१४

अथ चतुर्दशः पटलविसरः ।

अथ खलु भगवांश्छाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः !
त्वदीयविद्यारहस्यसाधनोपयिकसर्वमन्त्राणां समनुज्ञः
तथागतधर्मकोशविसृतधर्ममेघानुप्रविष्टगगनस्वभावसर्वमन्त्राणां
लौकिकलोकोत्तराणां प्रभुः ज्येष्ठतमः यथा कुमारः सर्वसत्त्वानाम् ।
तथागतो अत्र आख्यायते ज्येष्ठतमः श्रेष्ठो देवमनुष्याणां पुरुषऋषयः
बुद्धो भगवाम् । एवं हि कुमार ! सर्वमन्त्राणामयं विद्याराजा
अग्रमाख्यायते श्रेष्ठतमः पूर्वनिर्दिष्टं तथागतैः
अनभिलाप्यैर्गङ्गानदीसिकतपुण्यैर्बुद्धैर्बह्गवद्भिः रत्नकेतोस्तथागतस्य
परमहृदयं परमगुह्यं सर्वमङ्गलसम्मतसर्वबुद्धसंस्तुतप्रशस्तं
सर्वबुद्धसत्त्वसमाश्वासकं सर्वपापप्रणाशकं सर्वकामदं
सर्वाशापरिपूरकम् । कतमं च तत् ॥

अत्रान्तरे भगवतः शाक्यमुनेः ऊर्णाकोशात् सर्वबुद्धसञ्चोदनी नाम रश्मिः
निश्चरति स्म । येयं दशदिक्षूर्ध्वमधः सर्वावन्तं बुद्धक्षेत्राण्यवभास्य
सर्वसत्त्वां मनांसि चाह्राद्य उपरि भगवतः शाक्यमुनेः उष्णीषा अन्तर्धीयते
स्म ॥

उष्णीषाच्च भगवतः समन्तज्वालार्चितमूर्तिः अनवलोकनीयो सर्वसत्त्वैः
दुर्धर्षः महाप्रभावसमुद्गतः प्रभामण्डलालङ्कृतदेहः
विविधाकाररूपी महाचक्रवर्तिरूपी विद्याराजा एकाक्षरो नाम निश्चरति स्म ।
निश्चरित्त्वा सर्वं गगनतलमवभास्य सर्वविद्याराजपरिवृतः
अनेकविद्याकोटीनयुतशतसहस्रपुरस्कृतः पूज्यमानो सर्वलोकोत्तरैः
विद्याचक्रवर्त्तिराजानैः अभिष्टूयमानो सर्वमन्त्रैः प्रभाव्यमानो
सर्वबुद्धवोधिसत्त्वैः दशभूमिप्रतिलब्धैः महात्मभिः
सर्वगगनतलमापूर्य दिव्यरत्नोपशोभितमहामणिरत्नालङ्कृतदेहः चारुरूपी
प्रभास्वरतरः विविधरूपनिर्माणकोटीनयुतशतसहस्रमुत्सृजमानः एकाक्षरं
शब्दमुदीरयमानः महारश्मिजालं प्रभुञ्चमानः अन्तरिक्षे स्थितिऽभूत्
बह्गवतः शाक्यमुनेरुपरिष्ठात् सम्मुखमवलोकयमानः सर्वावन्तं
शुद्धावासभवनं महापर्षन्मण्डलञ्चावयाम्यमानः ॥

१३०, प्। १३०)

अथ भगवांश्छाक्यमुनिः एकाक्षरं विद्याचक्रवर्त्तिनं सर्वतथागतहृदयं
रत्नकेतुर्नाम तथागतस्य परमहृदयपरमगुह्यतमं सर्वतथागतैर्भगवतः
रत्नकेतोः सन्निविष्टं सालेन्द्रराज अमिताभ दुःप्रसह सुनेत्र सुकेतु पुष्पेन्द्र
सुपिनान्तलोकमुनिः कनकाद्यैस्तथागतैर्भाषितं चानुभ्यमोदितं च
सर्वैश्चातीतैः सम्यक् सम्बुद्धैः लपितं चानुमन्यं च । कतमं च तत् । तद्यथा

  • भ्रूम् ।

एष स मञ्जुश्रीः परमहृदयं सर्वतथागतानाम् असर्वगुणां
विद्याचक्रवर्तिनः एकाक्षरं नाम महापवित्रम् । अनेन साध्यमानः सर्वमन्त्रा
सिद्ध्यन्ते । त्वदीयं ये कुमारकल्पराजवरे सर्वमन्त्रानुकूलं परमरहस्य अग्रः
समनुज्ञः सर्वकर्मावरणविशोधकः अवश्यं तावत् साध * * * * * * * * * (?)
कर्माणि सर्वमन्त्रेषु अस्मिं कुमार ! त्वदीयकल्पराजे सर्वलौकिकलोकोत्तराणि च
मन्त्रतन्त्राणि साधयितव्यानि ॥

अनेन कृतरक्षः अधृष्यो भवति सर्वभूतानामिति । सर्वविघ्नैश्च
लौकिकलोकोत्तरैर्नाभिभूयत इति ॥

