११

अथैकादशः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य
मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः ! त्वदीयं
मध्यमं पटविधानं मध्यमकर्मोपयिकसाधनविधिः समासतो तां
भाषिष्ये । तं शृणु । साधु च सुष्ठु च मनसि कुरु । भाषिष्ये ॥

अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेवमाहुः - तद् वदतु भगवां
लोकानुकम्पको शास्ता सर्वसत्त्वहिते रतः । यस्येदानीं कालं मन्यसे ।
अस्माकमनुकम्पार्थमनागतानां च जनतामवेक्ष्य ॥

एवमुक्ते भगवां मञ्जुश्रिया कुमारभूतेन भगवानेतदवोचत् । शृणु
मञ्जुश्रीः ! आदौ तावत् शीलव्रतशौचाचारनियमजपहोमध्यानविधिं यत्र
प्रतिष्ठिता सर्वमन्त्रचर्यासाधनकर्माण्यवन्ध्यानि भवन्ति सफलानि । आशु च
सर्वमन्त्रचर्यासाधनकर्मान्यवन्ध्यानि भवन्ति सफलानि । आशु च
सर्वमन्त्रप्रयोगानि सिद्धिं गच्छन्ति । कतमं च तत् । भाषिष्येऽहं शृणु
कुमार ! ॥

आदौ तावद् विद्याव्रतशीलचर्यासमादानं प्रथमत एव समाददेत् । प्रथमं
तावन्मण्डलाचार्योपदेशनसमयमनुप्रविशेत् । त्वदीयं कल्पराजोक्तं व्यक्तं
मेधाविनं लब्ध्वाचार्याभिषेकत्वं शासनाभिज्ञं कुशलं व्यक्तं
धार्मिकं सत्यवादिनं महोत्साहं कृतज्ञं दृढसौहृदं नातिवृद्धं
नातिवालं निस्पृहं सर्वलाभसत्कारेषु ब्रह्मचारिणं कारुणिकं न
लोभमात्रेण भोगहेतोर्वा अनुनयहेतोर्वा न मृषां वदते कः पुनर्वादो
स्वल्पमात्रैणैव लोभमोहप्रकारैः दृढप्रतिज्ञा समता सर्वभूतेषु दयावां
दानशीलः कृतपुरश्चरणः त्वदीयगुह्यमन्त्रानुजापी पूर्वसेवकृतविद्यः
त्वदीयमण्डलसमनुपूर्वप्रविष्टः लोकज्ञः विधिज्ञः समनुग्राहकः
कार्यावां विचक्षणः श्रेयसप्रवृत्तः अभीरु अच्छम्भिनगमङ्कुभूतः
दृढवीर्यः अव्याधितः येन व्याधिना अकर्मशीली प्रहोच्चकुलप्रसूतश्चेति ।
एभिर्गुणैर्युक्तो मण्डलाचार्यो भवति ॥

साधकश्च तत्समः न्यूनो वा किञ्चिदङ्गैः तादृशं मण्डलाचार्यमभ्यर्थ्य
प्रार्थयेत् । इच्छाम्याचार्येण महाबो****(?) कुमारभूतस्यार्यमञ्जुश्रियस्य
समयमनुप्रविष्टुम् । तद् वदत्वाचार्योऽस्माकमनुकम्पार्थं हितचित्तो दयावाम् ।

९४, प्। ९४)

ततस्तेन मण्डलाचार्येण पूर्वनिर्दिष्टेन विधिना शिष्यां यथापूर्वं परीक्ष्य
प्रवेशयेत् । पूर्ववदभिषेकं दत्त्वा मन्त्रं दद्यात् । यथावत् क्रमशो समयं
दर्शयेत् । रहस्यतन्त्रमुद्रामनुकर्माणि च प्रभूतकालेनैव सुपरीक्ष्य आशयं
ज्ञात्वा दर्शयेत् । सर्वतन्त्रमन्त्रादिषु कर्माणि नान्येषामिति विधिरेषा प्रकीर्त्तिता ॥

ततः शिष्येण मण्डलाचार्यस्य यथाशक्तितः आचार्यो वा येन तुष्येत आत्मानं
भोगांश्च प्रतिपादयेत् ॥

ततस्तेन मण्डलाचार्येण पुत्रसञ्ज्ञा उपस्थापयितव्या । पुत्रवत् प्रतिपत्तव्यम् ।
मातुश्च भोगा उपसंहर्तव्या इति ॥

ततस्तेन साधकेन अन्यतमं मन्त्रं गृहीत्वा एकान्तं गत्वा पूर्वनिर्दिष्टे स्थाने
पेयालं तैरेव मन्त्रैः आह्वाननविसर्जनप्रदीपगन्धधूपबलिनिवेद्यं
मण्डलोक्तेन विधिना विस्तरेण कर्त्तव्यम् । आहूय अर्घमासनं दत्त्वा त्रिसन्ध्या
त्रिस्नायी त्रिचैलपरिवर्ती जापं कुर्यात् प्रत्यहं तत्र सन्ध्याकालं नाम रात्र्यन्तात्
प्रभृति यावद् युगमात्रादित्योदयम् । अत्रान्तरे प्रथमं सन्ध्यमुच्यते ।
मध्यन्दिने च आदित्ये उभयान्ते युगमात्रं प्रमाणं व्योम्नि सन्निश्रितं
रविमण्डलं मध्यं सन्ध्यमुच्यते । अस्तमनकाले च युगमात्रशेषं त्रितीयं
सन्ध्यमुच्यत इति ॥

शीलव्रतसमायुक्तमाचार्यं दक्षपण्डितम् ।
महाकुलोच्चप्रसूतं च दृढवीर्यं तु सर्वतः ॥

मन्त्र तन्त्रभियुक्तं च सर्वकार्येषु दक्षधीः ।
सूक्ष्मो निपुणमन्त्रज्ञः धर्मधातुधरो सदा ॥

वहोत्साही च तेजस्वी लोकधर्मानुपेक्षिणः ।
श्राद्धो मुनिवरधर्मोऽपि लौकिकानां तु वर्जिताः ॥

कृतजापी विवेकज्ञो पूर्वसेवागुरोविनः ।
मन्त्रज्ञो मञ्जुघोषस्य दृष्टप्रत्ययतत्परः ॥

९५, प्। ९५)

लौकिकानां प्रयोगज्ञो मन्त्राणां बुद्धभाषिताम् ।
कृतरक्षो दृढस्यामो शौचाचाररतः सदा ॥

बुद्धोपदेशितं मार्गमनुवर्त्ती च सर्वतः ।
उद्युक्तो मन्त्रजापेऽस्मिं प्रशस्ते जिनवर्णिते ॥

दृष्टकर्मफले नित्यं परलोके तथैव च ।
भीरुः स्यात् सर्वपापानामणुमात्रं तथैव च ॥

शुचिर्दक्षोन्यनलसः मेधावी प्रियदर्शनः ।
दशबलैः कथिता मन्त्रास्तथैव जिनसूनुभिः ॥

लौकिका ये च मन्त्रा वै वज्रान्तकुलयोरपि ।
तेषां कुतश्रमो नित्यं ग्रन्थशास्त्रार्थधारकाः ॥

अव्याधितो नशक्तिष्ठो जरावाल्योविवर्जितः ।
सिद्धमन्त्रो तथारक्षो आशुकारी तु सर्वतः ॥

अदीर्घसूत्री तथा मानी इङ्गितज्ञो विशेषतः ।
ब्रह्मचारि महाप्राज्ञो एकाकीचरसङ्गकृत् ॥

लब्धाभिषेको शूरश्च तन्त्रेऽस्मिन् मञ्जुभाषिते ।
कृतजापान्तकृद्युक्तो कृतविद्यो तथैव च ॥

महानुभावो लोकज्ञो गतितत्त्वानुचिन्तकः ।
श्रेयसायैव प्रयुक्तश्च दाता भूतहिते रतः ॥

तथा विशिष्टो आचार्यो प्रार्थनीयो सदा तु वै ।
लिखितं तेन मन्त्राणां मण्डलं सिद्धिमर्छति ॥

अभिषेकं तु तेनैवं दत्तं भवति महत् फलम् ।
सिद्धिकामस्तु शिष्यैर्वा पूज्योऽसौ मुनिवत् सदा ॥

अलङ्घ्यं तस्य वचनं शिष्यैः कर्तव्य यत्नतः ।
भोगास्तस्य दातव्याः यथा*****(?)भवाः ॥

