१३

अथ त्रयोदशः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतप्रामन्त्रयतेस्म । अस्ति मञ्जुश्रीः ! त्वदीयं
मन्त्रपटलसमस्तविन्यस्तविशेषविधिना होमकर्मणि प्रयुक्तस्य विद्यासाधकस्य
अग्न्योपचर्याविशेषविधानतः । यत्र प्रतिष्ठिता सर्वविद्याचर्यानियुक्ता सत्त्वा
प्रयुज्यन्ते । कतमं च तत् ॥

रहस्यविद्यामन्त्रपदानि । तद्यथा - ॐ उत्तिष्ठ हरिपिङ्गल ! लोहिताक्ष ! देहि ददापय
। हूꣳ फट् फट् सर्वविघ्नां विनाशय स्वाहा । एष सः मञ्जुश्रीः !
परमाग्निहृदयं सर्वकर्मकरं सर्वकामदम् ॥

आदौ तावत् साधकेन अनेनाग्निहृदयेन सकृज्जप्तं घृताहुतित्रयम् अग्नौ होतव्यम् ।
अग्निराह्वानितो भवति । तथाप्रयुक्तस्य शान्तिकपौष्टिकरौद्रकर्मेषु त्रिधा
समिधाकाष्ठानि भवन्ति ॥

अशोककाष्थं शान्त्यर्थे सार्द्रं चैव विशिष्यते ।
वितस्तिहस्तमात्रं वा त्र्यङ्गुलं वापि चोच्छृतम् ॥

स्निग्धाकारप्रशस्तं तु विधिरेषा विधीयते ।
अकोटरम् असुषिरं वापि शुकपत्रनिभं तथा ॥

हरितं शुक्लवर्णं वा कृष्णवर्णं विवर्जयेत् ।
कृमिभिर्न च भक्षितं वर्ज्यमकोटरं वापि सन्दधेत् ॥

अन्यवर्णो प्रकृष्टास्तु अधर्मश्चैव वर्जिता ।
नातिशुष्का न चार्द्रापि न च दग्धं समारभे ॥

अपूतिम् अवक्रं चैव अत्युच्चं चापि वर्जयेत् ।
अग्निकुण्डं तथा कृत्वा चतुःकोणं समन्ततः ॥

अधश्चेन खनेद्यत्नाच्चतुर्हस्तं प्रमाणतः ।
त्रिहस्तं द्वे तु हस्तानि एकहस्तं तथैव च ॥

प्राणिभिर्विवर्जितं नित्यं सिंहतासंस्थितं च तत् ।
पद्माकारं ततो वेदिः समन्तान्मण्डलाकृतिः ॥

१२४, प्। १२४)

चतुरश्रं चापि यत्नेन कुर्याच्चापाकृतिं तथा ।
वज्राकारसङ्काशम् उभयाग्रं त्रिसूचिकम् ॥

कुर्यादग्निकुण्डेऽस्मिं द्विहस्ता तियं*(?) तत् ।
शुचौ देशे परामृष्टे नदीकूले तथा वरे ॥

एकस्थावरदेशे च श्मशाने शून्यवेश्मनि ।
कु *(?) द्धोमं सुसंरब्धो पर्वताग्रे तथैव च ॥

शून्यदेवकुले नित्यं महारण्ये तथैव च ।
यानि साधनदेशानि कथितान्यग्रपुङ्गलैः ॥

एतानि स्थानान्युक्तानि होमकर्मिति सर्वतः ।
कुशविण्डकोपविष्टेन स्थित्वा हस्तमात्रं ततः ॥

कर्यात् तत्र मन्त्रज्ञो होमकर्म विशेषतः ।
क्षिप्रमेभिः स्थितं सिद्धिः स्थानेष्वेव न संशयः ॥

प्राङ्मुखो उदङ्मुखो वापि कुर्यात् शान्तिकपौष्टिके ।
दक्षिणेन तु रौद्राणि तानि मन्त्री तु वर्जयेत् ॥

प्राङ्मुखे शान्तिका सिद्धिः पौष्टिके चापि उदङ्मुखा ।
एबिह्र्मन्त्री सदाकालं मन्त्रजापं तु मारभेत् ॥

बिल्वाम्रप्लक्षन्यग्रोधैः कुर्यात् कर्मणि पौष्टिकम् ।
आभिचारुककाष्ठानि शुष्ककट्वाम्लतीक्ष्णकाः ॥

तानि सर्वाणि वर्जीत निषिद्धा मुनिभिः सदा ।
शान्तिके पौष्टिके कर्मे सार्द्रकाष्ठा प्रशस्यते ॥

रौद्रकर्मे तथा कर्मा वर्जिता मुनिभिः सदा ।
तेषामभावे समिधानां काष्ठं तेषां तु कल्पयेत् ॥

समन्ता कुशसंस्तीर्णम् उभयाग्रं तु कल्पयेत् ।
हरितैः स्निग्धसङ्काशैर्मयूरग्रीवसन्निभैः ॥