समन्तरत्नभाषिते च बह्गवता शाक्यमुनिना सर्वोऽपि त्रिसाहस्रमहासाहस्रो
लोकधातुः षड्विकारं प्रकम्पिता अभूवम् । सर्वाणि च बुद्धक्षेत्राणि
अवभासितानि सर्वश्च बुद्धा भगवन्तः सन्निपतिता भवेयुः ॥

तस्मिं पर्षन्मण्डले शुद्धावासभवनोपनिषण्ण सर्वे च बोधिसत्त्वा
दशभूमिप्रतिलब्धा अवैवर्तिका ह्यनुत्तरायां सम्यक् सम्बोधौ
सर्वश्रावकप्रत्येकबुद्धाश्च सर्वसत्त्वा महर्द्विधा विद्याराजरश्मिसञ्चोदिता
आगच्छेयुर्वशीभूताः । अन्ये च सत्त्वा बहवः अनन्तापर्यन्तलोकधातुव्यवस्थिता
नरकतिर्यक्प्रेतदुःखगतिसन्निहिताः तेन महता रश्म्यवभासेन स्पृष्टा
अवभासिता दुःखप्रतिप्रबुद्धवेदनासन्नस्थः सुखह्रादितमनसः नियतं
विधायानसन्निश्रिता बवेयुरिति ॥

अथ भगवांश्छाक्यमुनिः तं **(?)पर्वन्मण्डलमलोक्य मञ्जुश्रियं
कुमारभूतमामन्त्रयते स्म ।

१३१, प्। १३१)

शृणु मञ्जुश्रीः ! इमं विद्याराजं महर्द्धिकमेकवीरं सर्वकर्मिकं
सर्वविद्याराजचक्रवर्तिनं सर्वसत्वानामाशापारिपूरकं सर्वकल्पविस्तरे
त्वदीयमन्त्रतन्त्रकल्पविस्तरसमनुप्रविष्टं सर्वमन्त्राणां साधकः
साधारणभूतं महेशाख्य
महोत्साहसत्त्वसाधकविशेषप्रज्ञोपायकौशलसर्वबोधिमार्गसंशोधक-
निर्वाणप्रतिष्ठापनाक्रमणबोधिमण्डनिपदनाक्रमणकुशलसम्भारभूतम्
अस्यैवं समासतः कल्पविस्तरं पटविधानमण्डलं संसाधनोपयिकं
पूर्वमन्त्रचर्यानुचरितं यत्र प्रतिष्ठिताः सत्त्वाः साधयिष्यन्ति
महाचक्रवर्तिनं विद्याराजं महद्भूतं सर्वमन्त्राणां परमेश्वरं
प्रभङ्करं सर्वाशापारिपूरकं विनायकं सर्वजगद्धितं बुद्धमिव
साक्षात् प्रयुपस्थितं स्वयम्भुवम् उत्तमोत्तिष्ठमध्यमकन्यससर्वकर्मिकम् ।

क्षेमङ्गमं शिवं शान्तं सर्वपापप्रनाशनम् ।
देवानामपि तं देवं मुनीनां मुनिपुङ्गवम् ॥

बुद्धमादित्यतं बद्धं विशुद्धं लोकविश्रुतम् ।
सर्वधर्मस्वभावज्ञं भूतकोटिरनाविलम् ॥

वक्ष्ये कल्पवरं तस्य शृणुध्वं भूतिकाङ्क्षिणाम् ।
आदौ तावत् पटो दिव्ये विकेशे श्लेषवर्जिते ॥

नवे शुक्ले विशेषेण सदशे चैवमालिखेत् ।
द्विहस्तमात्रप्रमाणेन हस्तमात्रं च तिर्यक् ॥

तथाविधे शुभे चैव निर्मले चारुदर्शने ।
सिते दौम्ये तथा शुक्ले सुव्रते पिचिवर्जिते ॥

शङ्कारापकरे शुक्लं पटे चैव दुकूलके ।
आतस्ये वाल्कलै चैव शुद्धे तन्तुविवर्जिते ॥

क्रिमानिल-असम्भूते जन्तूनां चानुपापने ।
अकौशेये तथा चान्ये यत्किञ्चित् साधुवर्णिते ॥

तादृशे च पटे श्रेष्ठे कुर्यादालेख्यमालयम् ।
शास्तुविम्बमालिख्य प्रभामण्डलमालिनम् ॥

१३२, प्। १३२)

हेमवर्णं तदालिख्य ज्वालामालिनं विदुम् ।
एकाकिनं गुह्यलीनं पर्वतस्थं महायसम् ॥

रत्नमालावनद्धं वै कुर्यात्पट्टवितानकम् ।
उपरिष्टादुभौ देवौ धार्यमाणौ नु मालिखेत् ॥

पर्वतस्योपरिष्टा वै कुर्याद् रत्नमालकाम् ।
समन्ततश्च वितानस्य मुक्ताहारार्द्धभूषितम् ॥

उपरिष्टाच्छैलराजस्य सर्वमालिख्य यत्नतः ।
अधश्चैव तथा शैले महोदधिसमप्लुतम् ॥

पटान्ते चैव पुष्पाणि समन्ताच्चैवमालिखेत् ।
नागकेसरपुन्नागवकुलं चैव यूथिकाम् ॥

मालतीकुसुमं चैव प्रियङ्गुकुरवकं सदा ।
इन्दीवरं च सौगन्धी पुण्डरीकमतःपरम् ॥

विविधानि पुष्पजातीनि तथान्यां गन्धमाश्रिताम् ।
एतेषामेव पुष्पाणि * * * * * * * * (?) ॥