स्वल्पमात्रा प्रभूता वा येन * * * * (?) गच्छति ।
कायजीवितहेत्वर्त्थं चित्तं देहं यथा पितुः ॥

९६, प्। ९६)

तथैव शिष्यो धर्मज्ञो आचार्याय ददे धनम् ।
प्राप्नुयाद् यशः सिद्धिम् आयुरारोग्यमेव तु ॥

पुष्कलं गतिमाप्नोति शिष्यो पूज्यस्तु तं गुरुम् ।
मन्त्रास्तस्य च सिध्यन्ति विधिमार्गोपदर्शनात् ॥

सेवनाद् भजनाद् तेषां मानना पूजनादपि ।
तुष्यन्ते सर्वबुद्धास्तु तथैव जिनवरात्मजाः ॥

सर्वे देवास्तु तुष्यन्ते सत्क्रिया तु गुरौ सदा ।
एतत् कथितं सर्वं गुरूणां मन्त्रदर्शिनाम् ॥

समयानुप्रवेशिनां पूर्वं प्रथमं वा साधकेन तु ।
जनो वा तत्समो वापि उत्कृष्टो वा भवेद् यदि ॥

नावमन्यो गुरुर्नित्यं मेकाद्वा अधिकोऽपि वा ।
तेनापि तस्य तन्त्रेऽस्मिम् उपदेशः सदा तु वै ॥

कर्तव्यो मन्त्रेसिद्धस्मै यथासत्त्वानुदर्शिते ।
न मत्सरो भवेत् तत्र शिष्येऽस्मिं पूर्वनिर्मिते ॥

स्नेहानुवर्तिनी चक्षुः सुप्रतिष्ठितदेहिनाम् ।
तमेव कुर्याच्छिष्यत्वम् आचार्या शिष्यहेतवः ॥

अन्योन्यानुवर्तिनी यत्र स्नेहसन्ततिमानिनी ।
स्निग्धसन्तानानुधरा नु मन्त्रं दद्यात्तु तत्र वै ॥

आचार्यो शिष्यमेवं तु शिष्यो वा गुरुदर्शने ।
उत्सुकौ भवतः नित्या साध्वसयोगतः उभौ ॥

तेषां नित्यं तु मार्गं वै मन्त्रचर्यानुदर्शने ।
सफलानुवर्तनौ मन्त्रज्ञौ उभयो पितृपुतृणौ ॥

धृतिं तुष्टिं च **(?) तौ तथा शिष्य गुरुः सदा ।

९७, प्। ९७)

दरिद्रेभ्यश्च सत्त्वेभ्यो क्लीवेभ्यो विशेषतः ।
सर्वेभ्योऽपि सत्त्वेभ्यो मन्त्रचर्या विशिष्यते ॥

सर्वकाले व कुर्वीत अधमोत्तममध्यमे ।
सदा सर्वस्मिं धर्मेषु कुर्यानुग्रहहेतुतः ॥

ईप्सितेभ्योऽपि प्रदातव्यं गतियोनिर्विचेष्टिते ।
शिष्येणैव तु तस्मै तु मन्त्रं गृह्य यथातमम् ॥

तेनैवोपदिष्टेन मार्गेणैव नान्यथा ।
सिद्धिकामो यतेत् तस्मिन्नितरेषां परायिके ॥

पितृवत् प्रणम्य शिरसा वैनतो गच्छे यथेष्टतः ।
एकान्तं ततो गत्वा जपेन्मन्त्रं समासतः ॥

भिक्षभैक्षाशवृत्ती तु मौनी त्रिःकालजापिनः ।
पूर्वनिर्दिष्टमेवं स्याद् यथामार्गं प्रवर्तकः ॥

तदानुवृत्ती सेवी च स्थानमायतनानि च ।
महारण्यं पर्वताग्रं तु नदीकूले शुचौ तथा ॥

गोष्ठे महापुरे चापि विविक्ते जनवर्जिते ।
शून्यदेवकुले वृक्षे एकलिङ्गे शिलोच्चये ॥

महोदकतटे रम्ये पुलिने वापि दीपके ।
विविधैः पूर्वनिर्दिष्टैः देशैश्चापि मनोरमैः ॥

एतैश्चान्यैः प्रदेशैस्तु जपेन्मन्त्रं समाहितः ।
सखायैर्लक्षणोपेतैः मन्त्रार्थं नीतितार्किकैः ॥

इङ्गिताकारतत्त्वज्ञैः आत्मसमसादृशैः ।
शूरैर्विजितसङ्ग्रामैः सात्त्विकैश्च सहिष्णुभिः ॥

प्रातरुत्थाय शयनात् स्नात्वा * * * * * * (?) ॥

९८, प्। ९८)

निःप्राणके जले चैव सरिन्महासरोद्भवे ।
उद्घृष्य मात्रं मन्त्रज्ञो मृद्गोभयचूर्णितैः ॥

मन्त्रपूतं ततो कृत्वा जलं चौक्षं सनिर्मलम् ।
स्नायीत जपी युक्तात्मा नातिकालं विलङ्घये ॥

ततोत्थाय तटे स्थित्वा हस्तौ प्रक्षाल्य मृत्तिकैः ।
सप्त सप्त पुनः सप्त वारान्येकविंशति ॥

उपविश्य ततस्तत्र दन्तकाष्ठं समाचरेत् ।
निसर्जयित्वा दन्तधावनं ततो वन्देत तापिनम् ॥

वन्दित्वा लोकनाथं तु पूजां कुर्यान्मनोरमाम् ।
विविधैः स्तोत्रोपहारैस्तु संस्तुत्य पुनः पुनः ॥

सुगन्धपुष्पैस्तथा शास्तु अर्घं दत्त्वा तु जापिनः ।
प्रणम्य शिरसा बुद्धानां तदा तु शिष्यसम्भवाम् ॥

तेषां लोकनाथानाम् अग्रतो यापदेशना ।
निवेद्य चाशनो तत्र पटस्याग्रत मध्यमे ॥

कुशविण्डकृतः तत्स्थः निषण्णोपसमाहितः ।
जपं कुर्यात् प्रयत्नेन अक्षसूत्रेण तेन तु ॥

यथालब्धं तु मन्त्रं वै नान्यमन्त्रं तदा जपेत् ।
अतिहीनं च वर्जीत अतिउत्कृष्ट एव वा ॥

मध्यमं मध्यकर्मेषु जपेन्मन्त्रं सदा व्रती ।
अत्युच्चं वर्जयेद् यत्नाद् वचनं चापि चेतरम् ॥

मध्यमं मध्यकर्मेषु प्रशस्तो जिनवर्णितः ।
नात्युच्चं नातिहीनं च मध्यमं तु सदा जपेत् ॥

वचनं श्रेयसाद्युक्तो सर्वबुद्धैस्तु पूर्वकैः ।
न जपे परसासीष्ये षट्कर्मपथे सदा ॥

गुप्ते चात्मविदे देशे जपेन्मन्त्रं तु मध्यमम् ।
तथा जपे तु प्रयुक्तं स्यात् कशिन्मन्त्रार्थसुश्रुतः ।
भूयो जपेत तन्मन्त्रं मध्यमां सिद्धिमिच्छतः ॥

९९, प्। ९९)

तस्मा जन्तुविगते मन्त्रतत्त्वार्त्थसुश्रुते ।
विवेके विगतसम्पाते जपेन्मन्त्रं तु जापिनः ॥

चतुर्थे रात्रिभागे तु तदर्ध अर्ध एव तु ।
ताम्रारुणे युगमात्रे च उदिते रविमण्डले ॥

प्रथमं सन्ध्यमेवं तु कथितं मुनिपुङ्गवैः ।
युगमात्रं चतुर्हस्तो मध्यमो परिकीर्तितः ॥

अतो व्योम्ने दिते भानोः मन्त्रजापं तदा त्यजेत् ।
मन्त्रजापं तदा त्यक्त्वा विसर्ज्यार्घं ददौ व्रती ॥

शेषकालं तदाद्युक्तो कुशलेऽस्मिन् शासने मुनौ ।
सद्धर्मवाचनादीनि प्रज्ञापारमितादयः ॥

पुस्तका दशभूमाख्याः पूज्या वाच्यास्तु वै सदा ।
कालमागम्य तस्मा वै प्रणम्य जिनपुङ्गवाम् ॥

स्वमन्त्रं मन्त्रनाथं च ततो गच्छेन्न जीविकम् ।
कालचारी तथा युक्तो कालभोजी जितेन्द्रियः ॥