तधाविधैः कुशैर्नित्यं कुर्यात् शान्तिकपौष्टिकम् ।
मरकताकाशसङ्काशैस्तथा शुष्कैः त्रिणैः सदा ॥

१२५, प्। १२५)

कुर्यात् पावककर्माणि निषिद्धा जिनवरैरिह ।
निर्मले चाम्भसो शुद्धे कृमिभिर्वर्जिते सदा ॥

ततोऽभ्युक्ष्य समन्ता वै कुर्याच्चापि प्रदक्षिणम् ।
ज्वालयेद् वह्नि युक्तात्मा उपस्पृश्य यथाविधि ॥

शुचिना तृणमूलेन कुर्यादुल्कां प्रमाणतः ।
मुष्टिमात्रं ततो कृत्वा ज्वालयेद् वह्नि यत्नतः ॥

न चापि मुखवातेन वस्त्रान्तेन वा सदा ।
निवासनप्रावरणाभ्यां वर्जिता नान्यमम्बरे ॥

न चापि हस्तवातेन उपहन्याभिरतेन वा ।
शुचिव्यजनेन तथा वस्त्रे पर्णे चापि प्रवातये ॥

समीरिते कृते वह्नौ एभिरुद्भूतमारुते ।
ज्वालयेदधिमन्त्रज्ञो होमार्थी सुसमाहितः ॥

त्रीन्वारां ततोऽभ्युक्षे कृत्वा वा अपसव्यकम् ।
आहुतित्रयं ततो दद्या आज्ये गव्ये तु तत्र वै ॥

ततो कुर्यात् प्रणामं वै सर्वबुद्धानतायिनाम् ।
स्वमन्त्रमन्त्रनाथं च ततो वन्दे यथेष्टतः ॥

अग्निहृदये ततो मन्त्रे जप्ते जप्तेन वै सदा ।
आह्वयेद् वह्नियुक्तात्मा पुष्पैरेव सुगन्धिभिः ॥

आह्वयति नित्यं मन्त्रज्ञो स्थानं दद्याद् विचक्षणः ।
आसनं स्थानं दत्वा तु तेन मन्त्रेण नान्यवै ॥

दधिप्लुतमाज्यमिश्रं तु मध्वाक्तं समिधां त्रयम् ।
जुहुयादग्निपूजार्थं मन्त्रकर्मेण सर्वतः ॥

उभयस्थं तदा कुर्यात् समिधानां द्रव्यमिश्रितम् ।
आज्यमध्वक्तसंयुक्तां दध्यमिश्रे तथैव च ॥

सहस्रं लक्षमानं **(?)ताष्टं चापि कल्पयेत् ।
गुह्यमन्त्री त
(?) मन्त्रं सकृज्जप्त्वा क्षिपेत् शिखौ ॥

१२६, प्। १२६)

ज्वालामालिने वह्नौ एकज्वाले तथैव च ।
शान्तिकर्मणि जुह्वीत निर्धूमे चापि पौष्टिकम् ॥

सधूमे रौद्रकर्माणि गर्हिते जिनवर्णिते ।
होमकर्मप्रयुक्तस्तु अग्नौ वर्णो भवेद्यदि ॥

शान्तिके सितवर्णस्तु शस्तं जिनवरैः सदा ।
सिद्ध्यन्ति तत्र मन्त्रा वै सितेऽग्नौ जुह्वतो यदि ॥

रक्तवर्णं तथा नित्यं पौष्टिकात् सिद्धिमिष्यते ।
कृष्णे वा धूमवर्णे च कपिले चापि पायिकम् ॥

इत्येषा त्रिविधा सिद्धिः त्रिधा वर्णप्रवर्तिता ।
अन्यवर्णाभ्रवर्णा वा विविधाकारवर्णिता ॥

न सिद्धिस्तेषु मन्त्राणां पुनरस्तीह महीतले ।
तादृशं वर्णसङ्काशं विविधाकारवर्णितम् ॥

शिखिं ज्वलन्तं दृष्ट्वा तु पुनः कर्मं समारभेत् ।
भूयोऽपि कृतजापस्तु मन्त्रसिद्धिर्भवेद् यदि ॥

पुनर्होमं प्रवर्तीत विधिदृष्टेन कर्मणा ।
विसर्ज्याह्वानना चैव वह्निं मन्त्रमुदीरयेत् ॥

पूर्वप्रकल्पितेनापि मण्डलेऽस्मिं यथाविधि ।
तेनैव कुर्याद्धोमं वै विसर्जनाह्वाननकर्मणाम् ॥

सर्वकर्माणि तेनैव कुर्यात् तत्रैव कर्मणि ।
अग्निचर्या तथारूपं पटस्याग्रतः मारभेत् ॥

सिद्ध्यन्ति तत्र मन्त्रा वै पूर्वमुक्तं तथागतैः ।
जिनवर्णितकर्माणि कुर्यान्न च तत्र वै सर्वतः ॥