पूर्वनिर्दिष्टविधिना पटे ज्येष्ठे तथा पटे ॥

सूत्रं तन्तुवायं च तथा चित्रकरं मतम् ।
प्रातिहारकपक्षे च आलिखेच्छुद्धतमेऽहनि ॥

तथाप्रवृत्ते च काले च जापे चैव विधीयते ।
सर्वं सर्वमेवास्य पूर्वमुक्तं समाचरेत् ॥

रङ्गोज्ज्वलं विचित्राढ्यं वास्तुविश्वं समालिखेत् ।
अनेकाकारसम्पन्नं कर्णिकारणपप्रभम् ॥

चम्पका**(?)भासम् आलि* * * * * * (?) ।
एभिरा****(?)न्नं मुनिमालिख्य रत्नजम् ॥

रत्नकेतुं महाभागं श्रेष्ठं वै मुनिपुङ्गवम् ।
सर्वधर्मवशिप्राप्तं बुद्धरत्नं तमालिखेत् ॥

१३३, प्। १३३)

रत्नपर्वतमासीनं गुहारत्नोपशोभितम् ।
पर्यङ्कोपरिविष्टं तु दत्तधर्मानुदेशनम् ॥

ईषिस्मितमुखं वीरं ध्यानालम्बनचेतसः ।
गुहावहिः समालिख्य अधश्चैव समन्ततः ॥

पटान्तकोणे सन्निविष्टं साधकं जानुकर्पूरम् ।
धूपव्यग्रकरं चैव ईषित्कायावनामितम् ॥

उत्तरासङ्गिनं कुर्याद् यथावेषानुलिङ्गिनम् ।
दक्षिणे भगवतस्याधः महोदधितलादपि ॥

आलिखेन्नित्ययुक्तात्मा मन्त्रिणः श्रेयसार्थिनम् ।
एतत् पटविधानं तु कथितं लोकपूजितैः ॥

मण्डलं तस्य देवस्य साम्प्रतं तु प्रवक्ष्यते ।
युक्तमन्त्रस्तदा मन्त्री तस्मिन् काले सुमन्त्रवित् ॥

कृतसेवः सदामन्त्रे अभ्यस्ता जापसम्पदे ।
अभिषिक्तस्तदा मन्त्रे कल्पेऽस्मिन् मञ्जुभाणिते ॥

मण्डलाचारसम्पन्ने नित्यं चाभिषेचिते ।
अभिषिक्तः सर्वमन्त्राणां मण्डलेऽस्मिं विशारदः ॥

युक्तिमन्तः सदा तन्त्रे आत्मरक्षे हिते मन्तः ।
सहायांश्चैव रक्षघ्नैः सुपरीक्ष्य महाद्युतिः ॥

आचार्यः सुसंरब्धः आरब्धाव्रतसेविनः ।
महाप्रज्ञोऽथ सुस्निग्धः श्रीमान् कारुणिकः सदा ॥

सहायानां च सर्वेषां तथा लक्षणमादिशेत् ।
एकद्वौ त्रयो वापि तथाचाष्टमथापराम् ॥

कुर्याच्छिष्यां सुसम्पन्नां प्रभूतांश्चापि वर्जयेत् ।
पूर्वदृष्टविधानं तु मण्डलेऽस्मिं सदा चरेत् ॥

प्रथमा ये तु निर्दिष्टा *** (?) दशवलोदिता ।
मञ्जुशेषस्य नान्यं तु नखिले नान्यकर्मणा ॥

१३४, प्। १३४)

प्रमाणं तु प्रवक्ष्यामि मण्डलस्य महाद्युतेः ।
चतुर्हस्तं द्विहस्तं वा तथाचाष्टमतःपराम् ॥

शुचौ देशे नदीकूले पर्वताग्रे विशेषतः ।
पञ्चरङ्गिकचूर्णेन पूर्वदृष्टेन कर्मणा ॥

चतुरश्रं चतुर्द्वारं चतुस्तोरणभूषितम् ।
चतुःकोणं समं दिव्यं दिव्याचारसमप्रभम् ॥

रङ्गोज्ज्वलं विचित्रं च चारुवर्णं सुशोभनम् ।
ससुगन्धं सुरूपं च सुसहायः समारभेत् ॥

मौनी व्रतसमाचारः अष्टाङ्गोपसेविनः ।
अक्लिष्टचित्तो मात्रज्ञः धार्मिकोऽथ जपी सदा ॥

अपापकर्मसमारब्धः शान्तिकपौष्टिक ।
मध्यस्था ते ततो विश्य आलिखेत् शास्तु वर्णिभिः ॥

प्रथमं सर्वं तं लेख्यं नानारत्नविभूषितम् ।
गुहासीनं महातेजं रत्नकेतुं तथागतम् ॥

पर्यङ्कोपविष्टं तु धर्मचक्रानुवर्तकम् ।
पटे यथैव तत् सर्वम् आलिखेच्छास्तुपूजितम् ॥