धार्मिको साधकोद्युक्तो प्रसन्ने बुद्धशासने ।
प्रविशेद् ग्रामान्तरं मौनी शौचाचाररतो सदा ॥

गृहे तु धार्मिके सत्त्वे प्रविशेद् भिक्षां जपी सदा ।
निष्प्राणोदकसंसिद्धे वाके शुचिसम्मते ॥

सम्यग् दृष्टिसपत्नीके प्रसन्ने बुद्धशासने ।
तथाविधे कुले नित्यं भिक्षार्त्थी भिक्षमाददेत् ॥

यथा योधः सुसन्नद्धो प्रविशेद् रणसङ्कटम् ।
अरीन् मर्दयते नित्यं रिपुभिर्न च इन्यते ॥

एवं मन्त्री सदा ग्रामं प्रविशेद् भिक्षानुजीविनः ।
रञ्जनीने ****** (?) रूपं शब्दांस्तुनै शुभाम् ॥

रागप्रश**** (?) इत्येदशुभा ***(?) ।
दृष्ट्वा कलेवरं स्त्रीषु यौवनाचारभूषितम् ॥

१००, प्। १००)

भावयेदशुचिदुर्गन्धं पूतिमूत्रादिकुत्सितम् ।
क्रिमिभिः क्लिन्नः श्मशानस्थम् अनिलं दुःखं कलेवरम् ॥

वालिशा यत्र मूढा वै भ्रमन्ति गतिपञ्चके ।
ग्रथिता कर्मसूत्रैस्तु चिरकालाभिशोभिनः ॥

अज्ञानावृतमूढास्तु जात्यन्धा दुःखहेतुकाः ।
विपरीतधियो यत्र सक्ताः सीदन्ति जन्तवः ॥

विविधैः कर्मनेपत्थैः अनेकाकाररञ्जिताः ।
दीर्घदोलाभिरूढास्तु गमनागमनेषु चेक्षिताः ॥

नृत्यतायैव युक्तस्तु चरणाकारचेष्टिता ।
सीदन्ति चिरमध्वानं यत्र सत्त्वा शुचे रताः ॥

अरघट्टघटाकारं भवार्णवमलोद्भवाः ।
न क्षयं जन्म तेषां वै दुःखवारिसम्मप्लुताम् ॥

दुःखमूलं तथा ह्युक्तो स्त्रिया बुद्धैस्तु केवलः ।
श्रावकैर्बोधिसत्त्वैस्तु प्रत्येकमुनिभिस्तथा ॥

एतन्महार्णवं दुःशोषम् अक्षोभ्यं भवसागरम् ।
यत्र सत्त्वानि मज्जन्ते स्त्रीषु चेतनवञ्चिताः ॥

नरकं तिर्यलोकं च प्रेतलोकं च साअसुरम् ।
मानुष्यं लोकं वै दिव्यं दिव्यं चैव गतिः सदा ॥

पर्यटन्ति समन्ताद्वै अशक्ताः स्त्रीषु वञ्चिताः ।
निमज्जन्ते महापङ्कात् संसारार्णवचारकात् ॥

स्त्रीषु सक्ता नरा मूढा कुणमेणैव क्रोष्टुकाः ।
यत्र सत्त्वा रता नित्यं तीव्रां दुःखां सहन्ति वै ॥

निर्नष्टशुक्लधर्माणां प्रतिष्टां बुद्धशासने ।
निवारयन्ति सर्वाणि दुःखा नैव भवार्णवे ॥

मनद्युक्ताः महे(?)स्विनः ।
तेजरि****तमित्राः तेषां दुःखे न विद्यते ॥

१०१, प्। १०१)

संयता ब्रह्मसत्यज्ञा गुरुदेवतपूजकाः ।
मातृपितृभक्तानां स्त्रीषु दुःखं न विद्यते ॥

अनित्यं दुःखतो शून्यं परमार्त्थानुसेविनाम् ।
मण्डशल्यं तथाभूतं जापिनां स्त्रीकलेवरम् ॥

रागी वालिशदुर्बुद्धिः संसारादपलायितः ।
स्त्रीप्रसक्तो भवेन्नित्यं तस्य सिद्धिर्न विद्यते ॥

न तस्य गतिरुत्कृष्टा न चापि गतिमध्यमा ।
कन्यसा नापि सिद्धिश्च दुःशीलस्येह जापिने ॥

दुःशीलस्य मुनीन्द्रेण मन्त्रसिद्धिर्न चोदिता ।
न चापि मार्गं दिदेशं वै निर्वाणपुरगामिनम् ॥

कुतः सिध्यन्ति मन्त्रा वै वालिशस्येह कुत्सिते ।
न चापि सुगतिस्तस्य दुःशीलस्येह जन्तुनः ॥

न चापि नाकपृष्ठं वै न च सौख्यपरायणः ।
कः पुनः सिद्धिमेवं स्यान्मन्त्राणो जिनभाषिताम् ॥

छिन्नो वा तालवृक्षस्तु मस्तके तु यदा पुनः ।
अभव्ये हरितत्त्वाय अङ्कुराय पुनः कार्या ॥

एवं मन्त्रसिद्धिस्तु मूढस्येह प्रकीर्तिता ।
दुःशीलो पापकर्मस्तु स्त्रीषु सङ्गी पुनः सदा ।
अकल्याणमित्रसम्पर्की कुतः सिध्यन्ति मन्त्रराट् ॥

तस्मा दान्तो सदा जापी स्त्रीदोषमविचारकः ।
सङ्गं तेषु वर्जीत सिद्धिस्तेषु विधीयते ॥

नान्येषां कथिता सिद्धिः वालिशां स्त्रीषु मूर्छिताम् ।
अव्यग्ररतो धीमां शुचिर्दक्षमसङ्गकृत् ॥

कुलीनो दृढशूरश्च सौहृदो प्रियदर्शनः ।
धर्माधर्मविचारज्ञो सिद्धिस्तेषां न दुर्लभा ॥

एवं प्रवृत्तो मन्त्रज्ञो * * * * (?) सार्त्थमाविशे ।
यथाभिरुचितं गत्वात्र स्थानं पूर्वकल्पितम् ॥

१०२, प्। १०२)

भुञ्जीत गत्वा देशे तु कल्पिकं * * * * * (?) ।
शुचौ देशे तु संस्थाप्य भिक्षाभागनशुद्धधीः ॥

पादौ प्रक्षाल्य बहिर्गत्वा तस्मादावसयात् पुनः ।
निःप्राणके तदा अम्भे प्रथमं जङ्घमेव तु ॥

द्वितीय वामहस्तेन जङ्घं चाश्लिष्य चाघृषे ।
अपसव्यं पुनः कृत्वा हस्तं प्रक्षाल्य मृत्तिकैः ॥

पूर्वसंस्थापितैः शुद्धैः शुचिभिः सप्त एव तु ।
मन्त्रपूतं ततो चौक्षं शुचिनिर्मलभाजने ॥

गृह्य गोमयसुद्यं तु कपिलागौपरिश्रुते ।
निष्प्राणकाम्भसंयुक्ते कुर्या शास्तुर्मण्डमण्डलम् ॥

प्रथमं मुनिवरे कुर्यात् हस्तमात्रं विशेषतः ।
द्वितीयं सुमन्त्रनाथस्य तृतीयं कुलदेवते ॥

य जापिनो यदा मन्त्री तत् कुर्यात्तु सदा पुनः ।
चतुर्त्थं सर्वसत्त्वानामुपभोगं तु कीर्त्यते ॥

दक्षिणे लोकनाथस्य मण्डले तु सदा इह ।
रत्नत्रयाय कुर्यात्तं मण्डलं चतुरश्रकम् ॥

द्वितीयं प्रत्येकबुद्धानां तृतीयं दशबलात्मजैः ।
इत्येते मण्डलाः सप्त चतुरश्रा समन्ततः ॥

हस्तमात्रार्धहस्तं वा कुर्या चापि दिने दिने ।
गुप्ते देशे तदा जापी प्रत्यहं पापनाशना ॥

ततोत्थाय पुनर्मन्त्री हस्तौ प्रक्षाल्य यत्नतः ।
उपस्पृश्य जले चौक्षे शुद्धे प्राणकवर्जिते ॥

निर्मले शुचिने यत्नात् शुचिभाण्डे तदाहृते ।
महासरे प्रस्रवणे वापि औद्भवे सरितासृते ॥

शुचिदेशसमापाते शुचिसत्वकरोद्धृते ।
उपस्पृश्य पुनर्मन्त्री द्वे त्रयो वा सदा पुनः ॥

