अथ सप्तदशः पटलविसरः ।
अथ खलु भगवांश्छाक्यमुनिः सर्वतथागतविकुर्वितं नाम स**(?)
समापद्यते स्म । समनन्तरसमापन्नस्य भगवतः शाक्यमुनेः कर्णाकोशाद्
रश्मयो निश्चरति स्म । नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णः । सर्वं देवं
बुधक्षेत्रमवभास्य सर्वलोकधात्वन्तराणि चालोकयित्वा सर्वग्रहनक्षत्रांश्च
मुहूर्तमात्रेण जिह्मीकृत्याकृष्टया । आकृष्टा च स्वकस्वका स्थानानि सन्नियोज्य तत्
पर्षन्मण्डलं बुद्धाधिष्टानेनाकृष्य च तत्रैव भगवतः
शाक्यमुनेरूर्णाकोशान्तर्धीयते स्म । सर्वं च ग्रहनक्षत्रतारकाः
ज्योतिपोरुषरुध्यमाना आर्ता भीता भगवन्तं शाक्यमुनिं प्रजग्मुः ।
कृताञ्जलयश्च तस्थुरे मकम्पयमाना मुहुर्मुहुश्च धरशितले प्रपतनमानाः
॥
अथ भगवांश्छाक्यमुनिः सर्वेषां ग्रहनक्षत्रतारकाज्योतिषाणां न
वालिशोपजानितबुद्धीनां च देहिनामनुग्रहार्थं वाचमुदीरयते स्म । शृण्वन्तु
भवन्तो मार्षाः ! देवसङ्घा समानुपाः ! कर्म एव सत्वानां विभजते
लोकवैचित्र्यम् । यश्च बुधानां भगवतां वज्रकायशरीरतामभिनिष्पत्तिर्यश्च
ससुरासुरस्य लोकस्य भ्रमत्संसाराटवीकान्तारप्रविष्टस्य लोकस्य
विचित्रशरीरतामभिनिष्पत्तिः सर्वेदं कर्मजं शुभाशुभं निबन्धनम् । न तत्र
कर्ता कारकः ईश्वरः प्रधानो वा पुरुषा साद्व्यापसृष्टो वा प्रवर्तते किञ्चिद्
वर्जयित्वा तु कर्मजं सर्वकर्मप्रत्ययजनितो हेतुमपेक्षते । स च
हेतुप्रत्ययमपेक्षते । एवं प्रतीत्यसमुत्पत्तिप्रत्ययान्तोऽन्यमुपश्लिष्यते
श्लेष्माणां च भूताभिनिष्पत्तिमहाभूतां जनयते । ते च महाभूता
स्कन्धान्तरमनादिगतिकात् प्रतिपद्यन्ते । प्रपन्नाश्च गतिदेशान्तरं
विस्तरविभागशोऽभ्युपपद्यन्ते । कालान्तरोषरोधविलोमताज्ञानवह्निमीरिता
कर्मोपरचितवासना अशेषमपि निर्द**(?) त्रिधायानसम ******* (?) समतिनिर्हरन्ते ।
महायानदीर्घ*****(?)रचितकर्म स्वक*******(?)त्येकखड्गिनां स्वयम्भु
ज्ञानं ******** (?) परघोषानुप्रवृत्तिश्रव*****(?)नां
ह्रस्वकालाचिराधिराज्यं ते******(?)र्मान्तर बुद्धिरेव प्रवर्तते वालिशानां
विमोहिताम् ॥
१७०, प्। १७०)
अथ च पुनर्विचित्रकर्म**(?)नोऽयं लोकसन्निवेशदेशवेषोपरन**(?)
निर्जरसम्पदमशो***(?) अनेकसिद्धिमपेक्षते । विमलं
पान***(?)क्तमष्टाङ्गोपेतसुशातलं कर्म एव कुरुते कर्म नान्यं कर्मापेक्षते
॥
कर्माकर्मविनिर्मुक्तो निःप्रपञ्चः स तिष्ठति ।
त्रिधा यानप्रवृत्तस्तु नान्यं शान्तिमजायते ॥
त्रिविधैव भवेन्मन्त्रं त्रिधा कर्म प्रकीर्त्तिता ।
त्रिविधः फलनिष्पत्तिस्त्रिविधैव विचारणा ॥
विपरीतं त्रिधा कर्म त्रिविधैव प्रदृश्यते ।
कुशलं तत् त्रिविधं प्रोक्तं पुनस्तन्त्रे प्रदृश्यते ॥
पुनरेव विधं गोत्रं मन्त्राणामास्पदं शान्तम् ।
शान्तं निर्वाणगोत्रं तु बुद्धानां शुद्धमानसाम् ॥
तदेव कर्म प्रत्यंश। मन्त्राङ्गे प्रकीर्तितः ।
ज्योतिषाङ्गं तथा लोके सिधिहेतोः प्रकल्पितम् ॥
तदेव अंशं कर्मं वै प्रत्ययांशे प्रवर्तते ।
यथा हि शाली व्रीहीणामङ्कुरेण विभाव्यते ॥
तथा हि सिद्धद्रव्याणां लक्षणेन विभाव्यते ।
यथा हि शुक्लो वर्णस्तु व्यवहारेण प्रकल्प्यते ॥
तथाहि ज्योतिषयुक्तीनां व्यवहार्थं प्रकल्प्यते ।