त्रिपङ्क्तिभिस्तथा रेखैः मुद्रैश्चाप्यलङ्कृतम् ।
कुर्यात् सञ्छादितां सर्वां पङ्क्तिश्चैव समन्ततः ॥

अव्यस्तां समस्तां च अनाकुलिततद्गताम् ।
तेषां तु मध्ये कुर्वीत चक्रवर्ती महाप्रभुम् ॥

उदितादित्यसङ्काशं कुमाराकारमर्चिषम् ।
आलिखेद् यत्नमास्थाय महाचक्रानुवर्तिनम् ॥

महाराजसमाकारं मुकुटालङ्कारभूषितम् ।
किरीटिनं महासत्त्वं सर्वालङ्कारभूषितम् ॥

चारुपट्टार्द्धसंवीतं चित्रपट्टनिवासिनम् ।
स्रग्मिणं सौम्यवर्णाभं माल्याम्बरविभूषितम् ॥

१३५, प्। १३५)

जिघ्रन्तो दक्षिणेनैव करेण वकुलमालकम् ।
ईषिस्मितमुखं देवं महावीर्यं प्रभविष्णुवम् ॥

सुरूपं चारुरूपं वै बालवृद्धविवर्जितम् ।
वामहस्तसदाचक्रं दीप्तमालिन परामृष्यन्तम् ॥

तदालेख्यम् अर्द्धपर्यङ्क सुनिविष्टमर्द्धेन भुजसन्निश्रितम् ।
आलिखेद् दिव्यवर्णाभं सुरूपं रूपमाश्रितम् ॥

निषण्णं रत्नखण्डेऽस्मिन् सर्वतानो महाद्युतेः ।
श्रेयसः सर्वमन्त्राणां प्रवृत्तो वरदः सदा ॥

ज्वलन्तं वह्निराकारं * * (?) मण्डलशोभिनम् ।
समन्तज्वालामालोषज्य ज्वलते वायुमीरितः ॥

एवं मन्त्रप्रयोगैस्तु ज्वाल्यन्ते मानुषं भुवि ।
तथाविधं महावीर्यं सर्वमन्त्रप्रसाधकम् ॥

पश्येद् यो हि स धर्मात्मा मुच्यते सर्वकिल्विषात् ।
पञ्चानन्तर्यकारीषि दुःशीलो मन्दमेधसः ॥

सर्वपापप्रशान्ता वै मुच्यते दर्शनाद् विभोः ।
मण्डलं दृष्टमात्रं तु देवदेवस्य चक्रिणे ॥

तत्क्षणा मुच्यते पापा येऽन्ये परिकीर्तिताः ।
ततः पूर्वद्वारं संशोध्य मन्त्रेणैव समं विभोः ॥

परिक्षिप्तं तोरणैः सर्वं कदल्याभिश्चोपशोभितम् ।
परिस्फुटं मण्डलं कृत्वा अशेषं चारुरूपिणम् ॥

बलिं धूपं प्रदीपं च गन्धमाल्यं सदाशुभम् ।
पूर्वेणैव विधानेन कुर्यात् सर्वमादरात् ॥

मध्यस्थं पूर्णकुम्भं तु नक्रिणस्याग्रतो न्यसेत् ।
तत्कुम्भं विजयेत्वाख्या मन्त्रज्ञस्तं न चालयेत् ॥

तथाग्निकुण्डं पूर्वं तु विधिदृष्टेन कर्मणा ।
होमकर्मसमारम्भो विभुमन्त्रेण नान्य वै ॥

१३६, प्। १३६)

होमं चाष्टसहस्रं तु खदिरेन्धनवह्निना ।
पालाशं चापि श्रीकण्ठं बिल्वोदुम्बरचाक्षकम् ॥

अपामार्गं तथा जुहुयात् सर्वकर्मेषु यत्नतः ।
तिलं वा आज्यसम्पृक्तं दग्धगन्धसमप्लुतम् ॥

जुहुयात् सर्वकर्मेषु सहस्रं साष्टकं सदा ।
त्रिसन्ध्यं पूर्वनिर्दिष्टं स्नानं चेलावधारणम् ॥

त्रिशूलं शुभनक्षत्रं कथितं च मनीषिभिः ।
पूर्वनिर्दिष्टकर्माणि जापं होमं तथापरम् ॥

कुर्यान्मन्त्रयुक्तेन चक्रवर्तिकुलेन वा ।
एकाक्षरेणेव सर्वाणि कुर्यात् सर्वकर्मसु ॥

महाप्रभावार्थयुक्तोऽसौ एकवीर सदापरम् ।
आचरेत् सर्वमन्त्राणां कल्पं तेषु सदा जपी ॥

सिद्ध्यन्ते सर्वकल्पानि लौकिका लोकसम्मता ।
लोकोत्तराश्च महावीर्या विद्याराजाश्च महातपाः ॥

सिद्ध्यन्ते सर्वमन्त्रा वै अस्मिन् कल्पे तु तान्यतः ।
मुनिभिः कथितं ये वै मन्त्रं तथा दशबलात्मजैः ॥

शक्राद्यैर्लोकपालैस्तु विष्णुरीशानब्रह्मणैः ।
चन्द्रसूर्यैस्तथान्यैर्वा यक्षेन्द्रैराक्षसैस्तथा ॥