१०३, प्। १०३)

मूर्ध्नि नाभिदेशे च संस्पृशेत् शुभवारिणा ।
वारां पञ्चसप्तं वा कुर्यात् सर्वं यथाविधिम् ॥

शौचाचारसम्पन्नो शुचिर्भूत्वा तु जापिनः ।
भिक्षाभाजनमादाय गच्छेत् सलिलालयम् ॥

यत्र प्रतिष्ठिता वारि निम्नगा चोद्भवे तथा ।
नदीप्रस्रवणादिभ्यो भिक्षां प्रक्षालयेत् सदा ॥

ततोत्थाय पुनर्गच्छे विहारमावसथं तु वै ।
पूर्वसन्निश्रितो यत्र वशे तत्र तु तं व्रजेत् ॥

गत्वा तं तु वै देशं न्यसेत् पात्रं तं जपी ।
उपस्पृश्य ततः क्षिप्रं गृह्य पात्रं तथा पुनः ॥

पात्रे मृन्मये पर्णे राजते हेम्न एव वा ।
ताम्रे वल्कले वापि दद्यात् शास्तुर्निवेदनम् ॥

निवेद्यं शास्तुनो दद्यात् स्वमन्त्रं मन्त्रराट् पुनः ।
एकं तिथिमागम्य दुःखितेभ्योऽपि शक्तितः ॥

नातिप्रभूतं दातव्यं निवेद्यं चैव सर्वतः ।
नात्मानुपाया मन्त्रज्ञो कुर्याद् युक्ता तु सर्वतः ॥

कुक्षिमात्रप्रमाणं तु स्थाप्यमानं ददौ सदा ।
न बुभुक्षापिपासार्त्ता शक्तो मन्त्रार्त्थसाधने ॥

नात्याशी मल्पभोजी वा शक्तो मन्त्रानुवर्तने ।
अत एव जिनेन्द्रेण कथितं सर्वदेहिनाम् ॥

आहारस्थितिसत्त्वानां येन जीवन्ति मानुषाः ।
देवासुरगन्धर्वनागयक्षाश्च किन्नराः ॥

राक्षसाः प्रेतपिशाचाश्च भूतोस्तारकसग्रहाः ।
नासौ संविद्यते कश्चिद् भाजने योऽवहितपेक्षिणः ॥

औदारिक* * * * * * * * * (?) कीर्तिताः ।
सूक्ष्माहारि* * * * * * * * (?)गतः ॥

ध्यानाहारिणा * * * * * * * * (?) वेष्टिता ।
आरूप्याश्च देवा वै* * * * * * (?) भोजिनः ॥

१०४, प्। १०४)

अन्तराभवसत्त्वाश्च गत्वाहाराः प्रकीर्तिताः ।
कामधातौ तथा सत्त्वा विचित्राहारभोजनाः ॥

कामिकोऽसुरमर्त्यानां कवलिकाहारभोजनाः ।
अत एव जिनेन्द्रैस्तु कथितं धर्महेतुभिः ॥

आहारस्थिति सत्त्वानां सर्वेषां च प्रकीर्तिता ।
जापिनो नित्ययुक्तस्तु मात्रा एव भुजक्रिया ॥

शक्तो हि सेवितुं मन्त्रा भोजनेऽस्मिं प्रतिष्ठितः ।
आचारपरिशुद्धस्तु कुशलो ब्रह्मचारिणः ॥

मात्रज्ञता च भक्तेस्मिं सिद्धिस्तस्य न दुर्लभा ।
यथैवाक्षपभ्यज्य शाकटी शकटस्य तु ॥

चिरकालाभिस्थित्यर्त्थं भारोद्वहनहेतवः ।
तथैव मन्त्री मन्त्रज्ञो आहारं स्थितये ददौ ॥

कलेवरस्य याप्ययाव्यर्त्थं पोषयेत सदा जपी ।
मन्त्राणां साधनार्थाय बोधिसम्भारकारणा ॥

जपेन्मन्त्रं तथा मर्त्ये लोकानुग्रहकारणात् ।
अत एव मुनिः श्रेष्ठो इत्युवाच महाद्युतिः ॥

काश्यपो नाम मामेन पुरा तस्मिं सदा भुवि ।
श्रेयसार्त्थं हि भूतानाम् इदं मन्त्रं प्रभाषत ॥

दुःखिनां सर्वलोकानां दीनां दारिद्र्यखेदिनाम् ।
आयासोपरतां क्लिष्टां तेषामर्थाय भाषितम् ॥

श्रेयसायैव भूतानां संसृतानां तथा पुनः ।
आहारार्त्थं तु भूतानाम् इदं मन्त्रवरं वदेत् ॥

शृण्वन्तु श्रावकाः सर्वे बोधिसनिश्रिताश्च ये ।
मह्येदं वचनं मन्त्रं गृह्णत्वं व्याधिनाशनम् ॥

क्षुद्व्याधिपो**(?) तु ये तु गत्त्वा पिपासिता ।
सर्वदुःखोपशा ******** (?) लोकाक्षिणः ॥

१०५, प्। १०५)

वदस्व मन्त्रं धर्मज्ञो धर्मराजा महामुनिः ।
सत्त्वानुकम्पकः अग्रो समगो पत्युपस्थितः ॥

इत्युक्त्वा मुनिभिः अग्रो मन्त्रं भाषेत विस्तरम् ।
कालवि"ण्करुताघोषा दुन्दुभीमेघनिस्वनः ॥

ब्रह्मस्वरो महावीर्यो ब्रह्मणो ह्यग्रणी जिनः ।
शृण्वन्तु भूतसङ्घा वै ये केचिदिहागताः ॥

अपदा बहुपदा चापि द्विपदा चापि चतुष्पदाः ।
सङ्क्षेपतो सर्वसत्त्वार्थं मन्त्रं भाषे सुखोदयम् ॥

अतीतानागता सत्त्वा वर्तमाना इहागताः ।
सङ्क्षेपतो नु वक्ष्यामि शृण्वध्वं भूतकाङ्क्षिणम् ॥

इति ।

नमः सर्वबुद्धानामप्रतिहतशासनानाम् ॥

तद्यथा - ॐ गगने गगनगञ्जे
आनय सर्वं लहु लहु समयमनुस्मर आकर्षाणि मा विलम्ब यथ्प्सितं मे
सम्पादय स्वाहा । इत्येवमुक्त्वा भगवं काश्यपः तूष्णी अभूत् ॥

अत्रान्तरे भगवता काश्यपेन सम्यक् सम्बुद्धेन विद्यामन्त्रपदानि सविस्तराणि
सर्वं तं गगनं महार्हभोजनपरिपूर्णमेघं सन्दृश्यते स्म । सर्वं तं
त्रिसाहस्रं महासाहस्रलोकधातुं भोजनमेघसञ्छन्नगगनतलं सन्दृश्यते
स्म । यथाशयसत्त्वभोजनमभिकाङ्क्षिणं यथाभिरुचितमाहारं तत्तस्मै
प्रवर्तते स्म । यथाभिरुचितैश्चाहारैः भोजनकृत्यं क्षुद्दुःखप्रशमनार्थं
पिपासितस्य पानं पानीयं चाष्टाङ्गोपेतं वारिधारं तत्रैव मनीषितं
निपतति स्म ॥

सर्वसत्त्वाश्च तस्मिं समये तस्मिं क्षणे
सर्वक्षुद्व्याधिप्रशमनपर्वतृपापनयनं च कुतामभूत् । सा च सर्वावती सर्वत्
आश्चर्यप्राप्तो (?)प्राप्तो भ(?) भाषितम**(?) अनुमोद्य भगवतः पादौ
शि****(?)दत्वा *****(?)न्तर्हिता । ****** (?) काश्यपश्च तथागतावहारैः
विहारियुरिति मया च भगवता शाक्यमुनिनाप्येतर्हि भाषिता चाभ्यनुमोदिता च ॥

१०६, प्। १०६)

अस्मिं कल्पराजोत्तमे सर्वसत्त्वानामर्थाय क्षुत्पिपासापनयनार्थं
सर्वमन्त्रजापिनां च विशेषतः पूर्वं तावज्जापिना इमं मन्त्रं साधयितव्यम्
। यदि नोत्सहेद् भिक्षामटितुं पर्वताग्रमभिरुह्य षड् लक्षाणि जपेत् त्रिशुक्लभोजी
क्षीराहारो वा । ततो तत्रैव पर्वताग्रे आर्यमञ्जुश्रियस्य मध्यमं पटं
प्रतिष्ठाप्य पूर्ववन्महतीं पूजां कृत्वा उदारतरं च वलि निवेद्यम् । अनेनैव
काश्यपसम्यक्सम्बुद्धैर्भाषितेन मन्त्रेण खदिरसमिद्भिरग्निं प्रज्वाल्य
औदुम्बरसमिधानां दधिमधुघृताक्तानां सार्द्राणां वितस्तिमात्राणां
श्रीफलसमिधानाम् अष्टसहस्रं जुहुयात् ॥