नान्यकर्माणि कुर्वीत पापकानि विशेषतः ।
गर्हीता जिनवरैर्यद्व विरुद्धां लोककुत्सिताम् ॥

उत्तिष्ठ चक्रवर्तिर्वा बोधिसत्त्वोऽथ भूमिषः ।
पञ्चाभिज्ञं तथा लाभे देवत्वं वाथ सिद्ध्यति ॥

१२७, प्। १२७)

पटेऽस्मिन् नित्ययुक्त*(?) होमकर्मविशारदः ।
पातालाधिपत्यं वा अन्तरीक्षचरामथ ॥

भौम्यदेवयक्षत्वं यक्षीमाकर्षणे सदा ।
राज्ये आधिपत्ये वा विषयेऽस्मिं ग्राम एव वा ॥

विद्याधरमसुरत्वं सर्वसत्त्ववशानुगे ।
आकर्षणे च भूतानां महासत्त्वां महात्मनाम् ॥

बोधिसत्त्वां महासत्त्वां दशभूमिसमाश्रिताम् ।
आनयेद्धोमकर्मेण किं पुनर्मानुषं भुवि ॥

मिं

सेनापत्यं तथा लोके ऐश्वर्ये च विशेषतः ।
सर्वभूतसमावश्यं नृपतत्वं तथापि च ॥

वश्यार्थं सर्वभूतानां नृपतेर्वापि समं भुवि ।
सर्वकर्मान् तथा नित्यं कुर्याद्धोमेन सर्वतः ॥

सर्वतो सर्वयुक्तात्मा सर्वकर्म समाश्रयेत् ।
नियतं सिद्ध्यते तस्य कर्म श्रेयोऽर्थमुत्तमम् ॥

मध्यमाश्चैव सिद्ध्यन्ते कर्मा कन्यस एव वा ।
सर्वद्रव्याणि तत्रैव सिद्धिमुक्ता त्रिधा पुनः ॥

दृश्यते सफला सिद्धिः होमकर्मे प्रवर्तिते ।
मुद्रा पञ्चशिखां बध्वा मन्त्रां चैव केशिनीम् ॥

कुर्यात् सर्वकर्माणि आत्मरक्षावानुधीः ।
होमकर्मे प्रवृत्तस्तु पठेन्मन्त्रमिमं ततः ॥

सप्तजप्ताष्टजप्तं वा कर्मेऽस्मिम् इदं सदा ।

नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानाम् । तद्यथा - ॐ ज्वल
तिष्ठ हूꣳ रु रु विश्वसम्भव सम्भवे स्वाहा ।

अनेन मन्त्रप्रयोगेण जपे काष्ठं पुनः पुनः ।
द्विजप्त। सप्तजप्तं वा जुह्वादग्नौ स मन्त्रवित् ॥

पुष्पधूपगन्धं वा सर्वं चैव समन्ततः ।
वारिणा मन्त्रजप्तेन अनेनैव तु प्रोक्षयेत् ॥

१२८, प्। १२८)

ततो सर्वकर्माणि आरभेद् विधिहेतुना ।
पूर्वप्रयोगेणैव कर्त्तव्यो सर्वकर्मसु ॥

पूर्वपञ्चशिखां बध्वा महामुद्रां यशस्विनीम् ।
कृतरक्षो ततो भूत्वा केशिन्या चैव सदा जपी ॥

आरभेत् सर्वकर्माणि सिद्धिहेतो विशारदाः ।
शकुना यदि दृश्यन्ते शब्दा चैव शुभा सदा ॥

सफलास्तस्य मन्त्रा वै वरदाने यथेप्सतः ।
आदिकर्मेषु प्रयुक्तस्तु प्रवृत्ता मन्त्रहेतुना ॥

सफला सकला चैव सिद्धिस्तेषु विधीयते ।
जयशब्द पटहो वा दुन्दुभीनां च न्निस्वनम् ॥

सिद्धिः सर्वत्र ह्युक्ता होमकर्मे समाश्रितः ।
अन्या वा शकुना श्रेष्ठा पक्षिणानां वा शुभा रुताः ॥

विविधाकारनिर्घोषा शब्दार्था जिनवर्णिताः ।
प्रशस्ता दिव्या मङ्गल्या दिव्या मनोज्ञा विविधा रुताः ॥

छत्रध्वजपताकांश्च योषिताचाप्यलङ्कृताः ।
पूर्णकुम्भं तथा अर्घदर्शनं सिद्धिहेतवः ॥

अनेकाकारवर्णा वा प्रशस्ता लोकपूजिता ।
तेषां दर्शन सिध्यन्ते मन्त्रा विविधगोचरा ॥

इति ।

बोधिसत्त्वपिटकावतसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रीमूलकल्पात्
त्रयोदशमपटलविसरः परिसमाप्तमिति ॥

१२९, प्। १२९)