महोरगैः किन्नरैश्चापि तथा ऋषिवरैर्भुवि ।
गरुडैर्मातरैर्लोकैः तथान्यैः सत्त्वसञ्ज्ञिभिः ॥

भाषिता ये तु मन्त्रा वै सिद्धिं गच्छन्ति ते इह ।
आकृष्टाः सर्वमन्त्राणां प्रणेता सर्वकर्मणाम् ॥

वशिता सर्वमन्त्राणां प्रणेता सर्वकर्मणाम् ।
वशिता सर्वभूतानां तन्त्रमन्त्रसविस्तराम् ॥

एष एकाक्षरो मन्त्रः करोति सर्वमन्त्रिणाम् ।
सफलं जप्तमात्रस्तु आकृष्टा सर्वदेवताम् ॥

१३७, प्। १३७)

वशिता सर्वकल्पानांश्चमी एकाक्षरो महाम् ।
करोति विविधाकारां विचित्रां साधुवर्णिताम् ॥

लौकिकां लोकमन्त्रा तु साधयेत्सम्यक् प्रयोजितः ।
परिस्फुटं तु पटं कृत्वा अशेषं चारुदर्शनम् ॥

शुचौ देशे नदीकूले पर्वताग्रे च तं न्यसेत् ।
पूर्वकर्मप्रयोगेण कुर्यात् पश्चान्मुखं सदा ॥

साधकः प्राङ्मुखो भूत्वा विधिदृष्टेन कर्मणा ।
दर्भविण्डोपविष्टस्तु कुर्याज्जपमनाकुलम् ॥

नोच्चशब्दो न मृदुः नापि चित्तपरस्य तु ।
दूषयं सर्वभूतानां क्षिप्रसिद्धिर्भवेदिह ॥

मैत्रचित्तः सदा लोके दुःखितां कृपणां सदा ।
अनाथां दीनमनसां व्यसनार्त्तां सुदुर्बलाम् ॥

पतितां संसारघोरेऽस्मिं कृपाविष्टोऽथ सिद्ध्यति ।
पटस्याग्रत यत्नेन महापूजां न्यसेत् सदा ॥

मानसी मानुषींश्चापि दिव्यां हृदयमुद्भवाम् ।
चिन्तयेत् कुर्याद्वापि जिनेन्द्रविश्वपटस्य तु ॥

तत्रैवाग्निकुण्डं कुर्या तत्त्वविधानतः ।
सुसमृद्धं साधको ह्यग्नि जुहुयात्तत्र माहुतिः ॥

श्वेतचन्दनकर्पूरं कुङ्कुमं मिश्रपूजितः ।
शताष्टम् आहुतिं जुह्वं षड्भौ दीप्तितुमन्त्रवितु ॥

खदिरे प्लक्ष्यन्यग्रोधे पालाशे चापि नित्यतः ।
एषा समुद्भवे काष्ठे ज्वालयेद् वह्निमूर्जितः ॥

एषामभावे काष्ठानामन्यं काष्ठं समाहरेत् ।
पिचुमर्दं कद्वमम्लं च तथैव मदनोद्भवम् ॥

सर्वकण्टकिनः वर्ज्याः पापकर्मेषु कीर्त्तिताः ।
एकाक्षरेणैव मन्त्रेण कुर्याच्छान्तिकपौष्टिकम् ॥

१३८, प्। १३८)

आशु सिद्धिर्भवेत् तस्य पापं कर्म समाचरेत् ।
सर्वमन्त्रधरा ह्यत्र सकर्मा कल्पविस्तरा ॥

प्रयोक्तव्या निर्विकल्पेन सिद्धिं गच्छन्ति ते सदा ।
आकृष्यन्ते तदा मन्त्रा वरदा चैव भवन्ति ह ॥

पलाशोदुम्बरसमिधानां प्लक्षन्यग्रोध एव वा ।
घृताक्तानां दध्नसंयुक्तां मध्वोपेतां समाहिताम् ॥

जुहुयात् सर्वतो मन्त्री राज्यकामो महीतले ।
देवीं राज्यमाकाङ्क्षं जुहुयात् कुङ्कुमचन्दनम् ॥

विद्याधराणां देवानाम् आधिपत्यमकाङ्क्षयम् ।
जुहुयात् पद्मलक्षाणि षट्त्रिंशत् सकेसराम् ॥

होमान्ते वै तत्र कुर्वीत अर्घ्यं शास्तुनिवेदनम् ।
समन्ता ज्वलते तत्र पटश्रेष्ठो जिनाङ्कितः ॥

तं च स्पृष्टमात्रं तु उत्पतेद् ब्रह्ममालयम् ।
अकनिष्ठा यावदेवास्तु यावाच्चापातालसञ्चयम् ॥

अत्रान्तरे सर्वसिद्धानां राजासौ भवते सदा ।
विद्रापयति भूतानि महावीर्यो दृढव्रतः ॥

क्रमः विद्याधराणां सदा राजा भविता कर्मसाधने ।
पुनश्च कल्पमात्रं तु स जीवेद् दीर्घमध्वनम् ॥