ततोऽर्धरात्रकालसमये महाकृष्णमेघवातमण्डली आगच्छति । न भेतव्यम् ।
नाप्योत्थाय प्रक्रमितव्यम् । आर्यमञ्जुश्रियाष्टाक्षरहृदयेन आत्मरक्षा कार्या
मण्डलबन्धश्च सहायानां च पूर्ववत् । ततो सा कृष्णवातमण्डली अन्तर्धीयते
। स्त्रियश्च सर्वालङ्कारभूषिताः प्रभामालिनी दिशाश्चावभास्यमाना
साधकस्याग्रतो कुर्वते । उत्तिष्ठ भो महासत्त्व ! सिद्धास्मीति । गतः साधकेन
गन्धोदकेन जातीकुसुमसन्मिश्रेण अर्घो देयः । ततः सा तत्रैवान्तर्धीयते । तदह
एव आत्मपञ्चविंशतिमस्य सहायैर्वा यथाभिरुचितैः कामिकं भोजनं
प्रयच्चह्ति । यथेष्टानि चोपकरणानि सन्दधाति । ततः साधकेन विसर्ज्यार्घं
दत्त्वा पटं त्रिः प्रदक्षिणीकृत्य पटमादाय सर्वबुद्धबोधिसत्त्वान् प्रणम्य
यथेष्टं स्थानं साधनोपयिकं पूर्वनिर्दिष्टं महारण्यं पर्वताग्रं वा
निर्मानुषं वा स्थानं गन्तव्यम् ॥

तत्रात्मनः सहायैर्वा उडयं कृत्वा प्रतिवस्तव्यम् । प्रतिवसता च तस्मिं स्थाने
आकाशगमनादिकर्माणि कुर्यात् । ततो साधकेन पूर्ववत् कुशविण्डकोपविष्टेन
मध्यमं पटं प्रतिष्ठाप्य प्रतिष्ठाप्य पूर्ववत् खदिरकाष्ठैरग्निं
प्रज्वाल्य त्रिसन्ध्यं श्वेतपुष्पाणां दधिमधुघृताक्तानाम् अष्टसहस्रं
जुहुयात् दिवसान्येकविंशति ॥

ततोऽर्धरात्रकालसमये होमान्ते आर्यमञ्जुश्रियं साक्षात् पश्यति । ईप्सितं वरं
ददाति । आकाशगमनमन्तर्धानबोधिसत्त्वभूमिप्रत्येकबुद्धत्वं

१०७, प्। १०७)

श्रावकत्वं पञ्चाभिज्ञत्वं वा दीर्घायुष्कत्वं वा
महाराज्यमहाभोगतायैर्वा नृपप्रियत्वं वा । आर्यमञ्जुश्रिया
सार्धमन्त्रविचरता सङ्क्षेपतो वा यन्मनीषितं तत् सर्वं ददाति । यं वा याचते
तमनुष्टयच्छति । सिद्ध्यद्रव्याणि वा सर्वाणि लभते । आकर्षणं च
महासत्त्वानां च करोति । सङ्क्षेपतो यथा यथा उच्यते तत् सर्वं करोति । प्राक्तनं
वा कर्मापराधं वा संशोधयतीत्याह भगवां शाक्यमुनिः ॥

अपरमपि कर्मोपयिकमध्यमसाधनं भवति । आदौ तावत् तथा विशिष्टे स्थाने
शुचौ देशे नद्याः पुलिनकूले वा पूर्ववत् सर्वं कृत्वा पश्चान्मुखं पटं
प्रतिष्ठाप्य आत्मनश्च पूर्वाभिमुखो भूत्वा कुशविण्डकोपविष्टः पेयालं
विस्तरेण कर्तव्यम् । त्रिसन्ध्यं षड् लक्षाणि जपेत् । जपपरिसमाप्ते च
कर्णिकारपुष्पाणां शुक्लचन्दनमिश्राणां कुङ्कुममिश्राणां वा
शतसहस्राणि जुहुयात् । पूर्ववत् तथैवाग्निं प्रज्वाल्य होमपर्यवसाने च
पटप्रकम्पने मन्त्रित्वं पटरश्म्यवभासे निश्चरिते च रश्मौ राज्यं
पटसमन्तज्वालमालाकुले चतुर्महाराजकायिकराज्यत्वं वाक्निश्चरणे पटे त्रयः
त्रिदशेश्वरत्वं शक्रत्वं पटधर्मदेशननिश्चरणे
बोधिसत्त्वत्रिभूमेश्वरत्वं पटबाहुमूर्ध्नि स्पर्शने
पञ्चाभिज्ञासप्तभूमिमनुप्रापणदशबलनियतमनुपूर्वप्रापणमिति ॥

अथ साधकेन भगवङ्काश्यपभाषितने मन्त्रे साधिते
कृत्पिपासाप्रतिघातार्थमनुप्राप्ते तेनैव विधिना तेनैवोपकरणेन
मन्त्रचर्यार्थसाधनोपयिके धर्मे समनुष्ठेयम् । नान्यथा सिद्धिरिति ॥

एवमनुपूर्वमन्त्रचर्यामनुवृत्तिः समतोरनुष्ठेया नियतं सिद्ध्यति ।
द्रव्योपकरणोषध्यपि शेषाणि मणिरत्नानि यथापूर्वनिर्दिष्टानीति ॥

मन्त्रज्ञो मन्त्रजापी च विधिराख्यातमानसः ।
तस्मिं देशे तदा मन्त्री शुचिजश्वेतदोदनम् ॥

भुक्त्वा तु तुष्टमनसो परिपुष्टेन्द्रियः सदा ।
गृहनं पात्रशेषं तु सरिद् गच्छे शोभोदके ॥

एकान्ते स्थोरयित्वा तु तिर्येभ्यो ददौ व्रती ।
तिर्येभ्यो तु दत्वा वै पात्रं प्रक्षाल्य यत्नतः ॥

१०८, प्। १०८)

मृन्मयं तु पुनः पाकं ततः कुर्वत यत्नतः ।
शेषपात्रं तु कुर्वीत निस्नेहं निरामिषम् ॥

गन्धं चैव सन्त्याज्य शेषपात्रं मुनिर्वरः ।
यस्मिन् पात्रे अटे भिक्षां न जग्धे तत्र भोजनम् ॥

न भक्षे तत्र भक्षाणि फलद्रव्याणि तु सदा ।
न भुञ्जेत् पद्मपत्रेण न चापि कुवलयोद्भवैः ॥

सौगन्धिकेषु वर्जीत न भुङ्क्ते तत्र मन्त्रिणः ।
कौमुदा ये च पत्रा वै प्लक्षोदुम्बरसम्भवा ॥

न चापि वटपत्रैस्तु कर्णशाकोगौल्मिणाम् ।
न चापि आम्रपत्रेषु तथा पालाशमुद्भवैः ॥

शालपत्रैः शिरीषैश्च बोधिवृक्षसमुद्भवैः ।
यत्रासौ भगवां बुद्धः शाक्यसिंहो निषण्णवाम् ॥

तं वृक्षं वर्जयेद् यत्नात् तत्काष्ठं चापि न खनेत् ।
नागकेसरवृक्षेषु न कुर्यात्पत्रशातनम् ॥

नापि भुङ्क्ते कदा कस्मिं सर्वे ते वर्जिता बुधैः ।
नापि लङ्घेत् कदा मोहा मुनीनां पर्णशालिनाम् ॥

समयाद् भ्रश्यते मन्त्री तेषां पर्णेषु भोजने ।
अन्यपर्णैर्न भुञ्जीत भोजनं तत्र मन्त्रिणः ॥

मृन्मये ताम्रनिर्दिष्टैः तथा रूप्यैः सातमुद्भवैः ।
स्फटिकैः शैलमयैर्नित्यं तथा भोजनमाददे ॥

न भुङ्क्ते पर्णपृष्ठैस्तु तथा हस्ततले तथा ।
निवेद्यसम्भवा ये पर्णा मारारेर्दशवलात्मजाम् ॥

