१६

अथ षोडशः पटलविसरः

अथ खलु भगवां शाक्यमुनिः पुनरपि *****(?)सभवनमलोक्य मञ्जुश्रियं
कुमारभूतमामन्त्रयते **(?) । शृणु मञ्जुश्रीः ! त्वदीये
सर्वार्थक्रियाकर्मपटलविसरं पूर्वनिर्दिष्टं पर्षन्मण्डलमध्ये सविस्तरं
वक्ष्येऽहम् ।

पृष्टोऽयं यक्षराजेन वज्रहस्तेन धीमता ।
सर्वमन्त्रार्थयुक्तानां स्वप्नानां च शुभाशुभम् ॥

अत प्रसङ्गेन सर्वेदं कथितं मन्त्रजापिनाम् ।
यक्षराट् तुष्टमनसो मूर्ध्नि कृत्वा तु अञ्जलिम् ॥

प्रणम्य शिरसा शास्तुरभ्युवाच गिरां मुदा ।
अनुग्रहार्थं तु लोकानां कथितं ह्यग्रबुद्धिना ॥

ममैवमनुकम्पार्थं सत्त्वानां च सुखोदया ।
जापिनां सर्वमन्त्राणां स्वप्नानां च शुभाशुभम् ॥

चरितं गुणविस्तारं सत्त्वाधिष्टनिकृष्टिनाम् ।
उत्तमा गति योनिभ्यो हेतुज्ञानविचेष्टितम् ॥

अतीतानागतं ज्ञानं वर्तमानं शुभाशुभम् ।
सर्वं सर्वगतं ज्ञानं सर्वज्ञज्ञानचेष्टितम् ॥

अनाभास्यमनालम्ब्यं निःप्रपञ्चं प्रपञ्चितम् ।
मन्त्राकारवरोपेतं शिवं शान्तिमुदीरितम् ॥

प्रभावं सर्वबुद्धानां वर्णितं ह्यग्रबुद्धिना ।
सर्वमन्त्रार्थयुक्तानां जापिनां च विशेषतः ॥

कर्म कर्मफलं सर्वं क्रियाकालं तथैव च ।
पात्रं स्थानं तथा वेषं स्वप्नप्रसङ्गे प्रचोदितम् ॥

यक्षराण्मुनिवरं श्रेष्ठं सप्तमन्त्रतथागतम् ।
भद्रकल्पे * * * * * * * * (?) क्यपुङ्गवः ॥

शाक्यसिं * * * * * * * * * * (?)कल्पितः ।
युगाधरं * * * * * * * * * * * * (?) ॥

महावीर्यो * * * * * * * * * * * * (?) ।

१६७, प्। १६७)

मञ्जुश्रितोऽथ महाप्राज्ञः पृष्टोऽसौ मुनिना तदा ॥

अध्येपयति तं बुद्धं कन्यसं मुनिसत्तमम् ।
साधु भगवां सम्बुद्धः कर्मज्ञान सविस्तरम् ॥

जातकं * * * * * * * * * (?) सदा शुभम् ।
चरितं बहुसत्त्वानां कर्मज्ञानसहेतुकम् ॥

निविष्टाविष्टचेष्टानां श्रेयसार्थर्थयुक्तिनाम् ।
जापिनां सिद्धिनिमित्तानि साध्यसाध्यविकल्पिताम् ॥

भूतिकामा तथा लोके ऐश्वर्याभोगकाङ्क्षिणाम् ।
राज्यहेतुप्रकृष्टानां सिद्धिधारणकामिनाम् ॥

सर्वं सर्वगतं ज्ञानं सङ्क्षेपेण प्रकाशतु ।
इत्युवाच मुनिः श्रेष्ठो अध्येष्टो जिनसूनुना ॥

कलविङ्करुतो धीमान् दिव्यदुन्दुभिनादिनः ।
ब्रह्मस्वरो महावीर्यपर्जन्यो घोषनिःस्वनः ॥

