अथ द्वादशः पटलविसरः ।
अथ खलु भगवांश्छाक्यमुनिः पुनरपि सर्वावन्तं
शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म ।
शृणुत्वं मञ्जुश्रीः ! त्वदीयं विद्यामन्त्रानुसारिणां
सकलसत्त्वार्थसम्प्रयुक्तानां सत्त्वानाम् । येन जाप्यन्ते मन्त्राः येन वा जाप्यन्ते
अक्षसूत्रविधिं सर्वतन्त्रेषु सामान्यसाधनोपयिकसर्वमन्त्राणाम् । तं शृणु
साधु च सुष्ठु च मनसि कुरु । भाषिष्ये ॥
एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् । साधु भगवां ! तद्
वदतु अस्माकमनुकम्पार्थं सर्वमन्त्रचर्यानुसमयप्रविष्टानां
सत्त्वानामर्थाय सर्वसत्त्वानां च ॥
एवमुक्ते मञ्जुश्रिया कुमारभूतेन भगवानस्यैतदवोचत् । शृणु त्वं
मञ्जुश्रीः ! भाषिष्ये विस्तरविभागशोः येन सर्वमन्त्रचर्याभियुक्ताः सत्त्वाः
सर्वार्थां साधयन्ति । कतमं च तत् ॥
आदौ तावन्मन्त्रं भवति । नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम् ।
तद्यथा - ॐ कुरु कुरु सर्वार्थां साधय साधय सर्वदुष्टविमोहनि !
गगनावलम्बे ! विशोधय स्वाहा ।
अनेन मन्त्रेण सर्वाक्षसूत्रेषु कर्माणि कुर्यात् ।
शोधनवेधनगृह्णनविरेचनादीनि कर्माणि कुर्यात् प्रथममक्षसूत्रेण वृक्षं
चाभिमन्त्रयेत् ।
सप्तत्रिंशतिवाराणि कृतरक्षो व्रती तदा ।
एकरात्रं स्वपे तत्र स्वप्ने चैव स पश्यति ॥
अमनुष्यं रूपसम्पन्नं विरूपं वा चिरकालयम् ।
क्रवते तस्य सौमित्री गृह्यमर्थयथावनः ॥
ततोऽसौ साधको गच्छेत् प्रातरुत्थाय तं तरुम् ।
चापि पश्यते स्वप्नं विरूपं वा महोत्कटम् ॥
वर्जयेत् तं तरुं मन्त्री अन्यत्रं नाथ गच्छेय ।
प्रथमं रुद्रमक्षं तु इन्द्रमक्षमतः परम् ॥
११९, प्। ११९)
पुत्रञ्जीवकभिष्टं वा अन्यं वा फलसम्भवः ।
वृक्षारोहसुसम्पन्नैः सहायैश्चापि मारुहेत् ॥
सहायानामभावेन स्वयं वा आरुद्देज्जपी ।
ऊर्ध्वशाखाफलस्था * * * * * * * * * (?) ॥
ऊर्ध्वशाखां फलं गृह्य ऊर्ध्वकर्म प्रयोजयेत् ॥
ऊर्ध्वे उत्तमा सिद्धिः कथितं ह्यग्रपुङ्गलैः ।
मध्यमे मध्यमा सिद्धिः कन्यसे ह्यधमेवतु ॥
फलं तेषु समादाय अकुप्सां प्राणिभिः सदा ।
पश्चिमे शाखिनां प्राप्य सिध्यन्ते द्रव्यहेतवः ॥
उत्तरे यक्षयोन्यादीम् आनयेद्देवतां सह ।
कृत्यमाकर्षः ख्यातो सर्वभूतार्थशान्तये ॥
देवतासुरगन्धर्वा किन्नरामथ राक्षसा ।
विधे सुकुरुते कर्मं सर्वभूतार्थपुष्टये ॥
सफलां कुरुते कर्माम् अशेषां भुवि चेष्टिताम् ।
पूर्वायां दिशि ये शाखा तत्रस्था फलसम्भवा ॥
तेषु कुर्यात् सदा यत्नाद् दीर्घायुष्यार्थहेतवः ।
करोति विविधाकारां यत्र सिद्धिः फलैः सदा ॥
या तु दक्षिणतो गच्छेत् शाखा पर्णानुशालिनी ।
तं जपी वर्जयेद् यस्मात् सत्त्वानां प्राणहारिणी ॥
दक्षिणासृतशाखासु फला ये तु समुच्छ्रिता ।
अक्षैः तैः समं जप्याः शत्रूणां पापनाशनम् ॥
तं जापी वर्जयेद् यत्नाद् बहुपुण्यानुहेतवः ।
अधःशाखावलम्बस्था फला ये तु प्रकीर्तिता ॥
गच्छेद् रसातलं तैस्तु दान्वानां च योषिताम् ।
तैः फलैः अक्षसूत्रं तु गृहीता सम्प्रकीर्तिता ॥
१२०, प्। १२०)
अधो या यां तु निलयाः पातालं तेन तं व्रजेत् ।
प्रविश्य तत्र वै दिव्यं सौख्यमासाद्य जापिनः ॥
आसुरीभिः समासक्तो तिष्ठेत् कल्पं वसेच्चसौ ।
गृह्य अक्षफलं सर्वां ततो अवतरेज्ज्रपी ॥
कृतरक्षो सहायैस्तु ततो गच्छेद् यथासुखम् ।
गत्वा तु दूरतः स्थानं शुचौ देशे तथा नित्यम् ॥