प्रत्येकखड्गिणां ये च तथा श्रावकपुङ्गलाम् ।
वर्जते तं जपी पर्णं पद्भ्यां चैव न लङ्घयेत् ॥

विविधां भक्षपूषां तु तथा पानं च भोजनम् ।
न मन्त्री आददे यत्नात् सर्वं चैव निवेदितम् ॥

१०९, प्। १०९)

जिनानां जिनचाराणां च तथा श्रावकपुङ्गलाम् ।
रत्नत्रयेऽपि दत्तं वै तं जापी वर्जयेत् सदा ॥

मन्त्रास्तस्य न सिद्ध्यन्ते स्वल्पमात्रापि देहिनाम् ।
कः पुनः श्रेयसा दिव्यं सर्वमङ्गलसम्मताम् ॥

पौष्टिकं शान्तिकं चैव सर्वाशापरिपूरिणम् ।
न सिद्ध्यन्ति तदा तस्य निवेद्य वलिभोजिनः ॥

शुचिनो दक्षशीलस्य घृणिनो धार्मिणस्तथा ।
सिद्ध्यन्ति मन्त्राः सर्वत्र शौचाचाररतस्य वै ॥

अन्न सर्वेषु दत्त्वाद्यं न भुङ्क्ते तत्र जापिनः ।
अन्यमन्नं न भुञ्जीत भुञ्जीतान्येभ्यो प्रतिपादितम् ॥

भोजनं स्वल्पमात्रं तु स्वदत्तं चापि आददे ।
य एव प्रवृत्तो मन्त्रज्ञो तस्य सिद्धि करे स्थिता ॥

अनेन विधिना तं जापी भोजनम् आददेद् व्रती ।
मुनिभिः सम्प्रशस्तं तु सर्वमन्त्रेषु साधने ॥

विधिदृष्टां समासेन सर्वभोजनकर्मसु ।
अतः परं प्रवक्ष्यामि मन्त्रं सर्वशोधने ॥

उपस्पृश्य ततो जापी इदं मन्त्रं पठेत् सदा ।
सप्तवारां ततो मन्त्री जपित्वा कायशोधनम् ॥

शृणु तस्यार्थविस्तारं भूतसङ्घानुदेवता ।
सर्वकायं परामृश्य इदं मन्त्रं वदेन्मुनी ॥

नमः सर्वबुद्धानामप्रतिहतशासनानाम् । तद्यथा -

ॐ सर्वकिल्विषनाशनि ! नाशय नाशय सर्वदुष्टप्रयुक्तां समयमनुस्मर हूꣳ
जः स्वाहा ॥

अनेन मन्त्रेण भिक्षोदनं यं वा अन्यं परिभुङ्क्ते स
मन्त्राभिमन्त्रितं कृत्वा परिभोक्तव्यः । भुक्त्वा चोपस्पृश्य पूर्ववत् मूर्ध्नप्रति
सर्वं कायं परामृज्य ततो विश्रान्तव्यम् । विश्राम्य च मुहूर्तम्
अर्धार्घेटयाप्तं वा ततः पटमभिवन्द्य सर्वबुद्धानां सद्धर्मपुस्तकां
वाचयेत् । ****(?)पारमित आर्यचन्द्रप्रदीपसमाधिम् आर्यदशभूमकः
आर्यसुवर्णप्रभासोत्तमः आर्यमहामायूरी आर्यरत्नकेतुधारिणीम् ।

११०, प्। ११०)

एषामन्यतमान्यतमं वाचयेद् युगमात्रसूर्यप्रमाणतालम् । ततो परिनाम्य
यथापरिशक्तितश्च वाचयित्वा पुस्तकामुत्सार्य शुचिवस्त्रप्रच्छन्नां वा कृत्वा
सद्धर्मं प्रणम्य ततो स्नानायमवतेरे नदीकूलं महाह्रदं वा गत्वा
निष्प्राणकां मृत्तिकां गृह्य सप्तमन्त्राभिमन्त्रितां कृत्वा अनेन मन्त्रेण जलं
क्षिपेत् । कतमेन ॥

नमः समन्तबुद्धानामप्रतिहतशासनानाम् । तद्यथा - ॐ सर्वदुष्टां
स्तम्भय हूꣳ इन्दीवरधारिणे कुमारक्रीडरूपधारिणे वन्ध वन्ध
समयमनुस्मर स्फट् स्फट् स्वाहा । अनेन तु रक्षां कृत्वा दिशाबन्धं च
सहायानां च मण्डलबन्धं तुण्डवन्धं सर्वदुष्टप्रदुष्टानां
सर्वाकर्षणं च शुक्रबन्धं सप्तजप्तेन सूत्रेण कटिप्रदेशावबद्धेन
सर्वतश्च पर्यटेत् । जपकाले च सर्वस्मिं सर्वकालस्नानकाले च
दुष्टविघ्नविनाशनसुप्रशमनार्थमस्य मन्त्रस्य लक्षमेकं जपेत् । ततः
सर्वकर्माणि करोति । पञ्चशिखमहामुद्रोपेतं न्यसेत् सर्वकर्मेषु । सर्वां करोति
नान्यथा भवतीति ॥

ततः साधकेन मृद्गोमयचूर्णादीं गृह्य स्नायीत यथासुखम् ।
निष्प्राणकेनोदकेन स्नातव्यम् । सर्वत्र च सर्वकर्मसु निष्प्राणकेनैव कुर्यात् । ततो
स्नात्वा मृद्गोमयानुलेपनैरन्यैर्वा सुगन्धगन्धिभिश्चोपकरणविशेषैः नापि
सलिले खेटमूत्रपुरीषादीनुत्सृजेत् । सलिलपीकधारां वा नोत्सृजे । नापि क्रीडेत्
करुणायमानः सर्वसत्त्वानामात्मनश्च प्रत्यवेक्ष्य
अनात्मशून्यदुःखोपरुद्धवेदनाभिनुन्नं रूर्णमिव
मातृविप्रयोगदुःखितसत्त्वो । एवं साधनरहितो मन्त्रज्ञो हि तथाविधं
शतनपतनविकिरणविध्वंसनादिभिः दुःखोपधानैरुपरुद्ध्यमानं
संसारार्णवगहनस्थमात्मानं पश्येत् । अलयनमन्त्राणमशरणम्
अदीनमनसमात्मानमवेक्ष्य । ध्यायीत कण्ठमात्रमुदकस्थो
नाभिमात्रमुदकस्थितो वा तत्रैव तु जलमध्ये चित्तैकाग्रतामुपस्थाप्य ॥

प्रथमं तावन्महापद्मविटपं महापद्मपुष्पोपेतं
महापद्मपत्रोपशोभितं चारुदर्शनरत्नमयं वैदूर्यकृतगण्डं
मरकतपतं पद्मकेसरं स्फटिकसहस्रपत्रम् अतिविकसितं तदा न
जातस्फटिकपद्म*******(?)पोपशोभितं

१११, प्। १११)

तत्रस्थं सिंहासनं रत्नमयमनेकरत्नोपशोभितं दुष्पयुगप्रतिच्छन्नं
तत्रस्थं वृद्धं भगवन्तं ध्यायीत धर्मं देशयमानं कनकावदातं
समन्तज्वालमालिनं ध्याय प्रभामण्डलमण्डितं महाप्रमाणं व्योम्निरिव
ऊल्लिखमानं पर्यङ्कोपनिषण्णम् । दक्षिणतश्च आर्यमञ्जुश्रीः
सर्वालङ्कारवरोपेतं पद्मासनस्थं चामरग्राही भगवतः स्थितको नो
निषण्णः रक्तगौराङ्गः पिष्टकुङ्कुमवर्णो वा वामतश्च आर्यावलोकितेश्वरः
शरत्काण्डगौरं चमरव्यग्रहस्तः । एवमष्टौ बोधिसत्त्वाः आर्यमैत्रेयः
समन्तभद्रः क्षितिगर्भः गगनगञ्जः सर्वनीवरणविष्कम्भी अपायजह
आर्यवज्रपाणि सुधनश्चेत्येते दश बोधिसत्त्वाः दक्षिणतो प्रत्येकबुद्धाः अष्टौ
ध्यायीत । चन्दनः गन्धमान्दनः केतुः सुकेतु सितकेतु ऋष्ट-उपारिष्टनेमिश्चेति ।
अष्टौ महाश्रावकाः तत्रैव स्थाने । तद्यथा - आर्यमहामौद्गल्यायन शारिपुत्र
गवाम्पति पिण्डोल भरद्वाज पिलिन्दवत्सः आर्यराहुलः महाकाश्यप
आर्यानन्दश्चेति । इत्येषां महाश्रावकाणां समीपे अनन्तं भिक्षुसङ्घं
ध्यायीत । प्रत्येकबुद्धानां समीपे अनन्तां प्रत्येकबुद्धां ध्यायीत ।
महाबोधिसत्त्वानां चाष्टासु स्थानेषु अनन्तं बोधिसत्त्वसङ्घं ध्यायीत ॥