बुद्धवाचोदितः शुद्धो वाचे गाथां सप्तमो मुनिः ।
एष कुमार ! परार्थगतानां सिद्धिमजायत लोकहितानाम् ।
श्रेयसि सर्वहिते जगति प्रणितारो शुद्ध्यतु तिष्ठतु मोक्षविहूनाम् ॥

सत्ययाक्षयवीर्यवां हि तच्चित्ता मदमैत्ररता स तदानरता ये ।
सिद्धिभवे सद तेषु जनेषु नान्य कथञ्चन सिद्धिमुपेष्ये ॥

मन्त्रवरे सद तुष्टिरता ये शासनि चक्रधरे तथा मञ्जुधरे वा ।
धर्षयिमार प्रवर्त्तयि चक्रं सोऽपि ह चक्रधरो इह युक्तः ॥

वाचा दिव्यमनोरम यस्या वालिशजन्तु विवर्जितनित्या ।
दिव्यमनोरप्रकर्णसुखा च प्रेमणीया मधुरा अनुकूला ॥

चित्त* (?) ******* (?) मञ्जुरिति समुदीरय बुद्धा ।
यस्य ***(?)यावमज *(?)ऽपि तथागतज्ञानविशेषैः ॥

तेषु ***(?) भूमिप्रविष्टा दिव्यप्रकृष्टदशतथागतसङ्ख्या ।
तेऽपि ******(?) त्तिष्टा दिव्यप्रभावमजानमशक्या ॥

१६८, प्। १६८)

रूप्य अ**(?) तथा अभूमा कायिकदिव्यं नृजा मनुजा वा ।
योगिन सिद्धिं गता अथ लोके सर्वविशिष्ट तथा नरमुख्या ॥

सत्त्वमसौ न स विद्यति कश्चिद् यो प्रतिजानि तु तस्य श्रिया मे ।
एष सिरिपरिकल्पिततुल्यं मञ्जुसिदीति प्रतिजानि तु बुद्धाः ॥

मञ्जुश्रियं परिकल्पिततुल्यं नाममियं तथ पूर्वजिनेभिः ।
एष कृता तव सञ्ज्ञितकल्पे दिव्य अनागतबुद्धमतीतैः ॥

नामश्रुणि पर्यस्तव शुद्धो नास्य मनो भवि एकमनो वा ।
तस्य मिमं शिवशान्ति भवेयं बोधिवरा भवि अग्रविशिष्टा ॥

मन्त्र अशेष तु सिद्ध बह्वेयाम् उत्तमयोनि गति लेभे ।
उत्तमिधर्मि समाश्रयि नित्य विघ्नविवर्जित सिद्धि भवेया ॥

ईप्सितमन्त्र प्रसाधयि सर्वां क्षिप्र स गच्छति बोधि ह मञ्जुम् ।
लप्स्यति बोधिगतो मुनिमुख्यः गत्व निषीदति सत्त्वहितार्थम् ॥

बुद्धयि बोधिप्रवर्तयि चक्रम् एष गुणो कथितो जिनमुख्यैः ।
मञ्जुरिति शिरीं त्वयि संस्मरि नामम् अचिन्त्यगुणाः कयिता जिनमुख्यैः ॥

दर्शतु नित्यप्रभाव त्वदीयं पूर्वकसर्वगतैर्जिनमुख्यैः ।
कल्पभणे या न शक्यमसङ्ख्यैः मन्त्रशता तव शुद्धकुमार ! ॥

मञ्जुश्रियं तव मन्त्रचर्यं भाषित सर्वमशेषकबुद्धैः ।
एष कुमार थ सर्वगता वै शासन तुभ्य रतोत्तम वीराः ॥

शुद्धावासनिषण्णजना वै सत्त्वमशेषतः ईहय सत्ता ।
न क्रमिमन्त्र त्मदीय कदाचिं नापि कथञ्चिह ये तव मन्त्रम् ॥

इति ।

आर्यमञ्जुश्रीमूलकल्पान्महायानवैपुल्यसूत्रात् चतुर्दशमः
गाथापटलनिर्देशविसरः परिसमाप्तमिति ।

१६९, प्। १६९)