीयते ॥

स्वात्यां विशाखयोः कुर्याद् द्रव्यकर्मसमुद्भवम् ।
अनुराधा तथा ज्येष्ठा उभौ नक्षत्रयोजितौ ॥

सिद्धिकामः सदा कुर्याद् राज्यकामस्तथा सदा ।
भौम्यार्थसम्पदांश्चापि विविधां योनिजां पराम् ॥

साधयेद् धननिष्पत्तिं नक्षत्रेष्वेव योजिताः ।
उभौ ह्यषाढौ तथा प्रोक्तौ जन्तुकर्मसु योजयेत् ॥

धातुजेष्वपि सर्वत्र दृश्यते सिद्धिमानवे ।
मूले मूलकर्माणि ओषध्यां विविधोद्भवाम् ॥

साधयेन्मन्त्रतन्त्रज्ञो मूलनक्षत्रयोजिताम् ।
श्रवणेष्वेव सर्वत्र कुर्याच्छ्रावण्यवर्णिताम् ॥

निर्वाणप्रापकं धर्मं प्रव्रज्यां चापि योजयेत् ।
धनिष्ठेषु सदा कुर्याद् धूपपुष्करिसाधनाम् ॥

वृक्षां वाहनां चैव वस्त्रांश्चैव विधानवित् ।
कुर्यात् शतभिषक् कर्म हिंसाप्राणिषु निर्दयाम् ॥

प्राणापरोधसत्त्वेषु कुत्सितां तां विवर्जयेत् ।
उभौ भद्रपदौ श्रेष्ठौ भूम्यामर्थनिवारकौ ॥

सम्पदा कुरुते क्षिप्रं कर्मेष्वेव हि योजितौ ।
सेनापत्यार्थसाधने * * * * * * * * (?) ॥

राज्ये धननिष्पत्तिभूषणाभरणादिषु ।
नानाधातुगणांश्चैव **** (?) यथेप्सिताम् ॥

सावयेन्मन्त्रतन्त्रज्ञ * * * * * * (?)जितौ ।

साधयेन्मन्त्रकर्माणि नानारत्नसमुद्भवम् ।
सर्वाद* * * * * * * * (?)मन्त्रवितं सदा ॥

१७८, प्। १७८)

अश्विन्यश्च धरण्यश्च कृत्तिकानां तथांशकम् ।
एतदङ्गारके प्रोक्तं क्षेत्रं चैव नमस्तले ॥

तस्या वार तथा कीर्त्तिं सौम्यां साधये च तदा महीम् ।
कृत्तिकं त्र्यंशकं विन्द्याद् रोहिणीमृगशिरो परौ ॥

एतद् भार्गवे विन्द्यात् क्षेत्रं चैव नभस्तले ।
मृगशिरांशं तथा चैवम् आद्रायां च सुयोजिताः ॥

पुनर्वसुश्च तदा विन्द्याच्छान्त्यर्थं क्षेत्रमुद्भवम् ।
पुष्याङ्गं तथाश्लेषं मघं चैव निबोधितम् ॥

एतद् भानोः सदा क्षेत्रं कुर्यादाभिचारुकम् ।
फल्गुन्या तु उभौ साङ्गौ ग्रहचिह्नितचिह्नितौ ॥

इन्दुवारं तथा विन्द्यात् क्षेत्रं तस्य निशाकरे ।
हस्तचित्रौ तथा सांशौ कुर्यात् कर्मातिमानितम् ॥

बुधस्थाने तु उद्दिष्टः सर्वकर्मप्रसाधकः ।
स्वात्या विशाखसंयुक्ता सांशा वापि कीर्तिता ॥

द्वितीयं क्षेत्रनिर्दिष्टं दिवाकरस्य न संशयः ।
अनुराधाज्येष्ठसांशौ तौ निर्दिष्टौ पृथिवीसुतौ ॥

द्वितीयमङ्गारकक्षेत्रं वृश्चिकातसमुद्भवः ।
सर्वधर्मार्थसंयुक्तः कर्मयुक्तार्थसाधयेत् ॥

वर्जयेद् धीमतो हिंसां प्राणहिंसाभिचारुकाम् ।
साधयेद् विविधानर्थी कर्मांश्चैव सुपुष्कलाम् ॥

मूलपाढौ तथा प्रोक्तौ उभौ सांशत्रिकोद्भवौ ।
एतद् बृहस्पतेः क्षेत्रं नभःस्थं दृश्यते भुवि ॥

साधयेत् कर्म मुक्तात्मा विधाना****काम् ।

धन्विनि राशिनिर्दिष्टो कुर्यात् सव***(?) ।
श्रवणा धनिष्ठनिर्दिष्टा शतभिषां सममोदिता ॥