एवं शस्तं नभस्तलं महापर्षन्मण्डलोपेतं ध्यायीत । आत्मनश्च
नाभिमात्रोदकस्थो नानाविधैः पुष्पैः दिव्यमानुष्यकैः
मान्दारवमहामान्दारव पद्ममहापद्मधातुःकारिक-इन्दीवरकुसुमैश्च
नानाविधैः महाप्रमाणैः महाकूटस्थैः पुष्पपुटैः भगवतः पूजां
कुर्या । सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वानां चूर्णच्छत्रध्वजपताकैः
दिव्यमानुष्यकैः प्रभूतैः प्रदीपकोटीनयुतशतसहस्रैश्च पूजां
कुर्यान्मनोरमाम् ॥

एवं च बलिधूपनिवेद्यादिसर्वपूजोपस्थानान्युपकरणानि
दिव्यमानुष्यकान्युपहर्तव्यानि । भगवतश्च शाक्यमुने
ऊर्णकोशाद्रश्मिमभिनिश्चरन्तं चात्मानमवभास्यमानं सर्वासां
ध्यायीत । समनन्तरध्यानगतस्य *(?)पिनः ब्राह्मपुण्यफलावाप्तिः नियतं
बोधिपरायणो भवतीति ॥

इत्येवमादयो ध्यानाः कथिता लोकपुङ्गवैः ।
श्रेयसः सर्वभूतानां हितार्थं चैव मन्त्रिणाम् ॥

११२, प्। ११२)

आदिमुख्यो तदा ध्यानो हितार्थं सर्वमन्त्रिनाम् ।
कथयामास सत्त्वेभ्यो मुनिः श्रेष्ठोऽथ सत्तमः ॥

मण्डलाकारतद्वेषप्रथमे मुनिभाषिते ।
द्वितीयं मण्डलं चापि तृतीयं मन्त्रमतः परम् ॥

प्रथमे उत्तमा सिद्धिः मध्यमे तु तथा परम् ।
कन्यसे क्षुद्रसिद्धिस्तु निगम्य मुनिपुङ्गवः ॥

पटाकारं तथा ध्यानं ज्येष्ठमध्यमकन्यसाम् ।
समासेन तु तद्ध्यानं सर्वकिल्विषनाशनम् ॥

नातःपरं प्रपद्येत ध्यानाकारमनीषिणः ।
सिद्ध्यन्ति तस्य मन्त्रा वै ध्यानेऽस्मिं सुप्रतिष्ठिताः ॥

यथेष्टं विधिनाख्यातं ध्यानं ध्यात्वा तु जापिनः ।
विसर्ज्य तत्र वै मन्त्रम् अर्घं दत्त्वा यथासुखम् ॥

उत्तीर्य तस्माज्जलौघात्तु ततो गच्छेद् यथासुखम् ।
स्थानं पूर्वनिर्दिष्टं विधिदृष्टं सुसंयतम् ॥

जपेन्मन्त्रं तदा मन्त्री पूर्वकर्म यथोदिते ।
विसर्ज्य मन्त्रं वै तत्र आहूता याश्च देवताः ॥

ततो निकृत्वा रक्षा सहायानां वा तथैव च ।
कुशलो कर्मतत्त्वज्ञो विधिकर्मरतो मतः ॥

विविधैः स्तोत्रोपहारैस्तु संस्तुत्वा अग्रपुङ्गलम् ।
स्वमन्त्रं मन्त्रनाथं च श्रावकां प्रत्येकखड्गिणा ॥

बोधिसत्त्वां महासत्त्वां त्रैलोक्यानुग्रहक्षमाम् ।
ततोत्थाय पुनस्तस्मादासनान्मन्त्रजापिनः ॥

दूरादावसथाद् गत्वा बहिर्वातान्तवर्जिताम् ।
विसृजेच्छटसिङ्घाणं मूत्रप्रस्रवणं तथा ॥

दिवा उदङ्मुखं चैव रात्रौ दक्षिणामुखम् ।
न तत्र चिन्तयेदर्थां मन्त्रजापी कदाचन ॥

११३, प्। ११३)

न जपेत्तत्र मन्त्रं वै स्वकर्मकुलभाषितम् ।
प्रशस्ता गतिचिह्लाद्यैः उपविष्टो तदा भुवि ॥

उपस्पृश्य जले शुद्धे शुचिवस्त्रान्तगालिते ।
प्रक्षाल्य चरणौ जानोर्मृत्तिकैः सप्त एव तु ॥

प्रश्रुतो सप्त गृह्णीयात् * * * * * * * * (?) ।
पुरीषस्रावणे त्रिंशत् उभयान्त करे उभौ ।
खेटच्छोरणे चैव सिङ्घाणे द्वयं तथा ॥

उपस्पृश्य ततो यत्ना दूरादावसथा भुवि ।
शब्दमात्रं तथा गत्वा अध्वानादिषुक्षेपणा ॥

ततो परे यथेष्टं तु दक्षिणान्तां दिशां वहिः ।
श्वभ्रकेदारमौषर्ये सिकतास्तीर्णे तथैव च ॥

नदीवर्जां तु पारं चैत्यजेदवस्करदाशुचिम् ।
प्रच्छन्ने रहसि विश्रब्धो प्रान्ते जनविवर्जिते ॥

तदा भवे तु विन्मन्त्री कुर्यात् पूतिच्छोरणम् ।
न मन्त्रजापी कालज्ञो कुर्याद् वेगविधारणम् ॥

यथेष्टं ततो गत्वा देशं वै शुचिं प्रान्ते यथाविधि ।
कुटिः प्रस्रवणं कृत्वा तस्मिं देशे यथासुखम् ॥

उडये वा रहसिच्छन्ने गुप्ते वा चैव भूतले ।
मौनी सङ्गवर्जीत कुर्यात् प्रस्रवणं सदा ॥

विगते मूत्रपुरीषे तु कुर्यात् शौचं सदा व्रती ।
सुकुमारां सुस्पर्शपिष्टां तु मृत्तिकां प्राणवर्जिताम् ॥

गृह्य तिस्रं तथा चैकं गुदौ सदा उभयान्ते च करौ तथा ।
गृह्य पूर्वं तु निर्दिष्टमन्त्रिणा च सदा भुवि ॥

पादौ प्रक्षाल्य यत्नेन दक्षिणं तु ततः परम् ।
अन्योन्यनैवं संश्लिष्य पादा चैव सदा जपी ॥

विस्तरः कथितं पूर्वं शौचं मन्त्रजापिनाम् ।
गन्धनिर्लेपशौचं तु कथितं शुचिभिः पुरा ॥

११४, प्। ११४)

एतत् सङ्क्षेपतो ह्युक्तं शौचं मन्त्रवातिनाम् ।
गन्धनिर्लेपतो शौचं शुचिरेव सदा भवेत् ॥

दृश्यते सर्वतन्त्रेऽस्मिन् इत्युवाच मुनिप्रभुः ।
उपस्पृश्य ततो जापी सिद्धकर्मरतो यतिः ॥

विधिना पूर्वमुक्तेन अन्तः शुद्धेन मान्सा ।
शौचं पञ्चविधं प्रोक्तं सर्वतन्त्रेषु मन्त्रिणाम् ॥

कायशौचो तथा पा * * (?) ध्यानश्चैव कीर्त्यते ।
चतुर्थं सत्यशौचं तु आपः पञ्चम उच्यते ॥

सत्यधर्मा जितक्रोधो तन्त्रज्ञः शास्त्रदर्शिनः ।
सूक्ष्मतत्त्वार्थकुशलाः मन्त्रज्ञः कर्मशालिनः ॥

हेतुदध्यात्मकुशलाः सिद्धिस्तेषु न दुर्लभा ।
न भाषेद्वितथा पूजां सत्यधर्मविवर्जिताम् ॥

क्रूरां क्रूरतरां चैव सर्वसत्यविवर्जिताम् ।
विद्वेषणीं सरोषां कर्कशां मर्मघट्टनीम् ॥