सर्वतः सर्वयुक्तीनां कर्म एवं प्रशंसितम् ॥
न तत् कर्म विना विह्नैः क्वचिद् देहः संस्थितः ।
चिह्नैश्च चरितैश्चापि जातकैर्गोत्रमाशृतैः ॥
विविधैः शकुनैर्नित्यं तत् कर्मं चोपलभ्यते ।
न क्वचिद् विग्रही कर्म अन्तलीनोऽन्यलक्ष्यते ॥
ज्वरितः ** (?) जन्तुर्विका***** (?) ।
एवं देहे समासृत्य कर्म दृश्यति **** (?) ॥
शुभाशुभफलाचिह्नजातकास्तु प्रकीर्तिता ।
विविधा शकुन**** (?) विविधा कर्ममुद्भवा ॥
१७१, प्। १७१)
शुभाशुभफला * * * * * * * * (?) सदा ॥
सिद्ध्यसिद्धिनिमित्तं तु प्रत्ययार्थमवेक्षते ।
निमित्तं चरितं चिह्नं प्रत्ययेति प्रकल्पितम् ॥
तस्मात् सर्वप्रयत्नेन प्रत्ययं तु अपेक्षते ।
यज्जापिना सता मन्त्रे सिधिहेतोरपेक्षयेत् ॥
कर्मस्वकान्यतानि अव्यङ्गानि लक्षयेत् ।
अलक्षितं तु सर्वं वै विघ्नकर्मैः सुदारुणैः ॥
तस्मात् सर्वाण्येतानि अङ्गानीति मुनेर्वचः ।
सालेन्द्रराजः सर्वज्ञो बोधिमण्डे समाविशेत् ॥
मन्त्रम् उदरीरयामास सर्वविघ्नप्रनाशनम् ।
दुःस्वप्नं दुर्निमित्तं तु दुःसहं च विनाशनम् ॥
तस्य बोधिगतं चित्तं सर्वज्ञस्य महात्मने ।
मारेण दुष्टचित्तेन कृतो विघ्नो महाभयोः ॥
अनिमित्तं तेन दृष्टं वै तरोर्मूले महाभयम् ।
अनिमित्तात् तस्य जायन्ते अनेकाकारभीषणाः ॥
तस्य पुण्यबलाधाना चिरकालाभिलाषिणा ।
तेन मन्त्रवर्ण तस्य वलासौ भग्नाशौ नमुचिंस्तदा ॥
ऋद्धिमन्तो महावीर्यां संवृतोऽसौ महाद्युतिः ।
तस्य मन्त्रप्रभावेन लिप्से बोधिमुत्तमाम् ॥
स एव वक्ष्यते मन्त्रः दुर्निमित्तोपघातनम् ।
दुःस्वप्नं दुःसहं चैव दुष्टसत्त्वनिवारणम् ॥
मन्त्रराट् * * * * * * * * (?) शालेन्द्रेण ** (?) वै ॥
निग्रहार्थं च दुष्टा***(?)हनक्षत्रतारकात् ।
भूतां चैव सर्वेषां सौम्यचित्तां पयोधनाम् ॥
१७२, प्। १७२)
शृण्वन्तु भू*********** (?) पृथिवीचराः ।
अपदा ***** (?) द्विपदा वापि चतुःपदा ॥
सर्वे सङ्क्षेपतः सत्त्वा ये केचित् त्रिषु स्थावराः ।
नमः समन्तबुद्धानामप्रतिहतशासनानम् ॥
ॐ ख ख खाहि खाहि । हुम् हुम् । ज्वल ज्वल । प्रज्वल प्रज्वल । तिष्ठ तिष्ठ ।
ष्णीः फट् फट् स्वाहा ।
एष बुद्धाद्ध्युषितो मन्त्रः ज्वालोष्णीषेति प्रकीर्तितः ।
यानि कर्मसहस्राणि अशीति नव पञ्च च ॥
करोति विविधां कर्मां सर्वमङ्गलसम्मतः ।
दुःस्वप्नान् दुर्निमित्तांस्तु सकृज्जापेन नाशयेत् ॥
करोति अपरां कर्मां सर्वमन्त्रेषु स्वामिनः ।
वशिता सर्वसत्त्वानां बुद्धोऽयं प्रभवो गुरुः ॥
स्मरणादस्य मन्त्रस्य सर्वे विघ्नाः प्रणश्यिरे ।
देवातिदेवसम्बुद्ध इत्युक्त्वा मुनिसत्तमः ॥
मुहूर्तं तस्थुरे तूष्णीं यावत् कालमुदीक्षयेत् ।
तस्थुरे देवसङ्घाश्च शुद्धावासोपरिस्तदा ॥
सर्वेषां देवमुख्यानां नक्षत्रग्रहतारकाम् ।
समयं जग्मु ते भीता उष्णीषो मन्त्रभाषिताः ॥
तुल्यवीर्यो महावीर्य उष्णीषाख्यो महाप्रभाः ।
शतपञ्चचतुष्कां वा सप्ताष्टा नवतिस्तथा ॥
द्विषष्टि पञ्चसप्तान्या उष्णीषेन्द्राः प्रकीर्तिताः ।
एतत् सङ्ख्यमसङ्ख्यया राजानो मूर्धजा शुभा ॥
तेषु तुल्योमयं मन्त्रः जिनमुर्वजना इति ।
आ*(?) *(?)श्रियमूलकल्पा ******(?)वतंसकात्
१७३, प्। १७३)