१७९, प्। १७९)

एतत् शनिश्चरक्षेत्रं द्वितीयं कथितं पुरा ।

तत्रस्थो यदि कर्माणि आरभेत विचक्षण ।
सिद्ध्यत्ययत्नान्मन्त्रज्ञस्तस्मिं काले प्रयोजिता ॥

राश्यः कुम्भनिर्दिष्टा प्रोक्ता मुनिभिः पुरा ।
उभौ बह्द्रपदौ प्रख्यौ रेवती च यशस्विनी ॥

अङ्गहीना तथा पूर्वा शुभेन्द्रग्रहचिह्निताः ।
प्रशस्ताः शोभनाः सर्वे तत् क्षेत्रं गुरवे *(?) दा ॥

मीनराशिसमासेन कथितं लोकचिह्नितैः ।
ग्रहः प्रधान सर्वत्र तिर्यङ् मुक्ता सर्वकर्मसु ॥

सप्तैते कथिता ह्यग्रमानुषाणां गणागमे ।
अनन्ता ग्रहमुख्यास्तु अनन्ता ग्रहकुत्सिताः ॥

मध्यस्था कथिता ह्येते मानुषाणां हिताहिता । इति ।
तेषां सत्त्वप्रयोगेषु निर्दिष्टा मन्त्रजापिनाम् ॥

सत्त्वासत्त्वं तथा कालं नियमं चैव कीर्तितम् ।
नाग्रहो धर्मसंयुक्तं न कर्मो ग्रहचिह्नितम् ॥

संयोगग्रहनक्षत्रो मन्त्रसिद्धिमुदाहृता ।
न सिद्धिः कालमिति ज्ञेया नासिद्धिः कालमुच्यते ॥

सिद्ध्यसिद्धावुभावेतौ सङ्गाकालतः क्रमा ।
विपरीतरता धर्मा न धर्मा धर्मचारिणः ॥

धर्मकर्मसमायोगा संयुक्तः साधयिष्यति ।
न दैवात् कर्ममुक्तस्तु सिद्धिर्न सिद्धिर्देवमुद्भवा ॥

तत्कर्मश्च सिद्धिश्च दैवमेव नियोजयेत् ।
न दैवात् कर्ममुक्तस्तु दैवं **(?)मितःपरम् ॥

१८०, प्। १८०)

तस्मात् कर्म समं तेषां कर्मार्थं सिद्धिरिष्यते ।
कथिता गणना ह्येते कर्म एव सदैवतम् ॥

न ग्रहा राशयो योनिरक्षताश्च सुपूजिताः ।
कर्म एष सदा विन्द्याद् विधिमुक्ता समोदिता ॥

फलोद्भवं च सदा कर्म युक्तिर्मन्त्रेषु भाषिता ।
तस्माद् युक्तितः कर्म न ग्रहो नापि राश्यजा ॥

नक्षत्राणां तिथीनां च गतियोनि समासतः ।
कालप्रमाणनियमश्च न परं कर्मयोः सदा ॥

तस्मात् तन्त्रवित् सर्वं धर्म एव नियोजयेत् ।
अनन्तग्रहाणां लोके राशयो विविधा परे ॥

तिथयो गणिता सङ्ख्ये क्षेत्रश्चैव नियोक्तृभिः ।
तस्मात् सङ्क्षेपतो वक्ष्ये कथ्यमानं निबोधताम् ॥

मेषो वृषो मिथुनश्च कर्कटश्च सुयोजितः ।
सिंहकन्यतुलं चैव वृश्चिकधन्विनौ परौ ॥

मकरः कुम्भ इति ज्ञेयौ मीनवानरयोऽपरे ।
मानुषो देवराशिश्च अपरो गरुडापरौ ॥

यक्षराक्षसाराश्यो तिर्यक्प्रेतशुभौ परे ।
नरका राशिनिर्दिष्टा अनन्ता गतियोनिजा ॥

निर्दिष्टा राशयः सर्वे नानाधातुसमुद्भवाः ।
असङ्ख्येया मुनिभिः प्रोक्ता राशयो बहुधा परे ॥

तेषां गतिचिह्नानि सत्त्वयोनिसमाश्रयम् ।
कथितं कथयिष्येऽह अनन्तां नक्षत्रां ग्रहाम् ॥

क्षेत्रा च बहुधा प्रोक्ता नानाग्रहनिषेविता । इति ।

बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रियमूलकल्पात्
षोडशपटलविसराद् द्वितीयो ग्रहनक्षत्र**(?)णक्षेत्रज्यो*******(?) ***** (?) ।

१८१, प्। १८१)