च्युतस्तस्मिं महाकाले नियतो बोधिपरायणः ।
अपरं कर्मनित्येष कथितं सङ्क्षेपविस्तरम् ॥

श्वेतपद्मां समाहृत्य श्वेतचन्दनसंयुताम् ।
जुहुयाच्छतलक्षाणि रत्नकेतुं स पश्यति ॥

दृष्ट्वा तं जिनं श्रेष्ठं पञ्चाभिज्ञो भवेत् तदा ।
महाकल्पं चिरं जीवेद् बुद्धस्यानुवरो भवेत् ॥

पश्यते च तदा बुद्धाम् अनन्तां दिशि संस्थिताम् ।
तेषां पूजयेन्नित्यं तयैरेव च संवसेत् ॥

१३९, प्। ३९)

रत्नावती नाम धात्वैक यत्रासौ भगवां वसेत् ।
मुनिः श्रेष्ठो वरः अयो रत्नकेतुस्तथागतः ॥

तत्रासौ वसते नित्यं मन्त्रपूतो न संशयः ।
अपरं कर्ममिष्टं च कथितं ह्यग्रपुङ्गलैः ॥

नागकेसरकर्पूरं चन्दनं कुङ्कुमं समम् ।
एकीकृत्य तदा मन्त्री जुहुयाल्लक्षाष्टसप्तति ॥

होमावसाने तदा त्देव आयातीह सचक्रिणः ।
तुष्टो वरदो नित्यं मूर्ध्नि स्पृशति साधकम् ॥

स्पृष्टमात्रस्तदा मन्त्री सप्तभूम्याधिपो भवेत् ।
जिनानामौरसः पुत्रो बोधिसत्त्वः स उच्यते ॥

नियतं बोधिनिष्टस्तु व्याकृतोऽसौ भविष्यति ।
ततः प्रभृति यत्किञ्चिद् ज्ञानं ज्ञेयं जिनात्मजम् ॥

जानाति सर्वमन्त्राणां गतिमाहात्ममूर्जितम् ।
पञ्चाभिज्ञो भवेत् तस्मिन् दृष्टमात्रेण मन्त्रराट् ॥

करोति विविधाकारामात्मभावं सदा यदा ।
सर्वाकारवरोपेतां पूजाकर्मि सदा रतः ॥

भवते तत्क्षणादेव उद्युक्तो बोधिकर्मणि ।
क्षणमात्रे तदा लोकां बुद्धक्षेलां स गच्छति ॥

लोकधातुसहस्राणि अण्डा हिण्डन्ति सर्वतः ।
बुद्धानां बोधिसत्त्वानां पश्यन्ते चरितां तदा ॥

धर्मं शृणोति तत्तेषां पूजां कर्मे समुद्यतः ।
अपरं कर्ममस्तीह चक्रवर्तिजिनोद्भवे ॥

प्रदीपलक्षणं दद्याच्छुचिवर्तिर्घृतः समे ।
सौवर्णे भाजने रौप्ये ताम्रे मृचिकमेऽपि वा ॥

ते तु प्रज्वलिते दी**(?)रुपैर्लक्षप्राप्तिभिः ।
गणमात्रसन्न्यस्ते शतसाहस्रभाविकैः ॥

१४०, प्। १४०)

स्त्रीवर्जैः पुरुषैश्चापि प्रदीपहस्तैः समन्ततः ।
पटं शास्तु विम्बाख्ये दद्यात् पूजा च कर्मणि ॥

समं सर्वप्रवृत्तास्तु मन्त्रे कैकसमन्त्रिते ।
दद्याच्छास्तुनो मन्त्रैस्तत्क्षणात् सिद्धिमादिशेत् ॥

समन्ताद् गर्जितनिर्घोषं दुन्दुभीनां च निःस्वनम् ।
देवसङ्घा ह्यनेका वै साधुकारं प्रमुञ्चयेत् ॥

बुद्धा बोधिसत्त्वाश्च गगनस्थं तस्थुरे तदा ।
साधु साधु त्वया प्राज्ञ ! सुकृतं कर्म कारितम् ॥

न पश्यसि पुनर्दुःखं संसारार्णवसम्प्लुतम् ।
क्षेमे शिवे च निर्वाणे अभये बुद्धत्वमाश्रितः ॥

मार्गे शुभे च विमले अष्टाङ्गे साधुचेष्टिते ।
प्रपन्नस्त्वं मन्त्ररूपेण चक्रिमेकाक्षराक्षिते ॥

अपरं कर्ममेवास्ति उत्तमां गतिनिश्रितः ।
महाप्रभावार्थविज्ञातं सर्वबुद्धैः सम्प्रकाशितम् ॥

गृह्य निम्बमयं काष्ठं कुर्याद् वज्रं त्रिशूचिकम् ।
उभयाग्रं मध्यपार्श्वं तु कुर्यात् कुलिशसम्भवम् ॥

मन्त्रपूतं ततः कृत्वा पटस्याग्रतः कन्यसे ।
परामृश्य ततो मन्त्री जपेन्मन्त्रां समाहितः ॥

लक्षषोडशकाष्ठं च समाप्ते सिद्धिरिष्यते ।
एकज्वाली ततो वज्रः समन्तात् प्रज्वलते हि सः ॥