सत्यधर्मविहीनां तु परसत्त्वानुपीडनीम् ।
पिशुनां क्लिष्टचित्तां च सर्वधर्मविवर्जिताम् ॥

हिंसात्मकीं तथा नित्यं कुशीलां धर्मचारिणीम् ।
मन्त्रजापी सदावर्ज्या ग्राम्यधर्मं तथैव च ॥

मिथ्यासं वक्रोधं वै परलोकातिभीरुणा ।
गर्हित। सर्वबुद्धेस्तु बोधिसत्त्वैस्तु धीमतैः ॥

प्रत्येकखड्गिभिर्नित्यं श्रावकैश्च सदा पुनः ।
मृषावादं तथा लोके सिद्धिकामार्थिनां भुवि ॥

नरका घोरतरं याति मृषावादोपभाषिणः ।
पुनस्तिर्यरभ्यो तथा प्रेते यमलोके सदा पुनः ॥

वसते तत्रैव नित्यं मृषावादोपजीविनः ।
तपने दुर्मतिर्घोरे कालसूत्रे प्रतापने ॥

११५, प्। ११५)

सञ्जीवेऽसिपत्रे च तथैव शाल्मलीवने ।
बहुकल्पां वसेत् तत्र मृषावादी तु जन्तुनः ॥

कुतस्तस्य तु सिद्ध्यन्ते मन्त्रा वै मिथ्यभाषिणः ।
उद्वेजयति भूतानि मिथ्यावाचेन मोहितः ।
ततोऽसौ मूढकर्मा वै मन्त्रसिद्धिमपश्ययम् ॥

एवं च वदते वाचां नास्ति सिद्धिस्तु मन्त्रिणाम् ।
कुतस्तस्य भवेत् सिद्धिः बहुकल्पा न कोटिभिः ॥

प्रतिक्षिप्त येन बुद्धानां शासनं तु महीतले ।
ततोऽसौ पद्यते घोरे अविद्यां तु महाभये ॥

सञ्जीवे कालसूत्रे च नरके च प्रतापने ।
महाकल्पं वसेत् तत्र सद्धर्मो मे विलोपनात् ॥

निरये घोरतमसे पच्यन्ते वालिशा जनाः ।
सद्धर्मावमन्यं तु अन्धेन तमसा वृता ॥

अज्ञाना बालभावाद्वा मूढा मिथ्याभिमानिनः ।
पतन्ति नरके घोरे विद्याराजावमन्य वै ॥

तस्मात् पापं न कुर्वीत मिथ्याकार्यं च गर्हितम् ।
सद्धर्मं चावमन्यं वै मिथ्यादृष्टिश्च गर्हिताः ॥

तस्मात् श्राद्धो सदा भूत्वा सेवेन्मन्त्रविधिं सदा ।
सत्यवादी च मन्त्रज्ञो सत्वानां च सदा हितः ।
भजेत मन्त्रं मन्त्रज्ञो ध्रुवं सिद्धिस्तु तस्य वै ॥

करोति विविधां कर्माम् उत्कृष्टाधममध्यमाम् ।
क्रिया हि कुरुते कर्म नाक्रिया हि हितं सदा ॥

क्रियाकर्मसमायुक्तो सिद्धिस्तस्य सदा भवेत् ।
क्रियार्थसर्वमर्थत्वात् कर्ममर्थसदाक्रिया ॥

अक्रियार्थं क्रियार्थं च क्रियाकर्म च युज्यते ।
सफलं चैव क्रिया यस्य क्रियां चैव सदा कुरु ॥

११६, प्। ११६)

कृत्यं कर्मफलं चैवं कृत्यकर्मफलं सदा ।
अफलं फलतां यान्ति फलं चैव सदाफलम् ॥

अफला सफलाश्चैव सर्वे चैव फलोद्भवाः ।
संयोगात् साध्यते मन्त्रं संयोगो मन्त्रसाधकः ।
असंयोगवियोगश्च वियोगो संयोगसाधकः ॥

साध्यसाधनभावस्तु सिद्धिस्तेषु न सिद्ध्यते ।
सिद्धिद्रव्यास्तु सर्वत्र विरुद्धाः सिद्धिहेतवः ॥

अप्रसिद्धा सिद्धमन्त्राणां मन्त्राः साधनकारणाः ।
कर्तुरीप्सिततमं कर्म कर्मरिप्सु क्रियाभवः ॥

अकर्मं सर्वकर्मेषु न कुर्यात् कर्महेतवः ।
मन्त्रतन्त्रार्थयुक्तश्च सकलं कर्ममारभेत् ॥

आरब्धम् आरभेत् कर्म अकर्मां चैव नारभेत् ।
अनारम्भक्रिया मन्त्रा न सिध्यन्ते सर्वदेहिनाम् ॥

पुरा गीतं मुनिभिः श्रेष्ठैः सर्वसद्धर्मभाषिभिः ।
समयं जिनपुत्राणां मन्त्रवादे तु दर्शितम् ॥

साधकः सर्वमन्त्रज्ञो कल्पराजे इहापरे ।
देशितं मन्त्ररूपेण मार्गं बोधिकारणम् ॥

सिध्यन्ति मन्त्राः सर्वे मे यत्र युक्ति सदा भवेत् ।
सोऽचिरेणैव कालेन सिद्धिं गच्छेन्मनीषिताम् ॥

शिवार्थं सर्वभूतानां सम्बुद्धैस्तु प्र * * * (?) ।

बोधिमार्गं तथा नित्यं सर्वकर्मार्थपूरकम् ।
बुद्धत्वं प्रथमं स्थानं निष्ठं तस्य परायणम् ॥

अनाभोगे तथा सिद्धिः प्राप्नुयात् सफलानिह ।
विचित्रकर्मधर्मज्ञा मन्त्राणां करणं भवेत् ॥

शीलध्यानविमोक्षाणां प्राप्तिरेषा समासतः ।
कथिता जिनमुख्यैस्तु सिद्धिः सर्वार्थसाधना ॥

११७, प्। ११७)

पुष्कलान् प्राप्नुयादर्थाम् उत्तमं गतिनिश्रयाम् ।
यक्षाध्यक्ष तथा नित्यम् अधमा राज्यकारणा ॥

नृसुरासुरलोकानां प्राप्नुयात् सर्वमन्त्रिणः ।
आधिपत्यं तथा तेषां कुरुते सफलां क्रियाम् ॥

शौचाचारसमायुक्तो शीलध्यानरतः सदा ।
जपेन्मन्त्रं ततो मन्त्री सर्वमन्त्रेषु भाषिताम् ॥

चित्रां कुरुते कर्मां तथा चोत्तममध्यमान् ।
कन्यसांश्चैव कुर्वीत भूतिमाकाङ्क्ष्य मन्त्रिणः ॥

कन्यसे भोगवृद्धिस्तु मध्यमे चोर्ध्वदेहिनाम् ।
उत्कृष्टं चोत्तमेनैव सम्प्राप्नोति जापिनः ॥

जपान्ते विश्रमेन्मन्त्री यावत् कालमुदीक्षयेत् ।
साधनं तत्र कुर्वीत प्राप्तकाले तु जापिनः ॥

सिध्यन्ति सर्वकर्माणि तथापि तत्र नित्यं जापी पापक्षयाच्च पुंसाम् ।
करोति मन्त्री विधिपूर्वकर्म यत्तत् कृतं कर्मपरम्परासु ॥

सिद्धिः स्थिता तस्य भवे कदाद्वा समग्रतां याव लभेत पुंसः ।
जपेत मन्त्रं पुन मन्त्रजापी पापक्षयार्थं तत कर्मनाशना ॥

सिध्यन्तु मन्त्रास्तु तथोत्तमानि ये मध्यमा कन्यसलोकपूजिता ।
जपेन पापं क्षपयन्त्यशेषं यत्तत् कृतं जन्मपरम्परासु ॥

नश्यन्ति पापा तथ सर्वदेहिनां करोति चित्रां विविधाङ्गभूषणाम् ।
मनोरमां सर्वगुणानुशालिनां यक्षे समावासनृपत्वनित्यम् ॥

सर्वार्थसिद्धिं समवाप्नुवन्ति मन्त्रं जपित्वा तु तथागतानामिति ॥

बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रीमूलकल्पाद्
एकादशमपटलविसराच्चतुर्थः
साधनोपयिककर्मस्थानजपनियमहोमध्यानशौचाचारसर्वकर्मविधिसाधन-
पटलविसरः समाप्त इति ।
११८, प्। ११८)