तिष्ठेत्तत्र तु मन्त्री शोधयेमक्षमुद्भवाम् ।
गृह्य अक्षफलद्युक्तो संशोध्यं वाथ सर्वतः ॥
संशोध्य सर्वतः अक्षां वेधयेन्मन्त्रशालिनः ।
तृसप्तरष्ट एकं वा वारां ते एकविंशति ॥
शोधयेन्मत्रसत्त्वज्ञो पूर्वमन्त्रेण तुः सदा ।
सप्तजप्तेथमष्टैर्वा ततो शुद्धिः समिष्यते ॥
कन्याकर्तितसूत्रेण पद्मनालासमुत्थितैः ।
त्रिगुणैः पञ्चभिर्युक्तो कुर्याद् वर्त्तितकं व्रती ॥
तं ग्रन्थेन्मन्त्रतत्त्वज्ञो फलां सूक्ष्मां सुवर्तुलाम् ।
अच्छिद्रां प्राणकैर्नित्यम् अव्यङ्गां वाप्यकुत्सिताम् ॥
शोभनां चारुवर्णांस्तु अच्छिद्रामस्फुटितां तथा ।
रुद्राक्षं सुतजीवं वा इन्द्राक्षफलमेव तु ॥
अरिष्टां शोभनां नित्यम् अव्यङ्गां फलसम्मताम् ।
ग्रन्थेन्मन्त्री सदा ह्युक्तो अक्षमालां तु यत्नतः ॥
सौवर्णमथ रूप्यं वा माणिक्यं स्फाटिकं समम् ।
शङ्खं सुसारं चैव मौक्तं वापि विधीयते ॥
प्रवालैर्विविधा माला कुर्यादक्षमालिकाम् ।
अन्यरत्नांश्च वै दिव्यान् कुर्यात् शुभामालिकाम् ॥
पार्थिवैर्वर्तुलैर्गुलिकैर्ग्रन्थेत् सूत्रे समाहितः ।
अन्यं वा गुलिकां किञ्चित् फलैर्वा धातुसम्भवैः ॥
१२१, प्। १२१)
कुशाग्रग्रथिकां चैव कुर्याद् यत्नानुजापिनः ।
शताष्टं पञ्चविंशं वा पञ्चाशं चैव मध्यमाम् ॥
एतत्प्रमाणमालां तु ग्रथेन्मन्त्री समाहितः ।
सहस्रं साष्टकं चैव कुर्यान्मालां तु ज्येष्ठिकाम् ॥
एतच्चतुर्विधां मालां ग्रथितं नित्यमन्त्रिभिः ।
ततो ग्रथितुमाला वै त्रिमात्रां द्विक एव वा ॥
पुष्पलोहमयैः कटकैः सौवर्णैः रजतैस्तथा ।
ततो ताम्रमयैर्वापि ग्रथेन्मालां समासतः ॥
ततोऽन्ते पाशकं कृत्वा न्यसेत् तदानुपूर्वतः ।
वेष्टयेत् तं तृसन्धन्ताद् यथा बद्धोऽवतिष्ठति ॥
परिस्फुटं तु ततो कृत्व मण्डलाकारदर्शनम् ।
सर्वभोगतथाकारं परिवेष्ट्याभिभूषितम् ॥
मुक्ताहारसमाकारो कण्ठिकाकारनिर्मितः ।
स्नात्वा शुभे अम्भे सरिते वापि निर्मले ॥
स्नात्वा च यथापूर्वम् उत्तिष्ठे सलिलालयात् ।
उपस्पृश्य यथायुक्त्या गृह्यमक्षाणुसूत्रितम् ॥
प्रक्षाल्य पञ्चगव्यैस्तु तथा मृत्तिकचूर्णिकैः ।
प्रक्षाल्य शुभे अम्भे सुगन्धैश्चानुलेपनैः ॥
प्रशस्तैर्वर्णकैश्चापि श्वेतचन्दनकुङ्कुमैः ।
प्रक्षाल्य यत्नतो तस्मात् ततो गच्छेदुडयं तथा ॥
यथास्थानं तु गत्वा वै यत्रासौ पटमध्यमः ।
जिनश्रेष्ठो मुनिर्मुख्यो शाक्यसिंहो नरोत्तमः ॥
शास्तुविम्वे तथा नित्यं भ्वि धातुवरे जिने ।
संस्थाप्य पटे तस्मिम् अग्रते समुपस्थिते ।
सहस्राष्टशतं जप्तं शतं चैकत्र साष्टकम् ॥
१२२, प्। १२२)
अहोराधोषितो भूत्वा ददौ मालां मुनिसत्तमे ।
कृतजापी तथा पूर्वं प्रमाणेनैव तत्समः ॥
परिजप्य ततो मालां रात्रौ तत्रैव सन्न्यसेत् ।
स्वपेत् तत्रैव मन्त्रज्ञः कुशसंस्तरणे भुवि ॥
स्वप्ने यद्यसौ पश्य शोभनां स्वप्नदर्शनाम् ।
सफलां स्वप्ननिर्दिष्टां सिद्धिस्तस्य विधीयते ॥
बुद्धश्रावकखड्गीणां स्वप्ने यद्य दृश्यते ।
सफलं सिद्ध्यते मन्त्री ध्रुवं तस्य विधिक्रिया ॥
कुमाररूपिणं वालं विचित्रं चारुदर्शनम् ।
स्वप्ने यद्यसौ दृष्ट्वा मालां दद्या तथैव च ॥
अमोघं तस्य सिद्ध्यन्ते मन्त्रा सर्वार्थसाधका ॥
इति ।
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाद्
मध्यमपटविधानविसराद् द्वादशमः अक्षसूत्रविधिपटलविसरः परिसमाप्त इति
॥
१२३, प्। १२३)