उज्जहार ततोऽचिन्त्यमूर्ध्वसङ्क्रमते हि सः ।
ब्रह्मलोकं ततो याति अन्यां वा देवसम्मितिम् ॥

आकाशेन ततो गच्छे सर्वसिद्धेषु अग्रणीः ।
कुरुते आधिपत्यं वै सिद्धविद्याधरादिषु ॥

वकुवर्त्तिस्ततो राजा भवते देवसन्निधौ ।
करोति विविधाकारम् आत्मभावविचेष्टितम् ॥

१४१, प्। १४१)

दश चान्तरकल्पानि चिरं तिष्ठन्न चालयेत् ।
सौख्यभागी सदा पूज्यः सुरूपो रूपवां सदा ॥

बोधिचित्तो समाचारो जन्मदुःखविवर्जितः ।
भवते सुरसिद्धस्तु सर्वपापविवर्जितः ॥

च्युतस्तस्माद् भवेन्मर्त्यो बहुसौख्यपरायणः ।
गतिं सर्वां विचेरुस्थः भवते बोधिपरायणः ॥

अनन्ता विविधा कर्मा बहुलोकार्थपूजितम् ।
पठ्यन्ते मन्त्रराजेऽस्मिं सकल्पाकल्पविस्तरात् ॥

भौम्याधिपत्यं शक्रत्वं चक्रवर्त्तित्वं च वा पुनः ।
विद्याधराणां तथा देवां कुरुते चाधिचेष्टितम् ॥

अनेकाकाररूपं वा * * * (?) यदिहोच्यते ।
सर्वसिद्धिमवाप्नोति सुप्रयुक्तस्तु मन्त्रिणा ॥

रात्रौ पर्यङ्कमारुह्य * * (?) अचिन्त्द्यं जपतो व्रती ।
प्रभाते सिद्धिमायाति पञ्चाभिज्ञो भवेज्जपी ॥

श्मशाने शवमाक्रम्य निश्चलो तं जपेद् व्रती ।
एकाक्षरं महार्थं तु प्रभाते सिद्धिमिष्यते ॥

श्मशानस्थो यदि यप्येत विद्याराजमहर्द्धिकः ।
षण्मासैः सिद्धिमायाति यथेष्टं कुरुते फलम् ॥

यत्र वा तत्र वा स्थाने जप्यमानो महर्द्धिकः ।
सण्मासैः सिद्धिमायाति यथेष्टं कुरुते फलम् ॥

यत्र वा तत्र वा स्थाने जप्यमानो महर्द्धिकः ।
तत्रस्थः सिधिमायाति सुप्रयुक्तस्तु मन्त्रिभिः ॥

सितं छत्रं तथा खड्गं मणिपादुककुण्डलम् ।
हारकेयूर पटकं * * * (?) चाङ्गुलीयकम् ॥

कटिसूत्रं तथा वस्त्रं दण्डकाष्ठकमण्डलुम् ।
यज्ञोपवीतमुष्णीषं कवचं चापि चर्मिणम् ॥

अजिनं कपलं चैव अक्षसूत्रं च पादुके ।
सर्वे ते भूषणाश्रेष्ठा लोकेऽस्मिं समतावुभौ ॥

१४२, प्। १४२)

सुरैर्मर्त्यैस्तथा चान्यैः * * * (?) भूषणानि ह ।
सर्वे सिद्धिमायान्ति पटस्याग्रत जापिने ॥

सर्वद्रव्यं तथा धातुं भूषणं मणयोऽपि च ।
अनेकप्रहरणाः सर्वे विन्यस्ता पटमग्रते ॥

सकृज्जप्ताथ संशुद्धा लक्षमष्टौ भिमन्त्रिता ।
ज्वलते सर्वसंयुक्ता उत्तिष्ठे स्पृशनाज्जपी ॥

सत्त्वप्रकृतयो वापि विविधाकाररूपिणः ।
भूषणाः प्रहरणाश्चापि मृन्मया वा स्वभाविका ॥

सुरूपचेष्टप्रकृतयः नानापक्षिगणादपि ।
सर्वभूतास्तु ये ख्याता कृत्रिमा वा ह्यकृत्रिमा ॥

सत्त्वसञ्ज्ञाथ निःसञ्ज्ञा सिद्ध्यन्ते मन्त्रपूजिता ।
विविधद्रव्यविन्यस्ता विविधा धातुकारिता ॥

विन्यस्ता पटमग्रेऽस्मिं पूर्वदृष्टविधानतः ॥

आमृष्य तं जपेन्मन्त्री षड् लक्षाणि च सप्त च ।
जपान्ते ज्वलिते तेषु सिद्धिं प्राप्नोति पुष्कलाम् ॥

स्पृष्टमात्रेषु तत्तेषाम् उत्पतेत्तु चतुर्दिशम् ।
चिरं जीवेच्चिरं सौख्यं प्राप्नोतीह दिवौकसाम् ॥

यथा यथा प्रयुज्येते विद्याराजमहर्द्धिकः ।
तथा तथा च तुष्येत वरदो च भवेत् सदा ॥

अन्यकर्मप्रवृत्तास्तु कर्मभिः कल्पविस्तरैः ।
तैरेव सिद्ध्यन्ते क्षिप्रं विद्याराजमहर्द्धिकः ॥

शुचिना शुचिचित्तेन शुचिकर्मसदारतः ।
शुचौ देशिऽथ मन्त्रज्ञः शुचिसिद्धि समृच्छति ॥

तत्कर्म तत्फलं विन्द्यादधिकादधिकं भवेत् ।
मध्ये मध्यमकर्म तु कन्यसं तु मतः परम् ॥

१४३, प्। १४३)

कर्म प्रभूतमर्थ दत्वा करोति भूतचेष्टितम् ।
असाधितः कर्मसिद्धिस्तु फलं दद्याल्पमात्रकम् ॥

नित्यं च जापमात्रेण महाभोगोऽथ महाबलः ।
राज्ञा प्रियत्वमन्त्रित्वं करोति जपिनः सदा ॥

पापं प्रणश्यते तस्य सकृज्जप्तस्तु मन्त्रराट् ।
द्विजप्तः सप्तजप्तो वा आत्मरक्षा भवेन्महाम् ॥

सहायानां सर्वतो रक्षा अष्टजप्तः करोति सः ।
वस्त्राणामभिमन्त्रीत उभौ मन्त्री तदा पुनः ॥

मुच्यते सर्वरोगाणाम् उभौ वस्त्राभिमन्त्रितौ ।
स्पर्शनं तेषु मन्त्रेषु ज्वरं नश्यति देहिनाम् ॥

सुखं चाभिमन्त्रितः अक्ष्णी वा चापि यत्नतः ।
क्रुद्धस्य नश्यते क्रुद्धो दृष्टमात्रस्तु मन्त्रिभिः ॥

ये च भूतगणा दुष्टा हिंसका पापकर्मिणः ।
मुखं तेषु निरीक्षेत त्रिंशज्जप्तेन मन्त्रराट् ॥

हस्तं चाभिमन्त्रीत स्वकं चैव पुनः पुनः ।
तेषां प्रहारमावर्ज्यामुच्यते सर्वदेहिनाम् ॥

बालानां नित्यकुर्वीत स्नपनं पानभोजनम् ।
षष्टिजप्तवरे मन्त्रे उत्कृष्टे देवपूजिते ॥

त्यजन्ते सर्वदुष्टास्तु क्रव्यादा मातरा ग्रहाः ।
मन्त्रभीतास्तु नश्यन्ते त्यजन्ते बालिशान् सदा ॥

एवम्प्रकारान्यनेकानि कर्मां चैव महीतले ।
मानुषाणां तथा चक्रे क्षिप्रं चैव सदा न्यसेत् ॥

सरिसृता ये तु भूता वै विविधा स्थावरजङ्गमाः ।
हविषा निर्विषाश्चैव नश्यन्ते मन्त्रदीरिता ॥

ये केचिद् विविधा दुःखा या काचित् सत्त्ववेदना ।
विन्यस्ता मन्त्रराजेन शान्तिमाशु प्रयच्छति ॥

१४४, प्। १४४)

विविधायासदुःखानि महामार्योपुसर्गिणः ।
नश्यन्ते क्षिप्रमेवं तु मन्त्रजप्तेन षट्छतम् ॥

कुर्याद्धोमकर्माणि मध्वमध्वाज्यमिश्रितम् ।
नीलोत्पलं सुगन्धं वै सहस्रं चाष्ट पूजितम् ॥

शान्तिं तिलेन भूतानि प्रजग्मुः स्वस्थतां जनः ।
एवम्प्रकारान्यनेकानि बहुकल्पसमुद्भवाम् ॥

सर्वां करोति क्षिप्रं वै सुप्रयुक्तस्तु मन्त्रिभिः ।
जपमात्रेण कुर्वीत अरीणां क्रोधनाशनम् ॥

अनेकमन्त्रार्थयुक्तानां कल्पानां बहुविस्तराम् ।
विधिदृष्टा भवेत् तेषां तेषु सिद्धिरिहोच्यते ॥

अवश्यं क्षुद्रकर्माणि मन्त्रजप्तो करौति ह ।
सर्वान्येव तु जप्तेन क्षिप्रमर्थकरः सदा ॥

वश्यार्थं सर्वभूतानां त्रिसन्ध्यं जपमिष्यते ।
होमकर्मं च कुर्वीत मालत्याः कुसुमैः सदा ॥

श्वेतचन्दनकर्पूरकुङ्कुमाच्च विधीयते ।
वरजापिने मन्त्रः सफलां कुरुते सदा ॥

मनीषितान्साधयेदर्था नित्यहोमेन जापिनम् ।
कर्पूरादिभि युक्तैस्तु नित्यहोमं प्रकल्पितम् ॥

साधयेद् विविधां कर्मां यथेष्टपरिकल्पिताम् ।
अल्पादल्पतरं कर्म प्रभूता भूतिमुद्भवम् ॥

मध्ये मध्यकर्माणि सदा सिद्धिरुदाहृता ।
तस्मात् सर्वेषु कर्मेषु कुर्याद्धोमं विशेषतः ॥

इति ।

बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् आर्यमञ्जुश्रियमूलकल्पात्
चतुर्दशमः चक्रवर्तिपटलविधानमण्डलसाधनोपयिकविसरः परिसमाप्त इति ॥

१४५, प्। १४५)